अमावास्या च पौर्णमासी च परिष्कन्दौ मनो विपथं ।मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः। कीर्तिश्च यशश्च पुरःसरावैनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥२॥ ॥१४॥
PADACHEDA
अमावास्या च पौर्णमासी च परिष्कन्दौ मनः विपथम् ।मातरिश्वा च पवमानः च विपथ-वाहौ वातः सारथी रेष्मा प्रतोदः। कीर्तिः च यशः च पुरःसरौ आ एनम् कीर्तिः गच्छति आ यशः गच्छति यः एवम् वेद ॥२॥ ॥१४॥
TRANSLITERATION
amāvāsyā ca paurṇamāsī ca pariṣkandau manaḥ vipatham .mātariśvā ca pavamānaḥ ca vipatha-vāhau vātaḥ sārathī reṣmā pratodaḥ. kīrtiḥ ca yaśaḥ ca puraḥsarau ā enam kīrtiḥ gacchati ā yaśaḥ gacchati yaḥ evam veda ..2.. ..14..
अहश्च रात्री च परिष्कन्दौ मनो विपथं मातरिश्वा च पवमानश्च विपथवाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिश्च यशश्च पुरःसरौ । ऐनं कीर्तिर्गच्छत्या यशो गच्छति य एवं वेद ॥ २० ॥
PADACHEDA
अहर् च रात्री च परिष्कन्दौ मनः विपथम् मातरिश्वा च पवमानः च विपथ-वाहौ वातः सारथी रेष्मा प्रतोदः कीर्तिः च यशः च पुरःसरौ । आ एनम् कीर्तिः गच्छति आ यशः गच्छति यः एवम् वेद ॥ २० ॥
TRANSLITERATION
ahar ca rātrī ca pariṣkandau manaḥ vipatham mātariśvā ca pavamānaḥ ca vipatha-vāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiḥ ca yaśaḥ ca puraḥsarau . ā enam kīrtiḥ gacchati ā yaśaḥ gacchati yaḥ evam veda .. 20 ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.