| |
|

This overlay will guide you through the buttons:

मित्रः पृथिव्योदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥१॥
मित्रः पृथिव्या उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥१॥
mitraḥ pṛthivyā udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..1..

वायुरन्तरिक्षेणोदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥२॥
वायुः अन्तरिक्षेण उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥२॥
vāyuḥ antarikṣeṇa udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..2..

सूर्यो दिवोदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥३॥
सूर्यः दिवा उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥३॥
sūryaḥ divā udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..3..

चन्द्रमा नक्षत्रैरुदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥४॥
चन्द्रमाः नक्षत्रैः उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥४॥
candramāḥ nakṣatraiḥ udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..4..

सोम ओषधीभिरुदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥५॥
सोमः ओषधीभिः उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥५॥
somaḥ oṣadhībhiḥ udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..5..

यज्ञो दक्षिणाभिरुदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥६॥
यज्ञः दक्षिणाभिः उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥६॥
yajñaḥ dakṣiṇābhiḥ udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..6..

समुद्रो नदीभिरुदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥७॥
समुद्रः नदीभिः उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥७॥
samudraḥ nadībhiḥ udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..7..

ब्रह्म ब्रह्मचारिभिरुदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥८॥
ब्रह्म ब्रह्मचारिभिः उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥८॥
brahma brahmacāribhiḥ udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..8..

इन्द्रो वीर्येणोदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥९॥
इन्द्रः वीर्येण उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥९॥
indraḥ vīryeṇa udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..9..

देवा अमृतेनोदक्रामंस्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥१०॥
देवाः अमृतेन उदक्रामन् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥१०॥
devāḥ amṛtena udakrāman tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..10..

प्रजापतिः प्रजाभिरुदक्रामत्तां पुरं प्र णयामि वः ।तामा विशत तां प्र विशत सा वः शर्म च वर्म च यच्छतु ॥११॥
प्रजापतिः प्रजाभिः उदक्रामत् ताम् पुरम् प्र नयामि वः ।ताम् आ विशत ताम् प्र विशत सा वः शर्म च वर्म च यच्छतु ॥११॥
prajāpatiḥ prajābhiḥ udakrāmat tām puram pra nayāmi vaḥ .tām ā viśata tām pra viśata sā vaḥ śarma ca varma ca yacchatu ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In