| |
|

This overlay will guide you through the buttons:

ब्राह्मणो जज्ञे प्रथमो दशशीर्षो दशास्यः ।स सोमं प्रथमः पपौ स चकारारसं विषम् ॥१॥
ब्राह्मणः जज्ञे प्रथमः दश-शीर्षः दश-आस्यः ।स सोमम् प्रथमः पपौ स चकार अरसम् विषम् ॥१॥
brāhmaṇaḥ jajñe prathamaḥ daśa-śīrṣaḥ daśa-āsyaḥ .sa somam prathamaḥ papau sa cakāra arasam viṣam ..1..

यावती द्यावापृथिवी वरिम्णा यावत्सप्त सिन्धवो वितष्ठिरे ।वाचं विषस्य दूषणीं तामितो निरवादिषम् ॥२॥
यावती द्यावापृथिवी वरिम्णा यावत् सप्त सिन्धवः वितष्ठिरे ।वाचम् विषस्य दूषणीम् ताम् इतस् निरवादिषम् ॥२॥
yāvatī dyāvāpṛthivī varimṇā yāvat sapta sindhavaḥ vitaṣṭhire .vācam viṣasya dūṣaṇīm tām itas niravādiṣam ..2..

सुपर्णस्त्वा गरुत्मान् विष प्रथममावयत्।नामीमदो नारूरुप उतास्मा अभवः पितुः ॥३॥
सुपर्णः त्वा गरुत्मान् विष प्रथमम् आवयत्।न अमीमदः न अरूरुपः उत अस्मै अभवः पितुः ॥३॥
suparṇaḥ tvā garutmān viṣa prathamam āvayat.na amīmadaḥ na arūrupaḥ uta asmai abhavaḥ pituḥ ..3..

यस्त आस्यत्पञ्चाङ्गुरिर्वक्राच्चिदधि धन्वनः ।अपस्कम्भस्य शल्यान् निरवोचमहं विषम् ॥४॥
यः ते आस्यत् पञ्च-अङ्गुरिः वक्रात् चित् अधि धन्वनः ।अपस्कम्भस्य शल्यान् निरवोचम् अहम् विषम् ॥४॥
yaḥ te āsyat pañca-aṅguriḥ vakrāt cit adhi dhanvanaḥ .apaskambhasya śalyān niravocam aham viṣam ..4..

शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः ।अपाष्ठाच्छृङ्गात्कुल्मलान् निरवोचमहं विषम् ॥५॥
शल्यात् विषम् निरवोचम् प्राञ्जनात् उत पर्णधेः ।अपाष्ठात् शृङ्गात् कुल्मलान् निरवोचम् अहम् विषम् ॥५॥
śalyāt viṣam niravocam prāñjanāt uta parṇadheḥ .apāṣṭhāt śṛṅgāt kulmalān niravocam aham viṣam ..5..

अरसस्त इषो शल्योऽथो ते अरसं विषम् ।उतारसस्य वृक्षस्य धनुष्टे अरसारसम् ॥६॥
अरसः ते इषः शल्यः अथ उ ते अरसम् विषम् ।उत अरसस्य वृक्षस्य धनुष्टे ते अ रस अरसम् ॥६॥
arasaḥ te iṣaḥ śalyaḥ atha u te arasam viṣam .uta arasasya vṛkṣasya dhanuṣṭe te a rasa arasam ..6..

ये अपीषन् ये अदिहन् य आस्यन् ये अवासृजन् ।सर्वे ते वध्रयः कृता वध्रिर्विषगिरिः कृतः ॥७॥
ये अपीषन् ये अदिहन् ये आस्यन् ये अवासृजन् ।सर्वे ते वध्रयः कृताः वध्रिः विष-गिरिः कृतः ॥७॥
ye apīṣan ye adihan ye āsyan ye avāsṛjan .sarve te vadhrayaḥ kṛtāḥ vadhriḥ viṣa-giriḥ kṛtaḥ ..7..

वध्रयस्ते खनितारो वध्रिस्त्वमस्योषधे ।वध्रिः स पर्वतो गिरिर्यतो जातमिदं विषम् ॥८॥
वध्रयः ते खनितारः वध्रिः त्वम् असि ओषधे ।वध्रिः स पर्वतः गिरिः यतस् जातम् इदम् विषम् ॥८॥
vadhrayaḥ te khanitāraḥ vadhriḥ tvam asi oṣadhe .vadhriḥ sa parvataḥ giriḥ yatas jātam idam viṣam ..8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In