| |
|

This overlay will guide you through the buttons:

सूतः उवाच
प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । ससर्ज देवान् गन्धर्वान् ऋषींश्चैवासुरोरगान् ॥ १६.१॥
प्रजाः सृज इति व्यादिष्टः पूर्वम् दक्षः स्वयंभुवा । ससर्ज देवान् गन्धर्वान् ऋषीन् च एव असुर-उरगान् ॥ १६।१॥
prajāḥ sṛja iti vyādiṣṭaḥ pūrvam dakṣaḥ svayaṃbhuvā . sasarja devān gandharvān ṛṣīn ca eva asura-uragān .. 16.1..
यदास्य सृजमानस्य न व्यवर्द्धन्त ताः प्रजाः । तदा ससर्ज भूतानि मैथुनेनैव धर्मतः ॥ १६.२॥
यदा अस्य सृजमानस्य न व्यवर्द्धन्त ताः प्रजाः । तदा ससर्ज भूतानि मैथुनेन एव धर्मतः ॥ १६।२॥
yadā asya sṛjamānasya na vyavarddhanta tāḥ prajāḥ . tadā sasarja bhūtāni maithunena eva dharmataḥ .. 16.2..
अशिक्न्यां जनयामास वीरणस्य प्रजापतेः । सुतायां धर्मयुक्तायां पुत्राणां तु सहस्त्रकम् ॥ १६.३॥
अशिक्न्याम् जनयामास वीरणस्य प्रजापतेः । सुतायाम् धर्म-युक्तायाम् पुत्राणाम् तु सहस्त्रकम् ॥ १६।३॥
aśiknyām janayāmāsa vīraṇasya prajāpateḥ . sutāyām dharma-yuktāyām putrāṇām tu sahastrakam .. 16.3..
तेषु पुत्रेषु नष्टेषु मायया नारदस्य तु । षष्टिं दक्षोऽसृजत् कन्या वैरण्यां वै प्रजापतिः ॥ १६.४॥
तेषु पुत्रेषु नष्टेषु मायया नारदस्य तु । षष्टिम् दक्षः असृजत् कन्याः वैरण्याम् वै प्रजापतिः ॥ १६।४॥
teṣu putreṣu naṣṭeṣu māyayā nāradasya tu . ṣaṣṭim dakṣaḥ asṛjat kanyāḥ vairaṇyām vai prajāpatiḥ .. 16.4..
ददौ स दश धर्माय कश्यपाय त्रयोदश । विंशत् सप्त च सोमाय चतस्त्रोऽरिष्टनेमिने ॥ १६.५॥
ददौ स दश धर्माय कश्यपाय त्रयोदश । विंशत् सप्त च सोमाय चतस्त्रः अरिष्टनेमिने ॥ १६।५॥
dadau sa daśa dharmāya kaśyapāya trayodaśa . viṃśat sapta ca somāya catastraḥ ariṣṭanemine .. 16.5..
द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते । द्वे चैवाङ्गिरसे तद्वत् तासां वक्ष्येऽथ विस्तरम् ॥ १६.६॥
द्वे च एव बहुपुत्राय द्वे कृशाश्वाय धीमते । द्वे च एव अङ्गिरसे तद्वत् तासाम् वक्ष्ये अथ विस्तरम् ॥ १६।६॥
dve ca eva bahuputrāya dve kṛśāśvāya dhīmate . dve ca eva aṅgirase tadvat tāsām vakṣye atha vistaram .. 16.6..
अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥ १६.७॥
अरुन्धती वसुः यामी लम्बा भानुः मरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥ १६।७॥
arundhatī vasuḥ yāmī lambā bhānuḥ marutvatī . saṃkalpā ca muhūrtā ca sādhyā viśvā ca bhāminī .. 16.7..
धर्मपत्न्यो दश त्वेतास्तासां पुत्रान् निबोधत । विश्वदेवास्तु विश्वायां साध्या साध्यानजीजनत् ॥ १६.८॥
धर्मपत्न्यः दश तु एताः तासाम् पुत्रान् निबोधत । विश्व-देवाः तु विश्वायाम् साध्या साध्यान् अजीजनत् ॥ १६।८॥
dharmapatnyaḥ daśa tu etāḥ tāsām putrān nibodhata . viśva-devāḥ tu viśvāyām sādhyā sādhyān ajījanat .. 16.8..
मरुत्वन्तो मरुत्वत्यां वसवोऽष्टौ वसोः सुताः । भानोस्तु भानवाश्चैव मुहूर्तास्तु मुहूर्तजाः ॥ १६.९॥
मरुत्वन्तः मरुत्वत्याम् वसवः अष्टौ वसोः सुताः । भानोः तु भानवाः च एव मुहूर्ताः तु मुहूर्तजाः ॥ १६।९॥
marutvantaḥ marutvatyām vasavaḥ aṣṭau vasoḥ sutāḥ . bhānoḥ tu bhānavāḥ ca eva muhūrtāḥ tu muhūrtajāḥ .. 16.9..
लम्बायाश्चाथ घोषो वै नागवीथी तु यामिजा । पृथिवीविषयं सर्वमरुन्दत्यामजायत ॥ १६.१॥
लम्बायाः च अथ घोषः वै नागवीथी तु यामि-जा । पृथिवी-विषयम् सर्वम् अरुन्दत्याम् अजायत ॥ १६।१॥
lambāyāḥ ca atha ghoṣaḥ vai nāgavīthī tu yāmi-jā . pṛthivī-viṣayam sarvam arundatyām ajāyata .. 16.1..
संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः । येत्वनेकवसुप्राणा देवा ज्योतिः पुरोगमाः॥ १६.११॥
संकल्पायाः तु संकल्पः धर्म-पुत्राः दश स्मृताः । ये तु अनेक-वसु-प्राणाः देवाः ज्योतिः पुरोगमाः॥ १६।११॥
saṃkalpāyāḥ tu saṃkalpaḥ dharma-putrāḥ daśa smṛtāḥ . ye tu aneka-vasu-prāṇāḥ devāḥ jyotiḥ purogamāḥ.. 16.11..
वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम्। आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः॥ १६.१२॥
वसवः अष्टौ समाख्याताः तेषाम् वक्ष्यामि विस्तरम्। आपः ध्रुवः च सोमः च धरः च एव अनिलः अनलः॥ १६।१२॥
vasavaḥ aṣṭau samākhyātāḥ teṣām vakṣyāmi vistaram. āpaḥ dhruvaḥ ca somaḥ ca dharaḥ ca eva anilaḥ analaḥ.. 16.12..
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः । आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो धुनिस्तथा ॥ १६.१३॥
प्रत्यूषः च प्रभासः च वसवः अष्टौ प्रकीर्तिताः । आपस्य पुत्रः वैतण्ड्यः श्रमः श्रान्तः धुनिः तथा ॥ १६।१३॥
pratyūṣaḥ ca prabhāsaḥ ca vasavaḥ aṣṭau prakīrtitāḥ . āpasya putraḥ vaitaṇḍyaḥ śramaḥ śrāntaḥ dhuniḥ tathā .. 16.13..
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकाशनः । सोमस्य भगवान् वर्चा धरस्य द्रविणः सुतः॥ १६.१४॥
ध्रुवस्य पुत्रः भगवान् कालः लोक-प्रकाशनः । सोमस्य भगवान् वर्चाः धरस्य द्रविणः-सुतः॥ १६।१४॥
dhruvasya putraḥ bhagavān kālaḥ loka-prakāśanaḥ . somasya bhagavān varcāḥ dharasya draviṇaḥ-sutaḥ.. 16.14..
पुरोजवोऽनिलस्यासीदविज्ञातगतिस्तथा । कुमारो ह्यनलस्यासीत् सेनापतिरिति स्मृतः॥ १६.१५॥
पुरोजवः अनिलस्य आसीत् अविज्ञातगतिः तथा । कुमारः हि अनलस्य आसीत् सेनापतिः इति स्मृतः॥ १६।१५॥
purojavaḥ anilasya āsīt avijñātagatiḥ tathā . kumāraḥ hi analasya āsīt senāpatiḥ iti smṛtaḥ.. 16.15..
देवलो भगवान् योगी प्रत्यूषस्याभवत् सुतः । विश्वकर्मा प्रभासस्य शिल्पकर्ता प्रजापतिः ॥ १६.१६॥
देवलः भगवान् योगी प्रत्यूषस्य अभवत् सुतः । विश्वकर्मा प्रभासस्य शिल्प-कर्ता प्रजापतिः ॥ १६।१६॥
devalaḥ bhagavān yogī pratyūṣasya abhavat sutaḥ . viśvakarmā prabhāsasya śilpa-kartā prajāpatiḥ .. 16.16..
अदितिर्दितिदनुस्तद्वदरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्र क्रोधवशा त्विरा ॥ १६.१७॥
अदितिः दितिदनुः तद्वत् अरिष्टा सुरसा तथा । सुरभिः विनता च एव ताम्र क्रोधवशा त्विरा ॥ १६।१७॥
aditiḥ ditidanuḥ tadvat ariṣṭā surasā tathā . surabhiḥ vinatā ca eva tāmra krodhavaśā tvirā .. 16.17..
कद्रुर्मुनिश्च धर्मज्ञा तत्पुत्रान् वै निबोधत । अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणोऽर्यमा॥ १६.१८॥
कद्रुः मुनिः च धर्म-ज्ञा तद्-पुत्रान् वै निबोधत । अंशः धाता भगः त्वष्टा मित्रः अथ वरुणः अर्यमा॥ १६।१८॥
kadruḥ muniḥ ca dharma-jñā tad-putrān vai nibodhata . aṃśaḥ dhātā bhagaḥ tvaṣṭā mitraḥ atha varuṇaḥ aryamā.. 16.18..
विवस्वान् सविता पूषा ह्यंशुमान् विष्णुरेव च । तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः ॥ १६.१९॥
विवस्वान् सविता पूषा हि अंशुमान् विष्णुः एव च । तुषिताः नाम ते पूर्वम् चाक्षुषस्य अन्तरे मनोः ॥ १६।१९॥
vivasvān savitā pūṣā hi aṃśumān viṣṇuḥ eva ca . tuṣitāḥ nāma te pūrvam cākṣuṣasya antare manoḥ .. 16.19..
वैवस्वतेऽन्तरे प्रोक्ता आदित्याश्चादितेः सुताः । दितिः पुत्रद्वयं लेभे कश्यपाद् वलसंयुतम्॥ १६.२॥
वैवस्वते अन्तरे प्रोक्ताः आदित्याः च अदितेः सुताः । दितिः पुत्र-द्वयम् लेभे कश्यपात् वल-संयुतम्॥ १६।२॥
vaivasvate antare proktāḥ ādityāḥ ca aditeḥ sutāḥ . ditiḥ putra-dvayam lebhe kaśyapāt vala-saṃyutam.. 16.2..
हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं तथापरम् । हिरण्यकशिपुर्दैत्यो महाबलपराक्रमः॥ १६.२१॥
हिरण्यकशिपुम् ज्येष्ठम् हिरण्याक्षम् तथा अपरम् । हिरण्यकशिपुः दैत्यः महा-बल-पराक्रमः॥ १६।२१॥
hiraṇyakaśipum jyeṣṭham hiraṇyākṣam tathā aparam . hiraṇyakaśipuḥ daityaḥ mahā-bala-parākramaḥ.. 16.21..
आराध्य तपसा देवं ब्रह्माणं परमेष्ठिनम् । दृष्ट्वालेभेवरान् दिव्यान् स्तुत्वाऽसौ विविधैः स्तवै ॥ १६.२२॥
आराध्य तपसा देवम् ब्रह्माणम् परमेष्ठिनम् । दृष्ट्वा आलेभे वरान् दिव्यान् स्तुत्वा असौ विविधैः स्तवै ॥ १६।२२॥
ārādhya tapasā devam brahmāṇam parameṣṭhinam . dṛṣṭvā ālebhe varān divyān stutvā asau vividhaiḥ stavai .. 16.22..
अथ तस्य बलाद् देवाः सर्व एव सुरर्षयः । बाधितास्ताडिता जग्मुर्देवदेवं पितामहम् ॥ १६.२३॥
अथ तस्य बलात् देवाः सर्वे एव सुरर्षयः । बाधिताः ताडिताः जग्मुः देवदेवम् पितामहम् ॥ १६।२३॥
atha tasya balāt devāḥ sarve eva surarṣayaḥ . bādhitāḥ tāḍitāḥ jagmuḥ devadevam pitāmaham .. 16.23..
शरण्यं शरणं देवं शंभुं सर्वजगन्मयम् । ब्रह्माणं लोककर्त्तारं त्रातारं पुरुषं परम् ॥ १६.२४॥
शरण्यम् शरणम् देवम् शंभुम् सर्व-जगत्-मयम् । ब्रह्माणम् लोककर्त्तारम् त्रातारम् पुरुषम् परम् ॥ १६।२४॥
śaraṇyam śaraṇam devam śaṃbhum sarva-jagat-mayam . brahmāṇam lokakarttāram trātāram puruṣam param .. 16.24..
कूटस्थं जगतामेकं पुराणं पुरुषोत्तमम् । स याचितो देववरैर्मुनिभिश्च मुनीश्वराः ॥ १६.२५॥
कूटस्थम् जगताम् एकम् पुराणम् पुरुषोत्तमम् । स याचितः देव-वरैः मुनिभिः च मुनि-ईश्वराः ॥ १६।२५॥
kūṭastham jagatām ekam purāṇam puruṣottamam . sa yācitaḥ deva-varaiḥ munibhiḥ ca muni-īśvarāḥ .. 16.25..
सर्वदेवहितार्थाय जगाम कमलासनः । संस्तूयमानः प्रणतैर्मुनीन्द्रैरमरैरपि ॥ १६.२६॥
सर्व-देव-हित-अर्थाय जगाम कमलासनः । संस्तूयमानः प्रणतैः मुनि-इन्द्रैः अमरैः अपि ॥ १६।२६॥
sarva-deva-hita-arthāya jagāma kamalāsanaḥ . saṃstūyamānaḥ praṇataiḥ muni-indraiḥ amaraiḥ api .. 16.26..
क्षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः । दृष्ट्वा देवं जगद्योनिं विष्णुं विश्वगुरुं शिवम् ॥ १६.२७॥
क्षीरोदस्य उत्तरम् कूलम् यत्र आस्ते हरिः ईश्वरः । दृष्ट्वा देवम् जगद्योनिम् विष्णुम् विश्व-गुरुम् शिवम् ॥ १६।२७॥
kṣīrodasya uttaram kūlam yatra āste hariḥ īśvaraḥ . dṛṣṭvā devam jagadyonim viṣṇum viśva-gurum śivam .. 16.27..
ववन्दे चरणौ मूर्ध्ना कृताञ्जलिरभाषत ॥ ॥
ववन्दे चरणौ मूर्ध्ना कृताञ्जलिः अभाषत ॥ ॥
vavande caraṇau mūrdhnā kṛtāñjaliḥ abhāṣata .. ..
ब्रह्मोवाच
त्वं गतिः सर्वभूतानामनन्तोऽस्यखिलात्मकः ॥ १६.२८॥
त्वम् गतिः सर्व-भूतानाम् अनन्तः असि अखिल-आत्मकः ॥ १६।२८॥
tvam gatiḥ sarva-bhūtānām anantaḥ asi akhila-ātmakaḥ .. 16.28..
व्यापी सर्वामरवपुर्महायोगी सनातनः । त्वमात्मा सर्वभूतानां प्रधानं प्रकृतिः परा ॥ ११६.२९॥
व्यापी सर्व-अमर-वपुः महा-योगी सनातनः । त्वम् आत्मा सर्व-भूतानाम् प्रधानम् प्रकृतिः परा ॥ ११६।२९॥
vyāpī sarva-amara-vapuḥ mahā-yogī sanātanaḥ . tvam ātmā sarva-bhūtānām pradhānam prakṛtiḥ parā .. 116.29..
वैराग्यैश्वर्यनिरतो वागतीतो निरञ्जनः । त्वं कर्ता चैव भर्ता च विहन्ता सुरविद्विषाम् ॥ १६.३॥
वैराग्य-ऐश्वर्य-निरतः वाच्-अतीतः निरञ्जनः । त्वम् कर्ता च एव भर्ता च विहन्ता सुर-विद्विषाम् ॥ १६।३॥
vairāgya-aiśvarya-nirataḥ vāc-atītaḥ nirañjanaḥ . tvam kartā ca eva bhartā ca vihantā sura-vidviṣām .. 16.3..
त्रातुमर्हस्यनन्तेश त्रातासि परमेश्वरः । इत्थं स विष्णुर्भगवान् ब्रह्मणा संप्रबोधितः ॥ १६.३१॥
त्रातुम् अर्हसि अनन्त-ईश त्राता असि परमेश्वरः । इत्थम् स विष्णुः भगवान् ब्रह्मणा संप्रबोधितः ॥ १६।३१॥
trātum arhasi ananta-īśa trātā asi parameśvaraḥ . ittham sa viṣṇuḥ bhagavān brahmaṇā saṃprabodhitaḥ .. 16.31..
प्रोवाचोन्निद्रपद्माक्षः पीतवासा सुरान्द्विजाः। किमर्थं सुमहावीर्याः सप्रजापतिकाः सुराः ॥ १६.३२॥
प्रोवाच उन्निद्र-पद्म-अक्षः पीत-वासाः सुरान् द्विजाः। किमर्थम् सु महा-वीर्याः स प्रजापतिकाः सुराः ॥ १६।३२॥
provāca unnidra-padma-akṣaḥ pīta-vāsāḥ surān dvijāḥ. kimartham su mahā-vīryāḥ sa prajāpatikāḥ surāḥ .. 16.32..
इमं देशमनुप्राप्ताः किं वा कार्यं करोमि वः ॥ ॥
इमम् देशम् अनुप्राप्ताः किम् वा कार्यम् करोमि वः ॥ ॥
imam deśam anuprāptāḥ kim vā kāryam karomi vaḥ .. ..
देवा ऊचुः
हिरण्यकशिपुर्नाम ब्रह्मणो वरदर्पितः ॥ १६.३३॥
हिरण्यकशिपुः नाम ब्रह्मणः वर-दर्पितः ॥ १६।३३॥
hiraṇyakaśipuḥ nāma brahmaṇaḥ vara-darpitaḥ .. 16.33..
बाधते भगवन् दैत्यो देवान् सर्वान् सहर्षिभिः । अवध्यः सर्वभूतानां त्वामृते पुरुषोत्तम ॥ १६.३४॥
बाधते भगवन् दैत्यः देवान् सर्वान् सह ऋषिभिः । अवध्यः सर्व-भूतानाम् त्वाम् ऋते पुरुषोत्तम ॥ १६।३४॥
bādhate bhagavan daityaḥ devān sarvān saha ṛṣibhiḥ . avadhyaḥ sarva-bhūtānām tvām ṛte puruṣottama .. 16.34..
हन्तुमर्हसि सर्वेषां त्वं त्राताऽसि जगन्मय । श्रुत्वा तद्दैवतैरुक्तं स विष्णुर्लोकभावनः ॥ १६.३५॥
हन्तुम् अर्हसि सर्वेषाम् त्वम् त्राता असि जगत्-मय । श्रुत्वा तत् दैवतैः उक्तम् स विष्णुः लोक-भावनः ॥ १६।३५॥
hantum arhasi sarveṣām tvam trātā asi jagat-maya . śrutvā tat daivataiḥ uktam sa viṣṇuḥ loka-bhāvanaḥ .. 16.35..
वधाय दैत्यमुख्यस्य सोऽसृजत् पुरुषं स्वयम् । मेरुपर्वतवर्ष्माणँ घोररूपं भयानकम् ॥ १६.३६॥
वधाय दैत्य-मुख्यस्य सः असृजत् पुरुषम् स्वयम् । मेरु-पर्वत-वर्ष्माणम् घोर-रूपम् भयानकम् ॥ १६।३६॥
vadhāya daitya-mukhyasya saḥ asṛjat puruṣam svayam . meru-parvata-varṣmāṇam ghora-rūpam bhayānakam .. 16.36..
शङ्खचक्रगदापाणिं तं प्राह गरुडध्वजः । हत्वा तं दैत्यराजानं हिरण्यकशिपुं पुनः ॥ १६.३७॥
शङ्ख-चक्र-गदा-पाणिम् तम् प्राह गरुडध्वजः । हत्वा तम् दैत्य-राजानम् हिरण्यकशिपुम् पुनर् ॥ १६।३७॥
śaṅkha-cakra-gadā-pāṇim tam prāha garuḍadhvajaḥ . hatvā tam daitya-rājānam hiraṇyakaśipum punar .. 16.37..
इमं देशं समागन्तुं क्षिप्रमर्हसि पौरुषात् । निशम्य वैष्णवं वाक्यं प्रणम्य पुरुषोत्तमम् ॥ १६.३८॥
इमम् देशम् समागन्तुम् क्षिप्रम् अर्हसि पौरुषात् । निशम्य वैष्णवम् वाक्यम् प्रणम्य पुरुषोत्तमम् ॥ १६।३८॥
imam deśam samāgantum kṣipram arhasi pauruṣāt . niśamya vaiṣṇavam vākyam praṇamya puruṣottamam .. 16.38..
महापुरुषमव्यक्तं ययौ दैत्यमहापुरम् । विमुञ्चन् भैरवं नादं शङ्खचक्रगदाधरः ॥ १६.३९॥
महापुरुषम् अव्यक्तम् ययौ दैत्य-महा-पुरम् । विमुञ्चन् भैरवम् नादम् शङ्ख-चक्र-गदा-धरः ॥ १६।३९॥
mahāpuruṣam avyaktam yayau daitya-mahā-puram . vimuñcan bhairavam nādam śaṅkha-cakra-gadā-dharaḥ .. 16.39..
आरुह्य गरुडं देवो महामेरुरिवापरः । आकर्ण्य दैत्यप्रवरा महामेघरवोपमम् ॥ १६.४॥
आरुह्य गरुडम् देवः महा-मेरुः इव अपरः । आकर्ण्य दैत्य-प्रवराः महा-मेघ-रव-उपमम् ॥ १६।४॥
āruhya garuḍam devaḥ mahā-meruḥ iva aparaḥ . ākarṇya daitya-pravarāḥ mahā-megha-rava-upamam .. 16.4..
समाचचक्षिरे नादं तथा दैत्यपतेर्भयात् । ॥ ॥
समाचचक्षिरे नादम् तथा दैत्य-पतेः भयात् । ॥ ॥
samācacakṣire nādam tathā daitya-pateḥ bhayāt . .. ..
असुरा ऊचुः
कश्चिदागच्छति महान् पुरुषो देवचोदितः ॥ १६.४१॥
कश्चिद् आगच्छति महान् पुरुषः देव-चोदितः ॥ १६।४१॥
kaścid āgacchati mahān puruṣaḥ deva-coditaḥ .. 16.41..
विमुञ्चन् भैरवं नादं तं जानीमो जनार्दनम्। ततः सहासुरवरैर्हिरण्यकशिपुः स्वयम् ॥ १६.४२॥
विमुञ्चन् भैरवम् नादम् तम् जानीमः जनार्दनम्। ततस् सह असुर-वरैः हिरण्यकशिपुः स्वयम् ॥ १६।४२॥
vimuñcan bhairavam nādam tam jānīmaḥ janārdanam. tatas saha asura-varaiḥ hiraṇyakaśipuḥ svayam .. 16.42..
संनद्धैः सायुधैः पुत्रैः प्रह्रादाद्यैस्तदा ययौ । दृष्ट्वा तं गरुडासीनं सूर्यकोटिसमप्रभम्॥ १६.४३॥
संनद्धैः स आयुधैः पुत्रैः प्रह्राद-आद्यैः तदा ययौ । दृष्ट्वा तम् गरुड-आसीनम् सूर्य-कोटि-सम-प्रभम्॥ १६।४३॥
saṃnaddhaiḥ sa āyudhaiḥ putraiḥ prahrāda-ādyaiḥ tadā yayau . dṛṣṭvā tam garuḍa-āsīnam sūrya-koṭi-sama-prabham.. 16.43..
पुरुषं पर्वताकारं नारायणमिवापरम् । दुद्रुवुः केचिदन्योन्ममूचुः संभ्रान्तलोचनाः ॥ १६.४४॥
पुरुषम् पर्वत-आकारम् नारायणम् इव अपरम् । दुद्रुवुः संभ्रान्त-लोचनाः ॥ १६।४४॥
puruṣam parvata-ākāram nārāyaṇam iva aparam . dudruvuḥ saṃbhrānta-locanāḥ .. 16.44..
अयं स देवो देवानां गोप्ता नारायणो रिपुः । अस्माकमव्ययो नूनं तत्सुतो वा समागतः ॥ १६.४५॥
अयम् स देवः देवानाम् गोप्ता नारायणः रिपुः । अस्माकम् अव्ययः नूनम् तद्-सुतः वा समागतः ॥ १६।४५॥
ayam sa devaḥ devānām goptā nārāyaṇaḥ ripuḥ . asmākam avyayaḥ nūnam tad-sutaḥ vā samāgataḥ .. 16.45..
इत्युक्त्वा शस्त्रवर्षाणि ससृजुः पुरुषाय ते । तानि चाशेषतो देवो नाशयामास लीलया ॥ १६.४६॥
इति उक्त्वा शस्त्र-वर्षाणि ससृजुः पुरुषाय ते । तानि च अशेषतस् देवः नाशयामास लीलया ॥ १६।४६॥
iti uktvā śastra-varṣāṇi sasṛjuḥ puruṣāya te . tāni ca aśeṣatas devaḥ nāśayāmāsa līlayā .. 16.46..
तदा हिरण्यकशिपोश्चत्वारः प्रथितौजसः । पुत्रं नारायणोद्भूतं युयुधुर्मेघनिः स्वनाः ॥ १६.४७॥
तदा हिरण्यकशिपोः चत्वारः प्रथित-ओजसः । पुत्रम् नारायण-उद्भूतम् युयुधुः मेघनिः स्वनाः ॥ १६।४७॥
tadā hiraṇyakaśipoḥ catvāraḥ prathita-ojasaḥ . putram nārāyaṇa-udbhūtam yuyudhuḥ meghaniḥ svanāḥ .. 16.47..
प्रह्रादश्चानुह्रादः संह्रादो ह्राद एव च । प्रह्रादः प्राहिणोद् ब्राह्ममनुह्रादोऽथ वैष्णवम् ॥ १६.४८॥
प्रह्रादः च अनुह्रादः संह्रादः ह्रादः एव च । प्रह्रादः प्राहिणोत् ब्राह्मम् अनुह्रादः अथ वैष्णवम् ॥ १६।४८॥
prahrādaḥ ca anuhrādaḥ saṃhrādaḥ hrādaḥ eva ca . prahrādaḥ prāhiṇot brāhmam anuhrādaḥ atha vaiṣṇavam .. 16.48..
संह्रादश्चापि कौमारमाग्नेयं ह्राद एव च । तानि तं पुरुषं प्राप्य चत्वार्यस्त्राणि वैष्णवम् ॥ १६.४९॥
संह्रादः च अपि कौमारम् आग्नेयम् ह्रादः एव च । तानि तम् पुरुषम् प्राप्य चत्वारि अस्त्राणि वैष्णवम् ॥ १६।४९॥
saṃhrādaḥ ca api kaumāram āgneyam hrādaḥ eva ca . tāni tam puruṣam prāpya catvāri astrāṇi vaiṣṇavam .. 16.49..
न शेकुर्बाधितुं विष्णुं वासुदेवं यथा तथं । अथासौ चतुरः पुत्रान् महाबाहुर्महाबलः ॥ १६.५॥
न शेकुः बाधितुम् विष्णुम् वासुदेवम् यथा तथम् । अथ असौ चतुरः पुत्रान् महा-बाहुः महा-बलः ॥ १६।५॥
na śekuḥ bādhitum viṣṇum vāsudevam yathā tatham . atha asau caturaḥ putrān mahā-bāhuḥ mahā-balaḥ .. 16.5..
प्रगृह्य पादेषु करैः चिक्षेप च ननाद चविमुक्तेष्वथ पुत्रेषु हिरण्यकशिपुः स्वयम् ॥ १६.५१॥
प्रगृह्य पादेषु करैः चिक्षेप च ननाद च विमुक्तेषु अथ पुत्रेषु हिरण्यकशिपुः स्वयम् ॥ १६।५१॥
pragṛhya pādeṣu karaiḥ cikṣepa ca nanāda ca vimukteṣu atha putreṣu hiraṇyakaśipuḥ svayam .. 16.51..
पादेन ताडयामास वेगेनोरसि तं बली । स तेन पीडितोऽत्यर्थं गरुडेन यथाऽऽशुगः ॥ १६.५२॥
पादेन ताडयामास वेगेन उरसि तम् बली । स तेन पीडितः अत्यर्थम् गरुडेन यथा आशु-गः ॥ १६।५२॥
pādena tāḍayāmāsa vegena urasi tam balī . sa tena pīḍitaḥ atyartham garuḍena yathā āśu-gaḥ .. 16.52..
अदृश्यः प्रययौ तूर्णं यत्र नारायणः प्रभुः । गत्वा विज्ञापयामास प्रवृत्तमखिलं तदा ॥ १६.५३॥
अदृश्यः प्रययौ तूर्णम् यत्र नारायणः प्रभुः । गत्वा विज्ञापयामास प्रवृत्तम् अखिलम् तदा ॥ १६।५३॥
adṛśyaḥ prayayau tūrṇam yatra nārāyaṇaḥ prabhuḥ . gatvā vijñāpayāmāsa pravṛttam akhilam tadā .. 16.53..
संचिन्त्य मनसा देवः सर्वज्ञानमयोऽमलः । नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा ॥ १६.५४॥
संचिन्त्य मनसा देवः सर्व-ज्ञान-मयः अमलः । नरस्य अर्ध-तनुम् कृत्वा सिंहस्य अर्ध-तनुम् तथा ॥ १६।५४॥
saṃcintya manasā devaḥ sarva-jñāna-mayaḥ amalaḥ . narasya ardha-tanum kṛtvā siṃhasya ardha-tanum tathā .. 16.54..
नृसिंहवपुरव्यक्तो हिरण्यकशिपोः पुरे । आविर्बभूव सहसा मोहयन् दैत्यपुंगवान् ॥ १६.५५॥
नृसिंह-वपुः अव्यक्तः हिरण्यकशिपोः पुरे । आविर्बभूव सहसा मोहयन् दैत्य-पुंगवान् ॥ १६।५५॥
nṛsiṃha-vapuḥ avyaktaḥ hiraṇyakaśipoḥ pure . āvirbabhūva sahasā mohayan daitya-puṃgavān .. 16.55..
दंष्ट्राकरालो योगात्मा युगान्तदहनोपमः । समारुह्यात्मनः शक्तिं सर्वसंहारकारिकाम् ॥ १६.५६॥
दंष्ट्रा-करालः योग-आत्मा युगान्त-दहन-उपमः । समारुह्य आत्मनः शक्तिम् सर्व-संहार-कारिकाम् ॥ १६।५६॥
daṃṣṭrā-karālaḥ yoga-ātmā yugānta-dahana-upamaḥ . samāruhya ātmanaḥ śaktim sarva-saṃhāra-kārikām .. 16.56..
भाति नारायणोऽनन्तो यथा मध्यंदिने रविः । दृष्ट्वा नृसिंहवपुषं प्रह्रादं ज्येष्ठपुत्रकम् ॥ १६.५७॥
भाति नारायणः अनन्तः यथा मध्यंदिने रविः । दृष्ट्वा प्रह्रादम् ज्येष्ठ-पुत्रकम् ॥ १६।५७॥
bhāti nārāyaṇaḥ anantaḥ yathā madhyaṃdine raviḥ . dṛṣṭvā prahrādam jyeṣṭha-putrakam .. 16.57..
वधाय प्रेरयामास नरसिहस्य सोऽसुरः । इमं नृसिंहवपुषं पूर्वस्माद् उग्रशक्तिकम् ॥ १६.५८॥
वधाय प्रेरयामास नरसिहस्य सः असुरः । इमम् पूर्वस्मात् उग्र-शक्तिकम् ॥ १६।५८॥
vadhāya prerayāmāsa narasihasya saḥ asuraḥ . imam pūrvasmāt ugra-śaktikam .. 16.58..
सहैव तनुजैः सर्वैर्नाशयाशु मयेरितः । तत्संनियोगादसुरः प्रह्रादो विष्णुमव्ययम् ॥ १६.५९॥
सह एव तनुजैः सर्वैः नाशय आशु मया ईरितः । तद्-संनियोगात् असुरः प्रह्रादः विष्णुम् अव्ययम् ॥ १६।५९॥
saha eva tanujaiḥ sarvaiḥ nāśaya āśu mayā īritaḥ . tad-saṃniyogāt asuraḥ prahrādaḥ viṣṇum avyayam .. 16.59..
युयुधे सर्वयत्नेन नरसिंहेन निर्जितः । ततः संचोदितो दैत्यो हिरण्याक्षस्तदानुजः ॥ १६.६॥
युयुधे सर्व-यत्नेन नरसिंहेन निर्जितः । ततस् संचोदितः दैत्यः हिरण्याक्षः तदा अनुजः ॥ १६।६॥
yuyudhe sarva-yatnena narasiṃhena nirjitaḥ . tatas saṃcoditaḥ daityaḥ hiraṇyākṣaḥ tadā anujaḥ .. 16.6..
ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च । तस्य देवाधिदेवस्य विष्णोरमिततेजसः ॥ १६.६१॥
ध्यात्वा पशुपतेः अस्त्रम् ससर्ज च ननाद च । तस्य देव-अधिदेवस्य विष्णोः अमित-तेजसः ॥ १६।६१॥
dhyātvā paśupateḥ astram sasarja ca nanāda ca . tasya deva-adhidevasya viṣṇoḥ amita-tejasaḥ .. 16.61..
न हानिमकरोदस्त्रं तथा देवस्य शूलिनः । दृष्ट्वा पराहतं त्वस्त्रं प्रह्रादो भाग्यगौरवात् ॥ १६.६२॥
न हानिम् अकरोत् अस्त्रम् तथा देवस्य शूलिनः । दृष्ट्वा पराहतम् तु अस्त्रम् प्रह्रादः भाग्य-गौरवात् ॥ १६।६२॥
na hānim akarot astram tathā devasya śūlinaḥ . dṛṣṭvā parāhatam tu astram prahrādaḥ bhāgya-gauravāt .. 16.62..
मेने सर्वात्मकं देवं वासुदेवं सनातनम् । संत्यज्य सर्वशस्त्राणि सत्त्वयुक्तेन चेतसा ॥ १६.६३॥
मेने सर्व-आत्मकम् देवम् वासुदेवम् सनातनम् । संत्यज्य सर्व-शस्त्राणि सत्त्व-युक्तेन चेतसा ॥ १६।६३॥
mene sarva-ātmakam devam vāsudevam sanātanam . saṃtyajya sarva-śastrāṇi sattva-yuktena cetasā .. 16.63..
ननाम शिरसा देवं योगिनां हृदयेशयम् । स्तुत्वा नारायणैः स्तोत्रैः ऋग्यजुः सामसंभवैः ॥ १६.६४॥
ननाम शिरसा देवम् योगिनाम् हृदयेशयम् । स्तुत्वा नारायणैः स्तोत्रैः ऋक्-यजुः-साम-संभवैः ॥ १६।६४॥
nanāma śirasā devam yoginām hṛdayeśayam . stutvā nārāyaṇaiḥ stotraiḥ ṛk-yajuḥ-sāma-saṃbhavaiḥ .. 16.64..
निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाऽब्रवीत् । अयं नारायणोऽनन्तः शाश्वतो भगवानजः ॥ १६.६५॥
निवार्य पितरम् भ्रातृन् हिरण्याक्षम् तदा अब्रवीत् । अयम् नारायणः अनन्तः शाश्वतः भगवान् अजः ॥ १६।६५॥
nivārya pitaram bhrātṛn hiraṇyākṣam tadā abravīt . ayam nārāyaṇaḥ anantaḥ śāśvataḥ bhagavān ajaḥ .. 16.65..
पुराणपुरुषो देवो महायोगी जगन्मयः । अयं धाता विधाता च स्वयंज्योतिर्निरञ्जनः ॥ १६.६६॥
। अयम् धाता विधाता च स्वयम् ज्योतिः निरञ्जनः ॥ १६।६६॥
. ayam dhātā vidhātā ca svayam jyotiḥ nirañjanaḥ .. 16.66..
प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः । ईश्वरः सर्वभूतानामन्तर्यामी गुणातिगः ॥ १६.६७॥
प्रधानपुरुषः तत्त्वम् मूलप्रकृतिः अव्ययः । ईश्वरः सर्व-भूतानाम् अन्तर्यामी गुण-अतिगः ॥ १६।६७॥
pradhānapuruṣaḥ tattvam mūlaprakṛtiḥ avyayaḥ . īśvaraḥ sarva-bhūtānām antaryāmī guṇa-atigaḥ .. 16.67..
गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम् । एवमुक्ते सुदुर्बुद्धिर्हिरण्यकशिपुः स्वयम् ॥ १६.६८॥
गच्छध्वम् एनम् शरणम् विष्णुम् अव्यक्तम् अव्ययम् । एवम् उक्ते सु दुर्बुद्धिः हिरण्यकशिपुः स्वयम् ॥ १६।६८॥
gacchadhvam enam śaraṇam viṣṇum avyaktam avyayam . evam ukte su durbuddhiḥ hiraṇyakaśipuḥ svayam .. 16.68..
प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया । अयं सर्वात्मना वध्यो नृसिंहोऽल्पपराक्रमः ॥ १६.६९॥
प्रोवाच पुत्रम् अत्यर्थम् मोहितः विष्णु-मायया । अयम् सर्व-आत्मना वध्यः नृसिंहः अल्प-पराक्रमः ॥ १६।६९॥
provāca putram atyartham mohitaḥ viṣṇu-māyayā . ayam sarva-ātmanā vadhyaḥ nṛsiṃhaḥ alpa-parākramaḥ .. 16.69..
समागतोऽस्मद्भवनमिदानीं कालचोदितः । विहस्य पितरं पुत्रो वचः प्राह महामतम्॥ १६.७॥
समागतः अस्मद्-भवनम् इदानीम् काल-चोदितः । विहस्य पितरम् पुत्रः वचः प्राह महामतम्॥ १६।७॥
samāgataḥ asmad-bhavanam idānīm kāla-coditaḥ . vihasya pitaram putraḥ vacaḥ prāha mahāmatam.. 16.7..
मा निन्दस्वैनमीशानं भूतानामेकमव्ययम् । कथं देवो महादेवः शाश्वतः कालवर्जितः ॥ १६.७१॥
मा निन्दस्व एनम् ईशानम् भूतानाम् एकम् अव्ययम् । कथम् देवः महादेवः शाश्वतः काल-वर्जितः ॥ १६।७१॥
mā nindasva enam īśānam bhūtānām ekam avyayam . katham devaḥ mahādevaḥ śāśvataḥ kāla-varjitaḥ .. 16.71..
कालेन हन्यते विष्णुः कालात्मा कालरूपधृक् । ततः सुवर्णकशिपुर्दुरात्मा विधिचोदितः ॥ १६.७२॥
कालेन हन्यते विष्णुः काल-आत्मा काल-रूपधृक् । ततस् सुवर्णकशिपुः दुरात्मा विधि-चोदितः ॥ १६।७२॥
kālena hanyate viṣṇuḥ kāla-ātmā kāla-rūpadhṛk . tatas suvarṇakaśipuḥ durātmā vidhi-coditaḥ .. 16.72..
निवारितोऽपि पुत्रेण युयोध हरिमव्ययम् । संरक्तनयनोऽन्तो हिरण्यनयनाग्रजम् ॥ १६.७३॥
निवारितः अपि पुत्रेण युयोध हरिम् अव्ययम् । संरक्त-नयनः अन्तः हिरण्यनयन-अग्रजम् ॥ १६।७३॥
nivāritaḥ api putreṇa yuyodha harim avyayam . saṃrakta-nayanaḥ antaḥ hiraṇyanayana-agrajam .. 16.73..
नखैर्विदारयामास प्रह्रादस्यैव पश्यतः । हते हिरण्यकशिपौ हिरण्याक्षो महाबलः ॥ १६.७४॥
नखैः विदारयामास प्रह्रादस्य एव पश्यतः । हते हिरण्यकशिपौ हिरण्याक्षः महा-बलः ॥ १६।७४॥
nakhaiḥ vidārayāmāsa prahrādasya eva paśyataḥ . hate hiraṇyakaśipau hiraṇyākṣaḥ mahā-balaḥ .. 16.74..
विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः । अनुह्रादादयः पुत्रा अन्ये च शतशोऽसुराः ॥ १६.७५॥
विसृज्य पुत्रम् प्रह्रादम् दुद्रुवे भय-विह्वलः । अनुह्राद-आदयः पुत्राः अन्ये च शतशस् असुराः ॥ १६।७५॥
visṛjya putram prahrādam dudruve bhaya-vihvalaḥ . anuhrāda-ādayaḥ putrāḥ anye ca śataśas asurāḥ .. 16.75..
नृसिंहदेहसंभूतैः सिंहैर्नीता यमालयम् । ततः संहृत्य तद्रूपं हरिर्नारायणः प्रभुः ॥ १६.७६॥
नृसिंह-देह-संभूतैः सिंहैः नीताः यम-आलयम् । ततस् संहृत्य तद्-रूपम् हरिः नारायणः प्रभुः ॥ १६।७६॥
nṛsiṃha-deha-saṃbhūtaiḥ siṃhaiḥ nītāḥ yama-ālayam . tatas saṃhṛtya tad-rūpam hariḥ nārāyaṇaḥ prabhuḥ .. 16.76..
स्वमेव परमं रूपं ययौ नारायणाह्वयम् । गते नारायणे दैत्यः प्रह्रादोऽसुरसत्तमः ॥ १६.७७॥
स्वम् एव परमम् रूपम् ययौ नारायण-आह्वयम् । गते नारायणे दैत्यः प्रह्रादः असुर-सत्तमः ॥ १६।७७॥
svam eva paramam rūpam yayau nārāyaṇa-āhvayam . gate nārāyaṇe daityaḥ prahrādaḥ asura-sattamaḥ .. 16.77..
अभिषेकेण युक्तेन हिरण्याक्षमयोजयत् । स बाधयामास सुरान् रणे जित्वा मुनीनपि ॥ १६.७८॥
अभिषेकेण युक्तेन हिरण्याक्षम् अयोजयत् । स बाधयामास सुरान् रणे जित्वा मुनीन् अपि ॥ १६।७८॥
abhiṣekeṇa yuktena hiraṇyākṣam ayojayat . sa bādhayāmāsa surān raṇe jitvā munīn api .. 16.78..
लब्ध्वाऽन्धकं महापुत्रं तपसाराध्य शंकरम् । देवाञ्जित्वा सदेवेन्द्रान् बध्वाच धरणीमिमाम् ॥ १६.७९॥
लब्ध्वा अन्धकम् महा-पुत्रम् तपसा आराध्य शंकरम् । देवान् जित्वा स देव-इन्द्रान् बध्वा आच धरणीम् इमाम् ॥ १६।७९॥
labdhvā andhakam mahā-putram tapasā ārādhya śaṃkaram . devān jitvā sa deva-indrān badhvā āca dharaṇīm imām .. 16.79..
नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम् । ततः सब्रह्मका देवाः परिम्लानमुखश्रियः ॥ १६.८॥
नीत्वा रसातलम् चक्रे वन्दीम् इन्दीवर-प्रभाम् । ततस् स ब्रह्मकाः देवाः परिम्लान-मुख-श्रियः ॥ १६।८॥
nītvā rasātalam cakre vandīm indīvara-prabhām . tatas sa brahmakāḥ devāḥ parimlāna-mukha-śriyaḥ .. 16.8..
गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम् । स चिन्तयित्वा विश्वात्मा तद्वधोपायमव्ययः ॥ १६.८१॥
गत्वा विज्ञापयामासुः विष्णवे हरि-मन्दिरम् । स चिन्तयित्वा विश्वात्मा तद्-वध-उपायम् अव्ययः ॥ १६।८१॥
gatvā vijñāpayāmāsuḥ viṣṇave hari-mandiram . sa cintayitvā viśvātmā tad-vadha-upāyam avyayaḥ .. 16.81..
सर्वेदेवमयं शुभ्रं वाराहं वपुरादधे । गत्वा हिरण्यनयनं हत्वा तं पुरुषोत्तमः ॥ १६.८२॥
सर्वेदेव-मयम् शुभ्रम् वाराहम् वपुः आदधे । गत्वा हिरण्यनयनम् हत्वा तम् पुरुषोत्तमः ॥ १६।८२॥
sarvedeva-mayam śubhram vārāham vapuḥ ādadhe . gatvā hiraṇyanayanam hatvā tam puruṣottamaḥ .. 16.82..
दंष्ट्रयोद्धारयामास कल्पादौ धरणीमिमाम् । त्यक्त्वा वराहसंस्थानं संस्थाप्य च सुरद्विजान् ॥ १६.८३॥
दंष्ट्रया उद्धारयामास कल्प-आदौ धरणीम् इमाम् । त्यक्त्वा वराह-संस्थानम् संस्थाप्य च सुर-द्विजान् ॥ १६।८३॥
daṃṣṭrayā uddhārayāmāsa kalpa-ādau dharaṇīm imām . tyaktvā varāha-saṃsthānam saṃsthāpya ca sura-dvijān .. 16.83..
स्वामेव प्रकृतिं दिव्यां ययौ विष्णुः परं पदम् । तस्मिन् हतेऽमररिपौ प्रह्रादौ विष्णुतत्परः ॥ १६.८४॥
स्वाम् एव प्रकृतिम् दिव्याम् ययौ विष्णुः परम् पदम् । तस्मिन् हते अमर-रिपौ प्रह्रादौ विष्णु-तत्परः ॥ १६।८४॥
svām eva prakṛtim divyām yayau viṣṇuḥ param padam . tasmin hate amara-ripau prahrādau viṣṇu-tatparaḥ .. 16.84..
अपालयत् स्वकंराज्यं भावं त्यक्त्वा तदाऽऽसुरम् । इयाज विधिवद् देवान् विष्णोराराधने रतः ॥ १६.८५॥
अपालयत् स्वकम् राज्यम् भावम् त्यक्त्वा तदा आसुरम् । इयाज विधिवत् देवान् विष्णोः आराधने रतः ॥ १६।८५॥
apālayat svakam rājyam bhāvam tyaktvā tadā āsuram . iyāja vidhivat devān viṣṇoḥ ārādhane rataḥ .. 16.85..
निः सपत्नं सदा राज्यं तस्यासीद् विष्णुवैभवात् । ततः कदाचिदसुरो ब्राह्मणं गृहमागतम् ॥ १६.८६॥
निः सपत्नम् सदा राज्यम् तस्य आसीत् विष्णु-वैभवात् । ततस् कदाचिद् असुरः ब्राह्मणम् गृहम् आगतम् ॥ १६।८६॥
niḥ sapatnam sadā rājyam tasya āsīt viṣṇu-vaibhavāt . tatas kadācid asuraḥ brāhmaṇam gṛham āgatam .. 16.86..
तापसं नार्चयामास देवानां चैव मायया । स तेन तापसोऽत्यर्थं मोहितेनावमानितः ॥ १६.८७॥
तापसम् ना अर्चयामास देवानाम् च एव मायया । स तेन तापसः अत्यर्थम् मोहितेन अवमानितः ॥ १६।८७॥
tāpasam nā arcayāmāsa devānām ca eva māyayā . sa tena tāpasaḥ atyartham mohitena avamānitaḥ .. 16.87..
शशापासुरराजानं क्रोधसंरक्तलोचनः । यत्तद्वलं समाश्रित्य ब्राह्मणानवमन्यसे ॥ १६.८८॥
शशाप असुर-राजानम् क्रोध-संरक्त-लोचनः । यत् तत् वलम् समाश्रित्य ब्राह्मणान् अवमन्यसे ॥ १६।८८॥
śaśāpa asura-rājānam krodha-saṃrakta-locanaḥ . yat tat valam samāśritya brāhmaṇān avamanyase .. 16.88..
सा भक्तिर्वैष्णवी दिव्या विनाशं ते गमिष्यति । इत्युक्त्वा प्रययौ तूर्णं प्रह्रादस्य गृहाद् द्विजः ॥ १६.८९॥
सा भक्तिः वैष्णवी दिव्या विनाशम् ते गमिष्यति । इति उक्त्वा प्रययौ तूर्णम् प्रह्रादस्य गृहात् द्विजः ॥ १६।८९॥
sā bhaktiḥ vaiṣṇavī divyā vināśam te gamiṣyati . iti uktvā prayayau tūrṇam prahrādasya gṛhāt dvijaḥ .. 16.89..
मुमोह राज्यसंसक्तः सोऽपि शापबलात् ततः । बाधयामास विप्रेन्द्रान् न विवेद जनार्दनम् ॥ १६.९॥
मुमोह राज्य-संसक्तः सः अपि शाप-बलात् ततस् । बाधयामास विप्र-इन्द्रान् न विवेद जनार्दनम् ॥ १६।९॥
mumoha rājya-saṃsaktaḥ saḥ api śāpa-balāt tatas . bādhayāmāsa vipra-indrān na viveda janārdanam .. 16.9..
पितुर्वधमनुस्मृत्य क्रोधं चक्रे हरिं प्रति । तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ॥ १६.९१॥
पितुः वधम् अनुस्मृत्य क्रोधम् चक्रे हरिम् प्रति । तयोः समभवत् युद्धम् सु घोरम् रोम-हर्षणम् ॥ १६।९१॥
pituḥ vadham anusmṛtya krodham cakre harim prati . tayoḥ samabhavat yuddham su ghoram roma-harṣaṇam .. 16.91..
नारायणस्य देवस्य प्रह्रादस्यामरद्विषः । कृत्वा स सुमहद् युद्धं विष्णुना तेन निर्जितः ॥ १६.९२॥
नारायणस्य देवस्य प्रह्रादस्य अमर-द्विषः । कृत्वा स सु महत् युद्धम् विष्णुना तेन निर्जितः ॥ १६।९२॥
nārāyaṇasya devasya prahrādasya amara-dviṣaḥ . kṛtvā sa su mahat yuddham viṣṇunā tena nirjitaḥ .. 16.92..
पुर्वसंस्कारमाहात्म्यात् परस्मिन् पुरुषे हरौ। संजातं तस्य विज्ञानं शरण्यं शरणं ययौ ॥ १६.९३॥
पुर्व-संस्कार-माहात्म्यात् परस्मिन् पुरुषे हरौ। संजातम् तस्य विज्ञानम् शरण्यम् शरणम् ययौ ॥ १६।९३॥
purva-saṃskāra-māhātmyāt parasmin puruṣe harau. saṃjātam tasya vijñānam śaraṇyam śaraṇam yayau .. 16.93..
ततः प्रभृति दैत्येन्द्रो ह्यनन्यां भक्तिमुद्वहन् । नारायणे महायोगमवाप पुरुषोत्तमे ॥ १६.९४॥
ततस् प्रभृति दैत्य-इन्द्रः हि अनन्याम् भक्तिम् उद्वहन् । नारायणे महा-योगम् अवाप पुरुषोत्तमे ॥ १६।९४॥
tatas prabhṛti daitya-indraḥ hi ananyām bhaktim udvahan . nārāyaṇe mahā-yogam avāpa puruṣottame .. 16.94..
हिरण्यकशिपोः पुत्रे योगसंसक्तचेतसि । अवाप तन्महद् राज्यमन्धकोऽसुरपुंगवः ॥ १६.९५॥
हिरण्यकशिपोः पुत्रे योग-संसक्त-चेतसि । अवाप तत् महत् राज्यम् अन्धकः असुर-पुंगवः ॥ १६।९५॥
hiraṇyakaśipoḥ putre yoga-saṃsakta-cetasi . avāpa tat mahat rājyam andhakaḥ asura-puṃgavaḥ .. 16.95..
हिरण्यनेत्रतनयः शंभोर्देहसमुद्भवः । मन्दरस्थामुमां देवीं चकमे पर्वतात्मजाम् ॥ १६.९६॥
हिरण्यनेत्र-तनयः शंभोः देह-समुद्भवः । मन्दर-स्थाम् उमाम् देवीम् चकमे पर्वतात्मजाम् ॥ १६।९६॥
hiraṇyanetra-tanayaḥ śaṃbhoḥ deha-samudbhavaḥ . mandara-sthām umām devīm cakame parvatātmajām .. 16.96..
पुरा दारुवने पुण्ये मुनयो गृहमेधिनः । ईश्वराराधनार्थाय तपश्चेरुः सहस्त्रशः ॥ १६.९७॥
पुरा दारु-वने पुण्ये मुनयः गृहमेधिनः । ईश्वर-आराधन-अर्थाय तपः चेरुः सहस्त्रशस् ॥ १६।९७॥
purā dāru-vane puṇye munayaḥ gṛhamedhinaḥ . īśvara-ārādhana-arthāya tapaḥ ceruḥ sahastraśas .. 16.97..
ततः कदाचिन्महति कालयोगेन दुस्तरा । अनावृष्टिरतीवोग्रा ह्यासीद् भूतविनाशिनी ॥ १६.९८॥
ततस् कदाचिद् महति काल-योगेन दुस्तरा । अनावृष्टिः अतीव उग्रा हि आसीत् भूत-विनाशिनी ॥ १६।९८॥
tatas kadācid mahati kāla-yogena dustarā . anāvṛṣṭiḥ atīva ugrā hi āsīt bhūta-vināśinī .. 16.98..
समेत्य सर्वे मुनयो गौतमं तपसां निधिम् । अयाचन्त क्षुधाविष्टा आहारं प्राणधारणम् ॥ १६.९९॥
समेत्य सर्वे मुनयः गौतमम् तपसाम् निधिम् । अयाचन्त क्षुधा-आविष्टाः आहारम् प्राण-धारणम् ॥ १६।९९॥
sametya sarve munayaḥ gautamam tapasām nidhim . ayācanta kṣudhā-āviṣṭāḥ āhāram prāṇa-dhāraṇam .. 16.99..
स तेभ्यः प्रददावन्नं मृष्टं बहुतरं बुधः । सर्वे बुबुजिरे विप्रा निर्विशङ्केन चेतसा ॥ १६.१॥
स तेभ्यः प्रददौ अन्नम् मृष्टम् बहुतरम् बुधः । सर्वे बुबुजिरे विप्राः निर्विशङ्केन चेतसा ॥ १६।१॥
sa tebhyaḥ pradadau annam mṛṣṭam bahutaram budhaḥ . sarve bubujire viprāḥ nirviśaṅkena cetasā .. 16.1..
गते च द्वादशे वर्षे कल्पान्त इव शंकरी । बभूव वृष्टिर्महती यथापूर्वमभूज्जगत् ॥ १६.१०१॥
गते च द्वादशे वर्षे कल्प-अन्ते इव शंकरी । बभूव वृष्टिः महती यथापूर्वम् अभूत् जगत् ॥ १६।१०१॥
gate ca dvādaśe varṣe kalpa-ante iva śaṃkarī . babhūva vṛṣṭiḥ mahatī yathāpūrvam abhūt jagat .. 16.101..
ततः सर्वे मुनिवराः समामन्त्र्य परस्परम् । महर्षि गौतमं प्रोचुर्गच्छाम इति वेगतः ॥ १६.१०२॥
ततस् सर्वे मुनि-वराः समामन्त्र्य परस्परम् । महा-ऋषि गौतमम् प्रोचुः गच्छामः इति वेगतः ॥ १६।१०२॥
tatas sarve muni-varāḥ samāmantrya parasparam . mahā-ṛṣi gautamam procuḥ gacchāmaḥ iti vegataḥ .. 16.102..
निवारयामास च तान् कंचित् कालं यथासुखम् । उषित्वा मद्गृहेऽवश्यं गच्छध्वमिति पण्डिताः ॥ १६.१०३॥
निवारयामास च तान् कंचिद् कालम् यथासुखम् । उषित्वा मद्-गृहे अवश्यम् गच्छध्वम् इति पण्डिताः ॥ १६।१०३॥
nivārayāmāsa ca tān kaṃcid kālam yathāsukham . uṣitvā mad-gṛhe avaśyam gacchadhvam iti paṇḍitāḥ .. 16.103..
ततो मायामयीं सृष्ट्वा कृशांगां सर्व एव ते । समीपं प्रापयामासुगौतमस्य महात्मनः ॥ १६.१०४॥
ततस् माया-मयीम् सृष्ट्वा कृश-अंगाम् सर्वे एव ते । समीपम् प्रापयामासु गौतमस्य महात्मनः ॥ १६।१०४॥
tatas māyā-mayīm sṛṣṭvā kṛśa-aṃgām sarve eva te . samīpam prāpayāmāsu gautamasya mahātmanaḥ .. 16.104..
सोऽनुवीक्ष्य कृपाविष्टस्तस्याः संरक्षणोत्सुकः । गोष्ठे तां बन्धयामास स्पृष्टमात्रा ममार सा ॥ १६.१०५॥
सः अनुवीक्ष्य कृपा-आविष्टः तस्याः संरक्षण-उत्सुकः । गोष्ठे ताम् बन्धयामास स्पृष्ट-मात्रा ममार सा ॥ १६।१०५॥
saḥ anuvīkṣya kṛpā-āviṣṭaḥ tasyāḥ saṃrakṣaṇa-utsukaḥ . goṣṭhe tām bandhayāmāsa spṛṣṭa-mātrā mamāra sā .. 16.105..
स शोकेनाभिसंतप्तः कार्याकार्यं महामुनिः । न पश्यति स्म सहसा तादृशं मुनयोऽब्रुवन् ॥ १६.१०६॥
स शोकेन अभिसंतप्तः कार्य-अकार्यम् महा-मुनिः । न पश्यति स्म सहसा तादृशम् मुनयः अब्रुवन् ॥ १६।१०६॥
sa śokena abhisaṃtaptaḥ kārya-akāryam mahā-muniḥ . na paśyati sma sahasā tādṛśam munayaḥ abruvan .. 16.106..
गोवध्येयं द्विजश्रेष्ठ यावत् तव शरीरगा । तावत् तेऽन्नं न भोक्तव्यं गच्छामो वयमेव हि ॥ १६.१०७॥
गो-वध्या इयम् द्विजश्रेष्ठ यावत् तव शरीर-गा । तावत् ते अन्नम् न भोक्तव्यम् गच्छामः वयम् एव हि ॥ १६।१०७॥
go-vadhyā iyam dvijaśreṣṭha yāvat tava śarīra-gā . tāvat te annam na bhoktavyam gacchāmaḥ vayam eva hi .. 16.107..
तेनातोऽनुमताः सन्तो देवदारुवनं शुभम् । जग्मुः पापवशं नीतास्तपश्चर्तुं यथा पुरा ॥ १६.१०८॥
तेन अतस् अनुमताः सन्तः देवदारु-वनम् शुभम् । जग्मुः पाप-वशम् नीताः तपः चर्तुम् यथा पुरा ॥ १६।१०८॥
tena atas anumatāḥ santaḥ devadāru-vanam śubham . jagmuḥ pāpa-vaśam nītāḥ tapaḥ cartum yathā purā .. 16.108..
स तेषां मायया जातां गोवध्यां गौतमो मुनिः । केनापि हेतुना ज्ञात्वा शशापातीवकोपतः ॥ १६.१०९॥
स तेषाम् मायया जाताम् गो-वध्याम् गौतमः मुनिः । केन अपि हेतुना ज्ञात्वा शशाप अतीव कोपतः ॥ १६।१०९॥
sa teṣām māyayā jātām go-vadhyām gautamaḥ muniḥ . kena api hetunā jñātvā śaśāpa atīva kopataḥ .. 16.109..
भविष्यन्ति त्रयीबाह्या महापातकिभिः समाः । बभूवुस्ते तथा शापाज्जायमानाः पुनः पुनः ॥ १६.११॥
भविष्यन्ति त्रयी-बाह्याः महापातकिभिः समाः । बभूवुः ते तथा शापात् जायमानाः पुनर् पुनर् ॥ १६।११॥
bhaviṣyanti trayī-bāhyāḥ mahāpātakibhiḥ samāḥ . babhūvuḥ te tathā śāpāt jāyamānāḥ punar punar .. 16.11..
सर्वे संप्राप्य देवेशं शंकरं विष्णुमव्ययम् । अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सर्वगौ ॥ १६.१११॥
सर्वे संप्राप्य देवेशम् शंकरम् विष्णुम् अव्ययम् । अस्तुवन् लौकिकैः स्तोत्रैः उच्छिष्टाः इव सर्व-गौ ॥ १६।१११॥
sarve saṃprāpya deveśam śaṃkaram viṣṇum avyayam . astuvan laukikaiḥ stotraiḥ ucchiṣṭāḥ iva sarva-gau .. 16.111..
देवदेवौ महादेवौ भक्तानामार्तिनाशनौ । कामवृत्त्या महायोगौ पापान्नस्त्रातुमर्हतः ॥ १६.११२॥
देवदेवौ महादेवौ भक्तानाम् आर्ति-नाशनौ । काम-वृत्त्या महा-योगौ पापात् नः त्रातुम् अर्हतः ॥ १६।११२॥
devadevau mahādevau bhaktānām ārti-nāśanau . kāma-vṛttyā mahā-yogau pāpāt naḥ trātum arhataḥ .. 16.112..
तदा पार्श्वस्थितं विष्णुं संप्रेक्ष्य वृषभध्वजः । किमेतेषां भवेत् कार्यं प्राह पुण्यैषिणामिति ॥ १६.११३॥
तदा पार्श्व-स्थितम् विष्णुम् संप्रेक्ष्य वृषभध्वजः । किम् एतेषाम् भवेत् कार्यम् प्राह पुण्य-एषिणाम् इति ॥ १६।११३॥
tadā pārśva-sthitam viṣṇum saṃprekṣya vṛṣabhadhvajaḥ . kim eteṣām bhavet kāryam prāha puṇya-eṣiṇām iti .. 16.113..
ततः स भगवान् विष्णुः शरण्यो भक्तवत्सलः । गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः ॥ १६.११४॥
ततस् स भगवान् विष्णुः शरण्यः भक्त-वत्सलः । गोपतिम् प्राह विप्र-इन्द्रान् आलोक्य प्रणतान् हरिः ॥ १६।११४॥
tatas sa bhagavān viṣṇuḥ śaraṇyaḥ bhakta-vatsalaḥ . gopatim prāha vipra-indrān ālokya praṇatān hariḥ .. 16.114..
न वेदबाह्ये पुरुषे पुण्यलेशोऽपि शंकर । संगच्छते महादेव धर्मो वेदाद् विनिर्बभौ ॥ १६.११५॥
न वेद-बाह्ये पुरुषे पुण्य-लेशः अपि शंकर । संगच्छते महादेव धर्मः वेदात् विनिर्बभौ ॥ १६।११५॥
na veda-bāhye puruṣe puṇya-leśaḥ api śaṃkara . saṃgacchate mahādeva dharmaḥ vedāt vinirbabhau .. 16.115..
तथापि भक्तवात्सल्याद् रक्षितव्या महेश्वर । अस्माभिः सर्व एवेमे गन्तारो नरकानपि ॥ १६.११६॥
तथा अपि भक्त-वात्सल्यात् रक्षितव्याः महेश्वर । अस्माभिः सर्वे एवा इमे गन्तारः नरकान् अपि ॥ १६।११६॥
tathā api bhakta-vātsalyāt rakṣitavyāḥ maheśvara . asmābhiḥ sarve evā ime gantāraḥ narakān api .. 16.116..
तस्माद् वै वेदबाह्यानां रक्षणार्थाय पापिनाम् । विमोहनाय शास्त्राणि करिष्यामो वृषध्वज ॥ १६.११७॥
तस्मात् वै वेद-बाह्यानाम् रक्षण-अर्थाय पापिनाम् । विमोहनाय शास्त्राणि करिष्यामः वृषध्वज ॥ १६।११७॥
tasmāt vai veda-bāhyānām rakṣaṇa-arthāya pāpinām . vimohanāya śāstrāṇi kariṣyāmaḥ vṛṣadhvaja .. 16.117..
एवं संबोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥ १६.११८॥
एवम् संबोधितः रुद्रः माधवेन मुरारिणा । चकार मोह-शास्त्राणि केशवः अपि शिव-ईरितः ॥ १६।११८॥
evam saṃbodhitaḥ rudraḥ mādhavena murāriṇā . cakāra moha-śāstrāṇi keśavaḥ api śiva-īritaḥ .. 16.118..
कापालं नाकुलं वामं भैरवं पूर्वपश्चिमम् । पञ्चरात्रं पाशुपतं तथान्यानि सहस्रशः ॥ १६.११९॥
कापालम् नाकुलम् वामम् भैरवम् पूर्व-पश्चिमम् । पञ्चरात्रम् पाशुपतम् तथा अन्यानि सहस्रशस् ॥ १६।११९॥
kāpālam nākulam vāmam bhairavam pūrva-paścimam . pañcarātram pāśupatam tathā anyāni sahasraśas .. 16.119..
सृष्ट्वा तावूचतुर्देवौ कुर्वाणाः शास्रचोदितम् । पतन्तो निरये घोरे बहून् कल्पान् पुनः पुनः ॥ १६.१२॥
सृष्ट्वा तौ ऊचतुः देवौ कुर्वाणाः शास्र-चोदितम् । पतन्तः निरये घोरे बहून् कल्पान् पुनर् पुनर् ॥ १६।१२॥
sṛṣṭvā tau ūcatuḥ devau kurvāṇāḥ śāsra-coditam . patantaḥ niraye ghore bahūn kalpān punar punar .. 16.12..
जायन्तो मानुषे लोके क्षीणपापचयास्ततः । ईश्वराराधनबलाद् गच्छध्वं सुकृतां गतिम् ॥ १६.१२१॥
जायन्तः मानुषे लोके क्षीण-पाप-चयाः ततस् । ईश्वर-आराधन-बलात् गच्छध्वम् सु कृताम् गतिम् ॥ १६।१२१॥
jāyantaḥ mānuṣe loke kṣīṇa-pāpa-cayāḥ tatas . īśvara-ārādhana-balāt gacchadhvam su kṛtām gatim .. 16.121..
वर्तध्वं मत्प्रसादेन नान्यथा निष्कृतिर्हि वः । एवमीश्वरविष्णुभ्यां चोदितास्ते महर्षयः ॥ १६.१२२॥
वर्तध्वम् मद्-प्रसादेन ना अन्यथा निष्कृतिः हि वः । एवम् ईश्वर-विष्णुभ्याम् चोदिताः ते महा-ऋषयः ॥ १६।१२२॥
vartadhvam mad-prasādena nā anyathā niṣkṛtiḥ hi vaḥ . evam īśvara-viṣṇubhyām coditāḥ te mahā-ṛṣayaḥ .. 16.122..
आदेशं प्रत्यपद्यन्त शिरसाऽसुरविद्विषः । चक्रुस्तेऽन्यानि शास्त्राणि तत्र तत्र रताः पुनः ॥ १६.१२३॥
आदेशम् प्रत्यपद्यन्त शिरसा असुर-विद्विषः । चक्रुः ते अन्यानि शास्त्राणि तत्र तत्र रताः पुनर् ॥ १६।१२३॥
ādeśam pratyapadyanta śirasā asura-vidviṣaḥ . cakruḥ te anyāni śāstrāṇi tatra tatra ratāḥ punar .. 16.123..
शिष्यानध्यापयामासुर्दर्शयित्वा फलानि च । मोहयन्त इमं लोकमवतीर्य महीतले ॥ १६.१२४॥
शिष्यान् अध्यापयामासुः दर्शयित्वा फलानि च । मोहयन्तः इमम् लोकम् अवतीर्य मही-तले ॥ १६।१२४॥
śiṣyān adhyāpayāmāsuḥ darśayitvā phalāni ca . mohayantaḥ imam lokam avatīrya mahī-tale .. 16.124..
चकार शंकरो भिक्षां हितायैषां द्विजैः सह । कपालमालाभरणः प्रेतभस्मावगुण्ठितः ॥ १६.१२५॥
चकार शंकरः भिक्षाम् हिताय एषाम् द्विजैः सह । कपाल-माला-आभरणः प्रेत-भस्म-अवगुण्ठितः ॥ १६।१२५॥
cakāra śaṃkaraḥ bhikṣām hitāya eṣām dvijaiḥ saha . kapāla-mālā-ābharaṇaḥ preta-bhasma-avaguṇṭhitaḥ .. 16.125..
विमोहयँल्लोकमिमं जटामण्डलमण्डितः । निक्षिप्य पार्वतीं देवीं विष्णावमिततेजसि ॥ १६.१२६॥
विमोहयन् लोकम् इमम् जटा-मण्डल-मण्डितः । निक्षिप्य पार्वतीम् देवीम् विष्णौ अमित-तेजसि ॥ १६।१२६॥
vimohayan lokam imam jaṭā-maṇḍala-maṇḍitaḥ . nikṣipya pārvatīm devīm viṣṇau amita-tejasi .. 16.126..
नियोज्य भगवान् रुद्रो भैरवं दुष्टनिग्रहे । दत्त्वा नारायणे देवीं नन्दिनं कुलनन्दनम् ॥ १६.१२७॥
नियोज्य भगवान् रुद्रः भैरवम् दुष्ट-निग्रहे । दत्त्वा नारायणे देवीम् नन्दिनम् कुल-नन्दनम् ॥ १६।१२७॥
niyojya bhagavān rudraḥ bhairavam duṣṭa-nigrahe . dattvā nārāyaṇe devīm nandinam kula-nandanam .. 16.127..
संस्थाप्य तत्र च गणान् देवानिन्द्रपुरोगमान् । प्रस्थिते च महादेवे विष्णुर्विश्वतनुः स्वयम् ॥ १६.१२८॥
संस्थाप्य तत्र च गणान् देवान् इन्द्र-पुरोगमान् । प्रस्थिते च महादेवे विष्णुः विश्व-तनुः स्वयम् ॥ १६।१२८॥
saṃsthāpya tatra ca gaṇān devān indra-purogamān . prasthite ca mahādeve viṣṇuḥ viśva-tanuḥ svayam .. 16.128..
स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम् । ब्रह्मा हुताशनः शक्रो यमोऽन्ये सुरपुंगवाः ॥ १६.१२९॥
स्त्री-रूप-धारी नियतम् सेवते स्म महेश्वरीम् । ब्रह्मा हुताशनः शक्रः यमः अन्ये सुर-पुंगवाः ॥ १६।१२९॥
strī-rūpa-dhārī niyatam sevate sma maheśvarīm . brahmā hutāśanaḥ śakraḥ yamaḥ anye sura-puṃgavāḥ .. 16.129..
सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः । नन्दीश्वरश्च भगवान् शंभोरत्यन्तवल्लभः ॥ १६.१३॥
सिषेविरे महादेवीम् स्त्री-वेशम् शोभनम् गताः । नन्दीश्वरः च भगवान् शंभोः अत्यन्त-वल्लभः ॥ १६।१३॥
siṣevire mahādevīm strī-veśam śobhanam gatāḥ . nandīśvaraḥ ca bhagavān śaṃbhoḥ atyanta-vallabhaḥ .. 16.13..
द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत । एतस्मिन्नन्तरे दैत्यो ह्यन्धको नाम दुर्मतिः ॥ १६.१३१॥
द्वार-देशे गणाध्यक्षः यथापूर्वम् अतिष्ठत । एतस्मिन् अन्तरे दैत्यः हि अन्धकः नाम दुर्मतिः ॥ १६।१३१॥
dvāra-deśe gaṇādhyakṣaḥ yathāpūrvam atiṣṭhata . etasmin antare daityaḥ hi andhakaḥ nāma durmatiḥ .. 16.131..
आहर्तुकामो गिरिजामाजगामाथ मन्दरम् । संप्राप्तमन्धकं दृष्ट्वा शंकरः कालभैरवः ॥ १६.१३२॥
आहर्तु-कामः गिरिजाम् आजगाम अथ मन्दरम् । संप्राप्तम् अन्धकम् दृष्ट्वा शंकरः कालभैरवः ॥ १६।१३२॥
āhartu-kāmaḥ girijām ājagāma atha mandaram . saṃprāptam andhakam dṛṣṭvā śaṃkaraḥ kālabhairavaḥ .. 16.132..
न्यषेधयदमेयात्मा कालरूपधरो हरः । तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् ॥ १६.१३३॥
न्यषेधयत् अमेय-आत्मा काल-रूप-धरः हरः । तयोः समभवत् युद्धम् सु घोरम् रोम-हर्षणम् ॥ १६।१३३॥
nyaṣedhayat ameya-ātmā kāla-rūpa-dharaḥ haraḥ . tayoḥ samabhavat yuddham su ghoram roma-harṣaṇam .. 16.133..
शूलेनोरसि तं दैत्यमाजघान वृषध्वजः । ततः सहस्रशो दैत्यः ससर्जान्धकसंज्ञिताः ॥ १६.१३४॥
शूलेन उरसि तम् दैत्यम् आजघान वृषध्वजः । ततस् सहस्रशस् दैत्यः ससर्ज अन्धक-संज्ञिताः ॥ १६।१३४॥
śūlena urasi tam daityam ājaghāna vṛṣadhvajaḥ . tatas sahasraśas daityaḥ sasarja andhaka-saṃjñitāḥ .. 16.134..
नन्दीश्वरादयो दैत्यैरन्धकैरभिनिर्जिताः । घण्टाकर्णो मेघनादश्चण्डेशश्चण्डतापनः ॥ १६.१३५॥
नन्दीश्वर-आदयः दैत्यैः अन्धकैः अभिनिर्जिताः । ॥ १६।१३५॥
nandīśvara-ādayaḥ daityaiḥ andhakaiḥ abhinirjitāḥ . .. 16.135..
विनायको मेघवाहः सोमनन्दी च वैद्युतः । सर्वेऽन्धकं दैत्यवरं संप्राप्यातिबलान्विताः ॥ १६.१३६॥
विनायकः मेघवाहः सोमनन्दी च वैद्युतः । सर्वे अन्धकम् दैत्य-वरम् संप्राप्य अति बल-अन्विताः ॥ १६।१३६॥
vināyakaḥ meghavāhaḥ somanandī ca vaidyutaḥ . sarve andhakam daitya-varam saṃprāpya ati bala-anvitāḥ .. 16.136..
युयुधुः शूलशक्त्यृष्टिगिरिकूटपरश्वधैः । भ्रामयित्वा तु हस्ताभ्यां गृहीतचरणद्वय ॥ १६.१३७॥
युयुधुः शूल-शक्ति-ऋष्टि-गिरि-कूट-परश्वधैः । भ्रामयित्वा तु हस्ताभ्याम् गृहीत-चरण-द्वय ॥ १६।१३७॥
yuyudhuḥ śūla-śakti-ṛṣṭi-giri-kūṭa-paraśvadhaiḥ . bhrāmayitvā tu hastābhyām gṛhīta-caraṇa-dvaya .. 16.137..
दैत्येन्द्रेणातिबलिना क्षिप्तास्ते शतयोजनम् । ततोऽन्धकनिसृष्टास्ते शतशोऽथ सहस्त्रशः ॥ १६.१३८॥
दैत्य-इन्द्रेण अति बलिना क्षिप्ताः ते शत-योजनम् । ततस् अन्धक-निसृष्टाः ते शतशस् अथ सहस्त्रशस् ॥ १६।१३८॥
daitya-indreṇa ati balinā kṣiptāḥ te śata-yojanam . tatas andhaka-nisṛṣṭāḥ te śataśas atha sahastraśas .. 16.138..
कालसूर्यप्रतीकाशा भैरवं त्वभिदुद्रुवुः । हाहेति शब्दः सुमहान् बभूवातिभयंकरः ॥ १६.१३९॥
कालसूर्य-प्रतीकाशाः भैरवम् तु अभिदुद्रुवुः । हाहा इति शब्दः सु महान् बभूव अति भयंकरः ॥ १६।१३९॥
kālasūrya-pratīkāśāḥ bhairavam tu abhidudruvuḥ . hāhā iti śabdaḥ su mahān babhūva ati bhayaṃkaraḥ .. 16.139..
युयोध भैरवो रुद्रः शूलमादाय भीषणम् । दृष्ट्वाऽन्धकानां सुबलं दुर्जयं निर्जितो हरः ॥ १६.१४॥
युयोध भैरवः रुद्रः शूलम् आदाय भीषणम् । दृष्ट्वा अन्धकानाम् सु बलम् दुर्जयम् निर्जितः हरः ॥ १६।१४॥
yuyodha bhairavaḥ rudraḥ śūlam ādāya bhīṣaṇam . dṛṣṭvā andhakānām su balam durjayam nirjitaḥ haraḥ .. 16.14..
जगाम शरणन्देवं वासुदेवमजं विभुम् । सोऽसृजद् भगवान् विष्णुर्देवीनां शतमुत्तमम् ॥ १६.१४१॥
जगाम शरणन् देवम् वासुदेवम् अजम् विभुम् । सः असृजत् भगवान् विष्णुः देवीनाम् शतम् उत्तमम् ॥ १६।१४१॥
jagāma śaraṇan devam vāsudevam ajam vibhum . saḥ asṛjat bhagavān viṣṇuḥ devīnām śatam uttamam .. 16.141..
देवीपार्श्वस्थितो देवो विनाशायामरद्विषाम् । तदान्धकसहस्रं तु देवीभिर्यमसादनम् ॥ १६.१४२॥
देवी-पार्श्व-स्थितः देवः विनाशाय अमरद्विषाम् । तदा अन्धक-सहस्रम् तु देवीभिः यम-सादनम् ॥ १६।१४२॥
devī-pārśva-sthitaḥ devaḥ vināśāya amaradviṣām . tadā andhaka-sahasram tu devībhiḥ yama-sādanam .. 16.142..
नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे । दृष्ट्वा पराहतं सैन्यमन्धकोऽपि महासुरः ॥ १६.१४३॥
नीतम् केशव-माहात्म्यात् लीलया एव रण-अजिरे । दृष्ट्वा पराहतम् सैन्यम् अन्धकः अपि महा-असुरः ॥ १६।१४३॥
nītam keśava-māhātmyāt līlayā eva raṇa-ajire . dṛṣṭvā parāhatam sainyam andhakaḥ api mahā-asuraḥ .. 16.143..
पराङ्मुखो रणात् तस्मात् पलायत महाजवः । ततः क्रीडां महादेवः कृत्वा द्वादशवार्षिकीम् ॥ १६.१४४॥
पराङ्मुखः रणात् तस्मात् पलायत महा-जवः । ततस् क्रीडाम् महादेवः कृत्वा द्वादश-वार्षिकीम् ॥ १६।१४४॥
parāṅmukhaḥ raṇāt tasmāt palāyata mahā-javaḥ . tatas krīḍām mahādevaḥ kṛtvā dvādaśa-vārṣikīm .. 16.144..
हिताय लोके भक्तानामाजगामाथ मन्दरम् । संप्राप्तमीश्वरं ज्ञात्वा सर्व एव गणेश्वराः ॥ १६.१४५॥
हिताय लोके भक्तानाम् आजगाम अथ मन्दरम् । संप्राप्तम् ईश्वरम् ज्ञात्वा सर्वे एव गणेश्वराः ॥ १६।१४५॥
hitāya loke bhaktānām ājagāma atha mandaram . saṃprāptam īśvaram jñātvā sarve eva gaṇeśvarāḥ .. 16.145..
समागम्योपतिष्टन्त भानुमन्तमिव द्विजाः । प्रविश्य भवनं पुण्यमयुक्तानां दुरासदम् ॥ १६.१४६॥
समागम्य उपतिष्टन्त भानुमन्तम् इव द्विजाः । प्रविश्य भवनम् पुण्यम् अयुक्तानाम् दुरासदम् ॥ १६।१४६॥
samāgamya upatiṣṭanta bhānumantam iva dvijāḥ . praviśya bhavanam puṇyam ayuktānām durāsadam .. 16.146..
ददर्श नन्दिनं देवं भैरवं केशवं शिवः । प्रणामप्रवणं देवं सोऽनुगृह्याथ नन्दिनम् ॥ १६.१४७॥
ददर्श नन्दिनम् देवम् भैरवम् केशवम् शिवः । प्रणाम-प्रवणम् देवम् सः अनुगृह्य अथ नन्दिनम् ॥ १६।१४७॥
dadarśa nandinam devam bhairavam keśavam śivaḥ . praṇāma-pravaṇam devam saḥ anugṛhya atha nandinam .. 16.147..
आघ्राय मूर्द्धमीशानः केशवं परिषस्वजे । दृष्ट्वा देवी महादेवं प्रीतिविस्फारितेक्षणाम् ॥ १६.१४८॥
आघ्राय मूर्द्धम् ईशानः केशवम् परिषस्वजे । दृष्ट्वा देवी महादेवम् प्रीति-विस्फारित-ईक्षणाम् ॥ १६।१४८॥
āghrāya mūrddham īśānaḥ keśavam pariṣasvaje . dṛṣṭvā devī mahādevam prīti-visphārita-īkṣaṇām .. 16.148..
ननाम शिरसा तस्य पादयोरीश्वरस्य च । निवेद्य विजयं तस्मै शंकरायाथ शंकरः ॥ ११६.१४९॥
ननाम शिरसा तस्य पादयोः ईश्वरस्य च । निवेद्य विजयम् तस्मै शंकराय अथ शंकरः ॥ ११६।१४९॥
nanāma śirasā tasya pādayoḥ īśvarasya ca . nivedya vijayam tasmai śaṃkarāya atha śaṃkaraḥ .. 116.149..
भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगोऽभवत् । श्रुत्वा तं विजयं शंभुर्विक्रमं केशवस्य च ॥ १६.१५॥
भैरवः विष्णु-माहात्म्यम् प्रणतः पार्श्व-गः अभवत् । श्रुत्वा तम् विजयम् शंभुः विक्रमम् केशवस्य च ॥ १६।१५॥
bhairavaḥ viṣṇu-māhātmyam praṇataḥ pārśva-gaḥ abhavat . śrutvā tam vijayam śaṃbhuḥ vikramam keśavasya ca .. 16.15..
समास्ते भगवानीशो देव्या सह वरासने । ततो देवगणाः सर्वे मरीचिप्रमुखा द्विजाः ॥ १६.१५१॥
समास्ते भगवान् ईशः देव्या सह वरासने । ततस् देव-गणाः सर्वे मरीचि-प्रमुखाः द्विजाः ॥ १६।१५१॥
samāste bhagavān īśaḥ devyā saha varāsane . tatas deva-gaṇāḥ sarve marīci-pramukhāḥ dvijāḥ .. 16.151..
आजग्मुर्मन्दरं द्रुष्टुं देवदेवं त्रिलोचनम् । येन तद् विजितं पूर्वं देवीनां शतमुत्तमम् ॥ १६.१५२॥
आजग्मुः मन्दरम् द्रुष्टुम् देवदेवम् त्रिलोचनम् । येन तत् विजितम् पूर्वम् देवीनाम् शतम् उत्तमम् ॥ १६।१५२॥
ājagmuḥ mandaram druṣṭum devadevam trilocanam . yena tat vijitam pūrvam devīnām śatam uttamam .. 16.152..
समागतं दैत्यसैन्यमीश्दर्शनवाञ्छया । दृष्ट्वा वरासनासीनं देव्या चन्द्रविभूषणम् ॥ १६.१५३॥
समागतम् दैत्य-सैन्यम् ईश्-दर्शन-वाञ्छया । दृष्ट्वा वरासन-आसीनम् देव्या चन्द्र-विभूषणम् ॥ १६।१५३॥
samāgatam daitya-sainyam īś-darśana-vāñchayā . dṛṣṭvā varāsana-āsīnam devyā candra-vibhūṣaṇam .. 16.153..
प्रणेमुरादराद् देव्यो गायन्ति स्मातिलालसाः । प्रणेमुर्गिरिजां देवीं वामपार्श्वे पिनाकिनः ॥ १६.१५४॥
प्रणेमुः आदरात् देव्यः गायन्ति स्म अति लालसाः । प्रणेमुः गिरिजाम् देवीम् वाम-पार्श्वे पिनाकिनः ॥ १६।१५४॥
praṇemuḥ ādarāt devyaḥ gāyanti sma ati lālasāḥ . praṇemuḥ girijām devīm vāma-pārśve pinākinaḥ .. 16.154..
देवासनगतं देवं नारायणमनामयम् । दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च ॥ १६.१५५॥
देव-आसन-गतम् देवम् नारायणम् अनामयम् । दृष्ट्वा सिंहासन-आसीनम् देव्या नारायणेन च ॥ १६।१५५॥
deva-āsana-gatam devam nārāyaṇam anāmayam . dṛṣṭvā siṃhāsana-āsīnam devyā nārāyaṇena ca .. 16.155..
प्रणम्य देवमीशानं पृष्टवत्यो वराङ्गनाः ॥ ॥
प्रणम्य देवम् ईशानम् पृष्टवत्यः वर-अङ्गनाः ॥ ॥
praṇamya devam īśānam pṛṣṭavatyaḥ vara-aṅganāḥ .. ..
कन्या ऊचुः
कस्त्वं विभ्राजसे कान्त्या केयं बालारविप्रभा ॥ १६.१५६॥
कः त्वम् विभ्राजसे कान्त्या का इयम् बाल-अरवि-प्रभा ॥ १६।१५६॥
kaḥ tvam vibhrājase kāntyā kā iyam bāla-aravi-prabhā .. 16.156..
कोऽन्वयं भाति वपुषा पङ्कजायतलोचनः । निशम्य तासां वचनं वृषेन्द्रवरवाहनः ॥ ११६.१५७॥
कः अनु अयम् भाति वपुषा पङ्कज-आयत-लोचनः । निशम्य तासाम् वचनम् वृष-इन्द्र-वर-वाहनः ॥ ११६।१५७॥
kaḥ anu ayam bhāti vapuṣā paṅkaja-āyata-locanaḥ . niśamya tāsām vacanam vṛṣa-indra-vara-vāhanaḥ .. 116.157..
व्याजहार महायोगी भूताधिपतिरव्ययः । अहं नारायणो गौरी जगन्माता सनातनः ॥ १६.१५८॥
व्याजहार महा-योगी भूत-अधिपतिः अव्ययः । अहम् नारायणः गौरी जगन्माता सनातनः ॥ १६।१५८॥
vyājahāra mahā-yogī bhūta-adhipatiḥ avyayaḥ . aham nārāyaṇaḥ gaurī jaganmātā sanātanaḥ .. 16.158..
विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः । न मे विदुः परं तत्त्वं देवाद्या न महर्षयः ॥ १६.१५९॥
विभज्य संस्थितः देवः स्व-आत्मानम् बहुधा ईश्वरः । न मे विदुः परम् तत्त्वम् देव-आद्याः न महा-ऋषयः ॥ १६।१५९॥
vibhajya saṃsthitaḥ devaḥ sva-ātmānam bahudhā īśvaraḥ . na me viduḥ param tattvam deva-ādyāḥ na mahā-ṛṣayaḥ .. 16.159..
एकोऽयं वेद विश्वात्मा भवानी विष्णुरेव च । अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः ॥ १६.१६॥
एकः अयम् वेद विश्वात्मा भवानी विष्णुः एव च । अहम् हि निष्क्रियः शान्तः केवलः निष्परिग्रहः ॥ १६।१६॥
ekaḥ ayam veda viśvātmā bhavānī viṣṇuḥ eva ca . aham hi niṣkriyaḥ śāntaḥ kevalaḥ niṣparigrahaḥ .. 16.16..
मामेव केशवं प्राहुर्लक्ष्मीं र्देवीमथाम्बिकाम् । एष धाता विधाता च कारणं कार्यमेव च ॥ १६.१६१॥
माम् एव केशवम् प्राहुः लक्ष्मीम् देवीम् अथ अम्बिकाम् । एष धाता विधाता च कारणम् कार्यम् एव च ॥ १६।१६१॥
mām eva keśavam prāhuḥ lakṣmīm devīm atha ambikām . eṣa dhātā vidhātā ca kāraṇam kāryam eva ca .. 16.161..
कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः । भोक्ता पुमानप्रमेयः संहर्ता कालरूपधृक् ॥ १६.१६२॥
। भोक्ता पुमान् अप्रमेयः संहर्ता काल-रूपधृक् ॥ १६।१६२॥
. bhoktā pumān aprameyaḥ saṃhartā kāla-rūpadhṛk .. 16.162..
स्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः । कृटस्थो ह्यक्षरो व्यापी योगी नारायणा ह्वयम् ॥ १६.१६३॥
स्रष्टा पाता वासुदेवः विश्वात्मा विश्वतोमुखः । कृटस्थः हि अक्षरः व्यापी योगी नारायणाः ह्वयम् ॥ १६।१६३॥
sraṣṭā pātā vāsudevaḥ viśvātmā viśvatomukhaḥ . kṛṭasthaḥ hi akṣaraḥ vyāpī yogī nārāyaṇāḥ hvayam .. 16.163..
तारकः पुरुषो ह्यात्मा केवलं परमं पदम् । सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना ॥ १६.१६४॥
तारकः पुरुषः हि आत्मा केवलम् परमम् पदम् । सा एषा माहेश्वरी गौरी मम शक्तिः निरञ्जना ॥ १६।१६४॥
tārakaḥ puruṣaḥ hi ātmā kevalam paramam padam . sā eṣā māheśvarī gaurī mama śaktiḥ nirañjanā .. 16.164..
शान्ता सत्या सदानन्दा परं पदमिति श्रुतिः । अस्यां सर्वमिदं जातमत्रैव लयमेष्यति ॥ १६.१६५॥
शान्ता सत्या सत्-आनन्दा परम् पदम् इति श्रुतिः । अस्याम् सर्वम् इदम् जातम् अत्र एव लयम् एष्यति ॥ १६।१६५॥
śāntā satyā sat-ānandā param padam iti śrutiḥ . asyām sarvam idam jātam atra eva layam eṣyati .. 16.165..
एषैव सर्वभूतानां गतीनामुत्तमा गतिः । तयाहं संगतो देव्या केवलो निष्कलः परः ॥ १६.१६६॥
एषा एव सर्व-भूतानाम् गतीनाम् उत्तमा गतिः । तया अहम् संगतः देव्या केवलः निष्कलः परः ॥ १६।१६६॥
eṣā eva sarva-bhūtānām gatīnām uttamā gatiḥ . tayā aham saṃgataḥ devyā kevalaḥ niṣkalaḥ paraḥ .. 16.166..
पश्याम्यशेषमेवेदं यस्तद् परमात्मानमव्ययम् । तस्मादनादिमद्वैतं विष्णुमात्मानमीश्वरम् ॥ १६.१६७॥
पश्यामि अशेषम् एवा इदम् यः तत् परमात्मानम् अव्ययम् । तस्मात् अनादिम् अद्वैतम् विष्णुम् आत्मानम् ईश्वरम् ॥ १६।१६७॥
paśyāmi aśeṣam evā idam yaḥ tat paramātmānam avyayam . tasmāt anādim advaitam viṣṇum ātmānam īśvaram .. 16.167..
एकमेव विजानीथ ततो यास्यथ निर्वृतिम् । मन्यन्ते विष्णुमव्यक्तमात्मानं श्रद्धयाऽन्विताः ॥ १६.१६८॥
एकम् एव विजानीथ ततस् यास्यथ निर्वृतिम् । मन्यन्ते विष्णुम् अव्यक्तम् आत्मानम् श्रद्धया अन्विताः ॥ १६।१६८॥
ekam eva vijānītha tatas yāsyatha nirvṛtim . manyante viṣṇum avyaktam ātmānam śraddhayā anvitāḥ .. 16.168..
ये भिन्नदृष्ट्यापीशानं पूजयन्तो न मे प्रियाः । द्विषन्ति ये जगत्सूतिं मोहिता रौरवादिषु ॥ १६.१६९॥
ये भिन्न-दृष्ट्या अपि ईशानम् पूजयन्तः न मे प्रियाः । द्विषन्ति ये जगत्-सूतिम् मोहिताः रौरव-आदिषु ॥ १६।१६९॥
ye bhinna-dṛṣṭyā api īśānam pūjayantaḥ na me priyāḥ . dviṣanti ye jagat-sūtim mohitāḥ raurava-ādiṣu .. 16.169..
पच्यमाना न मुच्यन्ते कल्पकोटिशतैरपि । तसमादशेषभूतानां रक्षको विष्णुरव्ययः ॥ १६.१७॥
पच्यमानाः न मुच्यन्ते कल्प-कोटि-शतैः अपि । रक्षकः विष्णुः अव्ययः ॥ १६।१७॥
pacyamānāḥ na mucyante kalpa-koṭi-śataiḥ api . rakṣakaḥ viṣṇuḥ avyayaḥ .. 16.17..
यथावदिह विज्ञाय ध्येयः सर्वापदि प्रभुः । श्रुत्वा भगवतो वाक्यं देव्यः सर्वगणेश्वराः ॥ १६.१७१॥
यथावत् इह विज्ञाय ध्येयः सर्व-आपदि प्रभुः । श्रुत्वा भगवतः वाक्यम् देव्यः सर्व-गणेश्वराः ॥ १६।१७१॥
yathāvat iha vijñāya dhyeyaḥ sarva-āpadi prabhuḥ . śrutvā bhagavataḥ vākyam devyaḥ sarva-gaṇeśvarāḥ .. 16.171..
नेमुर्नारायणं देवं देवीं च हिमशैलजाम् । प्रार्थयामासुरीशाने भक्तिं भक्तजनप्रिये ॥ १६.१७२॥
नेमुः नारायणम् देवम् देवीम् च हिमशैलजाम् । प्रार्थयामासुः ईशाने भक्तिम् भक्त-जन-प्रिये ॥ १६।१७२॥
nemuḥ nārāyaṇam devam devīm ca himaśailajām . prārthayāmāsuḥ īśāne bhaktim bhakta-jana-priye .. 16.172..
भवानीपादयुगले नारायणपदाम्बुजे । ततो नारायणं देवं गणेशा मातरोऽपि च ॥ १६.१७३॥
भवानी-पाद-युगले नारायण-पद-अम्बुजे । ततस् नारायणम् देवम् गणेशाः मातरः अपि च ॥ १६।१७३॥
bhavānī-pāda-yugale nārāyaṇa-pada-ambuje . tatas nārāyaṇam devam gaṇeśāḥ mātaraḥ api ca .. 16.173..
न पश्यन्ति जगत्सूतिं तदद्भुतमिवाभवत् । तदन्तरे महादैत्यो ह्यन्धको मन्मथान्धकः ॥ १६.१७४॥
न पश्यन्ति जगत्-सूतिम् तत् अद्भुतम् इव अभवत् । तद्-अन्तरे महा-दैत्यः हि अन्धकः मन्मथ-अन्धकः ॥ १६।१७४॥
na paśyanti jagat-sūtim tat adbhutam iva abhavat . tad-antare mahā-daityaḥ hi andhakaḥ manmatha-andhakaḥ .. 16.174..
मोहितो गिरिजां देवीमाहर्तुं गिरिमाययौ । अथानन्तवपुः श्रीमान् योगी नारायणोऽमलः । तत्रैवाविरभूद् दैत्यैर्युद्धाय पुरुषोत्तमः ॥ १६.१७५॥
मोहितः गिरिजाम् देवीम् आहर्तुम् गिरिम् आययौ । अथ अनन्त-वपुः श्रीमान् योगी नारायणः अमलः । तत्र एव आविरभूत् दैत्यैः युद्धाय पुरुषोत्तमः ॥ १६।१७५॥
mohitaḥ girijām devīm āhartum girim āyayau . atha ananta-vapuḥ śrīmān yogī nārāyaṇaḥ amalaḥ . tatra eva āvirabhūt daityaiḥ yuddhāya puruṣottamaḥ .. 16.175..
कृत्वाऽथ पार्श्वे भगवन्तमीशो युद्धाय विष्णुं गणदेवमुख्यैः । शिलादपुत्रेण च मातृकाभिः स कालरुद्रोऽभिजगाम देवः ॥ १६.१७६॥
कृत्वा अथ पार्श्वे भगवन्तम् ईशः युद्धाय विष्णुम् गण-देव-मुख्यैः । शिलाद-पुत्रेण च मातृकाभिः स कालरुद्रः अभिजगाम देवः ॥ १६।१७६॥
kṛtvā atha pārśve bhagavantam īśaḥ yuddhāya viṣṇum gaṇa-deva-mukhyaiḥ . śilāda-putreṇa ca mātṛkābhiḥ sa kālarudraḥ abhijagāma devaḥ .. 16.176..
त्रिशूलमादाय कृशानुकल्पं स देवदेवः प्रययौ पुरस्तात् । तमन्वयुस्ते गणराजवर्या जगाम देवोऽपि सहस्त्रबाहुः ॥ १६.१७७॥
त्रिशूलम् आदाय कृशानु-कल्पम् स देवदेवः प्रययौ पुरस्तात् । तम् अन्वयुः ते गण-राज-वर्याः जगाम देवः अपि सहस्त्रबाहुः ॥ १६।१७७॥
triśūlam ādāya kṛśānu-kalpam sa devadevaḥ prayayau purastāt . tam anvayuḥ te gaṇa-rāja-varyāḥ jagāma devaḥ api sahastrabāhuḥ .. 16.177..
रराज मध्ये भगवान् सुराणां विवाहनो वारिजपर्णवर्णः । तदा सुमेरोः शिखराधिरूढ- स्त्रिलोकदृष्टिर्भगवानिवार्कः ॥ १६.१७८॥
रराज मध्ये भगवान् सुराणाम् विवाहनः वारिज-पर्ण-वर्णः । तदा सुमेरोः शिखर-अधिरूढः त्रिलोक-दृष्टिः भगवान् इव अर्कः ॥ १६।१७८॥
rarāja madhye bhagavān surāṇām vivāhanaḥ vārija-parṇa-varṇaḥ . tadā sumeroḥ śikhara-adhirūḍhaḥ triloka-dṛṣṭiḥ bhagavān iva arkaḥ .. 16.178..
जगत्यनादिर्भगवानमेयो हरः सहस्राकृतिराविरासीत् । त्रिशूलपाणिर्गगने सुघोषः पपात देवोपरि पुष्पवृष्टिः ॥ १६.१७९॥
जगति अनादिः भगवान् अमेयः हरः सहस्र-आकृतिः आविरासीत् । त्रिशूल-पाणिः गगने सु घोषः पपात देव-उपरि पुष्प-वृष्टिः ॥ १६।१७९॥
jagati anādiḥ bhagavān ameyaḥ haraḥ sahasra-ākṛtiḥ āvirāsīt . triśūla-pāṇiḥ gagane su ghoṣaḥ papāta deva-upari puṣpa-vṛṣṭiḥ .. 16.179..
समागतं वीक्ष्य गणेशराजं समावृतं देवरिपुंगणेशैः । युयोध शक्रेण समातृकाभि- र्गणैरशेषैरमरप्रधानैः ॥ १६.१८॥
समागतम् वीक्ष्य गणेश-राजम् समावृतम् देव-रिपुम् गणेशैः । युयोध शक्रेण स मातृकाभिः गणैः अशेषैः अमर-प्रधानैः ॥ १६।१८॥
samāgatam vīkṣya gaṇeśa-rājam samāvṛtam deva-ripum gaṇeśaiḥ . yuyodha śakreṇa sa mātṛkābhiḥ gaṇaiḥ aśeṣaiḥ amara-pradhānaiḥ .. 16.18..
विजित्य सर्वानपि बाहुवीर्यात् स संयुगे शंभुमनन्तधाम । समाययौ यत्र स कालरुद्रो विमानमारुह्य विहीनसत्त्वः ॥ १६.१८१॥
विजित्य सर्वान् अपि बाहु-वीर्यात् स संयुगे शंभुम् अनन्त-धाम । समाययौ यत्र स कालरुद्रः विमानम् आरुह्य विहीन-सत्त्वः ॥ १६।१८१॥
vijitya sarvān api bāhu-vīryāt sa saṃyuge śaṃbhum ananta-dhāma . samāyayau yatra sa kālarudraḥ vimānam āruhya vihīna-sattvaḥ .. 16.181..
दृष्ट्वान्धकं समयान्तं भगवान् गरुडध्वजः । व्याजहार महादेवं भैरवं भूतिभूषणम् ॥ १६.१८२॥
दृष्ट्वा अन्धकम् भगवान् गरुडध्वजः । व्याजहार महादेवम् भैरवम् भूतिभूषणम् ॥ १६।१८२॥
dṛṣṭvā andhakam bhagavān garuḍadhvajaḥ . vyājahāra mahādevam bhairavam bhūtibhūṣaṇam .. 16.182..
हन्तुमर्हसि दैत्येशमन्धकं लोककण्टकम् । त्वामृते भगवान् शक्तो हन्ता नान्योऽस्य विद्यते ॥ १६.१८३॥
हन्तुम् अर्हसि दैत्य-ईशम् अन्धकम् लोक-कण्टकम् । त्वाम् ऋते भगवान् शक्तः हन्ता न अन्यः अस्य विद्यते ॥ १६।१८३॥
hantum arhasi daitya-īśam andhakam loka-kaṇṭakam . tvām ṛte bhagavān śaktaḥ hantā na anyaḥ asya vidyate .. 16.183..
त्वं हर्ता सर्वलोकानां कालात्मा ह्यैश्वरी तनुः । स्तूयते विविधैर्मन्त्रैर्वेदविद्भिर्विचक्षणैः ॥ १६.१८४॥
त्वम् हर्ता सर्व-लोकानाम् काल-आत्मा हि ऐश्वरी तनुः । स्तूयते विविधैः मन्त्रैः वेद-विद्भिः विचक्षणैः ॥ १६।१८४॥
tvam hartā sarva-lokānām kāla-ātmā hi aiśvarī tanuḥ . stūyate vividhaiḥ mantraiḥ veda-vidbhiḥ vicakṣaṇaiḥ .. 16.184..
स वासुदेवस्य वचो निशम्य भगवान् हरः । निरीक्ष्य विष्णुं हनने दैत्यन्द्रस्य मतिं दधौ ॥ १६.१८५॥
स वासुदेवस्य वचः निशम्य भगवान् हरः । निरीक्ष्य विष्णुम् हनने मतिम् ॥ १६।१८५॥
sa vāsudevasya vacaḥ niśamya bhagavān haraḥ . nirīkṣya viṣṇum hanane matim .. 16.185..
जगाम देवतानीकं गणानां हर्षमुद्वहन् । स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥ १६.१८६॥
जगाम देवता-अनीकम् गणानाम् हर्षम् उद्वहन् । स्तुवन्ति भैरवम् देवम् अन्तरिक्ष-चराः जनाः ॥ १६।१८६॥
jagāma devatā-anīkam gaṇānām harṣam udvahan . stuvanti bhairavam devam antarikṣa-carāḥ janāḥ .. 16.186..
जयानन्त महादेव कालमूर्ते सनातन । त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥ १६.१८७॥
जय अनन्त महादेव काल-मूर्ते सनातन । त्वम् अग्निः सर्व-भूतानाम् अन्तर् चरसि नित्यशस् ॥ १६।१८७॥
jaya ananta mahādeva kāla-mūrte sanātana . tvam agniḥ sarva-bhūtānām antar carasi nityaśas .. 16.187..
त्वं यत्रज्ञस्त्वं वषट्कारस्त्वं धाता हरिरव्ययः । त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥ १६.१८८॥
त्वम् यत्रज्ञः त्वम् वषट्कारः त्वम् धाता हरिः अव्ययः । त्वम् ब्रह्मा त्वम् महादेवः त्वम् धाम परमम् पदम् ॥ १६।१८८॥
tvam yatrajñaḥ tvam vaṣaṭkāraḥ tvam dhātā hariḥ avyayaḥ . tvam brahmā tvam mahādevaḥ tvam dhāma paramam padam .. 16.188..
ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः । महाविभूतिर्देवेशो जयाशेषजगत्पते ॥ १६.१८९॥
ओङ्कार-मूर्तिः योग-आत्मा त्रयी-नेत्रः त्रिलोचनः । महा-विभूतिः देवेशः जय अशेष-जगत्-पते ॥ १६।१८९॥
oṅkāra-mūrtiḥ yoga-ātmā trayī-netraḥ trilocanaḥ . mahā-vibhūtiḥ deveśaḥ jaya aśeṣa-jagat-pate .. 16.189..
ततः कालाग्निरुद्रोऽसौ गृहीत्वाऽन्धकमीश्वरःत्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः । १६.१९०॥ ॥
ततस् कालाग्नि-रुद्रः असौ गृहीत्वा अन्धकम् ईश्वरः त्रिशूल-अग्रेषु विन्यस्य प्रननर्त सताम् गतिः । १६।१९०॥ ॥
tatas kālāgni-rudraḥ asau gṛhītvā andhakam īśvaraḥ triśūla-agreṣu vinyasya prananarta satām gatiḥ . 16.190.. ..
दृष्ट्वाऽन्धकं देवगणाः शूलप्रोतं पितामहः । प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥ १६.१९१॥
दृष्ट्वा अन्धकम् देव-गणाः शूल-प्रोतम् पितामहः । प्रणेमुः ईश्वरम् देवम् भैरवम् भव-मोचकम् ॥ १६।१९१॥
dṛṣṭvā andhakam deva-gaṇāḥ śūla-protam pitāmahaḥ . praṇemuḥ īśvaram devam bhairavam bhava-mocakam .. 16.191..
अस्तुवन् मुनयः सिद्धा जगुर्गन्धर्विकिन्नराः । अन्तरिक्षेऽप्सरः सङ्घा नृत्यन्तिस्म मनोहराः ॥ १६.१९२॥
अस्तुवत् मुनयः सिद्धाः जगुः गन्धर्वि-किन्नराः । अन्तरिक्षे अप्सरः सङ्घाः नृत्यन्तिस्म स्म मनोहराः ॥ १६।१९२॥
astuvat munayaḥ siddhāḥ jaguḥ gandharvi-kinnarāḥ . antarikṣe apsaraḥ saṅghāḥ nṛtyantisma sma manoharāḥ .. 16.192..
संस्थापितोऽथशूलाग्रे सोऽन्धको दग्धकिल्बिषः । उत्पन्नाखिलविज्ञानस्तुष्टाव परमेश्वरम् ॥ १६.१९३॥
संस्थापितः अथ शूल-अग्रे सः अन्धकः दग्ध-किल्बिषः । उत्पन्न-अखिल-विज्ञानः तुष्टाव परमेश्वरम् ॥ १६।१९३॥
saṃsthāpitaḥ atha śūla-agre saḥ andhakaḥ dagdha-kilbiṣaḥ . utpanna-akhila-vijñānaḥ tuṣṭāva parameśvaram .. 16.193..
अन्धक उवाच
नमामि मूर्ध्ना भगवन्तमेकं समाहिता यं विदुरीशतत्त्वम् । पुरातनं पुण्यमनन्तरूपं कालं कविं योगवियोगहेतुम् ॥ १६.१९४॥
नमामि मूर्ध्ना भगवन्तम् एकम् समाहिताः यम् विदुः ईश-तत्त्वम् । पुरातनम् पुण्यम् अनन्त-रूपम् कालम् कविम् योग-वियोग-हेतुम् ॥ १६।१९४॥
namāmi mūrdhnā bhagavantam ekam samāhitāḥ yam viduḥ īśa-tattvam . purātanam puṇyam ananta-rūpam kālam kavim yoga-viyoga-hetum .. 16.194..
दंष्ट्राकरालं दिवि नृत्यमानं हुताशवक्त्रं ज्वलनार्करूपम् । सहस्त्रपादाक्षिशिरोभियुक्तं भवन्तमेकं प्रणमामि रुद्रम् ॥ १६.१९५॥
दंष्ट्रा-करालम् दिवि नृत्यमानम् हुताश-वक्त्रम् ज्वलन-अर्क-रूपम् । सहस्त्र-पाद-अक्षि-शिरः-अभियुक्तम् भवन्तम् एकम् प्रणमामि रुद्रम् ॥ १६।१९५॥
daṃṣṭrā-karālam divi nṛtyamānam hutāśa-vaktram jvalana-arka-rūpam . sahastra-pāda-akṣi-śiraḥ-abhiyuktam bhavantam ekam praṇamāmi rudram .. 16.195..
जयादिदेवामरपूजिताङ्घ्रे विभागहीनामलतत्त्वरूप । त्वमग्निरेको बहुधाऽभिपूज्यो बाह्यादिभेदैरखिलात्मरूपः ॥ १६. १९६॥
जय आदिदेव अमर-पूजित-अङ्घ्रे विभाग-हीन अमल-तत्त्व-रूप । त्वम् अग्निः एकः बहुधा अभिपूज्यः बाह्य-आदि-भेदैः अखिलात्म-रूपः ॥ १६। १९६॥
jaya ādideva amara-pūjita-aṅghre vibhāga-hīna amala-tattva-rūpa . tvam agniḥ ekaḥ bahudhā abhipūjyaḥ bāhya-ādi-bhedaiḥ akhilātma-rūpaḥ .. 16. 196..
त्वामेकमाहुः पुरुषं पुराण- मादित्यवर्णं तमसः परस्तात् । त्वं पश्यसीदं परिपास्यजस्रं त्वमन्तको योगिगणाभिजुष्टः ॥ १६.१९७॥
त्वाम् एकम् आहुः पुरुषम् पुराणम् आदित्य-वर्णम् तमसः परस्तात् । त्वम् पश्यसि इदम् परिपासि अजस्रम् त्वम् अन्तकः योगि-गण-अभिजुष्टः ॥ १६।१९७॥
tvām ekam āhuḥ puruṣam purāṇam āditya-varṇam tamasaḥ parastāt . tvam paśyasi idam paripāsi ajasram tvam antakaḥ yogi-gaṇa-abhijuṣṭaḥ .. 16.197..
एकोऽन्तरात्मा बहुधा निविष्टो देहेषु देहादिविशेषहीनः । त्वमात्मतत्वं परमात्मशब्धं भवन्तमाहुः शिवमेव केचित् ॥ १६.१९८॥
एकः अन्तरात्मा बहुधा निविष्टः देहेषु देह-आदि-विशेष-हीनः । परमात्म-शब्धम् भवन्तम् आहुः शिवम् एव केचिद् ॥ १६।१९८॥
ekaḥ antarātmā bahudhā niviṣṭaḥ deheṣu deha-ādi-viśeṣa-hīnaḥ . paramātma-śabdham bhavantam āhuḥ śivam eva kecid .. 16.198..
त्वमक्षरं ब्रह्म परं पवित्र- मानन्दरूपं प्रणवाभिधानम् । त्वमीश्वरो वेदपदेष्वसिद्धः स्वयं प्रभोऽशेषविशेषहीनः ॥ १६.१९९॥
त्वम् अक्षरम् ब्रह्म परम् पवित्रम् आनन्द-रूपम् प्रणव-अभिधानम् । त्वम् ईश्वरः वेद-पदेषु असिद्धः स्वयम् प्रभो अशेष-विशेष-हीनः ॥ १६।१९९॥
tvam akṣaram brahma param pavitram ānanda-rūpam praṇava-abhidhānam . tvam īśvaraḥ veda-padeṣu asiddhaḥ svayam prabho aśeṣa-viśeṣa-hīnaḥ .. 16.199..
त्वमिन्द्ररूपो वरुणाग्निरूपो हंसः प्राणो मृत्युरन्तासि यज्ञः । प्रजापतिर्भगवानेकरुद्रो नीलग्रीवः स्तूयसे वेदविद्भिः ॥ १६.२॥
त्वम् इन्द्र-रूपः वरुण-अग्नि-रूपः हंसः प्राणः यज्ञः । प्रजापतिः भगवान् एक-रुद्रः नीलग्रीवः स्तूयसे वेद-विद्भिः ॥ १६।२॥
tvam indra-rūpaḥ varuṇa-agni-rūpaḥ haṃsaḥ prāṇaḥ yajñaḥ . prajāpatiḥ bhagavān eka-rudraḥ nīlagrīvaḥ stūyase veda-vidbhiḥ .. 16.2..
नारायणस्त्वं जगतामथादिः पितामहस्त्वं प्रपितामहश्च । वेदान्तगुह्योपनिषत्सु गीतः सदाशिवस्त्वं परमेश्वरोऽसि ॥ १६.२०१॥
नारायणः त्वम् जगताम् अथ आदिः पितामहः त्वम् प्रपितामहः च । वेदान्त-गुह्य-उपनिषत्सु गीतः सदाशिवः त्वम् परमेश्वरः असि ॥ १६।२०१॥
nārāyaṇaḥ tvam jagatām atha ādiḥ pitāmahaḥ tvam prapitāmahaḥ ca . vedānta-guhya-upaniṣatsu gītaḥ sadāśivaḥ tvam parameśvaraḥ asi .. 16.201..
नमः परस्मै तमसः परस्तात् परात्मने पञ्चपदान्तराय । त्रिशक्त्यतीताय निरञ्जनाय सहस्रशक्त्यासनसंस्थिताय ॥ १६.२०२॥
नमः परस्मै तमसः परस्तात् परात्मने पञ्च-पद-अन्तराय । त्रि-शक्ति-अतीताय निरञ्जनाय सहस्र-शक्ति-आसन-संस्थिताय ॥ १६।२०२॥
namaḥ parasmai tamasaḥ parastāt parātmane pañca-pada-antarāya . tri-śakti-atītāya nirañjanāya sahasra-śakti-āsana-saṃsthitāya .. 16.202..
त्रिमूर्त्तयेऽनन्तपदात्ममूर्त्ते जगन्निवासाय जगन्मयाय । नमो ललाटार्पितलोचनाय नमो जनानां हृदि संस्थिताय ॥ १६.२०३॥
त्रिमूर्त्तये अनन्त-पद-आत्म-मूर्त्ते जगन्निवासाय जगत्-मयाय । नमः ललाट-अर्पित-लोचनाय नमः जनानाम् हृदि संस्थिताय ॥ १६।२०३॥
trimūrttaye ananta-pada-ātma-mūrtte jagannivāsāya jagat-mayāya . namaḥ lalāṭa-arpita-locanāya namaḥ janānām hṛdi saṃsthitāya .. 16.203..
मुनीन्द्रसिद्धार्चितपादपद्म। ऐश्वर्यधर्मासनसंस्थितायनमः परान्ताय भवोद्भवाय । सहस्त्रचन्द्रार्कविलोडनाय। १६.२०४.॥ ॥
मुनि-इन्द्र-सिद्ध-अर्चित-पाद-पद्म। ऐश्वर्य-धर्म-आसन-संस्थिताय नमः परान्ताय भवोद्भवाय । सहस्त्र-चन्द्र-अर्क-विलोडनाय। १६।२०४।॥ ॥
muni-indra-siddha-arcita-pāda-padma. aiśvarya-dharma-āsana-saṃsthitāya namaḥ parāntāya bhavodbhavāya . sahastra-candra-arka-viloḍanāya. 16.204... ..
नमोऽस्तु ते सोम सुमध्यमाय । नमोऽस्तु ते देव हिरण्यबाहोनमोऽग्नि चंद्रार्कविलोचनाय नमोऽम्बिकायाः पतये मृडाय ॥ १६.२०५॥
नमः अस्तु ते सोम सु मध्यमाय । नमः अस्तु ते देव हिरण्यबाहो नमः अग्नि चंद्र-अर्क-विलोचनाय नमः अम्बिकायाः पतये मृडाय ॥ १६।२०५॥
namaḥ astu te soma su madhyamāya . namaḥ astu te deva hiraṇyabāho namaḥ agni caṃdra-arka-vilocanāya namaḥ ambikāyāḥ pataye mṛḍāya .. 16.205..
नमोऽतुगुह्याय गुहान्तराय वेदान्तविज्ञानसुनिश्चिताय । त्रिकालहीनामलधामधाम्ने नमो महेशाय नमः शिवाय ॥ १६.२०६॥
नमः अतु गुह्याय गुहा-अन्तराय वेदान्त-विज्ञान-सु निश्चिताय । त्रिकाल-हीन-अमल-धाम-धाम्ने नमः महेशाय नमः शिवाय ॥ १६।२०६॥
namaḥ atu guhyāya guhā-antarāya vedānta-vijñāna-su niścitāya . trikāla-hīna-amala-dhāma-dhāmne namaḥ maheśāya namaḥ śivāya .. 16.206..
एवं स्तुवन्तं भगवान् शूलाग्रादवरोप्य तम् । तुष्टः प्रोवाच हस्ताभ्यां स्पृष्ट्वा च परमेश्वरः ॥ १६.२०७॥
एवम् स्तुवन्तम् भगवान् शूल-अग्रात् अवरोप्य तम् । तुष्टः प्रोवाच हस्ताभ्याम् स्पृष्ट्वा च परमेश्वरः ॥ १६।२०७॥
evam stuvantam bhagavān śūla-agrāt avaropya tam . tuṣṭaḥ provāca hastābhyām spṛṣṭvā ca parameśvaraḥ .. 16.207..
प्रीतोऽहं सर्वथा दैत्य स्तवेनानेन सांप्रतम् । संप्राप्य गाणपत्यं मे सन्निधाने वसामरः ॥ १६.२०८॥
प्रीतः अहम् सर्वथा दैत्य स्तवेन अनेन सांप्रतम् । संप्राप्य गाणपत्यम् मे सन्निधाने वस अमरः ॥ १६।२०८॥
prītaḥ aham sarvathā daitya stavena anena sāṃpratam . saṃprāpya gāṇapatyam me sannidhāne vasa amaraḥ .. 16.208..
अरोगश्छिन्नसंदेहो देवैरपि सुपूजितः । नन्दीश्वरस्यानुचरः सर्वदुःखविवर्जितः ॥ १६.२०९॥
अरोगः छिन्न-संदेहः देवैः अपि सु पूजितः । नन्दीश्वरस्य अनुचरः सर्व-दुःख-विवर्जितः ॥ १६।२०९॥
arogaḥ chinna-saṃdehaḥ devaiḥ api su pūjitaḥ . nandīśvarasya anucaraḥ sarva-duḥkha-vivarjitaḥ .. 16.209..
एवं व्याहृतमात्रे तु देवदेवेन देवताः । गणेश्वरा महादेवमन्धकं देवसन्निधौ ॥ १६.२१॥
एवम् व्याहृत-मात्रे तु देवदेवेन देवताः । गणेश्वराः महादेवम् अन्धकम् देव-सन्निधौ ॥ १६।२१॥
evam vyāhṛta-mātre tu devadevena devatāḥ . gaṇeśvarāḥ mahādevam andhakam deva-sannidhau .. 16.21..
सहस्त्रसूर्यसंकाशं त्रिनेत्रं चन्द्रचिह्नितम् । नीलकण्ठं जटामौलिं शूलासक्तमहाकरम् ॥ १६.२११॥
सहस्त्र-सूर्य-संकाशम् त्रिनेत्रम् चन्द्र-चिह्नितम् । नीलकण्ठम् जटा-मौलिम् शूल-आसक्त-महा-करम् ॥ १६।२११॥
sahastra-sūrya-saṃkāśam trinetram candra-cihnitam . nīlakaṇṭham jaṭā-maulim śūla-āsakta-mahā-karam .. 16.211..
दृष्ट्वा तं तुष्टुवुर्दैत्यमाश्चर्यं परमं गताः । उवाच भगवान् विष्णुर्देवदेवं स्मयन्निव ॥ १६.२१२॥
दृष्ट्वा तम् तुष्टुवुः दैत्यम् आश्चर्यम् परमम् गताः । उवाच भगवान् विष्णुः देवदेवम् स्मयन् इव ॥ १६।२१२॥
dṛṣṭvā tam tuṣṭuvuḥ daityam āścaryam paramam gatāḥ . uvāca bhagavān viṣṇuḥ devadevam smayan iva .. 16.212..
स्थाने तव महादेव प्रभावः पुरुषो महान् । नेक्षतेऽज्ञानजान् दोषान् गृह्णाति च गुणानपि ॥ १६.२१३॥
स्थाने तव महादेव प्रभावः पुरुषः महान् । न ईक्षते अज्ञान-जान् दोषान् गृह्णाति च गुणान् अपि ॥ १६।२१३॥
sthāne tava mahādeva prabhāvaḥ puruṣaḥ mahān . na īkṣate ajñāna-jān doṣān gṛhṇāti ca guṇān api .. 16.213..
इतीरितोऽथ भैरवो गणेशदेवपुंगवः । सकेशवः सहान्धको जगाम शंकरान्तिकम् । निरीक्ष्य देवमागतं सशंकरः सहान्धकम् । समाधवं समातृकं जगाम निर्वृतिं हरः ॥ १६.२१४॥
इति ईरितः अथ भैरवः गणेश-देव-पुंगवः । स केशवः सह अन्धकः जगाम शंकर-अन्तिकम् । निरीक्ष्य देवम् आगतम् स शंकरः सह अन्धकम् । स माधवम् स मातृकम् जगाम निर्वृतिम् हरः ॥ १६।२१४॥
iti īritaḥ atha bhairavaḥ gaṇeśa-deva-puṃgavaḥ . sa keśavaḥ saha andhakaḥ jagāma śaṃkara-antikam . nirīkṣya devam āgatam sa śaṃkaraḥ saha andhakam . sa mādhavam sa mātṛkam jagāma nirvṛtim haraḥ .. 16.214..
प्रगृह्य पाणिनेश्वरो हिरण्यलोचनात्मजम् । जगाम यत्र शैलजा विमानमीशवल्लभा ॥ १६.२१५॥
प्रगृह्य पाणिना ईश्वरः हिरण्य-लोचन-आत्मजम् । जगाम यत्र शैलजा विमानम् ईश-वल्लभा ॥ १६।२१५॥
pragṛhya pāṇinā īśvaraḥ hiraṇya-locana-ātmajam . jagāma yatra śailajā vimānam īśa-vallabhā .. 16.215..
विलोक्य सा समागतं भवं भवार्तिहारिणम् । अवाप सान्धकं सुखं प्रसादमन्धकं प्रति ॥ १६.२१६॥
विलोक्य सा समागतम् भवम् भव-आर्ति-हारिणम् । अवाप सा अन्धकम् सुखम् प्रसादम् अन्धकम् प्रति ॥ १६।२१६॥
vilokya sā samāgatam bhavam bhava-ārti-hāriṇam . avāpa sā andhakam sukham prasādam andhakam prati .. 16.216..
अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् । पपात दण्डवत्क्षितौ ननाम पादपद्मयोः । नमामि देववल्लभामनादिमद्रिजामिमाम् । यतः प्रधानपूरुषौ निहन्ति याऽखिलं जगत् ॥ १६.२१७॥
अथा अन्धकः महेश्वरीम् ददर्श देव-पार्श्व-गाम् । पपात दण्ड-वत् क्षितौ ननाम पाद-पद्मयोः । नमामि देव-वल्लभाम् अनादिम् अद्रिजाम् इमाम् । यतस् प्रधान-पूरुषौ निहन्ति या अखिलम् जगत् ॥ १६।२१७॥
athā andhakaḥ maheśvarīm dadarśa deva-pārśva-gām . papāta daṇḍa-vat kṣitau nanāma pāda-padmayoḥ . namāmi deva-vallabhām anādim adrijām imām . yatas pradhāna-pūruṣau nihanti yā akhilam jagat .. 16.217..
विभाति या शिवासने शिवेन साकमव्यया । हिरण्मयेऽतिनिर्मले नमामि तां हिमाद्रिजाम् । यदन्तराखिलं जगज्जगन्ति यान्ति संक्षयम् । नमामि यत्र तामुमामशेषबेदवर्जिताम् ॥ १६.२१८॥
विभाति या शिव-आसने शिवेन साकम् अव्यया । हिरण्मये अति निर्मले नमामि ताम् हिमाद्रिजाम् । यत् अन्तरा अखिलम् जगत् जगन्ति यान्ति संक्षयम् । नमामि यत्र ताम् उमाम् अशेष-बेद-वर्जिताम् ॥ १६।२१८॥
vibhāti yā śiva-āsane śivena sākam avyayā . hiraṇmaye ati nirmale namāmi tām himādrijām . yat antarā akhilam jagat jaganti yānti saṃkṣayam . namāmi yatra tām umām aśeṣa-beda-varjitām .. 16.218..
न जायते नहीयते न वर्द्धते च तामुमाम् । नमामि या गुणातिगां गिरीशपुत्रिकामिमाम् । क्षमस्व देवि शैलजे कृतं मया विमाहतं । सुरासुरैर्नमस्कृतं नमामि ते पदाम्बुजम् ॥ १६.२१९॥
न जायते न हीयते न वर्द्धते च ताम् उमाम् । नमामि या गुण-अतिगाम् गिरीश-पुत्रिकाम् इमाम् । क्षमस्व देवि शैलजे कृतम् मया विमा-हतम् । सुर-असुरैः नमस्कृतम् नमामि ते पद-अम्बुजम् ॥ १६।२१९॥
na jāyate na hīyate na varddhate ca tām umām . namāmi yā guṇa-atigām girīśa-putrikām imām . kṣamasva devi śailaje kṛtam mayā vimā-hatam . sura-asuraiḥ namaskṛtam namāmi te pada-ambujam .. 16.219..
इत्थं भगवती दिवी भक्तिनम्रेण पार्वती । संस्तुता दैत्यपतिना पुत्रत्वे जगृहेऽन्धकम् ॥ १६.२१९॥
इत्थम् भगवती दिवी भक्ति-नम्रेण पार्वती । संस्तुता दैत्य-पतिना पुत्र-त्वे जगृहे अन्धकम् ॥ १६।२१९॥
ittham bhagavatī divī bhakti-namreṇa pārvatī . saṃstutā daitya-patinā putra-tve jagṛhe andhakam .. 16.219..
ततः स मातृभिः सार्द्धं भैरवो रुद्रसंभवः । जगामानुज्ञया शंभोः पातालं परमेश्वरः ॥ १६.२२॥
ततस् स मातृभिः सार्द्धम् भैरवः रुद्र-संभवः । जगाम अनुज्ञया शंभोः पातालम् परमेश्वरः ॥ १६।२२॥
tatas sa mātṛbhiḥ sārddham bhairavaḥ rudra-saṃbhavaḥ . jagāma anujñayā śaṃbhoḥ pātālam parameśvaraḥ .. 16.22..
यत्र सा तामसी विष्णोर्मूर्तिः संहारकारिका । समास्ते हरिरव्यक्तो नृसिंहाकृतिरीश्वरः ॥ १६.२२१॥
यत्र सा तामसी विष्णोः मूर्तिः संहार-कारिका । समास्ते हरिः अव्यक्तः नृसिंह-आकृतिः ईश्वरः ॥ १६।२२१॥
yatra sā tāmasī viṣṇoḥ mūrtiḥ saṃhāra-kārikā . samāste hariḥ avyaktaḥ nṛsiṃha-ākṛtiḥ īśvaraḥ .. 16.221..
ततोऽनन्ताकृतिः शंभुः शेषेणापि सुपूजितः । कालाग्निरुद्रो भगवान् युयोजात्मानमात्मनि ॥ १६.२२२॥
ततस् अनन्त-आकृतिः शंभुः शेषेण अपि सु पूजितः । कालाग्नि-रुद्रः भगवान् युयोज आत्मानम् आत्मनि ॥ १६।२२२॥
tatas ananta-ākṛtiḥ śaṃbhuḥ śeṣeṇa api su pūjitaḥ . kālāgni-rudraḥ bhagavān yuyoja ātmānam ātmani .. 16.222..
युञ्जतस्तस्य देवस्य सर्वा एवाथ मातरः । बुभुक्षिता महादेवं प्रणम्याहुस्त्रिशूलिनम् ॥ १६.२२३॥
युञ्जतः तस्य देवस्य सर्वाः एव अथ मातरः । बुभुक्षिताः महादेवम् प्रणम्य आहुः त्रिशूलिनम् ॥ १६।२२३॥
yuñjataḥ tasya devasya sarvāḥ eva atha mātaraḥ . bubhukṣitāḥ mahādevam praṇamya āhuḥ triśūlinam .. 16.223..
मातर ऊचुः
बुभुक्षिता महादेव अनुज्ञा दीयतां त्वया । त्रैलोक्यं भक्षयिष्यामो नान्यथा तृप्तिरस्तिनः ॥ १६.२२४॥
बुभुक्षिताः महादेव अनुज्ञा दीयताम् त्वया । त्रैलोक्यम् भक्षयिष्यामः न अन्यथा तृप्तिः अस्तिनः ॥ १६।२२४॥
bubhukṣitāḥ mahādeva anujñā dīyatām tvayā . trailokyam bhakṣayiṣyāmaḥ na anyathā tṛptiḥ astinaḥ .. 16.224..
एतावदुक्त्वा वचनं मातरो विष्णुसंभवाः । भक्षयाञ्चक्रिरे सर्वं त्रैलोक्यं सचराचरम् ॥ १६.२२५॥
एतावत् उक्त्वा वचनम् मातरः विष्णु-संभवाः । भक्षयाञ्चक्रिरे सर्वम् त्रैलोक्यम् स चराचरम् ॥ १६।२२५॥
etāvat uktvā vacanam mātaraḥ viṣṇu-saṃbhavāḥ . bhakṣayāñcakrire sarvam trailokyam sa carācaram .. 16.225..
ततः स भैरवो देवो नृसिंहवपुषं हरिम् । दध्यौ नारायणं देवं प्रणम्यचकृताञ्जलिः ॥ १६.२२६॥
ततस् स भैरवः देवः नृसिंह-वपुषम् हरिम् । दध्यौ नारायणम् देवम् प्रणम्य चकृत-अञ्जलिः ॥ १६।२२६॥
tatas sa bhairavaḥ devaḥ nṛsiṃha-vapuṣam harim . dadhyau nārāyaṇam devam praṇamya cakṛta-añjaliḥ .. 16.226..
उमेश चिंतितं ज्ञात्वा क्षणात्प्रादुरभूद्धरिः। विज्ञापयामास च तं भक्षयन्तीह मातरः ॥ १६.२२७॥
उमेश चिंतितम् ज्ञात्वा क्षणात् प्रादुरभूत् हरिः। विज्ञापयामास च तम् भक्षयन्ति इह मातरः ॥ १६।२२७॥
umeśa ciṃtitam jñātvā kṣaṇāt prādurabhūt hariḥ. vijñāpayāmāsa ca tam bhakṣayanti iha mātaraḥ .. 16.227..
निवारयाशु त्रैलोक्यं त्वदीया भगवन्निति । संस्मृता विष्णुना देव्यो नृसिंहवपुषा पुनः । उपतस्थुर्महादेवं नरसिंहाकृतिं च तम् ॥ १६.२२८॥
निवारय आशु त्रैलोक्यम् त्वदीयाः भगवन् इति । संस्मृताः विष्णुना देव्यः नृसिंह-वपुषा पुनर् । उपतस्थुः महादेवम् नरसिंह-आकृतिम् च तम् ॥ १६।२२८॥
nivāraya āśu trailokyam tvadīyāḥ bhagavan iti . saṃsmṛtāḥ viṣṇunā devyaḥ nṛsiṃha-vapuṣā punar . upatasthuḥ mahādevam narasiṃha-ākṛtim ca tam .. 16.228..
संप्राप्य सन्निधिं विष्णोः सर्व संहारकारिकाः । प्रददुः शंभवे शक्तिं भैरवायातितेजसे ॥ १६.२२९॥
संप्राप्य सन्निधिम् विष्णोः संहार-कारकाः । प्रददुः शंभवे शक्तिम् भैरवाय अति तेजसे ॥ १६।२२९॥
saṃprāpya sannidhim viṣṇoḥ saṃhāra-kārakāḥ . pradaduḥ śaṃbhave śaktim bhairavāya ati tejase .. 16.229..
अपश्यंस्ता जगत्सूतिं नृसिंहमथ भैरवम् । क्षणादेकत्वमापन्नं शेषाहिं चापि मातरः ॥ १६.२३॥
अपश्यन् ताः जगत्-सूतिम् नृसिंहम् अथ भैरवम् । क्षणात् एक-त्वम् आपन्नम् शेष-अहिम् च अपि मातरः ॥ १६।२३॥
apaśyan tāḥ jagat-sūtim nṛsiṃham atha bhairavam . kṣaṇāt eka-tvam āpannam śeṣa-ahim ca api mātaraḥ .. 16.23..
व्याजहार हृषीकेशो ये भक्ताः शूलपाणये । ये च मां संस्मरन्तीह पालनीयाः प्रयत्नतः ॥ १६.२३१॥
व्याजहार हृषीकेशः ये भक्ताः शूलपाणये । ये च माम् संस्मरन्ति इह पालनीयाः प्रयत्नतः ॥ १६।२३१॥
vyājahāra hṛṣīkeśaḥ ye bhaktāḥ śūlapāṇaye . ye ca mām saṃsmaranti iha pālanīyāḥ prayatnataḥ .. 16.231..
ममैव मूर्तिरतुला सर्वसंहारकारिका । महेश्वरांशसंभूता भुक्तिमुक्तिप्रदायिनी ॥ १६.२३२॥
मम एव मूर्तिः अतुला सर्व-संहार-कारिका । ॥ १६।२३२॥
mama eva mūrtiḥ atulā sarva-saṃhāra-kārikā . .. 16.232..
अनन्तो भगवान् कालो द्विधाऽवस्था ममैव तु । तामसी राजसी मूर्तिर्देवदेवश्चतुर्मुखः ॥ १६.२३३॥
अनन्तः भगवान् कालः द्विधा अवस्था मम एव तु । तामसी राजसी मूर्तिः देवदेवः चतुर्मुखः ॥ १६।२३३॥
anantaḥ bhagavān kālaḥ dvidhā avasthā mama eva tu . tāmasī rājasī mūrtiḥ devadevaḥ caturmukhaḥ .. 16.233..
सोऽयं देवो दुराधर्षः कालो लोकप्रकालनः । भक्षयिष्यति कल्पान्ते रुद्रात्मा निखिलं जगत् ॥ १६.२३४॥
सः अयम् देवः दुराधर्षः कालः लोक-प्रकालनः । भक्षयिष्यति कल्प-अन्ते रुद्र-आत्मा निखिलम् जगत् ॥ १६।२३४॥
saḥ ayam devaḥ durādharṣaḥ kālaḥ loka-prakālanaḥ . bhakṣayiṣyati kalpa-ante rudra-ātmā nikhilam jagat .. 16.234..
या सा विमोहिका मूर्तिर्मम नारायणाह्वया । सत्त्वोद्रिक्ताजगत् कृत्स्नं संस्थापयति नित्यदा ॥ १६.२३५॥
या सा विमोहिका मूर्तिः मम नारायण-आह्वया । सत्त्व-उद्रिक्त-अजगत् कृत्स्नम् संस्थापयति नित्यदा ॥ १६।२३५॥
yā sā vimohikā mūrtiḥ mama nārāyaṇa-āhvayā . sattva-udrikta-ajagat kṛtsnam saṃsthāpayati nityadā .. 16.235..
स हि विष्णुः परं ब्रह्म परमात्मा परा गतिः । मूलप्रकृतिरव्यक्ता सदानन्देति कथ्यते ॥ १६.२३६॥
स हि विष्णुः परम् ब्रह्म परमात्मा परा गतिः । मूलप्रकृतिः अव्यक्ता सदानन्द-इति कथ्यते ॥ १६।२३६॥
sa hi viṣṇuḥ param brahma paramātmā parā gatiḥ . mūlaprakṛtiḥ avyaktā sadānanda-iti kathyate .. 16.236..
इत्येवं बोधिता देव्यो विष्णुना विश्वमातरः । प्रपेदिरे महादेवं तमेव शरणं हरम् ॥ १६.२३७॥
इति एवम् बोधिताः देव्यः विष्णुना विश्व-मातरः । प्रपेदिरे महादेवम् तम् एव शरणम् हरम् ॥ १६।२३७॥
iti evam bodhitāḥ devyaḥ viṣṇunā viśva-mātaraḥ . prapedire mahādevam tam eva śaraṇam haram .. 16.237..
एतद् वः कथितं सर्वं मयाऽन्धकनिबर्हणम् । माहात्म्यं देवदेवस्य भैरवस्यामितौजसः ॥ १६.२३८॥
एतत् वः कथितम् सर्वम् मया अन्धक-निबर्हणम् । माहात्म्यम् देवदेवस्य भैरवस्य अमित-ओजसः ॥ १६।२३८॥
etat vaḥ kathitam sarvam mayā andhaka-nibarhaṇam . māhātmyam devadevasya bhairavasya amita-ojasaḥ .. 16.238..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षोडशोऽध्यायः॥ १६॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे षोडशः अध्यायः॥ १६॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ṣoḍaśaḥ adhyāyaḥ.. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In