| |
|

This overlay will guide you through the buttons:

उदेहि वाजिन् यो अप्स्वन्तरिदं राष्ट्रं प्र विश सूनृतावत्।यो रोहितो विश्वमिदं जजान स त्वा राष्ट्राय सुभृतं बिभर्तु ॥१॥
उदेहि वाजिन् यः अप्सु अन्तरिदम् राष्ट्रम् प्र विश सूनृतावत्।यः रोहितः विश्वम् इदम् जजान स त्वा राष्ट्राय सु भृतम् बिभर्तु ॥१॥
udehi vājin yaḥ apsu antaridam rāṣṭram pra viśa sūnṛtāvat.yaḥ rohitaḥ viśvam idam jajāna sa tvā rāṣṭrāya su bhṛtam bibhartu ..1..

उद्वाज आ गन् यो अप्स्वन्तर्विश आ रोह त्वद्योनयो याः ।सोमं दधानोऽप ओषधीर्गाश्चतुष्पदो द्विपद आ वेशयेह ॥२॥
उद्वाजः आ गन् यः अप्सु अन्तर् विशः आ रोह त्वद्-योनयः याः ।सोमम् दधानः अपः ओषधीः गाः चतुष्पदः द्विपदः आ वेशय इह ॥२॥
udvājaḥ ā gan yaḥ apsu antar viśaḥ ā roha tvad-yonayaḥ yāḥ .somam dadhānaḥ apaḥ oṣadhīḥ gāḥ catuṣpadaḥ dvipadaḥ ā veśaya iha ..2..

यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून् ।आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥३॥
यूयम् उग्राः मरुतः पृश्नि-मातरः इन्द्रेण युजा प्र मृणीत शत्रून् ।आ वः रोहितः शृणवत् सुदानवः त्रिषप्तासः मरुतः स्वादु-संमुदः ॥३॥
yūyam ugrāḥ marutaḥ pṛśni-mātaraḥ indreṇa yujā pra mṛṇīta śatrūn .ā vaḥ rohitaḥ śṛṇavat sudānavaḥ triṣaptāsaḥ marutaḥ svādu-saṃmudaḥ ..3..

रुहो रुरोह रोहित आ रुरोह गर्भो जनीनां जनुषामुपस्थम् ।ताभिः संरब्धमन्वविन्दन् षडुर्वीर्गातुं प्रपश्यन्न् इह राष्ट्रमाहाः ॥४॥
रुहः रुरोह रोहितः आ रुरोह गर्भः जनीनाम् जनुषाम् उपस्थम् ।ताभिः संरब्धम् अन्वविन्दन् षड् उर्वीः गातुम् प्रपश्यन् इह राष्ट्रम् आहार् ॥४॥
ruhaḥ ruroha rohitaḥ ā ruroha garbhaḥ janīnām januṣām upastham .tābhiḥ saṃrabdham anvavindan ṣaḍ urvīḥ gātum prapaśyan iha rāṣṭram āhār ..4..

आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन् मृधो अभयं ते अभूत्।तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहातामिह शक्वरीभिः ॥५॥
आ ते राष्ट्रम् इह रोहितः अहार्षीत् व्यास्थन् मृधः अभयम् ते अभूत्।तस्मै ते द्यावापृथिवी रेवतीभिः कामम् दुहाताम् इह शक्वरीभिः ॥५॥
ā te rāṣṭram iha rohitaḥ ahārṣīt vyāsthan mṛdhaḥ abhayam te abhūt.tasmai te dyāvāpṛthivī revatībhiḥ kāmam duhātām iha śakvarībhiḥ ..5..

रोहितो द्यावापृथिवी जजान तत्र तन्तुं परमेष्ठी ततान ।तत्र शिश्रियेऽज एकपादोऽदृंहद्द्यावापृथिवी बलेन ॥६॥
रोहितः द्यावापृथिवी जजान तत्र तन्तुम् परमेष्ठी ततान ।तत्र शिश्रिये अजः एक-पादः अदृंहत् द्यावापृथिवी बलेन ॥६॥
rohitaḥ dyāvāpṛthivī jajāna tatra tantum parameṣṭhī tatāna .tatra śiśriye ajaḥ eka-pādaḥ adṛṃhat dyāvāpṛthivī balena ..6..

रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः ।तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥७॥
रोहितः द्यावापृथिवी अदृंहत् तेन स्वर् स्तभितम् तेन नाकः ।तेन अन्तरिक्षम् विमिता रजांसि तेन देवाः अमृतम् अन्वविन्दन् ॥७॥
rohitaḥ dyāvāpṛthivī adṛṃhat tena svar stabhitam tena nākaḥ .tena antarikṣam vimitā rajāṃsi tena devāḥ amṛtam anvavindan ..7..

वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च ।दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥८॥
वि रोहितः अमृशत् विश्व-रूपम् समाकुर्वाणः प्ररुहः रुहः च ।दिवम् रूढ्वा महता महिम्ना सम् ते राष्ट्रम् अनक्तु पयसा घृतेन ॥८॥
vi rohitaḥ amṛśat viśva-rūpam samākurvāṇaḥ praruhaḥ ruhaḥ ca .divam rūḍhvā mahatā mahimnā sam te rāṣṭram anaktu payasā ghṛtena ..8..

यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम् ।तासां ब्रह्मणा पयसा ववृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥९॥
याः ते रुहः प्ररुहः याः ते आरुहः याभिः आपृणासि दिवम् अन्तरिक्षम् ।तासाम् ब्रह्मणा पयसा ववृधानः विशि राष्ट्रे जागृहि रोहितस्य ॥९॥
yāḥ te ruhaḥ praruhaḥ yāḥ te āruhaḥ yābhiḥ āpṛṇāsi divam antarikṣam .tāsām brahmaṇā payasā vavṛdhānaḥ viśi rāṣṭre jāgṛhi rohitasya ..9..

यस्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः ।तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥१०॥ {१}
यः ते विशः तपसः संबभूवुः वत्सम् गायत्रीम् अनु ताः इह अगुः ।ताः त्वा विशन्तु मनसा शिवेन सम् माता वत्सः अभ्येतु रोहितः ॥१०॥
yaḥ te viśaḥ tapasaḥ saṃbabhūvuḥ vatsam gāyatrīm anu tāḥ iha aguḥ .tāḥ tvā viśantu manasā śivena sam mātā vatsaḥ abhyetu rohitaḥ ..10..

ऊर्ध्वो रोहितो अधि नाके अस्थाद्विश्वा रूपाणि जनयन् युवा कविः ।तिग्मेनाग्निर्ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥
ऊर्ध्वः रोहितः अधि नाके अस्थात् विश्वा रूपाणि जनयन् युवा कविः ।तिग्मेन अग्निः ज्योतिषा वि भाति तृतीये चक्रे रजसि प्रियाणि ॥११॥
ūrdhvaḥ rohitaḥ adhi nāke asthāt viśvā rūpāṇi janayan yuvā kaviḥ .tigmena agniḥ jyotiṣā vi bhāti tṛtīye cakre rajasi priyāṇi ..11..

सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः ।मा मा हासीन् नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥१२॥
सहस्र-शृङ्गः वृषभः जातवेदाः घृत-आहुतः सोम-पृष्ठः सु वीरः ।मा मा हासीत् नाथितः न इत्त्वा जहानि गो-पोषम् च मे वीर-पोषम् च धेहि ॥१२॥
sahasra-śṛṅgaḥ vṛṣabhaḥ jātavedāḥ ghṛta-āhutaḥ soma-pṛṣṭhaḥ su vīraḥ .mā mā hāsīt nāthitaḥ na ittvā jahāni go-poṣam ca me vīra-poṣam ca dhehi ..12..

रोहितो यज्ञस्य जनिता मुखं च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।रोहितं देवा यन्ति सुमनस्यमानाः स मा रोहैः सामित्यै रोहयतु ॥१३॥
रोहितः यज्ञस्य जनिता मुखम् च रोहिताय वाचा श्रोत्रेण मनसा जुहोमि ।रोहितम् देवाः यन्ति सुमनस्यमानाः स मा रोहैः सामित्यैः रोहयतु ॥१३॥
rohitaḥ yajñasya janitā mukham ca rohitāya vācā śrotreṇa manasā juhomi .rohitam devāḥ yanti sumanasyamānāḥ sa mā rohaiḥ sāmityaiḥ rohayatu ..13..

रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः ।वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥१४॥
रोहितः यज्ञम् व्यदधात् विश्वकर्मणे तस्मात् तेजांसि उप मा इमानि आगुः ।वोचेयम् ते नाभिम् भुवनस्य अधि मज्मनि ॥१४॥
rohitaḥ yajñam vyadadhāt viśvakarmaṇe tasmāt tejāṃsi upa mā imāni āguḥ .voceyam te nābhim bhuvanasya adhi majmani ..14..

आ त्वा रुरोह बृहत्युत पङ्क्तिरा ककुब्वर्चसा जातवेदः ।आ त्वा रुरोहोष्णिहाक्षरो वषट्कार आ त्वा रुरोह रोहितो रेतसा सह ॥१५॥
आ त्वा रुरोह बृहती उत पङ्क्तिः आ ककुभा वर्चसा जातवेदः ।आ त्वा रुरोह उष्णिहा-अक्षरः वषट्कारः आ त्वा रुरोह रोहितः रेतसा सह ॥१५॥
ā tvā ruroha bṛhatī uta paṅktiḥ ā kakubhā varcasā jātavedaḥ .ā tvā ruroha uṣṇihā-akṣaraḥ vaṣaṭkāraḥ ā tvā ruroha rohitaḥ retasā saha ..15..

अयं वस्ते गर्भं पृथिव्या दिवं वस्तेऽयमन्तरिक्षम् ।अयं ब्रध्नस्य विष्टपि स्वर्लोकान् व्यानशे ॥१६॥
अयम् वस्ते गर्भम् पृथिव्याः दिवम् वस्ते अयम् अन्तरिक्षम् ।अयम् ब्रध्नस्य विष्टपि स्वर् लोकान् व्यानशे ॥१६॥
ayam vaste garbham pṛthivyāḥ divam vaste ayam antarikṣam .ayam bradhnasya viṣṭapi svar lokān vyānaśe ..16..

वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यग्निरायुषा वर्चसा दधातु ॥१७॥
वाचस्पते पृथिवी नः स्योना स्योना योनिः तल्पा नः सु शेवा ।इह एव प्राणः सख्ये नः अस्तु तम् त्वा परमेष्ठिन् परि अग्निः आयुषा वर्चसा दधातु ॥१७॥
vācaspate pṛthivī naḥ syonā syonā yoniḥ talpā naḥ su śevā .iha eva prāṇaḥ sakhye naḥ astu tam tvā parameṣṭhin pari agniḥ āyuṣā varcasā dadhātu ..17..

वाचस्पत ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् परि रोहित आयुषा वर्चसा दधातु ॥१८॥
वाचस्पते ऋतवः पञ्च ये नौ वैश्वकर्मणाः परि ये संबभूवुः ।इह एव प्राणः सख्ये नः अस्तु तम् त्वा परमेष्ठिन् परि रोहितः आयुषा वर्चसा दधातु ॥१८॥
vācaspate ṛtavaḥ pañca ye nau vaiśvakarmaṇāḥ pari ye saṃbabhūvuḥ .iha eva prāṇaḥ sakhye naḥ astu tam tvā parameṣṭhin pari rohitaḥ āyuṣā varcasā dadhātu ..18..

वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः ।इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन् पर्यहमायुषा वर्चसा दधातु ॥१९॥
वाचस्पते सौमनसम् मनः च गोष्ठे नः गाः जनय योनिषु प्रजाः ।इह एव प्राणः सख्ये नः अस्तु तम् त्वा परमेष्ठिन् पर्यहम् आयुषा वर्चसा दधातु ॥१९॥
vācaspate saumanasam manaḥ ca goṣṭhe naḥ gāḥ janaya yoniṣu prajāḥ .iha eva prāṇaḥ sakhye naḥ astu tam tvā parameṣṭhin paryaham āyuṣā varcasā dadhātu ..19..

परि त्वा धात्सविता देवो अग्निर्वर्चसा मित्रावरुणावभि त्वा ।सर्वा अरातीरवक्रामन्न् एहीदं राष्ट्रमकरः सुनृतावत्॥२०॥ {२}
परि त्वा धात् सविता देवः अग्निः वर्चसा मित्रावरुणौ अभि त्वा ।सर्वाः अरातीः अवक्रामन् एहि इदम् राष्ट्रम् अकरः सु नृतावत्॥२०॥
pari tvā dhāt savitā devaḥ agniḥ varcasā mitrāvaruṇau abhi tvā .sarvāḥ arātīḥ avakrāman ehi idam rāṣṭram akaraḥ su nṛtāvat..20..

यं त्वा पृषती रथे प्रष्टिर्वहति रोहित ।शुभा यासि रिणन्न् अपः ॥२१॥
यम् त्वा पृषती रथे प्रष्टिः वहति रोहित ।शुभा यासि रिणन् अपः ॥२१॥
yam tvā pṛṣatī rathe praṣṭiḥ vahati rohita .śubhā yāsi riṇan apaḥ ..21..

अनुव्रता रोहिणी रोहितस्य सूरिः सुवर्णा बृहती सुवर्चाः ।तया वाजान् विश्वरूपां जयेम तया विश्वाः पृतना अभि ष्याम ॥२२॥
अनुव्रता रोहिणी रोहितस्य सूरिः सु वर्णा बृहती सु वर्चाः ।तया वाजान् विश्व-रूपाम् जयेम तया विश्वाः पृतनाः अभि स्याम ॥२२॥
anuvratā rohiṇī rohitasya sūriḥ su varṇā bṛhatī su varcāḥ .tayā vājān viśva-rūpām jayema tayā viśvāḥ pṛtanāḥ abhi syāma ..22..

इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति ।तां गन्धर्वाः कश्यपा उन् नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥२३॥
इदम् सदः रोहिणी रोहितस्य असौ पन्थाः पृषती येन याति ।ताम् गन्धर्वाः कश्यपाः उद् नयन्ति ताम् रक्षन्ति कवयः अप्रमादम् ॥२३॥
idam sadaḥ rohiṇī rohitasya asau panthāḥ pṛṣatī yena yāti .tām gandharvāḥ kaśyapāḥ ud nayanti tām rakṣanti kavayaḥ apramādam ..23..

सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम् ।घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥२४॥
सूर्यस्य अश्वाः हरयः केतुमन्तः सदा वहन्ति अमृताः सुखम् रथम् ।घृत-पावा रोहितः भ्राजमानः दिवम् देवः पृषतीमा विवेश ॥२४॥
sūryasya aśvāḥ harayaḥ ketumantaḥ sadā vahanti amṛtāḥ sukham ratham .ghṛta-pāvā rohitaḥ bhrājamānaḥ divam devaḥ pṛṣatīmā viveśa ..24..

यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव ।यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥२५॥
यः रोहितः वृषभः तिग्म-शृङ्गः परि अग्निम् परि सूर्यम् बभूव ।यः विष्टभ्नाति पृथिवीम् दिवम् च तस्मात् देवाः अधि सृष्टीः सृजन्ते ॥२५॥
yaḥ rohitaḥ vṛṣabhaḥ tigma-śṛṅgaḥ pari agnim pari sūryam babhūva .yaḥ viṣṭabhnāti pṛthivīm divam ca tasmāt devāḥ adhi sṛṣṭīḥ sṛjante ..25..

रोहितो दिवमारुहन् महतः पर्यर्णवात्।सर्वो रुरोह रोहितो रुहः ॥२६॥
रोहितः दिवम् आरुहत् महतः परि अर्णवात्।सर्वः रुरोह रोहितः रुहः ॥२६॥
rohitaḥ divam āruhat mahataḥ pari arṇavāt.sarvaḥ ruroha rohitaḥ ruhaḥ ..26..

वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा ।इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥२७॥
वि मिमीष्व पयस्वतीम् घृताचीम् देवानाम् धेनुः अन् अपस्पृशा एषा ।इन्द्रः सोमम् पिबतु क्षेमः अस्तु अग्निः प्र स्तौतु वि मृधः नुदस्व ॥२७॥
vi mimīṣva payasvatīm ghṛtācīm devānām dhenuḥ an apaspṛśā eṣā .indraḥ somam pibatu kṣemaḥ astu agniḥ pra stautu vi mṛdhaḥ nudasva ..27..

समिद्धो अग्निः समिधानो घृतवृद्धो घृताहुतः ।अभीषाट्विश्वाषाडग्निः सपत्नान् हन्तु ये मम ॥२८॥
समिद्धः अग्निः समिधानः घृत-वृद्धः घृत-आहुतः ।अभीषाह् विश्वाषाह् अग्निः सपत्नान् हन्तु ये मम ॥२८॥
samiddhaḥ agniḥ samidhānaḥ ghṛta-vṛddhaḥ ghṛta-āhutaḥ .abhīṣāh viśvāṣāh agniḥ sapatnān hantu ye mama ..28..

हन्त्वेनान् प्र दहत्वरिर्यो नः पृतन्यति ।क्रव्यादाग्निना वयं सपत्नान् प्र दहामसि ॥२९॥
हन्तु एनान् प्र दहतु अरिः यः नः पृतन्यति ।क्रव्यादा अग्निना वयम् सपत्नान् प्र दहामसि ॥२९॥
hantu enān pra dahatu ariḥ yaḥ naḥ pṛtanyati .kravyādā agninā vayam sapatnān pra dahāmasi ..29..

अवाचीनान् अव जहीन्द्र वज्रेण बाहुमान् ।अधा सपत्नान् मामकान् अग्नेस्तेजोभिरादिषि ॥३०॥ {३}
अवाचीनान् अव जहि इन्द्र वज्रेण बाहुमान् ।अध सपत्नान् मामकान् अग्नेः तेजोभिः आदिषि ॥३०॥
avācīnān ava jahi indra vajreṇa bāhumān .adha sapatnān māmakān agneḥ tejobhiḥ ādiṣi ..30..

अग्ने सपत्नान् अधरान् पादयास्मद्व्यथया सजातमुत्पिपानं बृहस्पते ।इन्द्राग्नी मित्रावरुणावधरे पद्यन्तामप्रतिमन्यूयमानाः ॥३१॥
अग्ने सपत्नान् अधरान् पादय अस्मत् व्यथय सजातम् उत्पिपानम् बृहस्पते ।इन्द्र-अग्नी मित्रावरुणौ अधरे पद्यन्ताम् अप्रतिमन्यूयमानाः ॥३१॥
agne sapatnān adharān pādaya asmat vyathaya sajātam utpipānam bṛhaspate .indra-agnī mitrāvaruṇau adhare padyantām apratimanyūyamānāḥ ..31..

उद्यंस्त्वं देव सूर्य सपत्नान् अव मे जहि ।अवैनान् अश्मना जहि ते यन्त्वधमं तमः ॥३२॥
उद्यन् त्वम् देव सूर्य सपत्नान् अव मे जहि ।अव एनान् अश्मना जहि ते यन्तु अधमम् तमः ॥३२॥
udyan tvam deva sūrya sapatnān ava me jahi .ava enān aśmanā jahi te yantu adhamam tamaḥ ..32..

वत्सो विराजो वृषभो मतीनामा रुरोह शुक्रपृष्ठोऽन्तरिक्षम् ।घृतेनार्कमभ्यर्चन्ति वत्सं ब्रह्म सन्तं ब्रह्मणा वर्धयन्ति ॥३३॥
वत्सः विराजः वृषभः मती-नामा रुरोह शुक्र-पृष्ठः अन्तरिक्षम् ।घृतेन अर्कम् अभ्यर्चन्ति वत्सम् ब्रह्म सन्तम् ब्रह्मणा वर्धयन्ति ॥३३॥
vatsaḥ virājaḥ vṛṣabhaḥ matī-nāmā ruroha śukra-pṛṣṭhaḥ antarikṣam .ghṛtena arkam abhyarcanti vatsam brahma santam brahmaṇā vardhayanti ..33..

दिवं च रोह पृथिवीं च रोह राष्ट्रं च रोह द्रविणं च रोह ।प्रजां च रोहामृतं च रोह रोहितेन तन्वं सं स्पृषस्व ॥३४॥
दिवम् च रोह पृथिवीम् च रोह राष्ट्रम् च रोह द्रविणम् च रोह ।प्रजाम् च रोह अमृतम् च रोह रोहितेन तन्वम् सम् स्पृषस्व ॥३४॥
divam ca roha pṛthivīm ca roha rāṣṭram ca roha draviṇam ca roha .prajām ca roha amṛtam ca roha rohitena tanvam sam spṛṣasva ..34..

ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम् ।तैष्टे रोहितः सम्विदानो राष्ट्रं दधातु सुमनस्यमानः ॥३५॥
ये देवाः राष्ट्रभृतः अभितस् यन्ति सूर्यम् ।तैः ते रोहितः सम्विदानः राष्ट्रम् दधातु सुमनस्यमानः ॥३५॥
ye devāḥ rāṣṭrabhṛtaḥ abhitas yanti sūryam .taiḥ te rohitaḥ samvidānaḥ rāṣṭram dadhātu sumanasyamānaḥ ..35..

उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ।तिरः समुद्रमति रोचसेऽर्णवम् ॥३६॥
उत्त्वा यज्ञाः ब्रह्म-पूताः वहन्ति अध्व-गतः हरयः त्वा वहन्ति ।तिरस् समुद्रम् अति रोचसे अर्णवम् ॥३६॥
uttvā yajñāḥ brahma-pūtāḥ vahanti adhva-gataḥ harayaḥ tvā vahanti .tiras samudram ati rocase arṇavam ..36..

रोहिते द्यावापृथिवी अधि श्रिते वसुजिति गोजिति संधनाजिति ।सहस्रं यस्य जनिमानि सप्त च वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥३७॥
रोहिते द्यावापृथिवी अधि श्रिते वसु-जिति गो-जिति संधनाजिति ।सहस्रम् यस्य जनिमानि सप्त च वोचेयम् ते नाभिम् भुवनस्य अधि मज्मनि ॥३७॥
rohite dyāvāpṛthivī adhi śrite vasu-jiti go-jiti saṃdhanājiti .sahasram yasya janimāni sapta ca voceyam te nābhim bhuvanasya adhi majmani ..37..

यशा यासि प्रदिशो दिशश्च यशाः पशूनामुत चर्षणीनाम् ।यशाः पृथिव्या अदित्या उपस्थेऽहं भूयासं सवितेव चारुः ॥३८॥
यशाः यासि प्रदिशः दिशः च यशाः पशूनाम् उत चर्षणीनाम् ।यशाः पृथिव्याः अदित्याः उपस्थे अहम् भूयासम् सविता इव चारुः ॥३८॥
yaśāḥ yāsi pradiśaḥ diśaḥ ca yaśāḥ paśūnām uta carṣaṇīnām .yaśāḥ pṛthivyāḥ adityāḥ upasthe aham bhūyāsam savitā iva cāruḥ ..38..

अमुत्र सन्न् इह वेत्थेतः संस्तानि पश्यसि ।इतः पश्यन्ति रोचनं दिवि सूर्यं विपश्चितम् ॥३९॥
अमुत्र सन् इह वेत्थ इतस् सन् तानि पश्यसि ।इतस् पश्यन्ति रोचनम् दिवि सूर्यम् विपश्चितम् ॥३९॥
amutra san iha vettha itas san tāni paśyasi .itas paśyanti rocanam divi sūryam vipaścitam ..39..

देवो देवान् मर्चयस्यन्तश्चरस्यर्णवे ।समानमग्निमिन्धते तं विदुः कवयः परे ॥४०॥ {४}
देवः देवान् मर्चयसि अन्तर् चरसि अर्णवे ।समानम् अग्निम् इन्धते तम् विदुः कवयः परे ॥४०॥
devaḥ devān marcayasi antar carasi arṇave .samānam agnim indhate tam viduḥ kavayaḥ pare ..40..

अवः परेण पर एनावरेण पदा वत्सं बिब्रती गौरुदस्थात्।सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अस्मिन् ॥४१॥
अवस् परेण परस् एना अवरेण पदा वत्सम् बिब्रती गौः उदस्थात्।सा कद्रीची कम् स्विद् अर्धम् परागात् क्व स्विद् सूते नहि यूथे अस्मिन् ॥४१॥
avas pareṇa paras enā avareṇa padā vatsam bibratī gauḥ udasthāt.sā kadrīcī kam svid ardham parāgāt kva svid sūte nahi yūthe asmin ..41..

एकपदी द्विपदी सा चतुष्पद्यष्टापदी नवपदी बभूवुषी ।सहस्राक्षरा भुवनस्य पङ्क्तिस्तस्याः समुद्रा अधि वि क्षरन्ति ॥४२॥
एकपदी द्विपदी सा चतुष्पदी अष्टापदी नवपदी बभूवुषी ।सहस्र-अक्षरा भुवनस्य पङ्क्तिः तस्याः समुद्राः अधि वि क्षरन्ति ॥४२॥
ekapadī dvipadī sā catuṣpadī aṣṭāpadī navapadī babhūvuṣī .sahasra-akṣarā bhuvanasya paṅktiḥ tasyāḥ samudrāḥ adhi vi kṣaranti ..42..

आरोहन् द्याममृतः प्राव मे वचः ।उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥४३॥
आरोहन् द्याम् अमृतः प्राव मे वचः ।उत्त्वा यज्ञाः ब्रह्म-पूताः वहन्ति अध्व-गतः हरयः त्वा वहन्ति ॥४३॥
ārohan dyām amṛtaḥ prāva me vacaḥ .uttvā yajñāḥ brahma-pūtāḥ vahanti adhva-gataḥ harayaḥ tvā vahanti ..43..

वेद तत्ते अमर्त्य यत्त आक्रमणं दिवि ।यत्ते सधस्थं परमे व्योमन् ॥४४॥
वेद तत् ते अमर्त्य यत् ते आक्रमणम् दिवि ।यत् ते सधस्थम् परमे व्योमन् ॥४४॥
veda tat te amartya yat te ākramaṇam divi .yat te sadhastham parame vyoman ..44..

सूर्यो द्यां सूर्यः पृठिवीं सूर्य आपोऽति पश्यति ।सूर्यो भूतस्यैकं चक्षुरा रुरोह दिवं महीम् ॥४५॥
सूर्यः द्याम् सूर्यः पृठिवीम् सूर्यः आपः अति पश्यति ।सूर्यः भूतस्य एकम् चक्षुः आ रुरोह दिवम् महीम् ॥४५॥
sūryaḥ dyām sūryaḥ pṛṭhivīm sūryaḥ āpaḥ ati paśyati .sūryaḥ bhūtasya ekam cakṣuḥ ā ruroha divam mahīm ..45..

उर्वीरासन् परिधयो वेदिर्भूमिरकल्पत ।तत्रैतावग्नी आधत्त हिमं घ्रंसं च रोहितः ॥४६॥
उर्वीः आसन् परिधयः वेदिः भूमिः अकल्पत ।तत्र एतौ अग्नी आधत्त हिमम् घ्रंसम् च रोहितः ॥४६॥
urvīḥ āsan paridhayaḥ vediḥ bhūmiḥ akalpata .tatra etau agnī ādhatta himam ghraṃsam ca rohitaḥ ..46..

हिमं घ्रंसं चाधाय यूपान् कृत्वा पर्वतान् ।वर्षाज्यावग्नी ईजाते रोहितस्य स्वर्विदः ॥४७॥
हिमम् घ्रंसम् च आधाय यूपान् कृत्वा पर्वतान् ।वर्ष-आज्यौ अग्नी ईजाते रोहितस्य स्वर्-विदः ॥४७॥
himam ghraṃsam ca ādhāya yūpān kṛtvā parvatān .varṣa-ājyau agnī ījāte rohitasya svar-vidaḥ ..47..

स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते ।तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोऽजायत ॥४८॥
स्वर्-विदः रोहितस्य ब्रह्मणा अग्निः समिध्यते ।तस्मात् घ्रंसः तस्मात् हिमः तस्मात् यज्ञः अजायत ॥४८॥
svar-vidaḥ rohitasya brahmaṇā agniḥ samidhyate .tasmāt ghraṃsaḥ tasmāt himaḥ tasmāt yajñaḥ ajāyata ..48..

ब्रह्मणाग्नी वावृधानौ ब्रह्मवृद्धौ ब्रह्माहुतौ ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥४९॥
ब्रह्मणा अग्नी वावृधानौ ब्रह्म-वृद्धौ ब्रह्म-आहुतौ ।ब्रह्म-इद्धौ अग्नी ईजाते रोहितस्य स्वर्-विदः ॥४९॥
brahmaṇā agnī vāvṛdhānau brahma-vṛddhau brahma-āhutau .brahma-iddhau agnī ījāte rohitasya svar-vidaḥ ..49..

सत्ये अन्यः समाहितोऽप्स्वन्यः समिध्यते ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५०॥ {५}
सत्ये अन्यः समाहितः अप्सु अन्यः समिध्यते ।ब्रह्म-इद्धौ अग्नी ईजाते रोहितस्य स्वर्-विदः ॥५०॥
satye anyaḥ samāhitaḥ apsu anyaḥ samidhyate .brahma-iddhau agnī ījāte rohitasya svar-vidaḥ ..50..

यं वातः परिशुम्भति यं वेन्द्रो ब्रह्मणस्पतिः ।ब्रह्मेद्धावग्नी ईजाते रोहितस्य स्वर्विदः ॥५१॥
यम् वातः परिशुम्भति यम् वा इन्द्रः ब्रह्मणस्पतिः ।ब्रह्म-इद्धौ अग्नी ईजाते रोहितस्य स्वर्-विदः ॥५१॥
yam vātaḥ pariśumbhati yam vā indraḥ brahmaṇaspatiḥ .brahma-iddhau agnī ījāte rohitasya svar-vidaḥ ..51..

वेदिं भूमिं कल्पयित्वा दिवं कृत्वा दक्षिणाम् ।घ्रंसं तदग्निं कृत्वा चकार विश्वमात्मन्वद्वर्षेणाज्येन रोहितः ॥५२॥
वेदिम् भूमिम् कल्पयित्वा दिवम् कृत्वा दक्षिणाम् ।घ्रंसम् तत् अग्निम् कृत्वा चकार विश्वम् आत्मन्वत् वर्षेण आज्येन रोहितः ॥५२॥
vedim bhūmim kalpayitvā divam kṛtvā dakṣiṇām .ghraṃsam tat agnim kṛtvā cakāra viśvam ātmanvat varṣeṇa ājyena rohitaḥ ..52..

वर्षमाजं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत ।तत्रैतान् पर्वतान् अग्निर्गीर्भिरूर्ध्वामकल्पयत्॥५३॥
वर्षम् आजम् घ्रंसः अग्निः वेदिः भूमिः अकल्पत ।तत्र एतान् पर्वतान् अग्निः गीर्भिः ऊर्ध्वाम् अकल्पयत्॥५३॥
varṣam ājam ghraṃsaḥ agniḥ vediḥ bhūmiḥ akalpata .tatra etān parvatān agniḥ gīrbhiḥ ūrdhvām akalpayat..53..

गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्।त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥५४॥
गीर्भिः ऊर्ध्वान् कल्पयित्वा रोहितः भूमिम् अब्रवीत्।त्वयि इदम् सर्वम् जायताम् यत् भूतम् यत् च भाव्यम् ॥५४॥
gīrbhiḥ ūrdhvān kalpayitvā rohitaḥ bhūmim abravīt.tvayi idam sarvam jāyatām yat bhūtam yat ca bhāvyam ..54..

स यज्ञः प्रथमो भूतो भव्यो अजायत ।तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥५५॥
स यज्ञः प्रथमः भूतः भव्यः अजायत ।तस्मात् ह जज्ञे इदम् सर्वम् यत् किम् च इदम् विरोचते रोहितेन ऋषिणा आभृतम् ॥५५॥
sa yajñaḥ prathamaḥ bhūtaḥ bhavyaḥ ajāyata .tasmāt ha jajñe idam sarvam yat kim ca idam virocate rohitena ṛṣiṇā ābhṛtam ..55..

यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति ।तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५६॥
यः च गाम् पदा स्फुरति प्रत्यङ् सूर्यम् च मेहति ।तस्य वृश्चामि ते मूलम् न छायाम् करवः अपरम् ॥५६॥
yaḥ ca gām padā sphurati pratyaṅ sūryam ca mehati .tasya vṛścāmi te mūlam na chāyām karavaḥ aparam ..56..

यो माभिछायमत्येषि मां चाग्निं चान्तरा ।तस्य वृश्चामि ते मूलं न छायां करवोऽपरम् ॥५७॥
यः मा अभिछायम् अत्येषि माम् च अग्निम् च अन्तरा ।तस्य वृश्चामि ते मूलम् न छायाम् करवः अपरम् ॥५७॥
yaḥ mā abhichāyam atyeṣi mām ca agnim ca antarā .tasya vṛścāmi te mūlam na chāyām karavaḥ aparam ..57..

यो अद्य देव सूर्य त्वां च मां चान्तरायति ।दुष्वप्न्यं तस्मिं छमलं दुरितानि च मृज्महे ॥५८॥
यः अद्य देव सूर्य त्वाम् च माम् च अन्तरा आयति ।दुष्वप्न्यम् तस्मिन् शमलम् दुरितानि च मृज्महे ॥५८॥
yaḥ adya deva sūrya tvām ca mām ca antarā āyati .duṣvapnyam tasmin śamalam duritāni ca mṛjmahe ..58..

मा प्र गाम पथो वयं मा यज्ञादिन्द्र सोमिनः ।मान्त स्थुर्नो अरातयः ॥५९॥
मा प्र गाम पथः वयम् मा यज्ञात् इन्द्र सोमिनः ।मा अन्तर् स्थुः नः अरातयः ॥५९॥
mā pra gāma pathaḥ vayam mā yajñāt indra sominaḥ .mā antar sthuḥ naḥ arātayaḥ ..59..

यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः ।तमाहुतमशीमहि ॥६०॥ {६}
यः यज्ञस्य प्रसाधनः तन्तुः देवेषु आततः ।तम् आहुतम् अशीमहि ॥६०॥
yaḥ yajñasya prasādhanaḥ tantuḥ deveṣu ātataḥ .tam āhutam aśīmahi ..60..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In