| |
|

This overlay will guide you through the buttons:

अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।सूतुं सत्यस्य सत्पतिम् ॥१॥
अभि प्र गो-पतिम् गिरा इन्द्रम् अर्च यथा विदे ।सूतुम् सत्यस्य सत्-पतिम् ॥१॥
abhi pra go-patim girā indram arca yathā vide .sūtum satyasya sat-patim ..1..

आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।यत्राभि संनवामहे ॥२॥
आ हरयः ससृज्रिरे अरुषीः अधि बर्हिषि ।यत्र अभि संनवामहे ॥२॥
ā harayaḥ sasṛjrire aruṣīḥ adhi barhiṣi .yatra abhi saṃnavāmahe ..2..

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।यत्सीमुपह्वरे विदत्॥३॥
इन्द्राय गावः आशिरम् दुदुह्रे वज्रिणे मधु ।यत् सीम् उपह्वरे विदत्॥३॥
indrāya gāvaḥ āśiram duduhre vajriṇe madhu .yat sīm upahvare vidat..3..

उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥४॥
उद्यत्-ब्रध्नस्य विष्टपम् गृहम् इन्द्रः च गन्वहि ।मध्वः पीत्वा सचेवहि त्रिस् सप्त सख्युः पदे ॥४॥
udyat-bradhnasya viṣṭapam gṛham indraḥ ca ganvahi .madhvaḥ pītvā sacevahi tris sapta sakhyuḥ pade ..4..

अर्चत प्रार्चत प्रियमेधासो अर्चत ।अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥५॥
अर्चत प्रार्चत प्रियमेधासः अर्चत ।अर्चन्तु पुत्रकाः उत पुरम् न धृष्णु अर्चत ॥५॥
arcata prārcata priyamedhāsaḥ arcata .arcantu putrakāḥ uta puram na dhṛṣṇu arcata ..5..

अव स्वराति गर्गरो गोधा परि सनिष्वणत्।पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥६॥
अव स्वराति गर्गरः गोधा परि सनिष्वणत्।पिङ्गा परि चनिष्कदत् इन्द्राय ब्रह्म उद्यतम् ॥६॥
ava svarāti gargaraḥ godhā pari saniṣvaṇat.piṅgā pari caniṣkadat indrāya brahma udyatam ..6..

आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥७॥
आ यत् पतन्ति एन्यः सु दुघाः अन् अपस्फुरः ।अपस्फुरम् गृभायत सोमम् इन्द्राय पातवे ॥७॥
ā yat patanti enyaḥ su dughāḥ an apasphuraḥ .apasphuram gṛbhāyata somam indrāya pātave ..7..

अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥८॥
अपात् इन्द्रः अपात् अग्निः विश्वे देवाः अमत्सत ।वरुणः इद् इह क्षयत्तम तमा आपः अभ्यनूषत वत्सम् संशिश्वरीः इव ॥८॥
apāt indraḥ apāt agniḥ viśve devāḥ amatsata .varuṇaḥ id iha kṣayattama tamā āpaḥ abhyanūṣata vatsam saṃśiśvarīḥ iva ..8..

सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।अनुक्षरन्ति काकुदं सूर्यं सुषिरामिव ॥९॥
सु देवः असि वरुण यस्य ते सप्त सिन्धवः ।अनुक्षरन्ति काकुदम् सूर्यम् सुषिराम् इव ॥९॥
su devaḥ asi varuṇa yasya te sapta sindhavaḥ .anukṣaranti kākudam sūryam suṣirām iva ..9..

यो व्यतींरफाणयत्सुयुक्तामुप दाशुषे ।तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥१०॥
यः व्यतींरफाणयत् सु युक्ताम् उप दाशुषे ।तक्वः नेता तदिद् वपुः-उपमा यः अमुच्यत ॥१०॥
yaḥ vyatīṃraphāṇayat su yuktām upa dāśuṣe .takvaḥ netā tadid vapuḥ-upamā yaḥ amucyata ..10..

अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥११॥
अतीदु शक्रः ओहते इन्द्रः विश्वाः अति द्विषः ।भिनत्कनीनः ओदनम् पच्यमानम् परस् गिरा ॥११॥
atīdu śakraḥ ohate indraḥ viśvāḥ ati dviṣaḥ .bhinatkanīnaḥ odanam pacyamānam paras girā ..11..

अर्भको न कुमारकोऽधि तिष्ठन्न् अवं रथम् ।स पक्षन् महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥१२॥
अर्भकः न कुमारकः अधि तिष्ठन् अवम् रथम् ।स पक्षत् महिषम् मृगम् पित्रे मात्रे विभु-क्रतुम् ॥१२॥
arbhakaḥ na kumārakaḥ adhi tiṣṭhan avam ratham .sa pakṣat mahiṣam mṛgam pitre mātre vibhu-kratum ..12..

आ तू सुशिप्र दंपते रथं तिष्ठा हिरण्ययम् ।अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥१३॥
आ तू सु शिप्र दंपते रथम् तिष्ठ हिरण्ययम् ।अध द्युक्षम् सचेवहि सहस्र-पादम् अरुषम् स्वस्ति-गाम् अनेहसम् ॥१३॥
ā tū su śipra daṃpate ratham tiṣṭha hiraṇyayam .adha dyukṣam sacevahi sahasra-pādam aruṣam svasti-gām anehasam ..13..

तं घेमित्था नमस्विन उप स्वराजमासते ।अर्थं चिदस्य सुधितं यदेतवे आवर्तयन्ति दावने ॥१४॥
तम् घ ईम् इत्था नमस्विनः उप स्वराजम् आसते ।अर्थम् चित् अस्य सुधितम् यत् एतवे आवर्तयन्ति दावने ॥१४॥
tam gha īm itthā namasvinaḥ upa svarājam āsate .artham cit asya sudhitam yat etave āvartayanti dāvane ..14..

अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥१५॥
अनु प्रत्नस्य ओकसः प्रियमेधासः एषाम् ।पूर्वाम् अनु प्रयतिम् वृक्त-बर्हिषः हित-प्रयसः आशत ॥१५॥
anu pratnasya okasaḥ priyamedhāsaḥ eṣām .pūrvām anu prayatim vṛkta-barhiṣaḥ hita-prayasaḥ āśata ..15..

यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥१६॥
यः राजा चर्षणीनाम् याता रथेभिः अध्रिगुः ।विश्वासाम् तरुता पृतनानाम् ज्येष्ठः यः वृत्र-हा गृणे ॥१६॥
yaḥ rājā carṣaṇīnām yātā rathebhiḥ adhriguḥ .viśvāsām tarutā pṛtanānām jyeṣṭhaḥ yaḥ vṛtra-hā gṛṇe ..16..

इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि ।हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥१७॥
इन्द्रम् तम् शुम्भ पुरु-हन्मन् अवसे यस्य द्विता विधर्तरि ।हस्ताय वज्रः प्रति धायि दर्शतः महः दिवे न सूर्यः ॥१७॥
indram tam śumbha puru-hanman avase yasya dvitā vidhartari .hastāya vajraḥ prati dhāyi darśataḥ mahaḥ dive na sūryaḥ ..17..

नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥१८॥
नकिर् तम् कर्मणा नशत् यः चकार सदावृधम् ।इन्द्रम् न यज्ञैः विश्व-गूर्तम् ऋभ्वसम् अधृष्टम् धृष्णु-ओजसम् ॥१८॥
nakir tam karmaṇā naśat yaḥ cakāra sadāvṛdham .indram na yajñaiḥ viśva-gūrtam ṛbhvasam adhṛṣṭam dhṛṣṇu-ojasam ..18..

अषाल्हमुग्रं पृतनासु सासहिं यस्मिन् महीरुरुज्रयः ।सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥१९॥
अषाल्हम् उग्रम् पृतनासु सासहिम् यस्मिन् महीः उरुज्रयः ।सम् धेनवः जायमाने अनोनवुः द्यावः क्षामः अनोनवुः ॥१९॥
aṣālham ugram pṛtanāsu sāsahim yasmin mahīḥ urujrayaḥ .sam dhenavaḥ jāyamāne anonavuḥ dyāvaḥ kṣāmaḥ anonavuḥ ..19..

यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥२०॥
यत् द्यावः इन्द्र ते शतम् शतम् भूमीः उत स्युः ।न त्वा वज्रिन् सहस्रम् सूर्याः अनु न जातम् अष्ट रोदसी ॥२०॥
yat dyāvaḥ indra te śatam śatam bhūmīḥ uta syuḥ .na tvā vajrin sahasram sūryāḥ anu na jātam aṣṭa rodasī ..20..

आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।अस्मामव मघवन् गोमति व्रजे वज्रिं चित्राभिरूतिभिः ॥२१॥
आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसा ।अस्माम् अव मघवन् गोमति व्रजे वज्रिम् चित्राभिः ऊतिभिः ॥२१॥
ā paprātha mahinā vṛṣṇyā vṛṣan viśvā śaviṣṭha śavasā .asmām ava maghavan gomati vraje vajrim citrābhiḥ ūtibhiḥ ..21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In