This overlay will guide you through the buttons:

| |
|
स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे । शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः॥ १७॥
स्थातुम् प्रतिमुखे शक्तः स बलः अपि महा-रणे । शूर-मानी न शूरः त्वम् मिथ्या आरोपित-विक्रमः॥ १७॥
sthātum pratimukhe śaktaḥ sa balaḥ api mahā-raṇe . śūra-mānī na śūraḥ tvam mithyā āropita-vikramaḥ.. 17..
अपयाहि जनस्थानात् त्वरितः सहबान्धवः । जहि त्वं समरे मूढान्यथा तु कुलपांसन॥ १८॥
अपयाहि जन-स्थानात् त्वरितः सहबान्धवः । जहि त्वम् समरे मूढ अन्यथा तु कुल-पांसन॥ १८॥
apayāhi jana-sthānāt tvaritaḥ sahabāndhavaḥ . jahi tvam samare mūḍha anyathā tu kula-pāṃsana.. 18..
मानुषौ तौ न शक्नोषि हन्तुं वै रामलक्ष्मणौ । निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह॥ १९॥
मानुषौ तौ न शक्नोषि हन्तुम् वै राम-लक्ष्मणौ । निःसत्त्वस्य अल्प-वीर्यस्य वासः ते कीदृशः तु इह॥ १९॥
mānuṣau tau na śaknoṣi hantum vai rāma-lakṣmaṇau . niḥsattvasya alpa-vīryasya vāsaḥ te kīdṛśaḥ tu iha.. 19..
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि । स हि तेजःसमायुक्तो रामो दशरथात्मजः॥ २०॥
राम-तेजः-अभिभूतः हि त्वम् क्षिप्रम् विनशिष्यसि । स हि तेजः-समायुक्तः रामः दशरथ-आत्मजः॥ २०॥
rāma-tejaḥ-abhibhūtaḥ hi tvam kṣipram vinaśiṣyasi . sa hi tejaḥ-samāyuktaḥ rāmaḥ daśaratha-ātmajaḥ.. 20..
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता । एवं विलप्य बहुशो राक्षसी प्रदरोदरी॥ २१॥
भ्राता च अस्य महा-वीर्यः येन च अस्मि विरूपिता । एवम् विलप्य बहुशस् राक्षसी प्रदर-उदरी॥ २१॥
bhrātā ca asya mahā-vīryaḥ yena ca asmi virūpitā . evam vilapya bahuśas rākṣasī pradara-udarī.. 21..
भ्रातुः समीपे शोकार्ता नष्टसंज्ञा बभूव ह । कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता॥ २२॥
भ्रातुः समीपे शोक-आर्ता नष्ट-संज्ञा बभूव ह । कराभ्याम् उदरम् हत्वा रुरोद भृश-दुःखिता॥ २२॥
bhrātuḥ samīpe śoka-ārtā naṣṭa-saṃjñā babhūva ha . karābhyām udaram hatvā ruroda bhṛśa-duḥkhitā.. 22..
इति वाल्मीकि रामायणे आदि काव्ये अरण्यकाण्डे एकविंशः सर्गः ॥३-२१॥
इति वाल्मीकि-रामायणे आदि-काव्ये अरण्यकाण्डे एकविंशः सर्गः ॥३॥
iti vālmīki-rāmāyaṇe ādi-kāvye araṇyakāṇḍe ekaviṃśaḥ sargaḥ ..3..
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्वाविंशः सर्गः ॥३-२२॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे द्वाविंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe dvāviṃśaḥ sargaḥ ..3..
एवमाधर्षितः शूरः शूर्पणख्या खरस्ततः । उवाच रक्षसां मध्ये खरः खरतरं वचः॥ १॥
एवम् आधर्षितः शूरः शूर्पणख्या खरः ततस् । उवाच रक्षसाम् मध्ये खरः खरतरम् वचः॥ १॥
evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharaḥ tatas . uvāca rakṣasām madhye kharaḥ kharataram vacaḥ.. 1..
तवापमानप्रभवः क्रोधोऽयमतुलो मम । न शक्यते धारयितुं लवणाम्भ इवोल्बणम्॥ २॥
तव अपमान-प्रभवः क्रोधः अयम् अतुलः मम । न शक्यते धारयितुम् लवण-अम्भः इव उल्बणम्॥ २॥
tava apamāna-prabhavaḥ krodhaḥ ayam atulaḥ mama . na śakyate dhārayitum lavaṇa-ambhaḥ iva ulbaṇam.. 2..
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् । आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यते॥ ३॥
न रामम् गणये वीर्यात् मानुषम् क्षीण-जीवितम् । आत्म-दुश्चरितैः प्राणान् हतः यः अद्य विमोक्ष्यते॥ ३॥
na rāmam gaṇaye vīryāt mānuṣam kṣīṇa-jīvitam . ātma-duścaritaiḥ prāṇān hataḥ yaḥ adya vimokṣyate.. 3..
बाष्पः संधार्यतामेष सम्भ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम्॥ ४॥
बाष्पः संधार्यताम् एष सम्भ्रमः च विमुच्यताम् । अहम् रामम् सह भ्रात्रा नयामि यम-सादनम्॥ ४॥
bāṣpaḥ saṃdhāryatām eṣa sambhramaḥ ca vimucyatām . aham rāmam saha bhrātrā nayāmi yama-sādanam.. 4..
परश्वधहतस्याद्य मन्दप्राणस्य भूतले । रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि॥ ५॥
परश्वध-हतस्य अद्य मन्द-प्राणस्य भू-तले । रामस्य रुधिरम् रक्तम् उष्णम् पास्यसि राक्षसि॥ ५॥
paraśvadha-hatasya adya manda-prāṇasya bhū-tale . rāmasya rudhiram raktam uṣṇam pāsyasi rākṣasi.. 5..
सम्प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम् । प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम्॥ ६॥
सम्प्रहृष्टाः वचः श्रुत्वा खरस्य वदनात् च्युतम् । प्रशशंस पुनर् मौर्ख्यात् भ्रातरम् रक्षसाम् वरम्॥ ६॥
samprahṛṣṭāḥ vacaḥ śrutvā kharasya vadanāt cyutam . praśaśaṃsa punar maurkhyāt bhrātaram rakṣasām varam.. 6..
तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीद् दूषणं नाम खरः सेनापतिं तदा॥ ७॥
तया परुषितः पूर्वम् पुनर् एव प्रशंसितः । अब्रवीत् दूषणम् नाम खरः सेनापतिम् तदा॥ ७॥
tayā paruṣitaḥ pūrvam punar eva praśaṃsitaḥ . abravīt dūṣaṇam nāma kharaḥ senāpatim tadā.. 7..
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् । रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम्॥ ८॥
चतुर्दश सहस्राणि मम चित्त-अनुवर्तिनाम् । रक्षसाम् भीम-वेगानाम् समरेषु अनिवर्तिनाम्॥ ८॥
caturdaśa sahasrāṇi mama citta-anuvartinām . rakṣasām bhīma-vegānām samareṣu anivartinām.. 8..
नीलजीमूतवर्णानां लोकहिंसाविहारिणाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय॥ ९॥
नील-जीमूत-वर्णानाम् लोक-हिंसा-विहारिणाम् । सर्व-उद्योगम् उदीर्णानाम् रक्षसाम् सौम्य कारय॥ ९॥
nīla-jīmūta-varṇānām loka-hiṃsā-vihāriṇām . sarva-udyogam udīrṇānām rakṣasām saumya kāraya.. 9..
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च । शरांश्च चित्रान् खड्गांश्च शक्तीश्च विविधाः शिताः॥ १०॥
उपस्थापय मे क्षिप्रम् रथम् सौम्य धनूंषि च । शरान् च चित्रान् खड्गान् च शक्तीः च विविधाः शिताः॥ १०॥
upasthāpaya me kṣipram ratham saumya dhanūṃṣi ca . śarān ca citrān khaḍgān ca śaktīḥ ca vividhāḥ śitāḥ.. 10..
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् । वधार्थं दुर्विनीतस्य रामस्य रणकोविद॥ ११॥
अग्रे निर्यातुम् इच्छामि पौलस्त्यानाम् महात्मनाम् । वध-अर्थम् दुर्विनीतस्य रामस्य रण-कोविद॥ ११॥
agre niryātum icchāmi paulastyānām mahātmanām . vadha-artham durvinītasya rāmasya raṇa-kovida.. 11..
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् । सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः॥ १२॥
इति तस्य ब्रुवाणस्य सूर्य-वर्णम् महा-रथम् । सत्-अश्वैः शबलैः युक्तम् आचचक्षे अथ दूषणः॥ १२॥
iti tasya bruvāṇasya sūrya-varṇam mahā-ratham . sat-aśvaiḥ śabalaiḥ yuktam ācacakṣe atha dūṣaṇaḥ.. 12..
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् । हेमचक्रमसम्बाधं वैदूर्यमयकूबरम्॥ १३॥
तम् मेरु-शिखर-आकारम् तप्त-काञ्चन-भूषणम् । हेम-चक्रम् असंबाधम् वैदूर्य-मय-कूबरम्॥ १३॥
tam meru-śikhara-ākāram tapta-kāñcana-bhūṣaṇam . hema-cakram asaṃbādham vaidūrya-maya-kūbaram.. 13..
मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः । माङ्गल्यैः पक्षिसङ्घैश्च ताराभिश्च समावृतम्॥ १४॥
मत्स्यैः पुष्पैः द्रुमैः शैलैः चन्द्र-सूर्यैः च काञ्चनैः । माङ्गल्यैः पक्षि-सङ्घैः च ताराभिः च समावृतम्॥ १४॥
matsyaiḥ puṣpaiḥ drumaiḥ śailaiḥ candra-sūryaiḥ ca kāñcanaiḥ . māṅgalyaiḥ pakṣi-saṅghaiḥ ca tārābhiḥ ca samāvṛtam.. 14..
ध्वजनिस्त्रिंशसम्पन्नं किंकिणीवरभूषितम् । सदश्वयुक्तं सोऽमर्षादारुरोह खरस्तदा॥ १५॥
ध्वज-निस्त्रिंश-सम्पन्नम् किंकिणी-वर-भूषितम् । सत्-अश्व-युक्तम् सः अमर्षात् आरुरोह खरः तदा॥ १५॥
dhvaja-nistriṃśa-sampannam kiṃkiṇī-vara-bhūṣitam . sat-aśva-yuktam saḥ amarṣāt āruroha kharaḥ tadā.. 15..
खरस्तु तन्महत्सैन्यं रथचर्मायुधध्वजम् । निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान्॥ १६॥
खरः तु तत् महत् सैन्यम् रथ-चर्म-आयुध-ध्वजम् । निर्यात इति अब्रवीत् प्रेक्ष्य दूषणः सर्व-राक्षसान्॥ १६॥
kharaḥ tu tat mahat sainyam ratha-carma-āyudha-dhvajam . niryāta iti abravīt prekṣya dūṣaṇaḥ sarva-rākṣasān.. 16..
ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम्॥ १७॥
ततस् तत् राक्षसम् सैन्यम् घोर-चर्म-आयुध-ध्वजम् । निर्जगाम जनस्थानात् महा-नादम् महा-जवम्॥ १७॥
tatas tat rākṣasam sainyam ghora-carma-āyudha-dhvajam . nirjagāma janasthānāt mahā-nādam mahā-javam.. 17..
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः । खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैः सतोमरैः॥ १८॥
मुद्गरैः पट्टिशैः शूलैः सु तीक्ष्णैः च परश्वधैः । खड्गैः चक्रैः च हस्त-स्थैः भ्राजमानैः स तोमरैः॥ १८॥
mudgaraiḥ paṭṭiśaiḥ śūlaiḥ su tīkṣṇaiḥ ca paraśvadhaiḥ . khaḍgaiḥ cakraiḥ ca hasta-sthaiḥ bhrājamānaiḥ sa tomaraiḥ.. 18..
शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः॥ १९॥
शक्तिभिः परिघैः घोरैः अतिमात्रैः च कार्मुकैः । गदा-असि-मुसलैः वज्रैः गृहीतैः भीम-दर्शनैः॥ १९॥
śaktibhiḥ parighaiḥ ghoraiḥ atimātraiḥ ca kārmukaiḥ . gadā-asi-musalaiḥ vajraiḥ gṛhītaiḥ bhīma-darśanaiḥ.. 19..
राक्षसानां सुघोराणां सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम्॥ २०॥
राक्षसानाम् सु घोराणाम् सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खर-चित्त-अनुवर्तिनाम्॥ २०॥
rākṣasānām su ghorāṇām sahasrāṇi caturdaśa . niryātāni janasthānāt khara-citta-anuvartinām.. 20..
तांस्तु निर्धावतो दृष्ट्वा राक्षसान् भीमदर्शनान् । खरस्याथ रथः किंचिज्जगाम तदनन्तरम्॥ २१॥
तान् तु निर्धावतः दृष्ट्वा राक्षसान् भीम-दर्शनान् । खरस्य अथ रथः किंचिद् जगाम तद्-अनन्तरम्॥ २१॥
tān tu nirdhāvataḥ dṛṣṭvā rākṣasān bhīma-darśanān . kharasya atha rathaḥ kiṃcid jagāma tad-anantaram.. 21..
ततस्ताञ्छबलानश्वांस्तप्तकाञ्चनभूषितान् । खरस्य मतमाज्ञाय सारथिः पर्यचोदयत्॥ २२॥
ततस् तान् शबलान् अश्वान् तप्त-काञ्चन-भूषितान् । खरस्य मतम् आज्ञाय सारथिः पर्यचोदयत्॥ २२॥
tatas tān śabalān aśvān tapta-kāñcana-bhūṣitān . kharasya matam ājñāya sārathiḥ paryacodayat.. 22..
संचोदितो रथः शीघ्रं खरस्य रिपुघातिनः । शब्देनापूरयामास दिशः सप्रदिशस्तथा॥ २३॥
संचोदितः रथः शीघ्रम् खरस्य रिपु-घातिनः । शब्देन आपूरयामास दिशः स प्रदिशः तथा॥ २३॥
saṃcoditaḥ rathaḥ śīghram kharasya ripu-ghātinaḥ . śabdena āpūrayāmāsa diśaḥ sa pradiśaḥ tathā.. 23..
प्रवृद्धमन्युस्तु खरः खरस्वरो रिपोर्वधार्थं त्वरितो यथान्तकः । अचूचुदत् सारथिमुन्नदन् पुन- र्महाबलो मेघ इवाश्मवर्षवान्॥ २४॥
प्रवृद्ध-मन्युः तु खरः खर-स्वरः रिपोः वध-अर्थम् त्वरितः यथा अन्तकः । अचूचुदत् सारथिम् उन्नदन् पुनर् महा-बलः मेघः इव अश्म-वर्षवान्॥ २४॥
pravṛddha-manyuḥ tu kharaḥ khara-svaraḥ ripoḥ vadha-artham tvaritaḥ yathā antakaḥ . acūcudat sārathim unnadan punar mahā-balaḥ meghaḥ iva aśma-varṣavān.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्वाविंशः सर्गः ॥३-२२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे द्वाविंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe dvāviṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In