This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकषष्ठितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..2..
वनम् गते धर्म परे रामे रमयताम् वरे । कौसल्या रुदती स्वार्ता भर्तारम् इदम् अब्रवीत् ॥२-६१-१॥
वनम् गते धर्म-परे रामे रमयताम् वरे । कौसल्या रुदती सु आर्ता भर्तारम् इदम् अब्रवीत् ॥२॥
vanam gate dharma-pare rāme ramayatām vare . kausalyā rudatī su ārtā bhartāram idam abravīt ..2..
यद्यपि त्रिषु लोकेषु प्रथितम् ते मयद् यशः । सानुक्रोशो वदान्यः च प्रिय वादी च राघवः ॥२-६१-२॥
यदि अपि त्रिषु लोकेषु प्रथितम् ते यशः । स अनुक्रोशः वदान्यः च प्रिय-वादी च राघवः ॥२॥
yadi api triṣu lokeṣu prathitam te yaśaḥ . sa anukrośaḥ vadānyaḥ ca priya-vādī ca rāghavaḥ ..2..
कथम् नर वर श्रेष्ठ पुत्रौ तौ सह सीतया । दुह्खितौ सुख सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२-६१-३॥
कथम् नर-वर-श्रेष्ठ-पुत्रौ तौ सह सीतया । दुह्खितौ सुख-सम्वृद्धौ वने दुह्खम् सहिष्यतः ॥२॥
katham nara-vara-śreṣṭha-putrau tau saha sītayā . duhkhitau sukha-samvṛddhau vane duhkham sahiṣyataḥ ..2..
सा नूनम् तरुणी श्यामा सुकुमारी सुख उचिता । कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२-६१-४॥
सा नूनम् तरुणी श्यामा सुकुमारी सुख-उचिता । कथम् उष्णम् च शीतम् च मैथिली प्रसहिष्यते ॥२॥
sā nūnam taruṇī śyāmā sukumārī sukha-ucitā . katham uṣṇam ca śītam ca maithilī prasahiṣyate ..2..
भुक्त्वा अशनम् विशाल अक्षी सूप दम्श अन्वितम् शुभम् । वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२-६१-५॥
भुक्त्वा अशनम् विशाल-अक्षी सूप-दम्श-अन्वितम् शुभम् । वन्यम् नैवारम् आहारम् कथम् सीता उपभोक्ष्यते ॥२॥
bhuktvā aśanam viśāla-akṣī sūpa-damśa-anvitam śubham . vanyam naivāram āhāram katham sītā upabhokṣyate ..2..
गीत वादित्र निर्घोषम् श्रुत्वा शुभम् अनिन्दिता । कथम् क्रव्य अद सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२-६१-६॥
गीत-वादित्र-निर्घोषम् श्रुत्वा शुभम् अनिन्दिता । कथम् क्रव्य-अद-सिम्हानाम् शब्दम् श्रोष्यति अशोभनम् ॥२॥
gīta-vāditra-nirghoṣam śrutvā śubham aninditā . katham kravya-ada-simhānām śabdam śroṣyati aśobhanam ..2..
महा इन्द्र ध्वज सम्काशः क्व नु शेते महा भुजः । भुजम् परिघ सम्काशम् उपधाय महा बलः ॥२-६१-७॥
महा-इन्द्र-ध्वज-सम्काशः क्व नु शेते महा-भुजः । भुजम् परिघ-सम्काशम् उपधाय महा-बलः ॥२॥
mahā-indra-dhvaja-samkāśaḥ kva nu śete mahā-bhujaḥ . bhujam parigha-samkāśam upadhāya mahā-balaḥ ..2..
पद्म वर्णम् सुकेश अन्तम् पद्म निह्श्वासम् उत्तमम् । कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर ईक्षणम् ॥२-६१-८॥
पद्म-वर्णम् सुकेश-अन्तम् पद्म-निह्श्वासम् उत्तमम् । कदा द्रक्ष्यामि रामस्य वदनम् पुष्कर-ईक्षणम् ॥२॥
padma-varṇam sukeśa-antam padma-nihśvāsam uttamam . kadā drakṣyāmi rāmasya vadanam puṣkara-īkṣaṇam ..2..
वज्र सारमयम् नूनम् हृदयम् मे न सम्शयः । अपश्यन्त्या न तम् यद् वै फलति इदम् सहस्रधा ॥२-६१-९॥
वज्र-सारमयम् नूनम् हृदयम् मे न सम्शयः । अपश्यन्त्या न तम् यत् वै फलति इदम् सहस्रधा ॥२॥
vajra-sāramayam nūnam hṛdayam me na samśayaḥ . apaśyantyā na tam yat vai phalati idam sahasradhā ..2..
यत्त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः । निरस्ता परिधावन्ति सुखार्हः कृपणा वने ॥२-६१-१०॥
यत् त्वया करुणम् कर्म व्यपोह्य मम बान्धवाः । निरस्ता परिधावन्ति सुख-अर्हः कृपणाः वने ॥२॥
yat tvayā karuṇam karma vyapohya mama bāndhavāḥ . nirastā paridhāvanti sukha-arhaḥ kṛpaṇāḥ vane ..2..
यदि पञ्चदशे वर्षे राघवः पुनरेष्यति । जह्याद्राज्यम् च कोशम् च भरतो नोपल्स्ख्यते ॥२-६१-११॥
यदि पञ्चदशे वर्षे राघवः पुनर् एष्यति । जह्यात् राज्यम् च कोशम् च भरतः न उपल्स्ख्यते ॥२॥
yadi pañcadaśe varṣe rāghavaḥ punar eṣyati . jahyāt rājyam ca kośam ca bharataḥ na upalskhyate ..2..
भोजयन्ति किल श्राद्धे केचित्स्वनेव बान्धवान् । ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥२-६१-१२॥
भोजयन्ति किल श्राद्धे केचिद् स्वना इव बान्धवान् । ततस् पश्चात् समीक्षन्ते कृत-कार्याः द्विजर्षभान् ॥२॥
bhojayanti kila śrāddhe kecid svanā iva bāndhavān . tatas paścāt samīkṣante kṛta-kāryāḥ dvijarṣabhān ..2..
तत्र ये गुणवन्तश्च विद्वाम्सश्च द्विजातयः । न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥२-६१-१३॥
तत्र ये गुणवन्तः च विद्वाम्सः च द्विजातयः । न पश्चात् ते अभिमन्यन्ते सुधाम् अपि सुर-उपमाः ॥२॥
tatra ye guṇavantaḥ ca vidvāmsaḥ ca dvijātayaḥ . na paścāt te abhimanyante sudhām api sura-upamāḥ ..2..
ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुम् द्विजर्षभाः । नाभ्युपैतुमलम् प्राज्ञाः शृङ्गच्चेदमिवर्ष्भाः ॥२-६१-१४॥
ब्राह्मणेषु अपि तृप्तेषु पश्चात् भोक्तुम् द्विजर्षभाः । न अभ्युपैतुम् अलम् प्राज्ञाः ॥२॥
brāhmaṇeṣu api tṛpteṣu paścāt bhoktum dvijarṣabhāḥ . na abhyupaitum alam prājñāḥ ..2..
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते । भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२-६१-१५॥
एवम् कनीयसा भ्रात्रा भुक्तम् राज्यम् विशाम् पते । भ्राता ज्येष्ठा वरिष्ठाः च किम् अर्थम् न अवमम्स्यते ॥२॥
evam kanīyasā bhrātrā bhuktam rājyam viśām pate . bhrātā jyeṣṭhā variṣṭhāḥ ca kim artham na avamamsyate ..2..
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति । एवम् एव नर व्याघ्रः पर लीढम् न मम्स्यते ॥२-६१-१६॥
न परेण आहृतम् भक्ष्यम् व्याघ्रः खादितुम् इच्चति । एवम् एव नर-व्याघ्रः पर लीढम् न मम्स्यते ॥२॥
na pareṇa āhṛtam bhakṣyam vyāghraḥ khāditum iccati . evam eva nara-vyāghraḥ para līḍham na mamsyate ..2..
हविर् आज्यम् पुरोडाशाः कुशा यूपाः च खादिराः । न एतानि यात यामानि कुर्वन्ति पुनर् अध्वरे ॥२-६१-१७॥
हविः आज्यम् पुरोडाशाः कुशाः यूपाः च खादिराः । न एतानि यात-यामानि कुर्वन्ति पुनर् अध्वरे ॥२॥
haviḥ ājyam puroḍāśāḥ kuśāḥ yūpāḥ ca khādirāḥ . na etāni yāta-yāmāni kurvanti punar adhvare ..2..
तथा हि आत्तम् इदम् राज्यम् हृत साराम् सुराम् इव । न अभिमन्तुम् अलम् रामः नष्ट सोमम् इव अध्वरम् ॥२-६१-१८॥
तथा हि आत्तम् इदम् राज्यम् हृत-साराम् सुराम् इव । न अभिमन्तुम् अलम् रामः नष्ट-सोमम् इव अध्वरम् ॥२॥
tathā hi āttam idam rājyam hṛta-sārām surām iva . na abhimantum alam rāmaḥ naṣṭa-somam iva adhvaram ..2..
न एवम् विधम् असत्कारम् राघवो मर्षयिष्यति । बलवान् इव शार्दूलो बालधेर् अभिमर्शनम् ॥२-६१-१९॥
न एवम् विधम् असत्कारम् राघवः मर्षयिष्यति । बलवान् इव शार्दूलः बालधेः अभिमर्शनम् ॥२॥
na evam vidham asatkāram rāghavaḥ marṣayiṣyati . balavān iva śārdūlaḥ bāladheḥ abhimarśanam ..2..
नैतस्य सहिता लोका भयम् कुर्युर्महामृधे । अधर्मम् त्विह धर्मात्मा लोकम् धर्मेण योजयेत् ॥२-६१-२०॥
न एतस्य सहिताः लोकाः भयम् कुर्युः महा-मृधे । अधर्मम् तु इह धर्म-आत्मा लोकम् धर्मेण योजयेत् ॥२॥
na etasya sahitāḥ lokāḥ bhayam kuryuḥ mahā-mṛdhe . adharmam tu iha dharma-ātmā lokam dharmeṇa yojayet ..2..
नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । युगान्त इव भूतानि सागरानपि निर्दहेत् ॥२-६१-२१॥
ननु असौ काञ्चनैः बाणैः महा-वीर्यः महा-भुजः । युग-अन्ते इव भूतानि सागरान् अपि निर्दहेत् ॥२॥
nanu asau kāñcanaiḥ bāṇaiḥ mahā-vīryaḥ mahā-bhujaḥ . yuga-ante iva bhūtāni sāgarān api nirdahet ..2..
स तादृशः सिम्ह बलो वृषभ अक्षो नर ऋषभः । स्वयम् एव हतः पित्रा जलजेन आत्मजो यथा ॥२-६१-२२॥
स तादृशः सिम्ह-बलः वृषभ-अक्षः नर-ऋषभः । स्वयम् एव हतः पित्रा जलजेन आत्मजः यथा ॥२॥
sa tādṛśaḥ simha-balaḥ vṛṣabha-akṣaḥ nara-ṛṣabhaḥ . svayam eva hataḥ pitrā jalajena ātmajaḥ yathā ..2..
द्विजाति चरितः धर्मः शास्त्र दृष्टः सनातनः । यदि ते धर्म निरते त्वया पुत्रे विवासिते ॥२-६१-२३॥
द्विजाति-चरितः धर्मः शास्त्र-दृष्टः सनातनः । यदि ते धर्म-निरते त्वया पुत्रे विवासिते ॥२॥
dvijāti-caritaḥ dharmaḥ śāstra-dṛṣṭaḥ sanātanaḥ . yadi te dharma-nirate tvayā putre vivāsite ..2..
गतिर् एवाक् पतिर् नार्या द्वितीया गतिर् आत्मजः । तृतीया ज्ञातयो राजमः चतुर्थी न इह विद्यते ॥२-६१-२४॥
गतिः एवाक् पतिः नार्याः द्वितीया गतिः आत्मजः । तृतीया ज्ञातयोः राजमः चतुर्थी न इह विद्यते ॥२॥
gatiḥ evāk patiḥ nāryāḥ dvitīyā gatiḥ ātmajaḥ . tṛtīyā jñātayoḥ rājamaḥ caturthī na iha vidyate ..2..
तत्र त्वम् चैव मे न अस्ति रामः च वनम् आश्रितः । न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२-६१-२५॥
तत्र त्वम् च एव मे न अस्ति रामः च वनम् आश्रितः । न वनम् गन्तुम् इच्चामि सर्वथा हि हता त्वया ॥२॥
tatra tvam ca eva me na asti rāmaḥ ca vanam āśritaḥ . na vanam gantum iccāmi sarvathā hi hatā tvayā ..2..
हतम् त्वया राज्यम् इदम् सराष्ट्रम् । हतः तथा आत्मा सह मन्त्रिभिः च । हता सपुत्रा अस्मि हताः च पौराः । सुतः च भार्या च तव प्रहृष्टौ ॥२-६१-२६॥
हतम् त्वया राज्यम् इदम् सराष्ट्रम् । हतः तथा आत्मा सह मन्त्रिभिः च । हता सपुत्रा अस्मि हताः च पौराः । सुतः च भार्या च तव प्रहृष्टौ ॥२॥
hatam tvayā rājyam idam sarāṣṭram . hataḥ tathā ātmā saha mantribhiḥ ca . hatā saputrā asmi hatāḥ ca paurāḥ . sutaḥ ca bhāryā ca tava prahṛṣṭau ..2..
इमाम् गिरम् दारुण शब्द सम्श्रिताम् । निशम्य राजा अपि मुमोह दुह्खितः । ततः स शोकम् प्रविवेश पार्थिवः । स्वदुष्कृतम् च अपि पुनः तदा अस्मरत् ॥२-६१-२७॥
इमाम् गिरम् दारुण-शब्द-सम्श्रिताम् । निशम्य राजा अपि मुमोह दुह्खितः । ततस् स शोकम् प्रविवेश पार्थिवः । स्वदुष्कृतम् च अपि पुनर् तदा अस्मरत् ॥२॥
imām giram dāruṇa-śabda-samśritām . niśamya rājā api mumoha duhkhitaḥ . tatas sa śokam praviveśa pārthivaḥ . svaduṣkṛtam ca api punar tadā asmarat ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२-६१॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे एकषष्ठितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In