इति ईरितः अथ भैरवः गणेश-देव-पुंगवः । स केशवः सह अन्धकः जगाम शंकर-अन्तिकम् । निरीक्ष्य देवम् आगतम् स शंकरः सह अन्धकम् । स माधवम् स मातृकम् जगाम निर्वृतिम् हरः ॥ १६।२१४॥
TRANSLITERATION
iti īritaḥ atha bhairavaḥ gaṇeśa-deva-puṃgavaḥ . sa keśavaḥ saha andhakaḥ jagāma śaṃkara-antikam . nirīkṣya devam āgatam sa śaṃkaraḥ saha andhakam . sa mādhavam sa mātṛkam jagāma nirvṛtim haraḥ .. 16.214..
न जायते नहीयते न वर्द्धते च तामुमाम् । नमामि या गुणातिगां गिरीशपुत्रिकामिमाम् । क्षमस्व देवि शैलजे कृतं मया विमाहतं । सुरासुरैर्नमस्कृतं नमामि ते पदाम्बुजम् ॥ १६.२१९॥
PADACHEDA
न जायते न हीयते न वर्द्धते च ताम् उमाम् । नमामि या गुण-अतिगाम् गिरीश-पुत्रिकाम् इमाम् । क्षमस्व देवि शैलजे कृतम् मया विमा-हतम् । सुर-असुरैः नमस्कृतम् नमामि ते पद-अम्बुजम् ॥ १६।२१९॥
TRANSLITERATION
na jāyate na hīyate na varddhate ca tām umām . namāmi yā guṇa-atigām girīśa-putrikām imām . kṣamasva devi śailaje kṛtam mayā vimā-hatam . sura-asuraiḥ namaskṛtam namāmi te pada-ambujam .. 16.219..