This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चदशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcadaśaḥ sargaḥ ..3..
ततः पंचवटीम् गत्वा नाना व्याल मृगायुताम् । उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त तेजसम् ॥३-१५-१॥
ततस् पंचवटीम् गत्वा नाना व्याल-मृगायुताम् । उवाच भ्रातरम् रामः लक्ष्मणम् दीप्त-तेजसम् ॥३॥
tatas paṃcavaṭīm gatvā nānā vyāla-mṛgāyutām . uvāca bhrātaram rāmaḥ lakṣmaṇam dīpta-tejasam ..3..
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् । अयम् पंचवटी देशः सौम्य पुष्पित काननः ॥३-१५-२॥
आगताः स्म यथा उद्दिष्टम् यम् देशम् मुनिः अब्रवीत् । अयम् पंचवटी-देशः सौम्य-पुष्पित-काननः ॥३॥
āgatāḥ sma yathā uddiṣṭam yam deśam muniḥ abravīt . ayam paṃcavaṭī-deśaḥ saumya-puṣpita-kānanaḥ ..3..
सर्वतः चार्यताम् दृष्टिः कानने निपुणो हि असि । आश्रमः कतर अस्मिन् नः देशे भवति सम्मतः ॥३-१५-३॥
सर्वतस् चार्यताम् दृष्टिः कानने निपुणः हि असि । आश्रमः कतर-अस्मिन् नः देशे भवति सम्मतः ॥३॥
sarvatas cāryatām dṛṣṭiḥ kānane nipuṇaḥ hi asi . āśramaḥ katara-asmin naḥ deśe bhavati sammataḥ ..3..
रमते यत्र वैदेही त्वम् अहम् चैव लक्ष्मण । तादृशो दृश्यताम् देशः संनिकृष्ट जलाशयः ॥३-१५-४॥
रमते यत्र वैदेही त्वम् अहम् च एव लक्ष्मण । तादृशः दृश्यताम् देशः संनिकृष्ट-जलाशयः ॥३॥
ramate yatra vaidehī tvam aham ca eva lakṣmaṇa . tādṛśaḥ dṛśyatām deśaḥ saṃnikṛṣṭa-jalāśayaḥ ..3..
वन रामण्यकम् यत्र जल रामण्यकम् तथा । संनिकृष्टम् च यस्मिन् तु समित् पुष्प कुश उदकम् ॥३-१५-५॥
वन-रामण्यकम् यत्र जल-रामण्यकम् तथा । संनिकृष्टम् च यस्मिन् तु समिध्-पुष्प-कुश-उदकम् ॥३॥
vana-rāmaṇyakam yatra jala-rāmaṇyakam tathā . saṃnikṛṣṭam ca yasmin tu samidh-puṣpa-kuśa-udakam ..3..
एवम् उक्तः तु रामेण लक्मणः संयत अंजलिः । सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३-१५-६॥
एवम् उक्तः तु रामेण लक्मणः संयत-अंजलिः । सीता समक्षम् काकुत्स्थम् इदम् वचनम् अब्रवीत् ॥३॥
evam uktaḥ tu rāmeṇa lakmaṇaḥ saṃyata-aṃjaliḥ . sītā samakṣam kākutstham idam vacanam abravīt ..3..
परवान् अस्मि काकुत्स्थ त्वयि वर्ष शतम् स्थिते । स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३-१५-७॥
परवान् अस्मि काकुत्स्थ त्वयि वर्ष-शतम् स्थिते । स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद ॥३॥
paravān asmi kākutstha tvayi varṣa-śatam sthite . svayam tu rucire deśe kriyatām iti mām vada ..3..
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महाद्युतिः । विमृशन् रोचयामास देशम् सर्व गुण अन्वितम् ॥३-१५-८॥
सुप्रीतः तेन वाक्येन लक्ष्मणस्य महा-द्युतिः । विमृशन् रोचयामास देशम् सर्व-गुण-अन्वितम् ॥३॥
suprītaḥ tena vākyena lakṣmaṇasya mahā-dyutiḥ . vimṛśan rocayāmāsa deśam sarva-guṇa-anvitam ..3..
स तम् रुचिरम् आक्रम्य देशम् आश्रम कर्मणि । हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३-१५-९॥
स तम् रुचिरम् आक्रम्य देशम् आश्रम-कर्मणि । हस्ते गृहीत्वा हस्तेन रामः सौमित्रिम् अब्रवीत् ॥३॥
sa tam ruciram ākramya deśam āśrama-karmaṇi . haste gṛhītvā hastena rāmaḥ saumitrim abravīt ..3..
अयम् देशः समः श्रीमान् पुष्पितैर् तरुभिर् वृतः । इह आश्रम पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३-१५-१०॥
अयम् देशः समः श्रीमान् पुष्पितैः तरुभिः वृतः । इह आश्रम-पदम् सौम्य यथावत् कर्तुम् अर्हसि ॥३॥
ayam deśaḥ samaḥ śrīmān puṣpitaiḥ tarubhiḥ vṛtaḥ . iha āśrama-padam saumya yathāvat kartum arhasi ..3..
इयम् आदित्य संकाशैः पद्मैः सुरभि गंधिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्म शोभिता ॥३-१५-११॥
इयम् आदित्य-संकाशैः पद्मैः सुरभि-गंधिभिः । अदूरे दृश्यते रम्या पद्मिनी पद्म-शोभिता ॥३॥
iyam āditya-saṃkāśaiḥ padmaiḥ surabhi-gaṃdhibhiḥ . adūre dṛśyate ramyā padminī padma-śobhitā ..3..
यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना । इयम् गोदावरी रम्या पुष्पितैः तरुभिर् वृता ॥३-१५-१२॥
यथा आख्यातम् अगस्त्येन मुनिना भावितात्मना । इयम् गोदावरी रम्या पुष्पितैः तरुभिः वृता ॥३॥
yathā ākhyātam agastyena muninā bhāvitātmanā . iyam godāvarī ramyā puṣpitaiḥ tarubhiḥ vṛtā ..3..
हंस कारण्डव आकीर्णा चक्रवाक उपशोभिता । न अतिदूरे न च आसन्ने मृग यूथ निपीडिता ॥३-१५-१३॥
हंस-कारण्डव-आकीर्णा चक्रवाक-उपशोभिता । न अतिदूरे न च आसन्ने मृग-यूथ-निपीडिता ॥३॥
haṃsa-kāraṇḍava-ākīrṇā cakravāka-upaśobhitā . na atidūre na ca āsanne mṛga-yūtha-nipīḍitā ..3..
मयूर नादिता रम्याः प्रांशवो बहु कंदराः । दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिर् आवृताः ॥३-१५-१४॥
मयूर-नादिताः रम्याः प्रांशवः बहु-कंदराः । दृश्यन्ते गिरयः सौम्य फुल्लैः तरुभिः आवृताः ॥३॥
mayūra-nāditāḥ ramyāḥ prāṃśavaḥ bahu-kaṃdarāḥ . dṛśyante girayaḥ saumya phullaiḥ tarubhiḥ āvṛtāḥ ..3..
सौवर्णै राजतैः ताम्रैः देशे देशे च धातुभिः । गवाक्षिता इव आभान्ति गजाः परम भक्तिभिः ॥३-१५-१५॥
सौवर्णैः राजतैः ताम्रैः देशे देशे च धातुभिः । गवाक्षिता इव आभान्ति गजाः परम-भक्तिभिः ॥३॥
sauvarṇaiḥ rājataiḥ tāmraiḥ deśe deśe ca dhātubhiḥ . gavākṣitā iva ābhānti gajāḥ parama-bhaktibhiḥ ..3..
सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः । नीवारैः तिनिशैः चैव पुन्नागैः च उपशोभिताः ॥३-१५-१६॥
सालैः तालैः तमालैः च खर्जूरैः पनसैः द्रुमैः । नीवारैः तिनिशैः चएव पुन्नागैः च उपशोभिताः ॥३॥
sālaiḥ tālaiḥ tamālaiḥ ca kharjūraiḥ panasaiḥ drumaiḥ . nīvāraiḥ tiniśaiḥ caeva punnāgaiḥ ca upaśobhitāḥ ..3..
चूतैर् अशोकैः तिलकैः केतकैर् अपि चंपकैः । पुष्प गुल्म लता उपेतैः तैः तैः तरुभिर् आवृताः ॥३-१५-१७॥
चूतैः अशोकैः तिलकैः केतकैः अपि चंपकैः । पुष्प-गुल्म-लता-उपेतैः तैः तैः तरुभिः आवृताः ॥३॥
cūtaiḥ aśokaiḥ tilakaiḥ ketakaiḥ api caṃpakaiḥ . puṣpa-gulma-latā-upetaiḥ taiḥ taiḥ tarubhiḥ āvṛtāḥ ..3..
स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि । धव अश्वकर्ण खदिरैः शमी किंशुक पाटलैः ॥३-१५-१८॥
स्यन्दनैः चंदनैः नीपैः पर्णासैः लकुचैः अपि । धव-अश्वकर्ण-खदिरैः शमी-किंशुक-पाटलैः ॥३॥
syandanaiḥ caṃdanaiḥ nīpaiḥ parṇāsaiḥ lakucaiḥ api . dhava-aśvakarṇa-khadiraiḥ śamī-kiṃśuka-pāṭalaiḥ ..3..
इदम् पुण्यम् इदम् रम्यम् इदम् बहु मृग द्विजम् । इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३-१५-१९॥
इदम् पुण्यम् इदम् रम्यम् इदम् बहु-मृग-द्विजम् । इह वत्स्याम सौमित्रे सार्धम् एतेन पक्षिणा ॥३॥
idam puṇyam idam ramyam idam bahu-mṛga-dvijam . iha vatsyāma saumitre sārdham etena pakṣiṇā ..3..
एवम् उक्तः तु रामेण लक्ष्मणः परवीरहा । अचिरेण आश्रमम् भ्रातुः चकार सुमहाबलः ॥३-१५-२०॥
एवम् उक्तः तु रामेण लक्ष्मणः पर-वीर-हा । अचिरेण आश्रमम् भ्रातुः चकार सु महा-बलः ॥३॥
evam uktaḥ tu rāmeṇa lakṣmaṇaḥ para-vīra-hā . acireṇa āśramam bhrātuḥ cakāra su mahā-balaḥ ..3..
पर्णशालाम् सुविपुलाम् तत्र संघात मृत्तिकाम् । सुस्तंभाम् मस्करैर् दीर्घैः कृत वंशाम् सुशोभनाम् ॥३-१५-२१॥
पर्णशालाम् सुविपुलाम् तत्र संघात-मृत्तिकाम् । सुस्तंभाम् मस्करैः दीर्घैः कृत-वंशाम् सुशोभनाम् ॥३॥
parṇaśālām suvipulām tatra saṃghāta-mṛttikām . sustaṃbhām maskaraiḥ dīrghaiḥ kṛta-vaṃśām suśobhanām ..3..
शमी शाखाभिः आस्तीर्य धृढ पाशावपाशितम् । कुश काश शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३-१५-२२॥
शमी-शाखाभिः आस्तीर्य धृढ-पाशावपाशितम् । कुश-काश-शरैः पर्णैः सुपरिच्छादिताम् तथा ॥३॥
śamī-śākhābhiḥ āstīrya dhṛḍha-pāśāvapāśitam . kuśa-kāśa-śaraiḥ parṇaiḥ suparicchāditām tathā ..3..
समीकृत तलाम् रम्याम् चकार सुमहाबलः । निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३-१५-२३॥
समीकृत-तलाम् रम्याम् चकार सुमहाबलः । निवासम् राघवस्य अर्थे प्रेक्ष्णीयम् अनुत्तमम् ॥३॥
samīkṛta-talām ramyām cakāra sumahābalaḥ . nivāsam rāghavasya arthe prekṣṇīyam anuttamam ..3..
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा । स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३-१५-२४॥
स गत्वा लक्ष्मणः श्रीमान् नदीम् गोदावरीम् तदा । स्नात्वा पद्मानि च आदाय सफलः पुनर् आगतः ॥३॥
sa gatvā lakṣmaṇaḥ śrīmān nadīm godāvarīm tadā . snātvā padmāni ca ādāya saphalaḥ punar āgataḥ ..3..
ततः पुष्प बलिम् कृत्वा शान्तिम् च स यथाविधि । दर्शयामास रामाय तद् आश्रम पदम् कृतम् ॥३-१५-२५॥
ततस् पुष्प-बलिम् कृत्वा शान्तिम् च स यथाविधि । दर्शयामास रामाय तद्-आश्रम-पदम् कृतम् ॥३॥
tatas puṣpa-balim kṛtvā śāntim ca sa yathāvidhi . darśayāmāsa rāmāya tad-āśrama-padam kṛtam ..3..
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया । राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३-१५-२६॥
स तम् दृष्ट्वा कृतम् सौम्यम् आश्रमम् सह सीतया । राघवः पर्णशालायाम् हर्षम् आहारयत् परम् ॥३॥
sa tam dṛṣṭvā kṛtam saumyam āśramam saha sītayā . rāghavaḥ parṇaśālāyām harṣam āhārayat param ..3..
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा । अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३-१५-२७॥
सुसंहृष्टः परिष्वज्य बाहुभ्याम् लक्ष्मणम् तदा । अति स्निग्धम् च गाढम् च वचनम् च इदम् अब्रवीत् ॥३॥
susaṃhṛṣṭaḥ pariṣvajya bāhubhyām lakṣmaṇam tadā . ati snigdham ca gāḍham ca vacanam ca idam abravīt ..3..
प्रीतो अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो । प्रदेयो यन् निमित्तम् ते परिष्वंगो मया कृतः ॥३-१५-२८॥
प्रीतः अस्मि ते महत् कर्म त्वया कृतम् इदम् प्रभो । प्रदेयः यत् निमित्तम् ते परिष्वंगः मया कृतः ॥३॥
prītaḥ asmi te mahat karma tvayā kṛtam idam prabho . pradeyaḥ yat nimittam te pariṣvaṃgaḥ mayā kṛtaḥ ..3..
भावज्ञेन कृतज्ञेन धर्मज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्मात्मा न संवृत्तः पिता मम ॥३-१५-२९॥
भाव-ज्ञेन कृतज्ञेन धर्म-ज्ञेन च लक्ष्मण । त्वया पुत्रेण धर्म-आत्मा न संवृत्तः पिता मम ॥३॥
bhāva-jñena kṛtajñena dharma-jñena ca lakṣmaṇa . tvayā putreṇa dharma-ātmā na saṃvṛttaḥ pitā mama ..3..
एवम् लक्ष्मणम् उक्त्वा तु राघवो लक्ष्मिवर्धनः । तस्मिन् देशे बहु फले न्यवसत् स सुखम् सुखी ॥३-१५-३०॥
एवम् लक्ष्मणम् उक्त्वा तु राघवः लक्ष्मि-वर्धनः । तस्मिन् देशे बहु-फले न्यवसत् स सुखम् सुखी ॥३॥
evam lakṣmaṇam uktvā tu rāghavaḥ lakṣmi-vardhanaḥ . tasmin deśe bahu-phale nyavasat sa sukham sukhī ..3..
कंचित् कालम् स धर्मात्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग लोके यथा अमरः ॥३-१५-३१॥
कंचिद् कालम् स धर्म-आत्मा सीतया लक्ष्मणेन च अन्वास्यमानः न्यवसत् स्वर्ग-लोके यथा अमरः ॥३॥
kaṃcid kālam sa dharma-ātmā sītayā lakṣmaṇena ca anvāsyamānaḥ nyavasat svarga-loke yathā amaraḥ ..3..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे पञ्चदशः सर्गः ॥३-१५॥
इति वाल्मीकि-रामायणे आदि-काव्ये अरण्यकाण्डे पञ्चदशः सर्गः ॥३॥
iti vālmīki-rāmāyaṇe ādi-kāvye araṇyakāṇḍe pañcadaśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In