| |
|

This overlay will guide you through the buttons:

स एति सविता स्वर्दिवस्पृष्ठेऽवचाकशत्॥१॥
सः एति सविता स्वर् दिवः पृष्ठे अवचाकशत्॥१॥
saḥ eti savitā svar divaḥ pṛṣṭhe avacākaśat..1..

रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥२॥
रश्मिभिः नभः आभृतम् महा-इन्द्रः एति आवृतः ॥२॥
raśmibhiḥ nabhaḥ ābhṛtam mahā-indraḥ eti āvṛtaḥ ..2..

स धाता स विधर्ता स वायुर्नभ उच्छ्रितम् ॥३॥
स धाता स विधर्ता स वायुः नभः उच्छ्रितम् ॥३॥
sa dhātā sa vidhartā sa vāyuḥ nabhaḥ ucchritam ..3..

सोऽर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥
सः अर्यमा स वरुणः स रुद्रः स महादेवः ॥४॥
saḥ aryamā sa varuṇaḥ sa rudraḥ sa mahādevaḥ ..4..

सो अग्निः स उ सूर्यः स उ एव महायमः ॥५॥
सः अग्निः सः उ सूर्यः सः उ एव महा-यमः ॥५॥
saḥ agniḥ saḥ u sūryaḥ saḥ u eva mahā-yamaḥ ..5..

तं वत्सा उप तिष्ठन्त्येकशीर्षाणो युता दश ॥६॥
तम् वत्साः उप तिष्ठन्ति एक-शीर्षाणः युताः दश ॥६॥
tam vatsāḥ upa tiṣṭhanti eka-śīrṣāṇaḥ yutāḥ daśa ..6..

पश्चात्प्राञ्च आ तन्वन्ति यदुदेति वि भासति ॥७॥
पश्चात् प्राञ्चः आ तन्वन्ति यत् उदेति वि भासति ॥७॥
paścāt prāñcaḥ ā tanvanti yat udeti vi bhāsati ..7..

तस्यैष मारुतो गणः स एति शिक्याकृतः ॥८॥
तस्य एष मारुतः गणः सः एति शिक्य-कृतः ॥८॥
tasya eṣa mārutaḥ gaṇaḥ saḥ eti śikya-kṛtaḥ ..8..

रश्मिभिर्नभ आभृतं महेन्द्र एत्यावृतः ॥९॥
रश्मिभिः नभः आभृतम् महा-इन्द्रः एति आवृतः ॥९॥
raśmibhiḥ nabhaḥ ābhṛtam mahā-indraḥ eti āvṛtaḥ ..9..

तस्येमे नव कोशा विष्टम्भा नवधा हिताः ॥१०॥
तस्य इमे नव कोशाः विष्टम्भाः नवधा हिताः ॥१०॥
tasya ime nava kośāḥ viṣṭambhāḥ navadhā hitāḥ ..10..

स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥११॥
स प्रजाभ्यः वि पश्यति यत् च प्राणति यत् च न ॥११॥
sa prajābhyaḥ vi paśyati yat ca prāṇati yat ca na ..11..

तमिदं निगतं सहः स एष एक एकवृदेक एव ॥१२॥
तम् इदम् निगतम् सहः सः एषः एकः एकवृत् एकः एव ॥१२॥
tam idam nigatam sahaḥ saḥ eṣaḥ ekaḥ ekavṛt ekaḥ eva ..12..

एते अस्मिन् देवा एकवृतो भवन्ति ॥१३॥ {१५}
एते अस्मिन् देवाः एकवृतः भवन्ति ॥१३॥
ete asmin devāḥ ekavṛtaḥ bhavanti ..13..

कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥१४॥
कीर्तिः च यशः च अम्भः च नभः च ब्राह्मण-वर्चसम् च अन्नम् च अन्नाद्यम् च ॥१४॥
kīrtiḥ ca yaśaḥ ca ambhaḥ ca nabhaḥ ca brāhmaṇa-varcasam ca annam ca annādyam ca ..14..

य एतं देवमेकवृतं वेद ॥१५॥
यः एतम् देवम् एकवृतम् वेद ॥१५॥
yaḥ etam devam ekavṛtam veda ..15..

न द्वितीयो न तृतीयश्चतुर्थो नाप्युच्यते ॥१६॥
न द्वितीयः न तृतीयः चतुर्थः न अपि उच्यते ॥१६॥
na dvitīyaḥ na tṛtīyaḥ caturthaḥ na api ucyate ..16..

न पञ्चमो न षष्ठः सप्तमो नाप्युच्यते ॥१७॥
न पञ्चमः न षष्ठः सप्तमः न अपि उच्यते ॥१७॥
na pañcamaḥ na ṣaṣṭhaḥ saptamaḥ na api ucyate ..17..

नाष्टमो न नवमो दशमो नाप्युच्यते ॥१८॥
न अष्टमः न नवमः दशमः न अपि उच्यते ॥१८॥
na aṣṭamaḥ na navamaḥ daśamaḥ na api ucyate ..18..

स सर्वस्मै वि पश्यति यच्च प्राणति यच्च न ॥१९॥
स सर्वस्मै वि पश्यति यत् च प्राणति यत् च न ॥१९॥
sa sarvasmai vi paśyati yat ca prāṇati yat ca na ..19..

तमिदं निगतं सहः स एष एक एकवृदेक एव ॥२०॥
तम् इदम् निगतम् सहः सः एषः एकः एकवृत् एकः एव ॥२०॥
tam idam nigatam sahaḥ saḥ eṣaḥ ekaḥ ekavṛt ekaḥ eva ..20..

सर्वे अस्मिन् देवा एकवृतो भवन्ति ॥२१॥ {१६}
सर्वे अस्मिन् देवाः एकवृतः भवन्ति ॥२१॥
sarve asmin devāḥ ekavṛtaḥ bhavanti ..21..

ब्रह्म च तपश्च कीर्तिश्च यशश्चाम्भश्च नभश्च ब्राह्मणवर्चसं चान्नं चान्नाद्यं च ॥२२॥
ब्रह्म च तपः च कीर्तिः च यशः च अम्भः च नभः च ब्राह्मण-वर्चसम् च अन्नम् च अन्नाद्यम् च ॥२२॥
brahma ca tapaḥ ca kīrtiḥ ca yaśaḥ ca ambhaḥ ca nabhaḥ ca brāhmaṇa-varcasam ca annam ca annādyam ca ..22..

भूतं च भव्यं च श्रद्धा च रुचिश्च स्वर्गश्च स्वधा च ॥२३॥
भूतम् च भव्यम् च श्रद्धा च रुचिः च स्वर्गः च स्वधा च ॥२३॥
bhūtam ca bhavyam ca śraddhā ca ruciḥ ca svargaḥ ca svadhā ca ..23..

य एतं देवमेकवृतं वेद ॥२४॥
यः एतम् देवम् एकवृतम् वेद ॥२४॥
yaḥ etam devam ekavṛtam veda ..24..

स एव मृत्युः सोऽमृतं सोऽभ्वं स रक्षः ॥२५॥
सः एव मृत्युः सः अमृतम् सः अभ्वम् स रक्षः ॥२५॥
saḥ eva mṛtyuḥ saḥ amṛtam saḥ abhvam sa rakṣaḥ ..25..

स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥२६॥
स रुद्रः वसु-वनिः वसु-देये नमोवाके वषट्कारः अनु संहितः ॥२६॥
sa rudraḥ vasu-vaniḥ vasu-deye namovāke vaṣaṭkāraḥ anu saṃhitaḥ ..26..

तस्येमे सर्वे यातव उप प्रशिषमासते ॥२७॥
तस्य इमे सर्वे यातवः उप प्रशिषम् आसते ॥२७॥
tasya ime sarve yātavaḥ upa praśiṣam āsate ..27..

तस्यामू सर्वा नक्षत्रा वशे चन्द्रमसा सह ॥२८॥ {१७}
तस्य अमू सर्वाः नक्षत्राः वशे चन्द्रमसा सह ॥२८॥
tasya amū sarvāḥ nakṣatrāḥ vaśe candramasā saha ..28..

स वा अह्नोऽजायत तस्मादहरजायत ॥२९॥
स वै अह्नः अजायत तस्मात् अहर् अजायत ॥२९॥
sa vai ahnaḥ ajāyata tasmāt ahar ajāyata ..29..

स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥३०॥
स वै रात्र्याः अजायत तस्मात् रात्रिः अजायत ॥३०॥
sa vai rātryāḥ ajāyata tasmāt rātriḥ ajāyata ..30..

स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥३१॥
स वै अन्तरिक्षात् अजायत तस्मात् अन्तरिक्षम् अजायत ॥३१॥
sa vai antarikṣāt ajāyata tasmāt antarikṣam ajāyata ..31..

स वै वायोरजायत तस्माद्वायुरजायत ॥३२॥
स वै वायोः अजायत तस्मात् वायुः अजायत ॥३२॥
sa vai vāyoḥ ajāyata tasmāt vāyuḥ ajāyata ..32..

स वै दिवोऽजायत तस्माद्द्यौरधि अजायत ॥३३॥
स वै दिवः अजायत तस्मात् द्यौः अधि अजायत ॥३३॥
sa vai divaḥ ajāyata tasmāt dyauḥ adhi ajāyata ..33..

स वै दिग्भ्योऽजायत तस्माद्दिशोऽजायन्त ॥३४॥
स वै दिग्भ्यः अजायत तस्मात् दिशः अजायन्त ॥३४॥
sa vai digbhyaḥ ajāyata tasmāt diśaḥ ajāyanta ..34..

स वै भूमेरजायत तस्माद्भूमिरजायत ॥३५॥
स वै भूमेः अजायत तस्मात् भूमिः अजायत ॥३५॥
sa vai bhūmeḥ ajāyata tasmāt bhūmiḥ ajāyata ..35..

स वा अग्नेरजायत तस्मादग्निरजायत ॥३६॥
स वै अग्नेः अजायत तस्मात् अग्निः अजायत ॥३६॥
sa vai agneḥ ajāyata tasmāt agniḥ ajāyata ..36..

स वा अद्भ्योऽजायत तस्मादापोऽजायन्त ॥३७॥
स वै अद्भ्यः अजायत तस्मात् आपः अजायन्त ॥३७॥
sa vai adbhyaḥ ajāyata tasmāt āpaḥ ajāyanta ..37..

स वा ऋग्भ्योऽजायत तस्मादृचोऽजायन्त ॥३८॥
स वै ऋग्भ्यः अजायत तस्मात् ऋचः अजायन्त ॥३८॥
sa vai ṛgbhyaḥ ajāyata tasmāt ṛcaḥ ajāyanta ..38..

स वै यज्ञादजायत तस्माद्यज्ञोऽजायत ॥३९॥
स वै यज्ञात् अजायत तस्मात् यज्ञः अजायत ॥३९॥
sa vai yajñāt ajāyata tasmāt yajñaḥ ajāyata ..39..

स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥
स यज्ञः तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥४०॥
sa yajñaḥ tasya yajñaḥ sa yajñasya śiraskṛtam ..40..

स स्तनयति स वि द्योतते स उ अश्मानमस्यति ॥४१॥
स स्तनयति स वि द्योतते सः उ अश्मानम् अस्यति ॥४१॥
sa stanayati sa vi dyotate saḥ u aśmānam asyati ..41..

पापाय वा भद्राय वा पुरुषायासुराय वा ॥४२॥
पापाय वा भद्राय वा पुरुषाय असुराय वा ॥४२॥
pāpāya vā bhadrāya vā puruṣāya asurāya vā ..42..

यद्वा कृणोष्योषधीर्यद्वा वर्षसि भद्रया यद्वा जन्यमवीवृधः ॥४३॥
यत् वा कृणोषि ओषधीः यत् वा वर्षसि भद्रया यत् वा जन्यम् अवीवृधः ॥४३॥
yat vā kṛṇoṣi oṣadhīḥ yat vā varṣasi bhadrayā yat vā janyam avīvṛdhaḥ ..43..

तावांस्ते मघवन् महिमोपो ते तन्वः शतम् ॥४४॥
तावान् ते मघवन् महिमा उप उ ते तन्वः शतम् ॥४४॥
tāvān te maghavan mahimā upa u te tanvaḥ śatam ..44..

उपो ते बध्वे बद्धानि यदि वासि न्यर्बुदम् ॥४५॥ {१८}
उप उ ते बध्वे बद्धानि यदि वा असि न्यर्बुदम् ॥४५॥
upa u te badhve baddhāni yadi vā asi nyarbudam ..45..

भूयान् इन्द्रो नमुराद्भूयान् इन्द्रासि मृत्युभ्यः ॥४६॥
भूयान् इन्द्रः नमुरात् भूयान् इन्द्र असि मृत्युभ्यः ॥४६॥
bhūyān indraḥ namurāt bhūyān indra asi mṛtyubhyaḥ ..46..

भूयान् अरात्याः शच्याः पतिस्त्वमिन्द्रासि विभूः प्रभूरिति त्वोपास्महे वयम् ॥४७॥
भूयान् अरात्याः शच्याः पतिः त्वम् इन्द्र असि विभूः प्रभूः इति त्वा उपास्महे वयम् ॥४७॥
bhūyān arātyāḥ śacyāḥ patiḥ tvam indra asi vibhūḥ prabhūḥ iti tvā upāsmahe vayam ..47..

नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥
नमः ते अस्तु पश्यत पश्य मा पश्यत ॥४८॥
namaḥ te astu paśyata paśya mā paśyata ..48..

अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥४९॥
अन्नाद्येन यशसा तेजसा ब्राह्मण-वर्चसेन ॥४९॥
annādyena yaśasā tejasā brāhmaṇa-varcasena ..49..

अम्भो अमो महः सह इति त्वोपास्महे वयम् ॥५०॥
अम्भः अमः महः सहः इति त्वा उपास्महे वयम् ॥५०॥
ambhaḥ amaḥ mahaḥ sahaḥ iti tvā upāsmahe vayam ..50..

अम्भो अरुणं रजतं रजः सह इति त्वोपास्महे वयम् ॥५१॥ {१९}
अम्भः अरुणम् रजतम् रजः सहः इति त्वा उपास्महे वयम् ॥५१॥
ambhaḥ aruṇam rajatam rajaḥ sahaḥ iti tvā upāsmahe vayam ..51..

उरुः पृथुः सुभूर्भुव इति त्वोपास्महे वयम् ॥५२॥
उरुः पृथुः सुभूः भुवः इति त्वा उपास्महे वयम् ॥५२॥
uruḥ pṛthuḥ subhūḥ bhuvaḥ iti tvā upāsmahe vayam ..52..

प्रथो वरो व्यचो लोक इति त्वोपास्महे वयम् ॥५३॥
प्रथः वरः व्यचः लोकः इति त्वा उपास्महे वयम् ॥५३॥
prathaḥ varaḥ vyacaḥ lokaḥ iti tvā upāsmahe vayam ..53..

भवद्वसुरिदद्वसुः संयद्वसुरायद्वसुरिति त्वोपास्महे वयम् ॥५४॥
भवत्-वसुः इदद्वसुः संयत्-वसुः आयत्-वसुः इति त्वा उपास्महे वयम् ॥५४॥
bhavat-vasuḥ idadvasuḥ saṃyat-vasuḥ āyat-vasuḥ iti tvā upāsmahe vayam ..54..

नमस्ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥
नमः ते अस्तु पश्यत पश्य मा पश्यत ॥५५॥
namaḥ te astu paśyata paśya mā paśyata ..55..

अन्नाद्येन यशसा तेजसा ब्राह्मणवर्चसेन ॥५६॥ {२०}
अन्नाद्येन यशसा तेजसा ब्राह्मण-वर्चसेन ॥५६॥
annādyena yaśasā tejasā brāhmaṇa-varcasena ..56..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In