| |
|

This overlay will guide you through the buttons:

नडमा रोह न ते अत्र लोक इदं सीसं भागधेयं त एहि ।यो गोषु यक्ष्मः पुरुषेषु यक्ष्मस्तेन त्वं साकमधराङ्परेहि ॥१॥
नडम् आ रोह न ते अत्र लोकः इदम् सीसम् भागधेयम् ते एहि ।यः गोषु यक्ष्मः पुरुषेषु यक्ष्मः तेन त्वम् साकम् अधराङ् परेहि ॥१॥
naḍam ā roha na te atra lokaḥ idam sīsam bhāgadheyam te ehi .yaḥ goṣu yakṣmaḥ puruṣeṣu yakṣmaḥ tena tvam sākam adharāṅ parehi ..1..

अघशंसदुःशंसाभ्यां करेणानुकरेण च ।यक्ष्मं च सर्वं तेनेतो मृत्युं च निरजामसि ॥२॥
अघ-शंस-दुःशंसाभ्याम् करेण अनुकरेण च ।यक्ष्मम् च सर्वम् तेन इतस् मृत्युम् च निरजामसि ॥२॥
agha-śaṃsa-duḥśaṃsābhyām kareṇa anukareṇa ca .yakṣmam ca sarvam tena itas mṛtyum ca nirajāmasi ..2..

निरितो मृत्युं निर्ऋतिं निररातिमजामसि ।यो नो द्वेष्टि तमद्ध्यग्ने अक्रव्याद्यमु द्विष्मस्तमु ते प्र सुवामसि ॥३॥
निः इतस् मृत्युम् निरृतिम् निः अरातिम् अजामसि ।यः नः द्वेष्टि तम् अद्धि अग्ने अ क्रव्याद् यमु द्विष्मः तमु ते प्र सुवामसि ॥३॥
niḥ itas mṛtyum nirṛtim niḥ arātim ajāmasi .yaḥ naḥ dveṣṭi tam addhi agne a kravyād yamu dviṣmaḥ tamu te pra suvāmasi ..3..

यद्यग्निः क्रव्याद्यदि वा व्याघ्र इमं गोष्ठं प्रविवेशान्योकाः ।तं माषाज्यं कृत्वा प्र हिणोमि दूरं स गच्छत्वप्सुषदोऽप्यग्नीन् ॥४॥
यदि अग्निः क्रव्याद् यदि वा व्याघ्रः इमम् गोष्ठम् प्रविवेश अन्योकाः ।तम् माष-आज्यम् कृत्वा प्र हिणोमि दूरम् स गच्छतु अप्सुषदः अपि अग्नीन् ॥४॥
yadi agniḥ kravyād yadi vā vyāghraḥ imam goṣṭham praviveśa anyokāḥ .tam māṣa-ājyam kṛtvā pra hiṇomi dūram sa gacchatu apsuṣadaḥ api agnīn ..4..

यत्त्वा क्रुद्धाः प्रचक्रुर्मन्युना पुरुषे मृते ।सुकल्पमग्ने तत्त्वया पुनस्त्वोद्दीपयामसि ॥५॥
यत् त्वा क्रुद्धाः प्रचक्रुः मन्युना पुरुषे मृते ।सु कल्प-मग्ने तत् त्वया पुनर् त्वा उद्दीपयामसि ॥५॥
yat tvā kruddhāḥ pracakruḥ manyunā puruṣe mṛte .su kalpa-magne tat tvayā punar tvā uddīpayāmasi ..5..

पुनस्त्वादित्या रुद्रा वसवः पुनर्ब्रह्मा वसुनीतिरग्ने ।पुनस्त्वा ब्रह्मणस्पतिराधाद्दीर्घायुत्वाय शतशारदाय ॥६॥
पुनर् त्वा आदित्याः रुद्राः वसवः पुनर् ब्रह्मा वसु-नीतिः अग्ने ।पुनर् त्वा ब्रह्मणस्पतिः आधात् दीर्घ-आयु-त्वाय शत-शारदाय ॥६॥
punar tvā ādityāḥ rudrāḥ vasavaḥ punar brahmā vasu-nītiḥ agne .punar tvā brahmaṇaspatiḥ ādhāt dīrgha-āyu-tvāya śata-śāradāya ..6..

यो अग्निः क्रव्यात्प्रविवेश नो गृहमिमं पश्यन्न् इतरं जातवेदसम् ।तं हरामि पितृयज्ञाय दूरं स घर्ममिन्धां परमे सधस्थे ॥७॥
यः अग्निः क्रव्याद् प्रविवेश नः गृहम् इमम् पश्यन् इतरम् जातवेदसम् ।तम् हरामि पितृ-यज्ञाय दूरम् स घर्मम् इन्धाम् परमे सधस्थे ॥७॥
yaḥ agniḥ kravyād praviveśa naḥ gṛham imam paśyan itaram jātavedasam .tam harāmi pitṛ-yajñāya dūram sa gharmam indhām parame sadhasthe ..7..

क्रव्यादमग्निं प्र हिणोमि दूरं यमराज्ञो गच्छतु रिप्रवाहः ।इहायमितरो जातवेदा देवो देवेभ्यो हव्यं वहतु प्रजानन् ॥८॥
क्रव्यादम् अग्निम् प्र हिणोमि दूरम् यम-राज्ञः गच्छतु रिप्र-वाहः ।इह अयम् इतरः जातवेदाः देवः देवेभ्यः हव्यम् वहतु प्रजानन् ॥८॥
kravyādam agnim pra hiṇomi dūram yama-rājñaḥ gacchatu ripra-vāhaḥ .iha ayam itaraḥ jātavedāḥ devaḥ devebhyaḥ havyam vahatu prajānan ..8..

क्रव्यादमग्निमिषितो हरामि जनान् दृंहन्तं वज्रेण मृत्युम् ।नि तं शास्मि गार्हपत्येन विद्वान् पितॄणां लोकेऽपि भागो अस्तु ॥९॥
क्रव्यादम् अग्निम् इषितः हरामि जनान् दृंहन्तम् वज्रेण मृत्युम् ।नि तम् शास्मि गार्हपत्येन विद्वान् पितॄणाम् लोके अपि भागः अस्तु ॥९॥
kravyādam agnim iṣitaḥ harāmi janān dṛṃhantam vajreṇa mṛtyum .ni tam śāsmi gārhapatyena vidvān pitṝṇām loke api bhāgaḥ astu ..9..

क्रव्यादमग्निं शशमानमुक्थ्यं प्र हिणोमि पथिभिः पितृयाणैः ।मा देवयानैः पुनरा गा अत्रैवैधि पितृषु जागृहि त्वम् ॥१०॥ {७}
क्रव्यादम् अग्निम् शशमानम् उक्थ्यम् प्र हिणोमि पथिभिः पितृयाणैः ।मा देव-यानैः पुनर् आ गाः अत्र एव एधि पितृषु जागृहि त्वम् ॥१०॥
kravyādam agnim śaśamānam ukthyam pra hiṇomi pathibhiḥ pitṛyāṇaiḥ .mā deva-yānaiḥ punar ā gāḥ atra eva edhi pitṛṣu jāgṛhi tvam ..10..

समिन्धते संकसुकं स्वस्तये शुद्धा भवन्तः शुचयः पावकाः ।जहाति रिप्रमत्येन एति समिद्धो अग्निः सुपुना पुनाति ॥११॥
समिन्धते संकसुकम् स्वस्तये शुद्धाः भवन्तः शुचयः पावकाः ।जहाति रिप्रम् अत्येन एति समिद्धः अग्निः सुपुना पुनाति ॥११॥
samindhate saṃkasukam svastaye śuddhāḥ bhavantaḥ śucayaḥ pāvakāḥ .jahāti ripram atyena eti samiddhaḥ agniḥ supunā punāti ..11..

देवो अग्निः संकसुको दिवस्पृष्ठान्यारुहत्।मुच्यमानो निरेणसोऽमोगस्मामशस्त्याः ॥१२॥
देवः अग्निः संकसुकः दिवः पृष्ठानि आरुहत्।मुच्यमानः निरेणसः अमोगः माम् अशस्त्याः ॥१२॥
devaḥ agniḥ saṃkasukaḥ divaḥ pṛṣṭhāni āruhat.mucyamānaḥ nireṇasaḥ amogaḥ mām aśastyāḥ ..12..

अस्मिन् वयं संकसुके अग्नौ रिप्राणि मृज्महे ।अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥१३॥
अस्मिन् वयम् संकसुके अग्नौ रिप्राणि मृज्महे ।अभूम यज्ञियाः शुद्धाः प्र नः आयूंषि तारिषत्॥१३॥
asmin vayam saṃkasuke agnau riprāṇi mṛjmahe .abhūma yajñiyāḥ śuddhāḥ pra naḥ āyūṃṣi tāriṣat..13..

संकसुको विकसुको निर्ऋथो यश्च निस्वरः ।ते ते यक्ष्मं सवेदसो दूराद्दूरमनीनशन् ॥१४॥
संकसुकः विकसुकः निरृथः यः च निस्वरः ।ते ते यक्ष्मम् स वेदसः दूरात् दूरम् अनीनशन् ॥१४॥
saṃkasukaḥ vikasukaḥ nirṛthaḥ yaḥ ca nisvaraḥ .te te yakṣmam sa vedasaḥ dūrāt dūram anīnaśan ..14..

यो नो अश्वेषु वीरेषु यो नो गोष्वजाविषु ।क्रव्यादं निर्णुदामसि यो अग्निर्जनयोपनः ॥१५॥
यः नः अश्वेषु वीरेषु यः नः गोषु अज-अविषु ।क्रव्यादम् निर्णुदामसि यः अग्निः जन-योपनः ॥१५॥
yaḥ naḥ aśveṣu vīreṣu yaḥ naḥ goṣu aja-aviṣu .kravyādam nirṇudāmasi yaḥ agniḥ jana-yopanaḥ ..15..

अन्येभ्यस्त्वा पुरुषेभ्यो गोभ्यो अश्वेभ्यस्त्वा ।निः क्रव्यादं नुदामसि यो अग्निर्जीवितयोपनः ॥१६॥
अन्येभ्यः त्वा पुरुषेभ्यः गोभ्यः अश्वेभ्यः त्वा ।निः क्रव्यादम् नुदामसि यः अग्निः जीवित-योपनः ॥१६॥
anyebhyaḥ tvā puruṣebhyaḥ gobhyaḥ aśvebhyaḥ tvā .niḥ kravyādam nudāmasi yaḥ agniḥ jīvita-yopanaḥ ..16..

यस्मिन् देवा अमृजत यस्मिन् मनुष्या उत ।तस्मिन् घृतस्तावो मृष्ट्वा त्वमग्ने दिवं रुह ॥१७॥
यस्मिन् देवाः अमृजत यस्मिन् मनुष्याः उत ।तस्मिन् घृत-स्तावः मृष्ट्वा त्वम् अग्ने दिवम् रुह ॥१७॥
yasmin devāḥ amṛjata yasmin manuṣyāḥ uta .tasmin ghṛta-stāvaḥ mṛṣṭvā tvam agne divam ruha ..17..

समिद्धो अग्न आहुत स नो माभ्यपक्रमीः ।अत्रैव दीदिहि द्यवि ज्योक्च सूर्यं दृशे ॥१८॥
समिद्धः अग्ने आहुत स नः मा अभ्यपक्रमीः ।अत्र एव दीदिहि द्यवि ज्योक् च सूर्यम् दृशे ॥१८॥
samiddhaḥ agne āhuta sa naḥ mā abhyapakramīḥ .atra eva dīdihi dyavi jyok ca sūryam dṛśe ..18..

सीसे मृड्ढ्वं नडे मृड्ढ्वमग्नौ संकसुके च यत्।अथो अव्यां रामायां शीर्षक्तिमुपबर्हणे ॥१९॥
सीसे मृड्ढ्वम् नडे मृड्ढ्वम् अग्नौ संकसुके च यत्।अथ उ अव्याम् रामायाम् शीर्षक्तिम् उपबर्हणे ॥१९॥
sīse mṛḍḍhvam naḍe mṛḍḍhvam agnau saṃkasuke ca yat.atha u avyām rāmāyām śīrṣaktim upabarhaṇe ..19..

सीसे मलं सादयित्वा शीर्षक्तिमुपबर्हणे ।अव्यामसिक्न्यां मृष्ट्वा शुद्धा भवत यज्ञियाः ॥२०॥ {८}
सीसे मलम् सादयित्वा शीर्षक्तिम् उपबर्हणे ।मृष्ट्वा शुद्धाः भवत यज्ञियाः ॥२०॥
sīse malam sādayitvā śīrṣaktim upabarhaṇe .mṛṣṭvā śuddhāḥ bhavata yajñiyāḥ ..20..

परं मृत्यो अनु परेहि पन्थां यस्त एष इतरो देवयानात्।चक्षुष्मते शृण्वते ते ब्रवीमीहेमे वीरा बहवो भवन्तु ॥२१॥
परम् मृत्यो अनु परेहि पन्थाम् यः ते एषः इतरः देव-यानात्।चक्षुष्मते शृण्वते ते ब्रवीमि इह इमे वीराः बहवः भवन्तु ॥२१॥
param mṛtyo anu parehi panthām yaḥ te eṣaḥ itaraḥ deva-yānāt.cakṣuṣmate śṛṇvate te bravīmi iha ime vīrāḥ bahavaḥ bhavantu ..21..

इमे जीवा वि मृतैराववृत्रन्न् अभूद्भद्रा देवहुतिर्नो अद्य ।प्राञ्चो अगाम नृतये हसाय सुवीरासो विदथमा वदेम ॥२२॥
इमे जीवाः वि मृतैः आववृत्रन् अभूत् भद्रा देव-हुतिः नः अद्य ।प्राञ्चः अगाम नृतये हसाय सु वीरासः विदथमा वदेम ॥२२॥
ime jīvāḥ vi mṛtaiḥ āvavṛtran abhūt bhadrā deva-hutiḥ naḥ adya .prāñcaḥ agāma nṛtaye hasāya su vīrāsaḥ vidathamā vadema ..22..

इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरो अर्थमेतम् ।शतं जीवन्तः शरदः पुरूचीस्तिरो मृत्युं दधतां पर्वतेन ॥२३॥
इमम् जीवेभ्यः परिधिम् दधामि मा एषाम् नु गात् अपरः अर्थम् एतम् ।शतम् जीवन्तः शरदः पुरूचीः तिरस् मृत्युम् दधताम् पर्वतेन ॥२३॥
imam jīvebhyaḥ paridhim dadhāmi mā eṣām nu gāt aparaḥ artham etam .śatam jīvantaḥ śaradaḥ purūcīḥ tiras mṛtyum dadhatām parvatena ..23..

आ रोहतायुर्जरसं वृणाना अनुपूर्वं यतमाना यति स्थ ।तान् वस्त्वष्टा सुजनिमा सजोषाः सर्वमायुर्नयतु जीवनाय ॥२४॥
आ रोहत आयुः जरसम् वृणानाः अनुपूर्वम् यतमानाः यति स्थ ।तान् वः त्वष्टा सु जनिमा सजोषाः सर्वम् आयुः नयतु जीवनाय ॥२४॥
ā rohata āyuḥ jarasam vṛṇānāḥ anupūrvam yatamānāḥ yati stha .tān vaḥ tvaṣṭā su janimā sajoṣāḥ sarvam āyuḥ nayatu jīvanāya ..24..

यथाहान्यनुपूर्वं भवन्ति यथ र्तव ऋतुभिर्यन्ति साकम् ।यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम् ॥२५॥
यथा अहानि अनुपूर्वम् भवन्ति यथा ऋतवः ऋतुभिः यन्ति साकम् ।यथा न पूर्वम् अपरः जहाति एव धातर् आयूंषि कल्पय एषाम् ॥२५॥
yathā ahāni anupūrvam bhavanti yathā ṛtavaḥ ṛtubhiḥ yanti sākam .yathā na pūrvam aparaḥ jahāti eva dhātar āyūṃṣi kalpaya eṣām ..25..

अश्मन्वती रीयते सं रभध्वं वीरयध्वं प्र तरता सखायः ।अत्रा जहीत ये असन् दुरेवा अनमीवान् उत्तरेमाभि वाजान् ॥२६॥
अश्मन्वती रीयते सम् रभध्वम् वीरयध्वम् प्र तरत सखायः ।अत्र जहीत ये असन् दुरेवाः अनमीवान् उत्तरेम अभि वाजान् ॥२६॥
aśmanvatī rīyate sam rabhadhvam vīrayadhvam pra tarata sakhāyaḥ .atra jahīta ye asan durevāḥ anamīvān uttarema abhi vājān ..26..

उत्तिष्ठता प्र तरता सखायोऽश्मन्वती नदी स्यन्दत इयम् ।अत्रा जहीत ये असन्न् अशिवाः शिवान्त्स्योनान् उत्तरेमाभि वाजान् ॥२७॥
उत्तिष्ठत प्र तरत सखायः अश्मन्वती नदी स्यन्दते इयम् ।अत्र जहीत ये असन् अशिवाः शिवान् स्योनान् उत्तरेम अभि वाजान् ॥२७॥
uttiṣṭhata pra tarata sakhāyaḥ aśmanvatī nadī syandate iyam .atra jahīta ye asan aśivāḥ śivān syonān uttarema abhi vājān ..27..

वैश्वदेवीं वर्चसा आ रभध्वं शुद्धा भवन्तः शुचयः पावकाः ।अतिक्रामन्तो दुरिता पदानि शतं हिमाः सर्ववीरा मदेम ॥२८॥
वैश्वदेवीम् वर्चसा आ रभध्वम् शुद्धाः भवन्तः शुचयः पावकाः ।अतिक्रामन्तः दुरिता पदानि शतम् हिमाः सर्व-वीराः मदेम ॥२८॥
vaiśvadevīm varcasā ā rabhadhvam śuddhāḥ bhavantaḥ śucayaḥ pāvakāḥ .atikrāmantaḥ duritā padāni śatam himāḥ sarva-vīrāḥ madema ..28..

उदीचीनैः पथिभिर्वायुमद्भिरतिक्रामन्तोऽवरान् परेभिः ।त्रिः सप्त कृत्व ऋषयः परेता मृत्युं प्रत्यौहन् पदयोपनेन ॥२९॥
उदीचीनैः पथिभिः वायुमद्भिः अतिक्रामन्तः अवरान् परेभिः ।त्रिस् सप्त कृत्वस् ऋषयः परेताः मृत्युम् प्रत्यौहन् पद-योपनेन ॥२९॥
udīcīnaiḥ pathibhiḥ vāyumadbhiḥ atikrāmantaḥ avarān parebhiḥ .tris sapta kṛtvas ṛṣayaḥ paretāḥ mṛtyum pratyauhan pada-yopanena ..29..

मृत्योः पदं योपयन्त एत द्राघीय आयुः प्रतरं दधानाः ।आसीना मृत्युं नुदता सधस्थेऽथ जीवासो विदथमा वदेम ॥३०॥ {९}
मृत्योः पदम् योपयन्तः एत द्राघीयः आयुः प्रतरम् दधानाः ।आसीनाः मृत्युम् नुदत सधस्थे अथ जीवासः विदथमाः वदेम ॥३०॥
mṛtyoḥ padam yopayantaḥ eta drāghīyaḥ āyuḥ prataram dadhānāḥ .āsīnāḥ mṛtyum nudata sadhasthe atha jīvāsaḥ vidathamāḥ vadema ..30..

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥३१॥
इमाः नारीः अविधवाः सु पत्नीः आञ्जनेन सर्पिषा सम् स्पृशन्ताम् ।अनश्रवः अनमीवाः सु रत्नाः आ रोहन्तु जनयः योनिम् अग्रे ॥३१॥
imāḥ nārīḥ avidhavāḥ su patnīḥ āñjanena sarpiṣā sam spṛśantām .anaśravaḥ anamīvāḥ su ratnāḥ ā rohantu janayaḥ yonim agre ..31..

व्याकरोमि हविषाहमेतौ तौ ब्रह्मणा व्यहं कल्पयामि ।स्वधां पितृभ्यो अजरां कृणोमि दीर्घेणायुषा समिमान्त्सृजामि ॥३२॥
व्याकरोमि हविषा अहम् एतौ तौ ब्रह्मणा वि अहम् कल्पयामि ।स्वधाम् पितृभ्यः अजराम् कृणोमि दीर्घेण आयुषा सम् इमान् सृजामि ॥३२॥
vyākaromi haviṣā aham etau tau brahmaṇā vi aham kalpayāmi .svadhām pitṛbhyaḥ ajarām kṛṇomi dīrgheṇa āyuṣā sam imān sṛjāmi ..32..

यो नो अग्निः पितरो हृत्स्वन्तराविवेशामृतो मर्त्येषु ।मय्यहं तं परि गृह्णामि देवं मा सो अस्मान् द्विक्षत मा वयं तम् ॥३३॥
यः नः अग्निः पितरः हृत्सु अन्तर् आविवेश अमृतः मर्त्येषु ।मयि अहम् तम् परि गृह्णामि देवम् मा सः अस्मान् द्विक्षत मा वयम् तम् ॥३३॥
yaḥ naḥ agniḥ pitaraḥ hṛtsu antar āviveśa amṛtaḥ martyeṣu .mayi aham tam pari gṛhṇāmi devam mā saḥ asmān dvikṣata mā vayam tam ..33..

अपावृत्य गार्हपत्यात्क्रव्यादा प्रेत दक्षिणा ।प्रियं पितृभ्य आत्मने ब्रह्मभ्यः कृणुता प्रियम् ॥३४॥
अपावृत्य गार्हपत्यात् क्रव्यादा प्रेत दक्षिणा ।प्रियम् पितृभ्यः आत्मने ब्रह्मभ्यः कृणुत प्रियम् ॥३४॥
apāvṛtya gārhapatyāt kravyādā preta dakṣiṇā .priyam pitṛbhyaḥ ātmane brahmabhyaḥ kṛṇuta priyam ..34..

द्विभागधनमादाय प्र क्षिणात्यवर्त्या ।अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्यादनिराहितः ॥३५॥
द्वि-भाग-धनम् आदाय प्र क्षिणाति अवर्त्या ।अग्निः पुत्रस्य ज्येष्ठस्य यः क्रव्याद-निराहितः ॥३५॥
dvi-bhāga-dhanam ādāya pra kṣiṇāti avartyā .agniḥ putrasya jyeṣṭhasya yaḥ kravyāda-nirāhitaḥ ..35..

यत्कृषते यद्वनुते यच्च वस्नेन विन्दते ।सर्वं मर्त्यस्य तन् नास्ति क्रव्याच्चेदनिराहितः ॥३६॥
यत् कृषते यत् वनुते यत् च वस्नेन विन्दते ।सर्वम् मर्त्यस्य तत् न अस्ति क्रव्याद् चेद् अनिराहितः ॥३६॥
yat kṛṣate yat vanute yat ca vasnena vindate .sarvam martyasya tat na asti kravyād ced anirāhitaḥ ..36..

अयज्ञियो हतवर्चा भवति नैनेन हविरत्तवे ।छिनत्ति कृष्या गोर्धनाद्यं क्रव्यादनुवर्तते ॥३७॥
अ यज्ञियः हत-वर्चाः भवति न एनेन हविः अत्तवे ।छिनत्ति कृष्याः गोः धन-आद्यम् क्रव्याद् अनुवर्तते ॥३७॥
a yajñiyaḥ hata-varcāḥ bhavati na enena haviḥ attave .chinatti kṛṣyāḥ goḥ dhana-ādyam kravyād anuvartate ..37..

मुहुर्गृध्यैः प्र वदत्यार्तिं मर्त्यो नीत्य ।क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥३८॥
मुहुर् गृध्यैः प्र वदति आर्तिम् मर्त्यः नीत्य ।क्रव्याद्यान् अग्निः अन्तिकात् अनुविद्वान् वितावति ॥३८॥
muhur gṛdhyaiḥ pra vadati ārtim martyaḥ nītya .kravyādyān agniḥ antikāt anuvidvān vitāvati ..38..

ग्राह्या गृहाः सं सृज्यन्ते स्त्रिया यन् म्रियते पतिः ।ब्रह्मैव विद्वान् एष्यो यः क्रव्यादं निरादधत्॥३९॥
ग्राह्याः गृहाः सम् सृज्यन्ते स्त्रियाः यत् म्रियते पतिः ।ब्रह्मा एव विद्वान् एष्यः यः क्रव्यादम् निरादधत्॥३९॥
grāhyāḥ gṛhāḥ sam sṛjyante striyāḥ yat mriyate patiḥ .brahmā eva vidvān eṣyaḥ yaḥ kravyādam nirādadhat..39..

यद्रिप्रं शमलं चकृम यच्च दुष्कृतम् ।आपो मा तस्माच्छुम्भन्त्वग्नेः संकसुकाच्च यत्॥४०॥ {१०}
यत् रिप्रम् शमलम् चकृम यत् च दुष्कृतम् ।आपः मा तस्मात् शुम्भन्तु अग्नेः संकसुकात् च यत्॥४०॥
yat ripram śamalam cakṛma yat ca duṣkṛtam .āpaḥ mā tasmāt śumbhantu agneḥ saṃkasukāt ca yat..40..

ता अधरादुदीचीराववृत्रन् प्रजानैतीः पथिभिर्देवयानैः ।पर्वतस्य वृषभस्याधि पृष्ठे नवाश्चरन्ति सरितः पुराणीः ॥४१॥
ताः अधरात् उदीचीः आववृत्रन् प्रजाना एतीः पथिभिः देव-यानैः ।पर्वतस्य वृषभस्य अधि पृष्ठे नवाः चरन्ति सरितः पुराणीः ॥४१॥
tāḥ adharāt udīcīḥ āvavṛtran prajānā etīḥ pathibhiḥ deva-yānaiḥ .parvatasya vṛṣabhasya adhi pṛṣṭhe navāḥ caranti saritaḥ purāṇīḥ ..41..

अग्ने अक्रव्यान् निः क्रव्यादं नुदा देवयजनं वह ॥४२॥
अग्ने अ क्रव्याद् निः क्रव्यादम् नुद देवयजनम् वह ॥४२॥
agne a kravyād niḥ kravyādam nuda devayajanam vaha ..42..

इमं क्रव्यादा विवेशायं क्रव्यादमन्वगात्।व्याघ्रौ कृत्वा नानानं तं हरामि शिवापरम् ॥४३॥
इमम् क्रव्यादा विवेश अयम् क्रव्यादम् अन्वगात्।व्याघ्रौ कृत्वा नानानम् तम् हरामि शिव-अपरम् ॥४३॥
imam kravyādā viveśa ayam kravyādam anvagāt.vyāghrau kṛtvā nānānam tam harāmi śiva-aparam ..43..

अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्हपत्य उभयान् अन्तरा श्रितः ॥४४॥
अन्तर्धिः देवानाम् परिधिः मनुष्याणाम् अग्निः गार्हपत्यः उभयान् अन्तरा श्रितः ॥४४॥
antardhiḥ devānām paridhiḥ manuṣyāṇām agniḥ gārhapatyaḥ ubhayān antarā śritaḥ ..44..

जीवानामायुः प्र तिर त्वमग्ने पितॄणां लोकमपि गच्छन्तु ये मृताः ।सुगार्हपत्यो वितपन्न् अरातिमुषामुषां श्रेयसीं धेह्यस्मै ॥४५॥
जीवानाम् आयुः प्र तिर त्वम् अग्ने पितॄणाम् लोकम् अपि गच्छन्तु ये मृताः ।सु गार्हपत्यः वितपन् अराति-मुषाम् उषाम् श्रेयसीम् धेहि अस्मै ॥४५॥
jīvānām āyuḥ pra tira tvam agne pitṝṇām lokam api gacchantu ye mṛtāḥ .su gārhapatyaḥ vitapan arāti-muṣām uṣām śreyasīm dhehi asmai ..45..

सर्वान् अग्ने सहमानः सपत्नान् ऐषामूर्जं रयिमस्मासु धेहि ॥४६॥
सर्वान् अग्ने सहमानः सपत्नान् आ एषाम् ऊर्जम् रयिम् अस्मासु धेहि ॥४६॥
sarvān agne sahamānaḥ sapatnān ā eṣām ūrjam rayim asmāsu dhehi ..46..

इममिन्द्रं वह्निं पप्रिमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।तेनाप हत शरुमापतन्तं तेन रुद्रस्य परि पातास्ताम् ॥४७॥
इमम् इन्द्रम् वह्निम् पप्रिम् अन्वारभध्वम् स वः निर्वक्षत् दुरितात् अवद्यात्।तेन अप हत शरुम् आपतन्तम् तेन रुद्रस्य परि पात अस्ताम् ॥४७॥
imam indram vahnim paprim anvārabhadhvam sa vaḥ nirvakṣat duritāt avadyāt.tena apa hata śarum āpatantam tena rudrasya pari pāta astām ..47..

अनड्वाहं प्लवमन्वारभध्वं स वो निर्वक्षद्दुरितादवद्यात्।आ रोहत सवितुर्नावमेतां षड्भिरुर्वीभिरमतिं तरेम ॥४८॥
अनड्वाहम् प्लवम् अन्वारभध्वम् स वः निर्वक्षत् दुरितात् अवद्यात्।आ रोहत सवितुः नावम् एताम् षड्भिः उर्वीभिः अमतिम् तरेम ॥४८॥
anaḍvāham plavam anvārabhadhvam sa vaḥ nirvakṣat duritāt avadyāt.ā rohata savituḥ nāvam etām ṣaḍbhiḥ urvībhiḥ amatim tarema ..48..

अहोरात्रे अन्वेषि बिभ्रत्क्षेम्यस्तिष्ठन् प्रतरणः सुवीरः ।अनातुरान्त्सुमनसस्तल्प बिभ्रज्ज्योगेव नः पुरुषगन्धिरेधि ॥४९॥
अहोरात्रे अन्वेषि बिभ्रत् क्षेम्यः तिष्ठन् प्रतरणः सु वीरः ।अनातुरान् सुमनसः तल्प बिभ्रत् ज्योक् इव नः पुरुष-गन्धिः एधि ॥४९॥
ahorātre anveṣi bibhrat kṣemyaḥ tiṣṭhan prataraṇaḥ su vīraḥ .anāturān sumanasaḥ talpa bibhrat jyok iva naḥ puruṣa-gandhiḥ edhi ..49..

ते देवेभ्य आ वृश्चन्ते पापं जीवन्ति सर्वदा ।क्रव्याद्यान् अग्निरन्तिकादश्व इवानुवपते नडम् ॥५०॥ {११}
ते देवेभ्यः आ वृश्चन्ते पापम् जीवन्ति सर्वदा ।क्रव्याद्यान् अग्निः अन्तिकात् अश्वः इव अनुवपते नडम् ॥५०॥
te devebhyaḥ ā vṛścante pāpam jīvanti sarvadā .kravyādyān agniḥ antikāt aśvaḥ iva anuvapate naḍam ..50..

येऽश्रद्धा धनकाम्या क्रव्यादा समासते ।ते वा अन्येषां कुम्भीं पर्यादधति सर्वदा ॥५१॥
ये अश्रद्धाः धन-काम्या क्रव्यादा समासते ।ते वै अन्येषाम् कुम्भीम् पर्यादधति सर्वदा ॥५१॥
ye aśraddhāḥ dhana-kāmyā kravyādā samāsate .te vai anyeṣām kumbhīm paryādadhati sarvadā ..51..

प्रेव पिपतिषति मनसा मुहुरा वर्तते पुनः ।क्रव्याद्यान् अग्निरन्तिकादनुविद्वान् वितावति ॥५२॥
प्र इव पिपतिषति मनसा मुहुरा वर्तते पुनर् ।क्रव्याद्यान् अग्निः अन्तिकात् अनुविद्वान् वितावति ॥५२॥
pra iva pipatiṣati manasā muhurā vartate punar .kravyādyān agniḥ antikāt anuvidvān vitāvati ..52..

अविः कृष्णा भागधेयं पशूनां सीसं क्रव्यादपि चन्द्रं त आहुः ।माषाः पिष्टा भागधेयं ते हव्यमरण्यान्या गह्वरं सचस्व ॥५३॥
अविः कृष्णा भागधेयम् पशूनाम् सीसम् क्रव्यादपि चन्द्रम् ते आहुः ।माषाः पिष्टाः भागधेयम् ते हव्यम् अरण्यान्याः गह्वरम् सचस्व ॥५३॥
aviḥ kṛṣṇā bhāgadheyam paśūnām sīsam kravyādapi candram te āhuḥ .māṣāḥ piṣṭāḥ bhāgadheyam te havyam araṇyānyāḥ gahvaram sacasva ..53..

इषीकां जरतीमिष्ट्वा तिल्पिञ्जं दण्डनं नडम् ।तमिन्द्र इध्मं कृत्वा यमस्याग्निं निरादधौ ॥५४॥
इषीकाम् जरतीम् इष्ट्वा तिल्पिञ्जम् दण्डनम् नडम् ।तम् इन्द्रः इध्मम् कृत्वा यमस्य अग्निम् निरादधौ ॥५४॥
iṣīkām jaratīm iṣṭvā tilpiñjam daṇḍanam naḍam .tam indraḥ idhmam kṛtvā yamasya agnim nirādadhau ..54..

प्रत्यञ्चमर्कं प्रत्यर्पयित्वा प्रविद्वान् पन्थां वि ह्याविवेश ।परामीषामसून् दिदेश दीर्घेणायुषा समिमान्त्सृजामि ॥५५॥ {१२}
प्रत्यञ्चम् अर्कम् प्रत्यर्पयित्वा प्रविद्वान् पन्थाम् वि हि आविवेश ।परा अमीषाम् असून् दिदेश दीर्घेण आयुषा सम् इमान् सृजामि ॥५५॥
pratyañcam arkam pratyarpayitvā pravidvān panthām vi hi āviveśa .parā amīṣām asūn dideśa dīrgheṇa āyuṣā sam imān sṛjāmi ..55..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In