This overlay will guide you through the buttons:

| |
|
रोहिण्यजनयद् गावो गन्धर्वी वाजिनः सुतान् । सुरसाजनयन्नागान् राम कद्रूश्च पन्नगान्॥ २८॥
रोहिणी अजनयत् गावः गन्धर्वी वाजिनः सुतान् । सुरसा जनयत् नागान् राम कद्रूः च पन्नगान्॥ २८॥
rohiṇī ajanayat gāvaḥ gandharvī vājinaḥ sutān . surasā janayat nāgān rāma kadrūḥ ca pannagān.. 28..
मनुर्मनुष्याञ्जनयत् कश्यपस्य महात्मनः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ॥ २९॥
मनुः मनुष्यान् जनयत् कश्यपस्य महात्मनः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रान् च मनुज-ऋषभ॥ २९॥
manuḥ manuṣyān janayat kaśyapasya mahātmanaḥ . brāhmaṇān kṣatriyān vaiśyān śūdrān ca manuja-ṛṣabha.. 29..
मुखतो ब्राह्मणा जाता उरसः क्षत्रियास्तथा । ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति श्रुतिः॥ ३०॥
मुखतः ब्राह्मणाः जाताः उरसः क्षत्रियाः तथा । ऊरुभ्याम् जज्ञिरे वैश्याः पद्भ्याम् शूद्राः इति श्रुतिः॥ ३०॥
mukhataḥ brāhmaṇāḥ jātāḥ urasaḥ kṣatriyāḥ tathā . ūrubhyām jajñire vaiśyāḥ padbhyām śūdrāḥ iti śrutiḥ.. 30..
सर्वान् पुण्यफलान् वृक्षाननलापि व्यजायत । विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा॥ ३१॥
सर्वान् पुण्य-फलान् वृक्षान् अनला अपि व्यजायत । विनता च शुकीपौत्री कद्रूः च सुरसा-स्वसा॥ ३१॥
sarvān puṇya-phalān vṛkṣān analā api vyajāyata . vinatā ca śukīpautrī kadrūḥ ca surasā-svasā.. 31..
कद्रूर्नागसहस्रं तु विजज्ञे धरणीधरान् । द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च॥ ३२॥
कद्रूः नाग-सहस्रम् तु विजज्ञे धरणीधरान् । द्वौ पुत्रौ विनतायाः तु गरुडः अरुणः एव च॥ ३२॥
kadrūḥ nāga-sahasram tu vijajñe dharaṇīdharān . dvau putrau vinatāyāḥ tu garuḍaḥ aruṇaḥ eva ca.. 32..
तस्माज्जातोऽहमरुणात् सम्पातिश्च ममाग्रजः । जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम॥ ३३॥
तस्मात् जातः अहम् अरुणात् सम्पातिः च मम अग्रजः । जटायुः इति माम् विद्धि श्येनी-पुत्रम् अरिंदम॥ ३३॥
tasmāt jātaḥ aham aruṇāt sampātiḥ ca mama agrajaḥ . jaṭāyuḥ iti mām viddhi śyenī-putram ariṃdama.. 33..
सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि । इदं दुर्गं हि कान्तारं मृगराक्षससेवितम् । सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे॥ ३४॥
सः अहम् वास-सहायः ते भविष्यामि यदि इच्छसि । इदम् दुर्गम् हि कान्तारम् मृग-राक्षस-सेवितम् । सीताम् च तात रक्षिष्ये त्वयि याते स लक्ष्मणे॥ ३४॥
saḥ aham vāsa-sahāyaḥ te bhaviṣyāmi yadi icchasi . idam durgam hi kāntāram mṛga-rākṣasa-sevitam . sītām ca tāta rakṣiṣye tvayi yāte sa lakṣmaṇe.. 34..
जटायुषं तु प्रतिपूज्य राघवो मुदा परिष्वज्य च संनतोऽभवत् । पितुर्हि शुश्राव सखित्वमात्मवा- ञ्जटायुषा संकथितं पुनः पुनः॥ ३५॥
जटायुषम् तु प्रतिपूज्य राघवः मुदा परिष्वज्य च संनतः अभवत् । पितुः हि शुश्राव सखित्वम् आत्मवान् जटायुषा संकथितम् पुनर् पुनर्॥ ३५॥
jaṭāyuṣam tu pratipūjya rāghavaḥ mudā pariṣvajya ca saṃnataḥ abhavat . pituḥ hi śuśrāva sakhitvam ātmavān jaṭāyuṣā saṃkathitam punar punar.. 35..
स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा । जगाम तां पञ्चवटीं सलक्ष्मणो रिपून् दिधक्षन् शलभानिवानलः॥ ३६॥
स तत्र सीताम् परिदाय मैथिलीम् सह एव तेन अतिबलेन पक्षिणा । जगाम ताम् पञ्चवटीम् स लक्ष्मणः रिपून् दिधक्षन् शलभान् इव अनलः॥ ३६॥
sa tatra sītām paridāya maithilīm saha eva tena atibalena pakṣiṇā . jagāma tām pañcavaṭīm sa lakṣmaṇaḥ ripūn didhakṣan śalabhān iva analaḥ.. 36..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे षोडशः सर्गः ॥३-१६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे षोडशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ṣoḍaśaḥ sargaḥ ..3..
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे सप्तदशः सर्गः ॥३-१७॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे सप्तदशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe saptadaśaḥ sargaḥ ..3..
कृताभिषेको रामस्तु सीता सौमित्रिरेव च । तस्माद् गोदावरीतीरात् ततो जग्मुः स्वमाश्रमम्॥ १॥
कृत-अभिषेकः रामः तु सीता सौमित्रिः एव च । तस्मात् गोदावरी-तीरात् ततस् जग्मुः स्वम् आश्रमम्॥ १॥
kṛta-abhiṣekaḥ rāmaḥ tu sītā saumitriḥ eva ca . tasmāt godāvarī-tīrāt tatas jagmuḥ svam āśramam.. 1..
आश्रमं तमुपागम्य राघवः सहलक्ष्मणः । कृत्वा पौर्वाह्णिकं कर्म पर्णशालामुपागमत्॥ २॥
आश्रमम् तम् उपागम्य राघवः सहलक्ष्मणः । कृत्वा पौर्वाह्णिकम् कर्म पर्ण-शालाम् उपागमत्॥ २॥
āśramam tam upāgamya rāghavaḥ sahalakṣmaṇaḥ . kṛtvā paurvāhṇikam karma parṇa-śālām upāgamat.. 2..
उवास सुखितस्तत्र पूज्यमानो महर्षिभिः । स रामः पर्णशालायामासीनः सह सीतया॥ ३॥
उवास सुखितः तत्र पूज्यमानः महा-ऋषिभिः । स रामः पर्ण-शालायाम् आसीनः सह सीतया॥ ३॥
uvāsa sukhitaḥ tatra pūjyamānaḥ mahā-ṛṣibhiḥ . sa rāmaḥ parṇa-śālāyām āsīnaḥ saha sītayā.. 3..
विरराज महाबाहुश्चित्रया चन्द्रमा इव । लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः॥ ४॥
विरराज महा-बाहुः चित्रया चन्द्रमाः इव । लक्ष्मणेन सह भ्रात्रा चकार विविधाः कथाः॥ ४॥
virarāja mahā-bāhuḥ citrayā candramāḥ iva . lakṣmaṇena saha bhrātrā cakāra vividhāḥ kathāḥ.. 4..
तदासीनस्य रामस्य कथासंसक्तचेतसः । तं देशं राक्षसी काचिदाजगाम यदृच्छया॥ ५॥
तदा आसीनस्य रामस्य कथा-संसक्त-चेतसः । तम् देशम् राक्षसी काचिद् आजगाम यदृच्छया॥ ५॥
tadā āsīnasya rāmasya kathā-saṃsakta-cetasaḥ . tam deśam rākṣasī kācid ājagāma yadṛcchayā.. 5..
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगिनी राममासाद्य ददर्श त्रिदशोपमम्॥ ६॥
सा तु शूर्पणखा नाम दशग्रीवस्य रक्षसः । भगिनी रामम् आसाद्य ददर्श त्रिदश-उपमम्॥ ६॥
sā tu śūrpaṇakhā nāma daśagrīvasya rakṣasaḥ . bhaginī rāmam āsādya dadarśa tridaśa-upamam.. 6..
दीप्तास्यं च महाबाहुं पद्मपत्रायतेक्षणम् । गजविक्रान्तगमनं जटामण्डलधारिणम्॥ ७॥
दीप्त-आस्यम् च महा-बाहुम् पद्म-पत्र-आयत-ईक्षणम् । गज-विक्रान्त-गमनम् जटा-मण्डल-धारिणम्॥ ७॥
dīpta-āsyam ca mahā-bāhum padma-patra-āyata-īkṣaṇam . gaja-vikrānta-gamanam jaṭā-maṇḍala-dhāriṇam.. 7..
सुकुमारं महासत्त्वं पार्थिवव्यञ्जनान्वितम् । राममिन्दीवरश्यामं कंदर्पसदृशप्रभम्॥ ८॥
सुकुमारम् महासत्त्वम् पार्थिव-व्यञ्जन-अन्वितम् । रामम् इन्दीवर-श्यामम् कंदर्प-सदृश-प्रभम्॥ ८॥
sukumāram mahāsattvam pārthiva-vyañjana-anvitam . rāmam indīvara-śyāmam kaṃdarpa-sadṛśa-prabham.. 8..
बभूवेन्द्रोपमं दृष्ट्वा राक्षसी काममोहिता । सुमुखं दुर्मुखी रामं वृत्तमध्यं महोदरी॥ ९॥
बभूव इन्द्र-उपमम् दृष्ट्वा राक्षसी काम-मोहिता । सु मुखम् दुर्मुखी रामम् वृत्त-मध्यम् महोदरी॥ ९॥
babhūva indra-upamam dṛṣṭvā rākṣasī kāma-mohitā . su mukham durmukhī rāmam vṛtta-madhyam mahodarī.. 9..
विशालाक्षं विरूपाक्षी सुकेशं ताम्रमूर्धजा । प्रियरूपं विरूपा सा सुस्वरं भैरवस्वना॥ १०॥
विशाल-अक्षम् विरूप-अक्षी सुकेशम् ताम्र-मूर्धजा । प्रिय-रूपम् विरूपा सा सु स्वरम् भैरव-स्वना॥ १०॥
viśāla-akṣam virūpa-akṣī sukeśam tāmra-mūrdhajā . priya-rūpam virūpā sā su svaram bhairava-svanā.. 10..
तरुणं दारुणा वृद्धा दक्षिणं वामभाषिणी । न्यायवृत्तं सुदुर्वृत्ता प्रियमप्रियदर्शना॥ ११॥
तरुणम् दारुणा वृद्धा दक्षिणम् वाम-भाषिणी । न्याय-वृत्तम् सु दुर्वृत्ता प्रियम् अप्रिय-दर्शना॥ ११॥
taruṇam dāruṇā vṛddhā dakṣiṇam vāma-bhāṣiṇī . nyāya-vṛttam su durvṛttā priyam apriya-darśanā.. 11..
शरीरजसमाविष्टा राक्षसी राममब्रवीत् । जटी तापसवेषेण सभार्यः शरचापधृक्॥ १२॥
शरीरज-समाविष्टा राक्षसी रामम् अब्रवीत् । जटी तापस-वेषेण स भार्यः॥ १२॥
śarīraja-samāviṣṭā rākṣasī rāmam abravīt . jaṭī tāpasa-veṣeṇa sa bhāryaḥ.. 12..
आगतस्त्वमिमं देशं कथं राक्षससेवितम् । किमागमनकृत्यं ते तत्त्वमाख्यातुमर्हसि॥ १३॥
आगतः त्वम् इमम् देशम् कथम् राक्षस-सेवितम् । किम् आगमन-कृत्यम् ते तत् त्वम् आख्यातुम् अर्हसि॥ १३॥
āgataḥ tvam imam deśam katham rākṣasa-sevitam . kim āgamana-kṛtyam te tat tvam ākhyātum arhasi.. 13..
एवमुक्तस्तु राक्षस्या शूर्पणख्या परंतपः । ऋजुबुद्धितया सर्वमाख्यातुमुपचक्रमे॥ १४॥
एवम् उक्तः तु राक्षस्या शूर्पणख्या परंतपः । ऋजु-बुद्धि-तया सर्वम् आख्यातुम् उपचक्रमे॥ १४॥
evam uktaḥ tu rākṣasyā śūrpaṇakhyā paraṃtapaḥ . ṛju-buddhi-tayā sarvam ākhyātum upacakrame.. 14..
आसीद् दशरथो नाम राजा त्रिदशविक्रमः । तस्याहमग्रजः पुत्रो रामो नाम जनैः श्रुतः॥ १५॥
आसीत् दशरथः नाम राजा त्रिदश-विक्रमः । तस्य अहम् अग्रजः पुत्रः रामः नाम जनैः श्रुतः॥ १५॥
āsīt daśarathaḥ nāma rājā tridaśa-vikramaḥ . tasya aham agrajaḥ putraḥ rāmaḥ nāma janaiḥ śrutaḥ.. 15..
भ्रातायं लक्ष्मणो नाम यवीयान् मामनुव्रतः । इयं भार्या च वैदेही मम सीतेति विश्रुता॥ १६॥
भ्राता अयम् लक्ष्मणः नाम यवीयान् माम् अनुव्रतः । इयम् भार्या च वैदेही मम सीता इति विश्रुता॥ १६॥
bhrātā ayam lakṣmaṇaḥ nāma yavīyān mām anuvrataḥ . iyam bhāryā ca vaidehī mama sītā iti viśrutā.. 16..
नियोगात् तु नरेन्द्रस्य पितुर्मातुश्च यन्त्रितः । धर्मार्थं धर्मकांक्षी च वनं वस्तुमिहागतः॥ १७॥
नियोगात् तु नरेन्द्रस्य पितुः मातुः च यन्त्रितः । धर्म-अर्थम् धर्म-कांक्षी च वनम् वस्तुम् इह आगतः॥ १७॥
niyogāt tu narendrasya pituḥ mātuḥ ca yantritaḥ . dharma-artham dharma-kāṃkṣī ca vanam vastum iha āgataḥ.. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In