| |
|

This overlay will guide you through the buttons:

नव प्राणान् नवभिः सं मिमीते दीर्घायुत्वाय शतशारदाय ।हरिते त्रीणि रजते त्रीण्ययसि त्रीणि तपसाविष्टितानि ॥१॥
नव प्राणान् नवभिः सम् मिमीते दीर्घ-आयु-त्वाय शत-शारदाय ।हरिते त्रीणि रजते त्रीणि अयसि त्रीणि तपसा आविष्टितानि ॥१॥
nava prāṇān navabhiḥ sam mimīte dīrgha-āyu-tvāya śata-śāradāya .harite trīṇi rajate trīṇi ayasi trīṇi tapasā āviṣṭitāni ..1..

अग्निः सूर्यश्चन्द्रमा भूमिरापो द्यौरन्तरिक्षं प्रदिशो दिशश्च ।आर्तवा ऋतुभिः संविदाना अनेन मा त्रिवृता पारयन्तु ॥२॥
अग्निः सूर्यः चन्द्रमाः भूमिः आपः द्यौः अन्तरिक्षम् प्रदिशः दिशः च ।आर्तवाः ऋतुभिः संविदानाः अनेन मा त्रिवृता पारयन्तु ॥२॥
agniḥ sūryaḥ candramāḥ bhūmiḥ āpaḥ dyauḥ antarikṣam pradiśaḥ diśaḥ ca .ārtavāḥ ṛtubhiḥ saṃvidānāḥ anena mā trivṛtā pārayantu ..2..

त्रयः पोषास्त्रिवृति श्रयन्तामनक्तु पूषा पयसा घृतेन ।अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनां त इह श्रयन्ताम् ॥३॥
त्रयः पोषाः त्रिवृति श्रयन्ताम् अनक्तु पूषा पयसा घृतेन ।अन्नस्य भूमा पुरुषस्य भूमा भूमा पशूनाम् ते इह श्रयन्ताम् ॥३॥
trayaḥ poṣāḥ trivṛti śrayantām anaktu pūṣā payasā ghṛtena .annasya bhūmā puruṣasya bhūmā bhūmā paśūnām te iha śrayantām ..3..

इममादित्या वसुना समुक्षतेममग्ने वर्धय ववृधानः ।इममिन्द्र सं सृज वीर्येणास्मिन् त्रिवृच्छ्रयतां पोषयिष्णु ॥४॥
इमम् आदित्याः वसुना समुक्षत इमम् अग्ने वर्धय ववृधानः ।इमम् इन्द्र सम् सृज वीर्येण अस्मिन् त्रिवृत् श्रयताम् पोषयिष्णु ॥४॥
imam ādityāḥ vasunā samukṣata imam agne vardhaya vavṛdhānaḥ .imam indra sam sṛja vīryeṇa asmin trivṛt śrayatām poṣayiṣṇu ..4..

भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः ।वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥५॥
भूमिः त्वा पातु हरितेन विश्व-भृत् अग्निः पिपर्तु अयसा सजोषाः ।वीरुद्भिः ते अर्जुनम् संविदानम् दक्षम् दधातु सुमनस्यमानम् ॥५॥
bhūmiḥ tvā pātu haritena viśva-bhṛt agniḥ pipartu ayasā sajoṣāḥ .vīrudbhiḥ te arjunam saṃvidānam dakṣam dadhātu sumanasyamānam ..5..

त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्।अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥६॥
त्रेधा जातम् जन्मना इदम् हिरण्यम् अग्नेः एकम् प्रियतमम् बभूव सोमस्य एकम् हिंसितस्य परापतत्।अपाम् एकम् वेधसाम् रेतः आहुः तत् ते हिरण्यम् त्रिवृत् अस्तु आयुषे ॥६॥
tredhā jātam janmanā idam hiraṇyam agneḥ ekam priyatamam babhūva somasya ekam hiṃsitasya parāpatat.apām ekam vedhasām retaḥ āhuḥ tat te hiraṇyam trivṛt astu āyuṣe ..6..

त्र्यायुषं जमदग्नेः कश्यपस्य त्र्यायुषम् ।त्रेधामृतस्य चक्षणं त्रीण्यायूंषि तेऽकरम् ॥७॥
त्रि-आयुषम् जमदग्नेः कश्यपस्य त्रि-आयुषम् ।त्रेधा अमृतस्य चक्षणम् त्रीणि आयूंषि ते अकरम् ॥७॥
tri-āyuṣam jamadagneḥ kaśyapasya tri-āyuṣam .tredhā amṛtasya cakṣaṇam trīṇi āyūṃṣi te akaram ..7..

त्रयः सुपर्णास्त्रिवृता यदायन्न् एकाक्षरमभिसंभूय शक्राः ।प्रत्यौहन् मृत्युममृतेन साकमन्तर्दधाना दुरितानि विश्वा ॥८॥
त्रयः सुपर्णाः त्रिवृताः यदा आयन् एक-अक्षरम् अभिसंभूय शक्राः ।प्रत्यौहत् मृत्युम् अमृतेन साकम् अन्तर्दधानाः दुरितानि विश्वा ॥८॥
trayaḥ suparṇāḥ trivṛtāḥ yadā āyan eka-akṣaram abhisaṃbhūya śakrāḥ .pratyauhat mṛtyum amṛtena sākam antardadhānāḥ duritāni viśvā ..8..

दिवस्त्वा पातु हरितं मध्यात्त्वा पात्वर्जुनम् ।भूम्या अयस्मयं पातु प्रागाद्देवपुरा अयम् ॥९॥
दिवः त्वा पातु हरितम् मध्यात् त्वा पातु अर्जुनम् ।भूम्याः अयस्मयम् पातु प्रागात् देव-पुरा अयम् ॥९॥
divaḥ tvā pātu haritam madhyāt tvā pātu arjunam .bhūmyāḥ ayasmayam pātu prāgāt deva-purā ayam ..9..

इमास्तिस्रो देवपुरास्तास्त्वा रक्षन्तु सर्वतः ।तास्त्वं बिभ्रद्वर्चस्व्युत्तरो द्विषतां भव ॥१०॥
इमाः तिस्रः देव-पुराः ताः त्वा रक्षन्तु सर्वतस् ।ताः त्वम् बिभ्रत् वर्चस्वी उत्तरः द्विषताम् भव ॥१०॥
imāḥ tisraḥ deva-purāḥ tāḥ tvā rakṣantu sarvatas .tāḥ tvam bibhrat varcasvī uttaraḥ dviṣatām bhava ..10..

पुरं देवानाममृतं हिरण्यं य आबेधे प्रथमो देवो अग्रे ।तस्मै नमो दश प्राचीः कृणोम्यनु मन्यतां त्रिवृदाबधे मे ॥११॥
पुरम् देवानाम् अमृतम् हिरण्यम् यः आबेधे प्रथमः देवः अग्रे ।तस्मै नमः दश प्राचीः कृणोमि अनु मन्यताम् त्रिवृत् आबधे मे ॥११॥
puram devānām amṛtam hiraṇyam yaḥ ābedhe prathamaḥ devaḥ agre .tasmai namaḥ daśa prācīḥ kṛṇomi anu manyatām trivṛt ābadhe me ..11..

आ त्वा चृतत्वर्यमा पूषा बृहस्पतिः ।अहर्जातस्य यन् नाम तेन त्वाति चृतामसि ॥१२॥
आ त्वा चृततु अर्यमा पूषा बृहस्पतिः ।अहर्-जातस्य यत् नाम तेन त्वा अति चृतामसि ॥१२॥
ā tvā cṛtatu aryamā pūṣā bṛhaspatiḥ .ahar-jātasya yat nāma tena tvā ati cṛtāmasi ..12..

ऋतुभिष्ट्वार्तवैरायुषे वर्चसे त्वा ।संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥
ऋतुभिः त्वा आर्तवैः आयुषे वर्चसे त्वा ।संवत्सरस्य तेजसा तेन संहनु कृण्मसि ॥१३॥
ṛtubhiḥ tvā ārtavaiḥ āyuṣe varcase tvā .saṃvatsarasya tejasā tena saṃhanu kṛṇmasi ..13..

घृतादुल्लुप्तं मधुना समक्तं भूमिदृंहमच्युतं पारयिष्णु ।भिन्दत्सपत्नान् अधरांश्च कृण्वदा मा रोह महते सौभगाय ॥१४॥
घृतात् उल्लुप्तम् मधुना समक्तम् भूमिदृंहम् अच्युतम् पारयिष्णु ।भिन्दत्-सपत्नान् अधरान् च कृण्व-दाः मा रोह महते सौभगाय ॥१४॥
ghṛtāt ulluptam madhunā samaktam bhūmidṛṃham acyutam pārayiṣṇu .bhindat-sapatnān adharān ca kṛṇva-dāḥ mā roha mahate saubhagāya ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In