| |
|

This overlay will guide you through the buttons:

सूत उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । धर्मज्ञौ तौ महावीर्यौ शतरूपा व्यजीजनत् ॥ १४.१॥
प्रियव्रत-उत्तानपादौ मनोः स्वायंभुवस्य तु । धर्म-ज्ञौ तौ महा-वीर्यौ शतरूपा व्यजीजनत् ॥ १४।१॥
priyavrata-uttānapādau manoḥ svāyaṃbhuvasya tu . dharma-jñau tau mahā-vīryau śatarūpā vyajījanat .. 14.1..
ततस्तूत्तानपादस्य ध्रुवो नाम सुतोऽभवत् । भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ॥ १४.२॥
ततस् तु उत्तानपादस्य ध्रुवः नाम सुतः अभवत् । भक्तः नारायणे देवे प्राप्तवान् स्थानम् उत्तमम् ॥ १४।२॥
tatas tu uttānapādasya dhruvaḥ nāma sutaḥ abhavat . bhaktaḥ nārāyaṇe deve prāptavān sthānam uttamam .. 14.2..
ध्रुवात् सृष्टिंच भाव्यं च भार्या शम्भुर्व्यजायत । श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ॥ १४.३॥
ध्रुवात् भाव्यम् च भार्या शम्भुः व्यजायत । श्लिष्टेः आधत्त सुच्छाया पञ्च पुत्रान् अकल्पषान् ॥ १४।३॥
dhruvāt bhāvyam ca bhāryā śambhuḥ vyajāyata . śliṣṭeḥ ādhatta succhāyā pañca putrān akalpaṣān .. 14.3..
वसिष्ठवचनाद् देवी तपस्तप्त्वा सुदुश्चरम् । आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ॥ १४.४॥
वसिष्ठ-वचनात् देवी तपः तप्त्वा सु दुश्चरम् । आराध्य पुरुषम् विष्णुम् शालग्रामे जनार्दनम् ॥ १४।४॥
vasiṣṭha-vacanāt devī tapaḥ taptvā su duścaram . ārādhya puruṣam viṣṇum śālagrāme janārdanam .. 14.4..
रिपुं रिपुंजयं विप्रं वृकलं वृषतेजसम् । नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ॥ १४.५॥
रिपुम् रिपुंजयम् विप्रम् वृकलम् वृषतेजसम् । नारायण-परान् शुद्धान् स्वधर्म-परिपालकान् ॥ १४।५॥
ripum ripuṃjayam vipram vṛkalam vṛṣatejasam . nārāyaṇa-parān śuddhān svadharma-paripālakān .. 14.5..
रिपोराधत्त महिषी चाक्षुषं सर्वतेजसम् । सोऽजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषं मनुम् ॥ १४.६॥
रिपोः आधत्त महिषी चाक्षुषम् सर्वतेजसम् । सः अजीजनत् पुष्करिण्याम् वैरण्याम् चाक्षुषम् मनुम् ॥ १४।६॥
ripoḥ ādhatta mahiṣī cākṣuṣam sarvatejasam . saḥ ajījanat puṣkariṇyām vairaṇyām cākṣuṣam manum .. 14.6..
प्रजापतेरात्मजायां वीरणस्य महात्मनः । मनोरजायन्त दश नकुलायां महौजसः ॥ १४.७॥
प्रजापतेः आत्मजायाम् वीरणस्य महात्मनः । मनोः अजायन्त दश नकुलायाम् महा-ओजसः ॥ १४।७॥
prajāpateḥ ātmajāyām vīraṇasya mahātmanaḥ . manoḥ ajāyanta daśa nakulāyām mahā-ojasaḥ .. 14.7..
कन्यायां सुमहावीर्यो वैराजस्य प्रजापतेः । ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् शुचिः ॥ १४.८॥
कन्यायाम् सु महा-वीर्यः वैराजस्य प्रजापतेः । ऊरुः पूरुः शतद्युम्नः तपस्वी सत्य-वाच् शुचिः ॥ १४।८॥
kanyāyām su mahā-vīryaḥ vairājasya prajāpateḥ . ūruḥ pūruḥ śatadyumnaḥ tapasvī satya-vāc śuciḥ .. 14.8..
अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः । ऊरोरजनयत् पुत्रान् षडाग्नेयी महाबलान् ॥ १४.९॥
अग्निष्टुत् अतिरात्रः च सुद्युम्नः च अभिमन्युकः । ऊरोः अजनयत् पुत्रान् षट् आग्नेयी महा-बलान् ॥ १४।९॥
agniṣṭut atirātraḥ ca sudyumnaḥ ca abhimanyukaḥ . ūroḥ ajanayat putrān ṣaṭ āgneyī mahā-balān .. 14.9..
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् । अङ्गाद् वेनोऽभवत् पश्चाद् वैन्यो वेनादजायत ॥ १४.१॥
अङ्गम् सुमनसम् स्वातिम् क्रतुम् अङ्गिरसम् शिवम् । अङ्गात् वेनः अभवत् पश्चात् वैन्यः वेनात् अजायत ॥ १४।१॥
aṅgam sumanasam svātim kratum aṅgirasam śivam . aṅgāt venaḥ abhavat paścāt vainyaḥ venāt ajāyata .. 14.1..
योऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः । येन दुग्धा मही पूर्वं प्राजानां हितकारणात् ॥ १४.११॥
यः असौ पृथुः इति ख्यातः प्रजापालः महा-बलः । येन दुग्धा मही पूर्वम् प्राजानाम् हित-कारणात् ॥ १४।११॥
yaḥ asau pṛthuḥ iti khyātaḥ prajāpālaḥ mahā-balaḥ . yena dugdhā mahī pūrvam prājānām hita-kāraṇāt .. 14.11..
नियोगाद् ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसा । वेनपुत्रस्य वितते पुरा पैतामहे मखे ॥ १४.१२॥
नियोगात् ब्रह्मणः सार्द्धम् देवेन्द्रेण महा-ओजसा । वेन-पुत्रस्य वितते पुरा पैतामहे मखे ॥ १४।१२॥
niyogāt brahmaṇaḥ sārddham devendreṇa mahā-ojasā . vena-putrasya vitate purā paitāmahe makhe .. 14.12..
सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः । प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः ॥ १४.१३॥
सूतः पौराणिकः जज्ञे माया-रूपः स्वयम् हरिः । प्रवक्ता सर्व-शास्त्राणाम् धर्म-ज्ञः गुण-वत्सलः ॥ १४।१३॥
sūtaḥ paurāṇikaḥ jajñe māyā-rūpaḥ svayam hariḥ . pravaktā sarva-śāstrāṇām dharma-jñaḥ guṇa-vatsalaḥ .. 14.13..
तं मां वित्त मुनिश्रेष्ठाः पूर्वोद्भूतं सनातनम् । अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ॥ १४.१४॥
तम् माम् वित्त मुनि-श्रेष्ठाः पूर्व-उद्भूतम् सनातनम् । अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ॥ १४।१४॥
tam mām vitta muni-śreṣṭhāḥ pūrva-udbhūtam sanātanam . asmin manvantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam .. 14.14..
श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः । मदन्वये तु ये सूताः संभूता वेदवर्जिताः ॥ १४.१५॥
श्रावयामास माम् प्रीत्या पुराणम् पुरुषः हरिः । मद्-अन्वये तु ये सूताः संभूताः वेद-वर्जिताः ॥ १४।१५॥
śrāvayāmāsa mām prītyā purāṇam puruṣaḥ hariḥ . mad-anvaye tu ye sūtāḥ saṃbhūtāḥ veda-varjitāḥ .. 14.15..
तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया । स तु वैन्यः पृथुर्धीमान् सत्यसंधो जितेन्द्रियः ॥ १४.१६॥
तेषाम् पुराण-वक्तृ-त्वम् वृत्तिः आसीत् अज-आज्ञया । स तु वैन्यः पृथुः धीमान् सत्य-संधः जित-इन्द्रियः ॥ १४।१६॥
teṣām purāṇa-vaktṛ-tvam vṛttiḥ āsīt aja-ājñayā . sa tu vainyaḥ pṛthuḥ dhīmān satya-saṃdhaḥ jita-indriyaḥ .. 14.16..
सार्वभौमो महातेजाः स्वधर्मपरिपालकः । तस्य बाल्यात् प्रभृत्येव भक्तिर्नारायणेऽभवत् ॥ १४.१७॥
। तस्य बाल्यात् प्रभृति एव भक्तिः नारायणे अभवत् ॥ १४।१७॥
. tasya bālyāt prabhṛti eva bhaktiḥ nārāyaṇe abhavat .. 14.17..
गोवर्धनगिरिं प्राप्तः तपस्तेपे जितेन्द्रियः । तपसा भगवान्प्रीतः शङ्खचक्रगदाधरः ॥ १४.१८॥
गोवर्धन-गिरिम् प्राप्तः तपः तेपे जित-इन्द्रियः । तपसा भगवान् प्रीतः शङ्ख-चक्र-गदा-धरः ॥ १४।१८॥
govardhana-girim prāptaḥ tapaḥ tepe jita-indriyaḥ . tapasā bhagavān prītaḥ śaṅkha-cakra-gadā-dharaḥ .. 14.18..
आगत्य देवो राजानं प्राह दामोदरः स्वयम् । ध्रमिकौ रूपसंपन्नौ सर्वशस्त्रभृतां वरौ ॥ १४.१९॥
आगत्य देवः राजानम् प्राह दामोदरः स्वयम् । ध्रमिकौ रूप-संपन्नौ सर्व-शस्त्रभृताम् वरौ ॥ १४।१९॥
āgatya devaḥ rājānam prāha dāmodaraḥ svayam . dhramikau rūpa-saṃpannau sarva-śastrabhṛtām varau .. 14.19..
मत्प्रसादादसंदिग्धौ पुत्रौ तव भविष्यतः । एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ॥ १४.२॥
मद्-प्रसादात् असंदिग्धौ पुत्रौ तव भविष्यतः । एकम् उक्त्वा हृषीकेशः स्वकीयाम् प्रकृतिम् गतः ॥ १४।२॥
mad-prasādāt asaṃdigdhau putrau tava bhaviṣyataḥ . ekam uktvā hṛṣīkeśaḥ svakīyām prakṛtim gataḥ .. 14.2..
वैन्योऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् । सोऽपालयत् स्वकं राज्यं न्यायेन मधुसूदनम् ॥ १४.२१॥
वैन्यः अपि वेद-विधिना निश्चलाम् भक्तिम् उद्वहन् । सः अपालयत् स्वकम् राज्यम् न्यायेन मधुसूदनम् ॥ १४।२१॥
vainyaḥ api veda-vidhinā niścalām bhaktim udvahan . saḥ apālayat svakam rājyam nyāyena madhusūdanam .. 14.21..
अचिरादेव तन्वङ्गी भार्या तस्य शुचिस्मिता । खिखण्डिनं हविर्द्धानमन्तर्द्धानात् व्यजायत ॥ १४.२२॥
अचिरात् एव तन्वङ्गी भार्या तस्य शुचि-स्मिता । खिखण्डिनम् हविर्द्धानम् अन्तर्द्धानात् व्यजायत ॥ १४।२२॥
acirāt eva tanvaṅgī bhāryā tasya śuci-smitā . khikhaṇḍinam havirddhānam antarddhānāt vyajāyata .. 14.22..
शिखण्डनोऽभवत् पुत्रः सुशील इति विश्रुतः । धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः ॥ १४.२३॥
शिखण्डनः अभवत् पुत्रः सुशीलः इति विश्रुतः । धार्मिकः रूप-संपन्नः वेद-वेदाङ्ग-पारगः ॥ १४।२३॥
śikhaṇḍanaḥ abhavat putraḥ suśīlaḥ iti viśrutaḥ . dhārmikaḥ rūpa-saṃpannaḥ veda-vedāṅga-pāragaḥ .. 14.23..
सोऽधीत्य विधिवद् वेदान् धर्मेण तपसि स्थितः । मतिं चक्रे भाग्ययोगात् संन्यांसं प्रति धर्मवित् ॥ १४.२४॥
सः अधीत्य विधिवत् वेदान् धर्मेण तपसि स्थितः । मतिम् चक्रे भाग्य-योगात् संन्यांसम् प्रति धर्म-विद् ॥ १४।२४॥
saḥ adhītya vidhivat vedān dharmeṇa tapasi sthitaḥ . matim cakre bhāgya-yogāt saṃnyāṃsam prati dharma-vid .. 14.24..
स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः । जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ॥ १४.२५॥
स कृत्वा तीर्थ-संसेवाम् स्वाध्याये तपसि स्थितः । जगाम हिमवत्-पृष्ठम् कदाचिद् सिद्ध-सेवितम् ॥ १४।२५॥
sa kṛtvā tīrtha-saṃsevām svādhyāye tapasi sthitaḥ . jagāma himavat-pṛṣṭham kadācid siddha-sevitam .. 14.25..
तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् । अपश्यद् योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ॥ १४.२६॥
तत्र धर्मपदम् नाम धर्म-सिद्धि-प्रदम् वनम् । अपश्यत् योगिनाम् गम्यम् अगम्यम् ब्रह्म-विद्विषाम् ॥ १४।२६॥
tatra dharmapadam nāma dharma-siddhi-pradam vanam . apaśyat yoginām gamyam agamyam brahma-vidviṣām .. 14.26..
तत्र मन्दाकिनी नाम सुपुण्या विमला नदी । पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ॥ १४.२७॥
तत्र मन्दाकिनी नाम सु पुण्या विमला नदी । पद्म-उत्पल-वन-उपेता सिद्ध-आश्रम-विभूषिता ॥ १४।२७॥
tatra mandākinī nāma su puṇyā vimalā nadī . padma-utpala-vana-upetā siddha-āśrama-vibhūṣitā .. 14.27..
स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्युतम् । सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः ॥ १४.२८॥
स तस्याः दक्षिणे तीरे मुनि-इन्द्रैः योगिभिः युतम् । सु पुण्यम् आश्रमम् रम्यम् अपश्यत् प्रीति-संयुतः ॥ १४।२८॥
sa tasyāḥ dakṣiṇe tīre muni-indraiḥ yogibhiḥ yutam . su puṇyam āśramam ramyam apaśyat prīti-saṃyutaḥ .. 14.28..
मन्दाकिनीजले स्नात्वा संतर्प्य पितृदेवताः । अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ॥ १४.२९॥
मन्दाकिनी-जले स्नात्वा संतर्प्य पितृ-देवताः । अर्चयित्वा महादेवम् पुष्पैः पद्म-उत्पल-आदिभिः ॥ १४।२९॥
mandākinī-jale snātvā saṃtarpya pitṛ-devatāḥ . arcayitvā mahādevam puṣpaiḥ padma-utpala-ādibhiḥ .. 14.29..
ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय चाञ्जलिम् । संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ॥ १४.३॥
ध्यात्वा अर्कम् संस्थम् ईशानम् शिरसि आधाय च अञ्जलिम् । संप्रेक्षमाणः भास्वन्तम् तुष्टाव परमेश्वरम् ॥ १४।३॥
dhyātvā arkam saṃstham īśānam śirasi ādhāya ca añjalim . saṃprekṣamāṇaḥ bhāsvantam tuṣṭāva parameśvaram .. 14.3..
रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च । अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः ॥ १४.३१॥
रुद्राध्यायेन गिरिशम् रुद्रस्य चरितेन च । अन्यैः च विविधैः स्तोत्रैः शांभवैः वेद-संभवैः ॥ १४।३१॥
rudrādhyāyena giriśam rudrasya caritena ca . anyaiḥ ca vividhaiḥ stotraiḥ śāṃbhavaiḥ veda-saṃbhavaiḥ .. 14.31..
अथास्मिन्नन्तरेऽपश्यत् तमायान्तं महामुनिम् । श्वेताश्वतरनामानं महापाशुपतोत्तमम् ॥ १४.३२॥
अथ अस्मिन् अन्तरे अपश्यत् तम् आयान्तम् महा-मुनिम् । श्वेताश्वतर-नामानम् महा-पाशुपत-उत्तमम् ॥ १४।३२॥
atha asmin antare apaśyat tam āyāntam mahā-munim . śvetāśvatara-nāmānam mahā-pāśupata-uttamam .. 14.32..
भस्मसंदिग्धसवाङ्गं कौपीनाच्छादनान्वितम् । तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ॥ १४.३३॥
भस्म-संदिग्ध-सव-अङ्गम् कौपीन-आच्छादन-अन्वितम् । तपसा कर्षित-आत्मानम् शुक्ल-यज्ञ-उपवीतिनम् ॥ १४।३३॥
bhasma-saṃdigdha-sava-aṅgam kaupīna-ācchādana-anvitam . tapasā karṣita-ātmānam śukla-yajña-upavītinam .. 14.33..
समाप्य संस्तवं शंभोरानन्दास्राविलेक्षणः । ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ॥ १४.३४॥
समाप्य संस्तवम् शंभोः आनन्द-अस्र-आविल-ईक्षणः । ववन्दे शिरसा पादौ प्राञ्जलिः वाक्यम् अब्रवीत् ॥ १४।३४॥
samāpya saṃstavam śaṃbhoḥ ānanda-asra-āvila-īkṣaṇaḥ . vavande śirasā pādau prāñjaliḥ vākyam abravīt .. 14.34..
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे साक्षान्मुनीश्वरः । योगीश्वरोऽद्य भगवान् दृष्टो योगविदां वरः ॥ १४.३५॥
धन्यः अस्मि अनुगृहीतः अस्मि यत् मे साक्षात् मुनि-ईश्वरः । योगि-ईश्वरः अद्य भगवान् दृष्टः योग-विदाम् वरः ॥ १४।३५॥
dhanyaḥ asmi anugṛhītaḥ asmi yat me sākṣāt muni-īśvaraḥ . yogi-īśvaraḥ adya bhagavān dṛṣṭaḥ yoga-vidām varaḥ .. 14.35..
अहो मे सुमहद्भाग्यं तपांसि सफलानि मे । किं करिष्यामि शिष्योऽहं तव मां पालयानघ ॥ १४.३६॥
अहो मे सु महत् भाग्यम् तपांसि सफलानि मे । किम् करिष्यामि शिष्यः अहम् तव माम् पालय अनघ ॥ १४।३६॥
aho me su mahat bhāgyam tapāṃsi saphalāni me . kim kariṣyāmi śiṣyaḥ aham tava mām pālaya anagha .. 14.36..
सोऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् । शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ॥ १४.३७॥
सः अनुगृह्य अथ राजानम् सुशीलम् शील-संयुतम् । शिष्य-त्वे परिजग्राह तपसा क्षीण-कल्पषम् ॥ १४।३७॥
saḥ anugṛhya atha rājānam suśīlam śīla-saṃyutam . śiṣya-tve parijagrāha tapasā kṣīṇa-kalpaṣam .. 14.37..
सांन्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः । ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ॥ १४.३८॥
सांन्यासिकम् विधिम् कृत्स्नम् कारयित्वा विचक्षणः । ददौ तदा ऐश्वरम् ज्ञानम् स्व-शाखा-विहितम् व्रतम् ॥ १४।३८॥
sāṃnyāsikam vidhim kṛtsnam kārayitvā vicakṣaṇaḥ . dadau tadā aiśvaram jñānam sva-śākhā-vihitam vratam .. 14.38..
अशेषवेदसारं तत् पशुपाशविमोचनम् । अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ॥ १४.३९॥
अशेष-वेद-सारम् तत् पशु-पाश-विमोचनम् । अन्त्याश्रमम् इति ख्यातम् ब्रह्म-आदिभिः अनुष्ठितम् ॥ १४।३९॥
aśeṣa-veda-sāram tat paśu-pāśa-vimocanam . antyāśramam iti khyātam brahma-ādibhiḥ anuṣṭhitam .. 14.39..
उवाच शिष्यान् संप्रेक्ष्य ये तदाश्रमवासिनः । ब्राह्मणाः क्षत्रियाः वैश्याः ब्रह्मचर्यपरायणाः ॥ १४.४॥
उवाच शिष्यान् संप्रेक्ष्य ये तद्-आश्रम-वासिनः । ब्राह्मणाः क्षत्रियाः वैश्याः ब्रह्मचर्य-परायणाः ॥ १४।४॥
uvāca śiṣyān saṃprekṣya ye tad-āśrama-vāsinaḥ . brāhmaṇāḥ kṣatriyāḥ vaiśyāḥ brahmacarya-parāyaṇāḥ .. 14.4..
मया प्रवर्त्तितां शाखामधीत्यैवेह योगिनः । समासते महादेवं ध्यायन्तो निष्कलं शिवम् ॥ १४.४१॥
मया प्रवर्त्तिताम् शाखाम् अधीत्य एवा इह योगिनः । समासते महादेवम् ध्यायन्तः निष्कलम् शिवम् ॥ १४।४१॥
mayā pravarttitām śākhām adhītya evā iha yoginaḥ . samāsate mahādevam dhyāyantaḥ niṣkalam śivam .. 14.41..
इह देवो महादेवो रममाणः सहोमया । अध्यास्ते भगवानीशो भक्तानामनुकम्पया ॥ १४.४२॥
इह देवः महादेवः रममाणः सह उमया । अध्यास्ते भगवान् ईशः भक्तानाम् अनुकम्पया ॥ १४।४२॥
iha devaḥ mahādevaḥ ramamāṇaḥ saha umayā . adhyāste bhagavān īśaḥ bhaktānām anukampayā .. 14.42..
इहाशेषजगद्धाता पुरा नारायणः स्वयम् । आराधयन्महादेवं लोकानां हितकाम्यया ॥ १४.४३॥
इह अशेष-जगत्-धाता पुरा नारायणः स्वयम् । आराधयत् महादेवम् लोकानाम् हित-काम्यया ॥ १४।४३॥
iha aśeṣa-jagat-dhātā purā nārāyaṇaḥ svayam . ārādhayat mahādevam lokānām hita-kāmyayā .. 14.43..
इहैनं देवमीशानं देवानामपि दैवतम् । आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ॥ १४.४४॥
इह एनम् देवम् ईशानम् देवानाम् अपि दैवतम् । आराध्य महतीम् सिद्धिम् लेभिरे देव-दानवाः ॥ १४।४४॥
iha enam devam īśānam devānām api daivatam . ārādhya mahatīm siddhim lebhire deva-dānavāḥ .. 14.44..
इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् । दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ॥ १४.४५॥
इह एव मुनयः पूर्वम् मरीचि-आद्याः महेश्वरम् । दृष्ट्वा तपः-बलात् ज्ञानम् लेभिरे सार्वकालिकम् ॥ १४।४५॥
iha eva munayaḥ pūrvam marīci-ādyāḥ maheśvaram . dṛṣṭvā tapaḥ-balāt jñānam lebhire sārvakālikam .. 14.45..
तस्मात् त्वमपि राजेन्द्र तपोयोगसमन्वितः । तिष्ठ नित्यं मया सार्द्धं ततः सिद्धिमवाप्स्यसि ॥ १४.४६॥
तस्मात् त्वम् अपि राज-इन्द्र तपः-योग-समन्वितः । तिष्ठ नित्यम् मया सार्द्धम् ततस् सिद्धिम् अवाप्स्यसि ॥ १४।४६॥
tasmāt tvam api rāja-indra tapaḥ-yoga-samanvitaḥ . tiṣṭha nityam mayā sārddham tatas siddhim avāpsyasi .. 14.46..
एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् । आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ॥ १४.४७॥
एवम् आभाष्य विप्र-इन्द्रः देवम् ध्यात्वा पिनाकिनम् । आचचक्षे महा-मन्त्रम् यथावत् स्व-अर्थ-सिद्धये ॥ १४।४७॥
evam ābhāṣya vipra-indraḥ devam dhyātvā pinākinam . ācacakṣe mahā-mantram yathāvat sva-artha-siddhaye .. 14.47..
सर्वपापोपशमनं वेदसारं विमुक्तिदम् । अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम् ॥ १४.४८॥
। अग्निः इति आदिकम् पुण्यम् ऋषिभिः संप्रवर्तितम् ॥ १४।४८॥
. agniḥ iti ādikam puṇyam ṛṣibhiḥ saṃpravartitam .. 14.48..
सोऽपि तद्वचनाद् राजा सुशीलः श्रद्धयान्वितः । साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतोऽभवत् ॥ १४.४९॥
सः अपि तद्-वचनात् राजा सुशीलः श्रद्धया अन्वितः । साक्षात् पाशुपतः भूत्वा वेद-अभ्यास-रतः अभवत् ॥ १४।४९॥
saḥ api tad-vacanāt rājā suśīlaḥ śraddhayā anvitaḥ . sākṣāt pāśupataḥ bhūtvā veda-abhyāsa-rataḥ abhavat .. 14.49..
भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः । शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः ॥ १४.५॥
भस्म-उद्धूलित-सर्व-अङ्गः कन्द-मूल-फल-अशनः । शान्तः दान्तः जित-क्रोधः संन्यास-विधिम् आश्रितः ॥ १४।५॥
bhasma-uddhūlita-sarva-aṅgaḥ kanda-mūla-phala-aśanaḥ . śāntaḥ dāntaḥ jita-krodhaḥ saṃnyāsa-vidhim āśritaḥ .. 14.5..
हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् । प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ॥ १४.५१॥
हविर्धानः तथा आग्नेय्याम् जनयामास सत्-सुतम् । प्राचीनबर्हिषम् नाम्ना धनुर्वेदस्य पारगम् ॥ १४।५१॥
havirdhānaḥ tathā āgneyyām janayāmāsa sat-sutam . prācīnabarhiṣam nāmnā dhanurvedasya pāragam .. 14.51..
प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः । समुद्रतनयायां वै दश पुत्रानजीजनत् ॥ १४.५२॥
प्राचीनबर्हिः-भागवान् सर्व-शस्त्रभृताम् वरः । समुद्र-तनयायाम् वै दश पुत्रान् अजीजनत् ॥ १४।५२॥
prācīnabarhiḥ-bhāgavān sarva-śastrabhṛtām varaḥ . samudra-tanayāyām vai daśa putrān ajījanat .. 14.52..
प्रचेतसस्ते विख्याता राजानः प्रथितैजसः । अधीतवन्तः स्वं वेदं नारायणपरायणाः ॥ १४.५३॥
प्रचेतसः ते विख्याताः राजानः प्रथित-ऐजसः । अधीतवन्तः स्वम् वेदम् नारायण-परायणाः ॥ १४।५३॥
pracetasaḥ te vikhyātāḥ rājānaḥ prathita-aijasaḥ . adhītavantaḥ svam vedam nārāyaṇa-parāyaṇāḥ .. 14.53..
दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ॥ १४.५४॥
दशभ्यः तु प्रचेतोभ्यः मारिषायाम् प्रजापतिः । दक्षः जज्ञे महाभागः यः पूर्वम् ब्रह्मणः सुतः ॥ १४।५४॥
daśabhyaḥ tu pracetobhyaḥ māriṣāyām prajāpatiḥ . dakṣaḥ jajñe mahābhāgaḥ yaḥ pūrvam brahmaṇaḥ sutaḥ .. 14.54..
स तु दक्षो महेशेन रुद्रेण सह धीमता । कृत्वा विवादं रुद्रेण शप्तः प्राचेतसोऽभवत् ॥ १४.५५॥
स तु दक्षः महेशेन रुद्रेण सह धीमता । कृत्वा विवादम् रुद्रेण शप्तः प्राचेतसः अभवत् ॥ १४।५५॥
sa tu dakṣaḥ maheśena rudreṇa saha dhīmatā . kṛtvā vivādam rudreṇa śaptaḥ prācetasaḥ abhavat .. 14.55..
समायान्तं महादेवो दक्षं देव्या गृहं हरः । दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ॥ १४.५६॥
समायान्तम् महादेवः दक्षम् देव्याः गृहम् हरः । दृष्ट्वा यथोचिताम् पूजाम् दक्षाय प्रददौ स्वयम् ॥ १४।५६॥
samāyāntam mahādevaḥ dakṣam devyāḥ gṛham haraḥ . dṛṣṭvā yathocitām pūjām dakṣāya pradadau svayam .. 14.56..
तदा वै तमसाविष्टः सोऽधिकां ब्रह्मणः सुतः । पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ॥ १४.५७॥
तदा वै तमसा आविष्टः सः अधिकाम् ब्रह्मणः सुतः । पूजाम् अनर्हाम् अन्विच्छन् जगाम कुपितः गृहम् ॥ १४।५७॥
tadā vai tamasā āviṣṭaḥ saḥ adhikām brahmaṇaḥ sutaḥ . pūjām anarhām anvicchan jagāma kupitaḥ gṛham .. 14.57..
कदाचित् स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः । भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ॥ १४.५८॥
कदाचिद् स्व-गृहम् प्राप्ताम् सतीम् दक्षः सु दुर्मनाः । भर्त्रा सह विनिन्द्य एनाम् भर्त्सयामसा वै रुषा ॥ १४।५८॥
kadācid sva-gṛham prāptām satīm dakṣaḥ su durmanāḥ . bhartrā saha vinindya enām bhartsayāmasā vai ruṣā .. 14.58..
अन्ये जामातरः श्रेष्ठा भर्त्तुस्तव पिनाकिनः । त्वमप्यसत्सुताऽस्माकं गृहाद् गच्छ यथागतम् ॥ १४.५९॥
अन्ये जामातरः श्रेष्ठाः भर्त्तुः तव पिनाकिनः । त्वम् अपि असत्-सुता अस्माकम् गृहात् गच्छ यथागतम् ॥ १४।५९॥
anye jāmātaraḥ śreṣṭhāḥ bharttuḥ tava pinākinaḥ . tvam api asat-sutā asmākam gṛhāt gaccha yathāgatam .. 14.59..
तस्य तद्वाक्यमाकर्ण्य सा देवी शंकरप्रिया । विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ॥ १४.६॥
तस्य तत् वाक्यम् आकर्ण्य सा देवी शंकर-प्रिया । विनिन्द्य पितरम् दक्षम् ददाह आत्मानम् आत्मना ॥ १४।६॥
tasya tat vākyam ākarṇya sā devī śaṃkara-priyā . vinindya pitaram dakṣam dadāha ātmānam ātmanā .. 14.6..
प्रणम्य पशुभर्त्तारं भर्त्तारं कृत्तिवाससम् । हिमवद्दुहिता साऽभूत् तपसा तस्य तोषिता ॥ १४.६१॥
प्रणम्य पशुभर्त्तारम् भर्त्तारम् कृत्तिवाससम् । हिमवत्-दुहिता सा अभूत् तपसा तस्य तोषिता ॥ १४।६१॥
praṇamya paśubharttāram bharttāram kṛttivāsasam . himavat-duhitā sā abhūt tapasā tasya toṣitā .. 14.61..
ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्त्तिहरो हरः । शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ॥ १४.६२॥
ज्ञात्वा तत् भागवान् रुद्रः प्रपन्न-आर्त्ति-हरः हरः । शशाप दक्षम् कुपितः समागत्य अथ तद्-गृहम् ॥ १४।६२॥
jñātvā tat bhāgavān rudraḥ prapanna-ārtti-haraḥ haraḥ . śaśāpa dakṣam kupitaḥ samāgatya atha tad-gṛham .. 14.62..
त्यक्त्वा देहमिमं ब्रह्मं क्षत्रियाणां कुले भव । स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥ १४.६३॥
त्यक्त्वा देहम् इमम् ब्रह्मम् क्षत्रियाणाम् कुले भव । स्वस्याम् सुतायाम् मूढ-आत्मा पुत्रम् उत्पादयिष्यसि ॥ १४।६३॥
tyaktvā deham imam brahmam kṣatriyāṇām kule bhava . svasyām sutāyām mūḍha-ātmā putram utpādayiṣyasi .. 14.63..
एवमुक्त्वा महादेवो ययौ कालासपर्वतम् । स्वायंभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥ १४.६४॥
एवम् उक्त्वा महादेवः ययौ कालास-पर्वतम् । स्वायंभुवः अपि कालेन दक्षः प्राचेतसः अभवत् ॥ १४।६४॥
evam uktvā mahādevaḥ yayau kālāsa-parvatam . svāyaṃbhuvaḥ api kālena dakṣaḥ prācetasaḥ abhavat .. 14.64..
एतद्वः कथितं सर्वं मनोः स्वायंभुवस्य तु । विसर्गं दक्षपर्यन्तं श्रृण्वतां पापनाशनम् ॥ १४.६५॥
एतत् वः कथितम् सर्वम् मनोः स्वायंभुवस्य तु । विसर्गम् दक्ष-पर्यन्तम् श्रृण्वताम् पाप-नाशनम् ॥ १४।६५॥
etat vaḥ kathitam sarvam manoḥ svāyaṃbhuvasya tu . visargam dakṣa-paryantam śrṛṇvatām pāpa-nāśanam .. 14.65..
इति श्रीकूर्मपुराणे षट्माहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशोऽध्यायः॥ १४॥
इति श्री-कूर्मपुराणे षट्माहस्त्र्याम् संहितायाम् पूर्व-विभागे चतुर्दशः अध्यायः॥ १४॥
iti śrī-kūrmapurāṇe ṣaṭmāhastryām saṃhitāyām pūrva-vibhāge caturdaśaḥ adhyāyaḥ.. 14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In