| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

सूत उवाच॥
ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे । गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ॥१॥
ततस् तस्मिन् द्विजश्रेष्ठ समुदीर्णे तथाविधे । गरुत्मान् पक्षिराज् तूर्णम् सम्प्राप्तः विबुधान् प्रति ॥१॥
tatas tasmin dvijaśreṣṭha samudīrṇe tathāvidhe . garutmān pakṣirāj tūrṇam samprāptaḥ vibudhān prati ..1..
तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः । परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ॥२॥
तम् दृष्ट्वा अति बलम् च एव प्राकम्पन्त समन्ततः । परस्परम् च प्रत्यघ्नन् सर्व-प्रहरणानि अपि ॥२॥
tam dṛṣṭvā ati balam ca eva prākampanta samantataḥ . parasparam ca pratyaghnan sarva-praharaṇāni api ..2..
तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः । भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ॥३॥
तत्र च आसीत् अमेय-आत्मा विद्युत्-अग्नि-सम-प्रभः । भौवनः सु महा-वीर्यः सोमस्य परिरक्षिता ॥३॥
tatra ca āsīt ameya-ātmā vidyut-agni-sama-prabhaḥ . bhauvanaḥ su mahā-vīryaḥ somasya parirakṣitā ..3..
स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः । मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ॥४॥
स तेन पतग-इन्द्रेण पक्ष-तुण्ड-नखैः क्षतः । मुहूर्तम् अतुलम् युद्धम् कृत्वा विनिहतः युधि ॥४॥
sa tena pataga-indreṇa pakṣa-tuṇḍa-nakhaiḥ kṣataḥ . muhūrtam atulam yuddham kṛtvā vinihataḥ yudhi ..4..
रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः । कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ॥५॥
रजः च उद्धूय सु महत् पक्ष-वातेन खेचरः । कृत्वा लोकान् निरालोकान् तेन देवान् अवाकिरत् ॥५॥
rajaḥ ca uddhūya su mahat pakṣa-vātena khecaraḥ . kṛtvā lokān nirālokān tena devān avākirat ..5..
तेनावकीर्णा रजसा देवा मोहमुपागमन् । न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ॥६॥
तेन अवकीर्णाः रजसा देवाः मोहम् उपागमन् । न च एनम् ददृशुः छन्नाः रजसा अमृत-रक्षिणः ॥६॥
tena avakīrṇāḥ rajasā devāḥ moham upāgaman . na ca enam dadṛśuḥ channāḥ rajasā amṛta-rakṣiṇaḥ ..6..
एवं संलोडयामास गरुडस्त्रिदिवालयम् । पक्षतुण्डप्रहारैश्च देवान्स विददार ह ॥७॥
एवम् संलोडयामास गरुडः त्रिदिव-आलयम् । पक्ष-तुण्ड-प्रहारैः च देवान् स विददार ह ॥७॥
evam saṃloḍayāmāsa garuḍaḥ tridiva-ālayam . pakṣa-tuṇḍa-prahāraiḥ ca devān sa vidadāra ha ..7..
ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् । विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ॥८॥
ततस् देवः सहस्राक्षः तूर्णम् वायुम् अचोदयत् । विक्षिप इमाम् रजः-वृष्टिम् तव एतत् कर्म मारुत ॥८॥
tatas devaḥ sahasrākṣaḥ tūrṇam vāyum acodayat . vikṣipa imām rajaḥ-vṛṣṭim tava etat karma māruta ..8..
अथ वायुरपोवाह तद्रजस्तरसा बली । ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ॥९॥
अथ वायुः अपोवाह तत् रजः तरसा बली । ततस् वितिमिरे जाते देवाः शकुनिम् आर्दयन् ॥९॥
atha vāyuḥ apovāha tat rajaḥ tarasā balī . tatas vitimire jāte devāḥ śakunim ārdayan ..9..
ननाद चोच्चैर्बलवान्महामेघरवः खगः । वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ॥१०॥ ( उत्पपात महावीर्यः पक्षिराट्परवीरहा ॥१०॥ )
ननाद च उच्चैस् बलवान् महा-मेघ-रवः खगः । वध्यमानः सुर-गणैः सर्व-भूतानि भीषयन् ॥१०॥ ( उत्पपात महा-वीर्यः पक्षिराज् पर-वीर-हा ॥१०॥ )
nanāda ca uccais balavān mahā-megha-ravaḥ khagaḥ . vadhyamānaḥ sura-gaṇaiḥ sarva-bhūtāni bhīṣayan ..10.. ( utpapāta mahā-vīryaḥ pakṣirāj para-vīra-hā ..10.. )
तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् । वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ॥११॥
तम् उत्पत्य अन्तरिक्ष-स्थम् देवानाम् उपरि स्थितम् । वर्मिणः विबुधाः सर्वे नाना शस्त्रैः अवाकिरन् ॥११॥
tam utpatya antarikṣa-stham devānām upari sthitam . varmiṇaḥ vibudhāḥ sarve nānā śastraiḥ avākiran ..11..
पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः । क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ॥१२॥
पट्टिशैः परिघैः शूलैः गदाभिः च स वासवाः । क्षुर-अन्तैः ज्वलितैः च अपि चक्रैः आदित्य-रूपिभिः ॥१२॥
paṭṭiśaiḥ parighaiḥ śūlaiḥ gadābhiḥ ca sa vāsavāḥ . kṣura-antaiḥ jvalitaiḥ ca api cakraiḥ āditya-rūpibhiḥ ..12..
नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः । कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ॥१३॥
नाना शस्त्र-विसर्गैः च वध्यमानः समन्ततः । कुर्वन् सु तुमुलम् युद्धम् पक्षिराज् न व्यकम्पत ॥१३॥
nānā śastra-visargaiḥ ca vadhyamānaḥ samantataḥ . kurvan su tumulam yuddham pakṣirāj na vyakampata ..13..
विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् । पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ॥१४॥
विनर्दन् इव च आकाशे वैनतेयः प्रतापवान् । पक्षाभ्याम् उरसा च एव समन्तात् व्याक्षिपत् सुरान् ॥१४॥
vinardan iva ca ākāśe vainateyaḥ pratāpavān . pakṣābhyām urasā ca eva samantāt vyākṣipat surān ..14..
ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः । नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ॥१५॥
ते विक्षिप्ताः ततस् देवाः प्रजग्मुः गरुड-अर्दिताः । नख-तुण्ड-क्षताः च एव सुस्रुवुः शोणितम् बहु ॥१५॥
te vikṣiptāḥ tatas devāḥ prajagmuḥ garuḍa-arditāḥ . nakha-tuṇḍa-kṣatāḥ ca eva susruvuḥ śoṇitam bahu ..15..
साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् । प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ॥१६॥
साध्याः प्राचीम् स गन्धर्वाः वसवः दक्षिणाम् दिशम् । प्रजग्मुः सहिताः रुद्रैः पतग-इन्द्र-प्रधर्षिताः ॥१६॥
sādhyāḥ prācīm sa gandharvāḥ vasavaḥ dakṣiṇām diśam . prajagmuḥ sahitāḥ rudraiḥ pataga-indra-pradharṣitāḥ ..16..
दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् । मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ॥१७॥
दिशम् प्रतीचीम् आदित्याः नासत्यौ उत्तराम् दिशम् । मुहुर् मुहुर् प्रेक्षमाणाः युध्यमानाः महा-ओजसम् ॥१७॥
diśam pratīcīm ādityāḥ nāsatyau uttarām diśam . muhur muhur prekṣamāṇāḥ yudhyamānāḥ mahā-ojasam ..17..
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा । क्रथनेन च शूरेण तपनेन च खेचरः ॥१८॥
अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा । क्रथनेन च शूरेण तपनेन च खेचरः ॥१८॥
aśvakrandena vīreṇa reṇukena ca pakṣiṇā . krathanena ca śūreṇa tapanena ca khecaraḥ ..18..
उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा । प्ररुजेन च संयुद्धं चकार प्रलिहेन च ॥१९॥
उलूक-श्वसनाभ्याम् च निमेषेण च पक्षिणा । प्ररुजेन च संयुद्धम् चकार प्रलिहेन च ॥१९॥
ulūka-śvasanābhyām ca nimeṣeṇa ca pakṣiṇā . prarujena ca saṃyuddham cakāra pralihena ca ..19..
तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः । युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ॥२०॥
तान् पक्ष-नख-तुण्ड-अग्रैः अभिनत् विनता-सुतः । युग-अन्त-काले सङ्क्रुद्धः पिनाकी इव महा-बलः ॥२०॥
tān pakṣa-nakha-tuṇḍa-agraiḥ abhinat vinatā-sutaḥ . yuga-anta-kāle saṅkruddhaḥ pinākī iva mahā-balaḥ ..20..
महावीर्या महोत्साहास्तेन ते बहुधा क्षताः । रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ॥२१॥
महा-वीर्याः महा-उत्साहाः तेन ते बहुधा क्षताः । रेजुः अभ्र-घन-प्रख्याः रुधिर-ओघ-प्रवर्षिणः ॥२१॥
mahā-vīryāḥ mahā-utsāhāḥ tena te bahudhā kṣatāḥ . rejuḥ abhra-ghana-prakhyāḥ rudhira-ogha-pravarṣiṇaḥ ..21..
तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् । अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ॥२२॥
तान् कृत्वा पतग-श्रेष्ठः सर्वान् उत्क्रान्त-जीवितान् । अतिक्रान्तः अमृतस्य अर्थे सर्वतस् अग्निम् अपश्यत ॥२२॥
tān kṛtvā pataga-śreṣṭhaḥ sarvān utkrānta-jīvitān . atikrāntaḥ amṛtasya arthe sarvatas agnim apaśyata ..22..
आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् । दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ॥२३॥
आवृण्वानम् महा-ज्वालम् अर्चिर्भिः सर्वतस् अम्बरम् । दहन्तम् इव तीक्ष्णांशुम् घोरम् वायु-समीरितम् ॥२३॥
āvṛṇvānam mahā-jvālam arcirbhiḥ sarvatas ambaram . dahantam iva tīkṣṇāṃśum ghoram vāyu-samīritam ..23..
ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा । नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ॥२४॥
ततस् नवत्या नवतीः मुखानाम्; कृत्वा तरस्वी गरुडः महात्मा । नदीः समापीय मुखैः ततस् तैः; सु शीघ्रम् आगम्य पुनर् जवेन ॥२४॥
tatas navatyā navatīḥ mukhānām; kṛtvā tarasvī garuḍaḥ mahātmā . nadīḥ samāpīya mukhaiḥ tatas taiḥ; su śīghram āgamya punar javena ..24..
ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः । ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ॥२५॥ 1.32.25
ज्वलन्तम् अग्निम् तम् अमित्र-तापनः; समास्तरत् पत्ररथः नदीभिः । ततस् प्रचक्रे वपुः अन्यत् अल्पम्; प्रवेष्टु-कामः अग्निम् अभिप्रशाम्य ॥२५॥ १।३२।२५
jvalantam agnim tam amitra-tāpanaḥ; samāstarat patrarathaḥ nadībhiḥ . tatas pracakre vapuḥ anyat alpam; praveṣṭu-kāmaḥ agnim abhipraśāmya ..25.. 1.32.25

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In