| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् । कश्यपो गोत्रकामस्तु चचार सुमहत् तपः ॥ १९.१॥
एतान् उत्पाद्य पुत्रान् तु प्रजा-संतान-कारणात् । कश्यपः गोत्र-कामः तु चचार सु महत् तपः ॥ १९।१॥
etān utpādya putrān tu prajā-saṃtāna-kāraṇāt . kaśyapaḥ gotra-kāmaḥ tu cacāra su mahat tapaḥ .. 19.1..
तस्य वै तपतोऽत्यर्थं प्रादुर्भूतौ सुताविमौ । वत्सरश्चासिश्चैव तावुभौ ब्रह्मवादिनौ ॥ १९.२॥
तस्य वै तपतः अत्यर्थम् प्रादुर्भूतौ सुतौ इमौ । वत्सरः च असिः च एव तौ उभौ ब्रह्म-वादिनौ ॥ १९।२॥
tasya vai tapataḥ atyartham prādurbhūtau sutau imau . vatsaraḥ ca asiḥ ca eva tau ubhau brahma-vādinau .. 19.2..
वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः । रैभ्यस्य जज्ञिरे शूद्राः पुत्रा श्रुतिमतां वराः ॥ १९.३॥
वत्सरात् नैध्रुवः जज्ञे रैभ्यः च सु महा-यशाः । रैभ्यस्य जज्ञिरे शूद्राः श्रुतिमताम् वराः ॥ १९।३॥
vatsarāt naidhruvaḥ jajñe raibhyaḥ ca su mahā-yaśāḥ . raibhyasya jajñire śūdrāḥ śrutimatām varāḥ .. 19.3..
च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः । सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ १९.४॥
च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः । सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ १९।४॥
cyavanasya sutā patnī naidhruvasya mahātmanaḥ . sumedhā janayāmāsa putrān vai kuṇḍapāyinaḥ .. 19.4..
असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत । नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः ॥ १९.५॥
असितस्य एकपर्णायाम् ब्रह्मिष्ठः समपद्यत । नाम्ना वै देवलः पुत्रः योग-आचार्यः महा-तपाः ॥ १९।५॥
asitasya ekaparṇāyām brahmiṣṭhaḥ samapadyata . nāmnā vai devalaḥ putraḥ yoga-ācāryaḥ mahā-tapāḥ .. 19.5..
शाण्डिल्यानां परः श्रीमान् सर्वतत्त्वार्थवित् सुधीः । प्रसादात् पार्वतीशस्य योगमुत्तममाप्तवान् ॥ १९.६॥
शाण्डिल्यानाम् परः श्रीमान् सर्व-तत्त्व-अर्थ-विद् सुधीः । प्रसादात् पार्वतीशस्य योगम् उत्तमम् आप्तवान् ॥ १९।६॥
śāṇḍilyānām paraḥ śrīmān sarva-tattva-artha-vid sudhīḥ . prasādāt pārvatīśasya yogam uttamam āptavān .. 19.6..
शाण्डिल्या नैध्रुवो रैभ्यः त्रयः पुत्रास्तु काश्यपाः । नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः ॥ १९.७॥
शाण्डिल्याः नैध्रुवः रैभ्यः त्रयः पुत्राः तु काश्यपाः । नर-प्रकृतयः विप्राः पुलस्त्यस्य वदामि वः ॥ १९।७॥
śāṇḍilyāḥ naidhruvaḥ raibhyaḥ trayaḥ putrāḥ tu kāśyapāḥ . nara-prakṛtayaḥ viprāḥ pulastyasya vadāmi vaḥ .. 19.7..
तृणबिन्दोः सुता विप्रा नाम्ना ऐलविला स्मृता । पुलस्त्याय तु राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ १९.८॥
तृणबिन्दोः सुता विप्राः नाम्ना ऐलविला स्मृता । पुलस्त्याय तु राजर्षिः ताम् कन्याम् प्रत्यपादयत् ॥ १९।८॥
tṛṇabindoḥ sutā viprāḥ nāmnā ailavilā smṛtā . pulastyāya tu rājarṣiḥ tām kanyām pratyapādayat .. 19.8..
ऋषिस्त्वैलविलिस्तस्यां विश्रवाः समपद्यत । तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धिकाः ॥ १९.९॥
ऋषिः तु ऐलविलिः तस्याम् विश्रवाः समपद्यत । तस्य पत्न्यः चतस्रः तु ॥ १९।९॥
ṛṣiḥ tu ailaviliḥ tasyām viśravāḥ samapadyata . tasya patnyaḥ catasraḥ tu .. 19.9..
पुष्पोत्कटा च वाका च कैकसी देववर्णिनी । रूपलावण्यसंपन्नास्तासां वै श्रृणुत प्रजाः ॥ १९.१॥
पुष्पोत्कटा च वाका च कैकसी देववर्णिनी । रूप-लावण्य-संपन्नाः तासाम् वै श्रृणुत प्रजाः ॥ १९।१॥
puṣpotkaṭā ca vākā ca kaikasī devavarṇinī . rūpa-lāvaṇya-saṃpannāḥ tāsām vai śrṛṇuta prajāḥ .. 19.1..
ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी । कैकस्यजनयत् पुत्रं रावणं राक्षसाधिपम् ॥ १९.११॥
ज्येष्ठम् वैश्रवणम् तस्य सुषुवे देववर्णिनी । कैकस्य अजनयत् पुत्रम् रावणम् राक्षस-अधिपम् ॥ १९।११॥
jyeṣṭham vaiśravaṇam tasya suṣuve devavarṇinī . kaikasya ajanayat putram rāvaṇam rākṣasa-adhipam .. 19.11..
कुम्भकर्णं शूर्पणखां तथैव च विभीषणम् । पुष्पोत्कटाप्यजनयत् पुत्रान् विश्रवसः शुभान् ॥ १९.१२॥
कुम्भकर्णम् शूर्पणखाम् तथा एव च विभीषणम् । पुष्पोत्कटा अपि अजनयत् पुत्रान् विश्रवसः शुभान् ॥ १९।१२॥
kumbhakarṇam śūrpaṇakhām tathā eva ca vibhīṣaṇam . puṣpotkaṭā api ajanayat putrān viśravasaḥ śubhān .. 19.12..
महोदरं प्रहस्तं च महापार्श्वं खरं तथा । कुम्भीनसीं तथा कन्यां वाकायां श्रृणुत प्रजाः ॥ १९.१३॥
महोदरम् प्रहस्तम् च महापार्श्वम् खरम् तथा । कुम्भीनसीम् तथा कन्याम् वाकायाम् श्रृणुत प्रजाः ॥ १९।१३॥
mahodaram prahastam ca mahāpārśvam kharam tathā . kumbhīnasīm tathā kanyām vākāyām śrṛṇuta prajāḥ .. 19.13..
त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः । इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः ॥ १९.१४॥
त्रिशिराः दूषणः च एव विद्युज्जिह्वः महा-बलः । इति एते क्रूर-कर्माणः पौलस्त्याः राक्षसाः दश । सर्वे तपः-बल-उत्कृष्टाः रुद्र-भक्ताः सु भीषणाः ॥ १९।१४॥
triśirāḥ dūṣaṇaḥ ca eva vidyujjihvaḥ mahā-balaḥ . iti ete krūra-karmāṇaḥ paulastyāḥ rākṣasāḥ daśa . sarve tapaḥ-bala-utkṛṣṭāḥ rudra-bhaktāḥ su bhīṣaṇāḥ .. 19.14..
पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः । भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥ १९.१५॥
पुलहस्य मृगाः पुत्राः सर्वे व्यालाः च दंष्ट्रिणः । भूताः पिशाचाः सर्पाः च शूकराः हस्तिनः तथा ॥ १९।१५॥
pulahasya mṛgāḥ putrāḥ sarve vyālāḥ ca daṃṣṭriṇaḥ . bhūtāḥ piśācāḥ sarpāḥ ca śūkarāḥ hastinaḥ tathā .. 19.15..
अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे । मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः ॥ १९.१६॥
अनपत्यः क्रतुः तस्मिन् स्मृतः वैवस्वते अन्तरे । मरीचेः कश्यपः पुत्रः स्वयम् एव प्रजापतिः ॥ १९।१६॥
anapatyaḥ kratuḥ tasmin smṛtaḥ vaivasvate antare . marīceḥ kaśyapaḥ putraḥ svayam eva prajāpatiḥ .. 19.16..
भृगोरप्यभवच्छुक्रो दैत्याचार्यो महातपाः । स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः ॥ १९.१७॥
भृगोः अपि अभवत् शुक्रः दैत्य-आचार्यः महा-तपाः । स्वाध्याय-योग-निरतः हर-भक्तः महा-द्युतिः ॥ १९।१७॥
bhṛgoḥ api abhavat śukraḥ daitya-ācāryaḥ mahā-tapāḥ . svādhyāya-yoga-nirataḥ hara-bhaktaḥ mahā-dyutiḥ .. 19.17..
अत्रेः पुत्रोऽभवद्वह्निः सोदर्यस्ताः पतिव्रताः । कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति न श्रुतम् ॥ १९.१८॥
अत्रेः पुत्रः अभवत् वह्निः सोदर्यः ताः पतिव्रताः । कृशाश्वस्य तु विप्र-इन्द्राः घृताच्याम् इति न श्रुतम् ॥ १९।१८॥
atreḥ putraḥ abhavat vahniḥ sodaryaḥ tāḥ pativratāḥ . kṛśāśvasya tu vipra-indrāḥ ghṛtācyām iti na śrutam .. 19.18..
स तासु जनयामास स्वस्त्यात्रेयान् महौजसः । वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान् ॥ १९.१९॥
स तासु जनयामास स्वस्त्यात्रेयान् महा-ओजसः । वेद-वेदाङ्ग-निरतान् तपसा हत-किल्बिषान् ॥ १९।१९॥
sa tāsu janayāmāsa svastyātreyān mahā-ojasaḥ . veda-vedāṅga-niratān tapasā hata-kilbiṣān .. 19.19..
नारदस्तु वसिष्ठाय ददौ देवीमरुन्धतीम् । ऊर्ध्वरेतास्तु तत्रैव शापाद् दक्षस्य नारदः ॥ १९.२॥
नारदः तु वसिष्ठाय ददौ देवीम् अरुन्धतीम् । ऊर्ध्वरेताः तु तत्र एव शापात् दक्षस्य नारदः ॥ १९।२॥
nāradaḥ tu vasiṣṭhāya dadau devīm arundhatīm . ūrdhvaretāḥ tu tatra eva śāpāt dakṣasya nāradaḥ .. 19.2..
हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु । शशाप नारदं दक्षः क्रोधसंरक्तलोचनः ॥ १९.२१॥
हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु । शशाप नारदम् दक्षः क्रोध-संरक्त-लोचनः ॥ १९।२१॥
haryaśveṣu tu naṣṭeṣu māyayā nāradasya tu . śaśāpa nāradam dakṣaḥ krodha-saṃrakta-locanaḥ .. 19.21..
यस्मान्मम सुताः सर्वे भवतो मायया द्विज । क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति ॥ १९.२२॥
यस्मात् मम सुताः सर्वे भवतः मायया द्विज । क्षयम् नीताः तु अशेषेण निरपत्यः भविष्यति ॥ १९।२२॥
yasmāt mama sutāḥ sarve bhavataḥ māyayā dvija . kṣayam nītāḥ tu aśeṣeṇa nirapatyaḥ bhaviṣyati .. 19.22..
अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयत् सुतम् । शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः ॥ १९.२३॥
अरुन्धत्याम् वसिष्ठः तु शक्तिम् उत्पादयत् सुतम् । शक्तेः पराशरः श्रीमान् सर्व-ज्ञः तपताम् वरः ॥ १९।२३॥
arundhatyām vasiṣṭhaḥ tu śaktim utpādayat sutam . śakteḥ parāśaraḥ śrīmān sarva-jñaḥ tapatām varaḥ .. 19.23..
आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् । लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम् ॥ १९.२४॥
आराध्य देवदेवेशम् ईशानम् त्रिपुरान्तकम् । लेभे तु अप्रतिमम् पुत्रम् कृष्णाद्वैपायनम् प्रभुम् ॥ १९।२४॥
ārādhya devadeveśam īśānam tripurāntakam . lebhe tu apratimam putram kṛṣṇādvaipāyanam prabhum .. 19.24..
द्वैपायनाच्छ्रको जज्ञे भगवानेव शंकरः । अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम् ॥ १९.२५॥
द्वैपायनात् श्रकः जज्ञे भगवान् एव शंकरः । अंशांशेन अवतीर्य उर्व्याम् स्वम् प्राप परमम् पदम् ॥ १९।२५॥
dvaipāyanāt śrakaḥ jajñe bhagavān eva śaṃkaraḥ . aṃśāṃśena avatīrya urvyām svam prāpa paramam padam .. 19.25..
शुकस्यास्याभवन् पुत्राः पञ्चात्यन्ततपस्विनः । भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥ १९.२६॥
शुकस्य अस्य अभवन् पुत्राः पञ्च अत्यन्त-तपस्विनः । भूरिश्रवाः प्रभुः शंभुः कृष्णः गौरः च पञ्चमः ॥ १९।२६॥
śukasya asya abhavan putrāḥ pañca atyanta-tapasvinaḥ . bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇaḥ gauraḥ ca pañcamaḥ .. 19.26..
कन्या कीर्त्तिमती चैवं योगमाता धृतव्रता । एतेऽत्रिवंशाः कथिता ब्रह्मणा ब्रह्मवादिनाम् ॥ १९.२७॥
कन्या कीर्त्तिमती च एवम् योग-माता धृत-व्रता । एते अत्रि-वंशाः कथिताः ब्रह्मणा ब्रह्म-वादिनाम् ॥ १९।२७॥
kanyā kīrttimatī ca evam yoga-mātā dhṛta-vratā . ete atri-vaṃśāḥ kathitāḥ brahmaṇā brahma-vādinām .. 19.27..
अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसंततिम् ॥ १९.२८॥
अतस् ऊर्ध्वम् निबोधध्वम् कश्यपात् राज-संततिम् ॥ १९।२८॥
atas ūrdhvam nibodhadhvam kaśyapāt rāja-saṃtatim .. 19.28..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनविंशोऽध्यायः॥ ॥
इति श्री-कूर्मपुराणे षट्साहस्त्र्याम् संहितायाम् पूर्व-विभागे एकोनविंशः अध्यायः॥ ॥
iti śrī-kūrmapurāṇe ṣaṭsāhastryām saṃhitāyām pūrva-vibhāge ekonaviṃśaḥ adhyāyaḥ.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In