| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

द्रुपद उवाच॥
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् । ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो ॥१॥
एवम् एतत् महा-प्राज्ञ यथा आत्थ विदुर अद्य माम् । मम अपि परमः हर्षः सम्बन्धे अस्मिन् कृते विभो ॥१॥
evam etat mahā-prājña yathā āttha vidura adya mām . mama api paramaḥ harṣaḥ sambandhe asmin kṛte vibho ..1..
गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् । न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ॥२॥
गमनम् च अपि युक्तम् स्यात् गृहम् एषाम् महात्मनाम् । न तु तावत् मया युक्तम् एतत् वक्तुम् स्वयम् गिरा ॥२॥
gamanam ca api yuktam syāt gṛham eṣām mahātmanām . na tu tāvat mayā yuktam etat vaktum svayam girā ..2..
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः । भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ॥३॥
यदा तु मन्यते वीरः कुन्ती-पुत्रः युधिष्ठिरः । भीमसेन-अर्जुनौ च एव यमौ च पुरुष-ऋषभौ ॥३॥
yadā tu manyate vīraḥ kuntī-putraḥ yudhiṣṭhiraḥ . bhīmasena-arjunau ca eva yamau ca puruṣa-ṛṣabhau ..3..
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः । एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ॥४॥
राम-कृष्णौ च धर्म-ज्ञौ तदा गच्छन्तु पाण्डवाः । एतौ हि पुरुष-व्याघ्रौ एषाम् प्रिय-हिते रतौ ॥४॥
rāma-kṛṣṇau ca dharma-jñau tadā gacchantu pāṇḍavāḥ . etau hi puruṣa-vyāghrau eṣām priya-hite ratau ..4..
युधिष्ठिर उवाच॥
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः । यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ॥५॥
परवन्तः वयम् राजन् त्वयि सर्वे सह अनुगाः । यथा वक्ष्यसि नः प्रीत्या करिष्यामः तथा वयम् ॥५॥
paravantaḥ vayam rājan tvayi sarve saha anugāḥ . yathā vakṣyasi naḥ prītyā kariṣyāmaḥ tathā vayam ..5..
वैशम्पायन उवाच॥
ततोऽब्रवीद्वासुदेवो गमनं मम रोचते । यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ॥६॥
ततस् अब्रवीत् वासुदेवः गमनम् मम रोचते । यथा वा मन्यते राजा द्रुपदः सर्व-धर्म-विद् ॥६॥
tatas abravīt vāsudevaḥ gamanam mama rocate . yathā vā manyate rājā drupadaḥ sarva-dharma-vid ..6..
द्रुपद उवाच॥
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः । प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ॥७॥
यथा एव मन्यते वीरः दाशार्हः पुरुषोत्तमः । प्राप्त-कालम् महा-बाहुः सा बुद्धिः निश्चिता मम ॥७॥
yathā eva manyate vīraḥ dāśārhaḥ puruṣottamaḥ . prāpta-kālam mahā-bāhuḥ sā buddhiḥ niścitā mama ..7..
यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् । तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ॥८॥
यथा एव हि महाभागाः कौन्तेयाः मम साम्प्रतम् । तथा एव वासुदेवस्य पाण्डु-पुत्राः न संशयः ॥८॥
yathā eva hi mahābhāgāḥ kaunteyāḥ mama sāmpratam . tathā eva vāsudevasya pāṇḍu-putrāḥ na saṃśayaḥ ..8..
न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः । यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ॥९॥
न तत् ध्यायति कौन्तेयः धर्मपुत्रः युधिष्ठिरः । यत् एषाम् पुरुष-व्याघ्रः श्रेयः ध्यायति केशवः ॥९॥
na tat dhyāyati kaunteyaḥ dharmaputraḥ yudhiṣṭhiraḥ . yat eṣām puruṣa-vyāghraḥ śreyaḥ dhyāyati keśavaḥ ..9..
वैशम्पायन उवाच॥
ततस्ते समनुज्ञाता द्रुपदेन महात्मना । पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ॥१०॥
ततस् ते समनुज्ञाताः द्रुपदेन महात्मना । पाण्डवाः च एव कृष्णः च विदुरः च महामतिः ॥१०॥
tatas te samanujñātāḥ drupadena mahātmanā . pāṇḍavāḥ ca eva kṛṣṇaḥ ca viduraḥ ca mahāmatiḥ ..10..
आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् । सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ॥११॥
आदाय द्रौपदीम् कृष्णाम् कुन्तीम् च एव यशस्विनीम् । स विहारम् सुखम् जग्मुः नगरम् नागसाह्वयम् ॥११॥
ādāya draupadīm kṛṣṇām kuntīm ca eva yaśasvinīm . sa vihāram sukham jagmuḥ nagaram nāgasāhvayam ..11..
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः । प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ॥१२॥
श्रुत्वा च उपस्थितान् वीरान् धृतराष्ट्रः अपि कौरवः । प्रतिग्रहाय पाण्डूनाम् प्रेषयामास कौरवान् ॥१२॥
śrutvā ca upasthitān vīrān dhṛtarāṣṭraḥ api kauravaḥ . pratigrahāya pāṇḍūnām preṣayāmāsa kauravān ..12..
विकर्णं च महेष्वासं चित्रसेनं च भारत । द्रोणं च परमेष्वासं गौतमं कृपमेव च ॥१३॥
विकर्णम् च महा-इष्वासम् चित्रसेनम् च भारत । द्रोणम् च परम-इष्वासम् गौतमम् कृपम् एव च ॥१३॥
vikarṇam ca mahā-iṣvāsam citrasenam ca bhārata . droṇam ca parama-iṣvāsam gautamam kṛpam eva ca ..13..
तैस्ते परिवृता वीराः शोभमाना महारथाः । नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ॥१४॥
तैः ते परिवृताः वीराः शोभमानाः महा-रथाः । नगरम् हास्तिनपुरम् शनैस् प्रविविशुः तदा ॥१४॥
taiḥ te parivṛtāḥ vīrāḥ śobhamānāḥ mahā-rathāḥ . nagaram hāstinapuram śanais praviviśuḥ tadā ..14..
कौतूहलेन नगरं दीर्यमाणमिवाभवत् । यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ॥१५॥
कौतूहलेन नगरम् दीर्यमाणम् इव अभवत् । यत्र ते पुरुष-व्याघ्राः शोक-दुःख-विनाशनाः ॥१५॥
kautūhalena nagaram dīryamāṇam iva abhavat . yatra te puruṣa-vyāghrāḥ śoka-duḥkha-vināśanāḥ ..15..
तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः । उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः ॥१६॥
ततस् उच्चावचाः वाचः प्रियाः प्रिय-चिकीर्षुभिः । उदीरिताः अशृण्वन् ते पाण्डवाः हृदयङ्गमाः ॥१६॥
tatas uccāvacāḥ vācaḥ priyāḥ priya-cikīrṣubhiḥ . udīritāḥ aśṛṇvan te pāṇḍavāḥ hṛdayaṅgamāḥ ..16..
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् । यो नः स्वानिव दायादान्धर्मेण परिरक्षति ॥१७॥
अयम् स पुरुष-व्याघ्रः पुनर् आयाति धर्म-विद् । यः नः स्वान् इव दायादान् धर्मेण परिरक्षति ॥१७॥
ayam sa puruṣa-vyāghraḥ punar āyāti dharma-vid . yaḥ naḥ svān iva dāyādān dharmeṇa parirakṣati ..17..
अद्य पाण्डुर्महाराजो वनादिव वनप्रियः । आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ॥१८॥
अद्य पाण्डुः महा-राजः वनात् इव वन-प्रियः । आगतः प्रियम् अस्माकम् चिकीर्षुः न अत्र संशयः ॥१८॥
adya pāṇḍuḥ mahā-rājaḥ vanāt iva vana-priyaḥ . āgataḥ priyam asmākam cikīrṣuḥ na atra saṃśayaḥ ..18..
किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् । यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ॥१९॥
किम् नु न अद्य कृतम् तावत् सर्वेषाम् नः परम् प्रियम् । यत् नः कुन्ती-सुताः वीराः भर्तारः पुनर् आगताः ॥१९॥
kim nu na adya kṛtam tāvat sarveṣām naḥ param priyam . yat naḥ kuntī-sutāḥ vīrāḥ bhartāraḥ punar āgatāḥ ..19..
यदि दत्तं यदि हुतं विद्यते यदि नस्तपः । तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ॥२०॥
यदि दत्तम् यदि हुतम् विद्यते यदि नः तपः । तेन तिष्ठन्तु नगरे पाण्डवाः शरदाम् शतम् ॥२०॥
yadi dattam yadi hutam vidyate yadi naḥ tapaḥ . tena tiṣṭhantu nagare pāṇḍavāḥ śaradām śatam ..20..
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः । अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ॥२१॥
ततस् ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः । अन्येषाम् च तद्-अर्हाणाम् चक्रुः पाद-अभिवन्दनम् ॥२१॥
tatas te dhṛtarāṣṭrasya bhīṣmasya ca mahātmanaḥ . anyeṣām ca tad-arhāṇām cakruḥ pāda-abhivandanam ..21..
कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते । समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥२२॥
कृत्वा तु कुशल-प्रश्नम् सर्वेण नगरेण ते । समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ॥२२॥
kṛtvā tu kuśala-praśnam sarveṇa nagareṇa te . samāviśanta veśmāni dhṛtarāṣṭrasya śāsanāt ..22..
विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः । आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥२३॥
विश्रान्ताः ते महात्मानः कञ्चिद् कालम् महा-बलाः । आहूताः धृतराष्ट्रेण राज्ञा शान्तनवेन च ॥२३॥
viśrāntāḥ te mahātmānaḥ kañcid kālam mahā-balāḥ . āhūtāḥ dhṛtarāṣṭreṇa rājñā śāntanavena ca ..23..
धृतराष्ट्र उवाच॥
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम । पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ॥२४॥
भ्रातृभिः सह कौन्तेय निबोध इदम् वचः मम । पुनर् वः विग्रहः मा भूत् खाण्डवप्रस्थम् आविश ॥२४॥
bhrātṛbhiḥ saha kaunteya nibodha idam vacaḥ mama . punar vaḥ vigrahaḥ mā bhūt khāṇḍavaprastham āviśa ..24..
न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् । संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ॥२५॥ ( अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ॥२५॥ )
न च वः वसतः तत्र कश्चिद् शक्तः प्रबाधितुम् । संरक्ष्यमाणान् पार्थेन त्रिदशान् इव वज्रिणा ॥२५॥ ( अर्धम् राज्यस्य सम्प्राप्य खाण्डवप्रस्थम् आविश ॥२५॥ )
na ca vaḥ vasataḥ tatra kaścid śaktaḥ prabādhitum . saṃrakṣyamāṇān pārthena tridaśān iva vajriṇā ..25.. ( ardham rājyasya samprāpya khāṇḍavaprastham āviśa ..25.. )
वैशम्पायन उवाच॥
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च । प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ॥२६॥ ( अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ॥२६॥ )
प्रतिगृह्य तु तद्-वाक्यम् नृपम् सर्वे प्रणम्य च । प्रतस्थिरे ततस् घोरम् वनम् तत् मनुज-ऋषभाः ॥२६॥ ( अर्धम् राज्यस्य सम्प्राप्य खाण्डवप्रस्थम् आविशन् ॥२६॥ )
pratigṛhya tu tad-vākyam nṛpam sarve praṇamya ca . pratasthire tatas ghoram vanam tat manuja-ṛṣabhāḥ ..26.. ( ardham rājyasya samprāpya khāṇḍavaprastham āviśan ..26.. )
ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः । मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ॥२७॥
ततस् ते पाण्डवाः तत्र गत्वा कृष्ण-पुरोगमाः । चक्रिरे तत् वै पुरम् स्वर्गवत् अच्युताः ॥२७॥
tatas te pāṇḍavāḥ tatra gatvā kṛṣṇa-purogamāḥ . cakrire tat vai puram svargavat acyutāḥ ..27..
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः । नगरं मापयामासुर्द्वैपायनपुरोगमाः ॥२८॥
ततस् पुण्ये शिवे देशे शान्तिम् कृत्वा महा-रथाः । नगरम् मापयामासुः द्वैपायन-पुरोगमाः ॥२८॥
tatas puṇye śive deśe śāntim kṛtvā mahā-rathāḥ . nagaram māpayāmāsuḥ dvaipāyana-purogamāḥ ..28..
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् । प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ॥२९॥
सागर-प्रतिरूपाभिः परिखाभिः अलङ्कृतम् । प्राकारेण च सम्पन्नम् दिवम् आवृत्य तिष्ठता ॥२९॥
sāgara-pratirūpābhiḥ parikhābhiḥ alaṅkṛtam . prākāreṇa ca sampannam divam āvṛtya tiṣṭhatā ..29..
पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च । शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥३०॥
पाण्डुर-अभ्र-प्रकाशेन हिम-राशि-निभेन च । शुशुभे तत् पुर-श्रेष्ठम् नागैः भोगवती यथा ॥३०॥
pāṇḍura-abhra-prakāśena hima-rāśi-nibhena ca . śuśubhe tat pura-śreṣṭham nāgaiḥ bhogavatī yathā ..30..
द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः । गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ॥३१॥
द्वि-पक्ष-गरुड-प्रख्यैः द्वारैः घोर-प्रदर्शनैः । गुप्तम् अभ्र-चय-प्रख्यैः गोपुरैः मन्दर-उपमैः ॥३१॥
dvi-pakṣa-garuḍa-prakhyaiḥ dvāraiḥ ghora-pradarśanaiḥ . guptam abhra-caya-prakhyaiḥ gopuraiḥ mandara-upamaiḥ ..31..
विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः । शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ॥३२॥ ( तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ॥३२॥ )
विविधैः अति निर्विद्धैः शस्त्र-उपेतैः सु संवृतैः । शक्तिभिः च आवृतम् तत् हि द्विजिह्वैः इव पन्नगैः ॥३२॥ ( तल्पैः च आभ्यासिकैः युक्तम् शुशुभे योध-रक्षितम् ॥३२॥ )
vividhaiḥ ati nirviddhaiḥ śastra-upetaiḥ su saṃvṛtaiḥ . śaktibhiḥ ca āvṛtam tat hi dvijihvaiḥ iva pannagaiḥ ..32.. ( talpaiḥ ca ābhyāsikaiḥ yuktam śuśubhe yodha-rakṣitam ..32.. )
तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् । आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ॥३३॥
तीक्ष्ण-अङ्कुश-शतघ्नीभिः यन्त्र-जालैः च शोभितम् । आयसैः च महा-चक्रैः शुशुभे तत् पुर-उत्तमम् ॥३३॥
tīkṣṇa-aṅkuśa-śataghnībhiḥ yantra-jālaiḥ ca śobhitam . āyasaiḥ ca mahā-cakraiḥ śuśubhe tat pura-uttamam ..33..
सुविभक्तमहारथ्यं देवताबाधवर्जितम् । विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ॥३४॥
सुविभक्त-महा-रथ्यम् देवता-बाध-वर्जितम् । विरोचमानम् विविधैः पाण्डुरैः भवन-उत्तमैः ॥३४॥
suvibhakta-mahā-rathyam devatā-bādha-varjitam . virocamānam vividhaiḥ pāṇḍuraiḥ bhavana-uttamaiḥ ..34..
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत । मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ॥३५॥
तत् त्रिविष्टप-सङ्काशम् इन्द्रप्रस्थम् व्यरोचत । मेघ-वृन्दम् इव आकाशे वृद्धम् विद्युत्-समावृतम् ॥३५॥
tat triviṣṭapa-saṅkāśam indraprastham vyarocata . megha-vṛndam iva ākāśe vṛddham vidyut-samāvṛtam ..35..
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् । शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ॥३६॥
तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् । शुशुभे धन-सम्पूर्णम् धनाध्यक्ष-क्षय-उपमम् ॥३६॥
tatra ramye śubhe deśe kauravyasya niveśanam . śuśubhe dhana-sampūrṇam dhanādhyakṣa-kṣaya-upamam ..36..
तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः । निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ॥३७॥
तत्र अगच्छन् द्विजाः राजन् सर्व-वेद-विदाम् वराः । निवासम् रोचयन्ति स्म सर्व-भाषा-विदः तथा ॥३७॥
tatra agacchan dvijāḥ rājan sarva-veda-vidām varāḥ . nivāsam rocayanti sma sarva-bhāṣā-vidaḥ tathā ..37..
वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः । सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ॥३८॥
वणिजः च अभ्ययुस् तत्र देशे दिग्भ्यः धन-अर्थिनः । सर्व-शिल्प-विदः च एव वासाय अभ्यागमन् तदा ॥३८॥
vaṇijaḥ ca abhyayus tatra deśe digbhyaḥ dhana-arthinaḥ . sarva-śilpa-vidaḥ ca eva vāsāya abhyāgaman tadā ..38..
उद्यानानि च रम्याणि नगरस्य समन्ततः । आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ॥३९॥
उद्यानानि च रम्याणि नगरस्य समन्ततः । आम्रैः आम्रातकैः नीपैः अशोकैः चम्पकैः तथा ॥३९॥
udyānāni ca ramyāṇi nagarasya samantataḥ . āmraiḥ āmrātakaiḥ nīpaiḥ aśokaiḥ campakaiḥ tathā ..39..
पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा । शालतालकदम्बैश्च बकुलैश्च सकेतकैः ॥४०॥
पुंनागैः नागपुष्पैः च लकुचैः पनसैः तथा । शाल-ताल-कदम्बैः च बकुलैः च सकेतकैः ॥४०॥
puṃnāgaiḥ nāgapuṣpaiḥ ca lakucaiḥ panasaiḥ tathā . śāla-tāla-kadambaiḥ ca bakulaiḥ ca saketakaiḥ ..40..
मनोहरैः पुष्पितैश्च फलभारावनामितैः । प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ॥४१॥
मनोहरैः पुष्पितैः च फल-भार-अवनामितैः । प्राचीनामलकैः लोध्रैः अङ्कोलैः च सु पुष्पितैः ॥४१॥
manoharaiḥ puṣpitaiḥ ca phala-bhāra-avanāmitaiḥ . prācīnāmalakaiḥ lodhraiḥ aṅkolaiḥ ca su puṣpitaiḥ ..41..
जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः । करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ॥४२॥
जम्बूभिः पाटलाभिः च कुब्जकैः अतिमुक्तकैः । करवीरैः पारिजातैः अन्यैः च विविधैः द्रुमैः ॥४२॥
jambūbhiḥ pāṭalābhiḥ ca kubjakaiḥ atimuktakaiḥ . karavīraiḥ pārijātaiḥ anyaiḥ ca vividhaiḥ drumaiḥ ..42..
नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् । मत्तबर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः ॥४३॥
नित्य-पुष्प-फल-उपेतैः नाना द्विज-गण-आयुतम् । मत्त-बर्हिण-सङ्घुष्टम् कोकिलैः च सदामदैः ॥४३॥
nitya-puṣpa-phala-upetaiḥ nānā dvija-gaṇa-āyutam . matta-barhiṇa-saṅghuṣṭam kokilaiḥ ca sadāmadaiḥ ..43..
गृहैरादर्शविमलैर्विविधैश्च लतागृहैः । मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ॥४४॥ ( वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ॥४४॥ )
गृहैः आदर्श-विमलैः विविधैः च लता-गृहैः । मनोहरैः चित्रगृहैः तथा ॥४४॥ ( वापीभिः विविधाभिः च पूर्णाभिः परम-अम्भसा ॥४४॥ )
gṛhaiḥ ādarśa-vimalaiḥ vividhaiḥ ca latā-gṛhaiḥ . manoharaiḥ citragṛhaiḥ tathā ..44.. ( vāpībhiḥ vividhābhiḥ ca pūrṇābhiḥ parama-ambhasā ..44.. )
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः । हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ॥४५॥
सरोभिः अति रम्यैः च पद्म-उत्पल-सुगन्धिभिः । हंस-कारण्डव-युतैः चक्रवाक-उपशोभितैः ॥४५॥
sarobhiḥ ati ramyaiḥ ca padma-utpala-sugandhibhiḥ . haṃsa-kāraṇḍava-yutaiḥ cakravāka-upaśobhitaiḥ ..45..
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः । तडागानि च रम्याणि बृहन्ति च महान्ति च ॥४६॥
रम्याः च विविधाः तत्र पुष्करिण्यः वन-आवृताः । तडागानि च रम्याणि बृहन्ति च महान्ति च ॥४६॥
ramyāḥ ca vividhāḥ tatra puṣkariṇyaḥ vana-āvṛtāḥ . taḍāgāni ca ramyāṇi bṛhanti ca mahānti ca ..46..
तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् । पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ॥४७॥
तेषाम् पुण्य-जन-उपेतम् राष्ट्रम् आवसताम् महत् । पाण्डवानाम् महा-राज शश्वत् प्रीतिः अवर्धत ॥४७॥
teṣām puṇya-jana-upetam rāṣṭram āvasatām mahat . pāṇḍavānām mahā-rāja śaśvat prītiḥ avardhata ..47..
तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते । पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ॥४८॥
तत्र भीष्मेण राज्ञा च धर्म-प्रणयने कृते । पाण्डवाः समपद्यन्त खाण्डवप्रस्थ-वासिनः ॥४८॥
tatra bhīṣmeṇa rājñā ca dharma-praṇayane kṛte . pāṇḍavāḥ samapadyanta khāṇḍavaprastha-vāsinaḥ ..48..
पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् । शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ॥४९॥
पञ्चभिः तैः महा-इष्वासैः इन्द्र-कल्पैः समन्वितम् । शुशुभे तत् पुर-श्रेष्ठम् नागैः भोगवती यथा ॥४९॥
pañcabhiḥ taiḥ mahā-iṣvāsaiḥ indra-kalpaiḥ samanvitam . śuśubhe tat pura-śreṣṭham nāgaiḥ bhogavatī yathā ..49..
तान्निवेश्य ततो वीरो रामेण सह केशवः । ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ॥५०॥ 1.206.52
तान् निवेश्य ततस् वीरः रामेण सह केशवः । ययौ द्वारवतीम् राजन् पाण्डव-अनुमते तदा ॥५०॥ १।२०६।५२
tān niveśya tatas vīraḥ rāmeṇa saha keśavaḥ . yayau dvāravatīm rājan pāṇḍava-anumate tadā ..50.. 1.206.52

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In