This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चविंशः सर्गः ॥३-२५॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चविंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcaviṃśaḥ sargaḥ ..3..
अवष्टब्धधनुं रामं क्रुद्धं तं रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरःसरैः॥ १॥
अवष्टब्ध-धनुम् रामम् क्रुद्धम् तम् रिपु-घातिनम् । ददर्श आश्रमम् आगम्य खरः सह पुरःसरैः॥ १॥
avaṣṭabdha-dhanum rāmam kruddham tam ripu-ghātinam . dadarśa āśramam āgamya kharaḥ saha puraḥsaraiḥ.. 1..
तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् । रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत्॥ २॥
तम् दृष्ट्वा स गुणम् चापम् उद्यम्य खर-निःस्वनम् । रामस्य अभिमुखम् सूतम् चोद्यताम् इति अचोदयत्॥ २॥
tam dṛṣṭvā sa guṇam cāpam udyamya khara-niḥsvanam . rāmasya abhimukham sūtam codyatām iti acodayat.. 2..
स खरस्याज्ञया सूतस्तुरगान् समचोदयत् । यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः॥ ३॥
स खरस्य आज्ञया सूतः तुरगान् समचोदयत् । यत्र रामः महा-बाहुः एकः धुन्वन् धनुः स्थितः॥ ३॥
sa kharasya ājñayā sūtaḥ turagān samacodayat . yatra rāmaḥ mahā-bāhuḥ ekaḥ dhunvan dhanuḥ sthitaḥ.. 3..
तं तु निष्पतितं दृष्ट्वा सर्वतो रजनीचराः । मुञ्चमाना महानादं सचिवाः पर्यवारयन्॥ ४॥
तम् तु निष्पतितम् दृष्ट्वा सर्वतस् रजनीचराः । मुञ्चमानाः महा-नादम् सचिवाः पर्यवारयन्॥ ४॥
tam tu niṣpatitam dṛṣṭvā sarvatas rajanīcarāḥ . muñcamānāḥ mahā-nādam sacivāḥ paryavārayan.. 4..
स तेषां यातुधानानां मध्ये रथगतः खरः । बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः॥ ५॥
स तेषाम् यातुधानानाम् मध्ये रथ-गतः खरः । बभूव मध्ये ताराणाम् लोहिताङ्गः इव उदितः॥ ५॥
sa teṣām yātudhānānām madhye ratha-gataḥ kharaḥ . babhūva madhye tārāṇām lohitāṅgaḥ iva uditaḥ.. 5..
ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः॥ ६॥
ततस् शर-सहस्रेण रामम् अप्रतिम-ओजसम् । अर्दयित्वा महा-नादम् ननाद समरे खरः॥ ६॥
tatas śara-sahasreṇa rāmam apratima-ojasam . ardayitvā mahā-nādam nanāda samare kharaḥ.. 6..
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः । रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम्॥ ७॥
ततस् तम् भीम-धन्वानम् क्रुद्धाः सर्वे निशाचराः । रामम् नानाविधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम्॥ ७॥
tatas tam bhīma-dhanvānam kruddhāḥ sarve niśācarāḥ . rāmam nānāvidhaiḥ śastraiḥ abhyavarṣanta durjayam.. 7..
मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः । राक्षसाः समरे शूरं निजघ्नू रोषतत्पराः॥ ८॥
मुद्गरैः आयसैः शूलैः प्रासैः खड्गैः परश्वधैः । राक्षसाः समरे शूरम् निजघ्नुः रोष-तत्पराः॥ ८॥
mudgaraiḥ āyasaiḥ śūlaiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ . rākṣasāḥ samare śūram nijaghnuḥ roṣa-tatparāḥ.. 8..
ते बलाहकसंकाशा महाकाया महाबलाः । अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च॥ ९॥
ते बलाहक-संकाशाः महा-कायाः महा-बलाः । अभ्यधावन्त काकुत्स्थम् रथैः वाजिभिः एव च॥ ९॥
te balāhaka-saṃkāśāḥ mahā-kāyāḥ mahā-balāḥ . abhyadhāvanta kākutstham rathaiḥ vājibhiḥ eva ca.. 9..
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः । ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः॥ १०॥
गजैः पर्वत-कूट-आभैः रामम् युद्धे जिघांसवः । ते रामे शर-वर्षाणि व्यसृजन् रक्षसाम् गणाः॥ १०॥
gajaiḥ parvata-kūṭa-ābhaiḥ rāmam yuddhe jighāṃsavaḥ . te rāme śara-varṣāṇi vyasṛjan rakṣasām gaṇāḥ.. 10..
शैलेन्द्रमिव धाराभिर्वर्षमाणा महाघनाः । सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः॥ ११॥
शैलेन्द्रम् इव धाराभिः वर्षमाणाः महा-घनाः । सर्वैः परिवृतः रामः राक्षसैः क्रूर-दर्शनैः॥ ११॥
śailendram iva dhārābhiḥ varṣamāṇāḥ mahā-ghanāḥ . sarvaiḥ parivṛtaḥ rāmaḥ rākṣasaiḥ krūra-darśanaiḥ.. 11..
तिथिष्विव महादेवो वृतः पारिषदां गणैः । तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः॥ १२॥
तिथिषु इव महादेवः वृतः पारिषदाम् गणैः । तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः॥ १२॥
tithiṣu iva mahādevaḥ vṛtaḥ pāriṣadām gaṇaiḥ . tāni muktāni śastrāṇi yātudhānaiḥ sa rāghavaḥ.. 12..
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः । स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे॥ १३॥
प्रतिजग्राह विशिखैः नदी-ओघान् इव सागरः । स तैः प्रहरणैः घोरैः भिन्न-गात्रः न विव्यथे॥ १३॥
pratijagrāha viśikhaiḥ nadī-oghān iva sāgaraḥ . sa taiḥ praharaṇaiḥ ghoraiḥ bhinna-gātraḥ na vivyathe.. 13..
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः । स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः॥ १४॥
रामः प्रदीप्तैः बहुभिः वज्रैः इव महा-अचलः । स विद्धः क्षतज-आदिग्धः सर्व-गात्रेषु राघवः॥ १४॥
rāmaḥ pradīptaiḥ bahubhiḥ vajraiḥ iva mahā-acalaḥ . sa viddhaḥ kṣataja-ādigdhaḥ sarva-gātreṣu rāghavaḥ.. 14..
बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः । विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः॥ १५॥
बभूव रामः संध्या-अभ्रैः दिवाकरः इव आवृतः । विषेदुः देव-गन्धर्वाः सिद्धाः च परम-ऋषयः॥ १५॥
babhūva rāmaḥ saṃdhyā-abhraiḥ divākaraḥ iva āvṛtaḥ . viṣeduḥ deva-gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ.. 15..
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् । ततो रामस्तु संक्रुद्धो मण्डलीकृतकार्मुकः॥ १६॥
एकम् सहस्रैः बहुभिः तदा दृष्ट्वा समावृतम् । ततस् रामः तु संक्रुद्धः मण्डलीकृत-कार्मुकः॥ १६॥
ekam sahasraiḥ bahubhiḥ tadā dṛṣṭvā samāvṛtam . tatas rāmaḥ tu saṃkruddhaḥ maṇḍalīkṛta-kārmukaḥ.. 16..
ससर्ज निशितान् बाणान् शतशोऽथ सहस्रशः । दुरावारान् दुर्विषहान् कालपाशोपमान् रणे॥ १७॥
ससर्ज निशितान् बाणान् शतशस् अथ सहस्रशस् । दुरावारान् दुर्विषहान् काल-पाश-उपमान् रणे॥ १७॥
sasarja niśitān bāṇān śataśas atha sahasraśas . durāvārān durviṣahān kāla-pāśa-upamān raṇe.. 17..
मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान् । ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया॥ १८॥
मुमोच लीलया कङ्क-पत्रान् काञ्चन-भूषणान् । ते शराः शत्रु-सैन्येषु मुक्ताः रामेण लीलया॥ १८॥
mumoca līlayā kaṅka-patrān kāñcana-bhūṣaṇān . te śarāḥ śatru-sainyeṣu muktāḥ rāmeṇa līlayā.. 18..
आददू रक्षसां प्राणान् पाशाः कालकृता इव । भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः॥ १९॥
आददुः रक्षसाम् प्राणान् पाशाः काल-कृताः इव । भित्त्वा राक्षस-देहान् तान् ते शराः रुधिर-आप्लुताः॥ १९॥
ādaduḥ rakṣasām prāṇān pāśāḥ kāla-kṛtāḥ iva . bhittvā rākṣasa-dehān tān te śarāḥ rudhira-āplutāḥ.. 19..
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः । असंख्येयास्तु रामस्य सायकाश्चापमण्डलात्॥ २०॥
अन्तरिक्ष-गताः रेजुः दीप्त-अग्नि-सम-तेजसः । असंख्येयाः तु रामस्य सायकाः चाप-मण्डलात्॥ २०॥
antarikṣa-gatāḥ rejuḥ dīpta-agni-sama-tejasaḥ . asaṃkhyeyāḥ tu rāmasya sāyakāḥ cāpa-maṇḍalāt.. 20..
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः । तैर्धनूंषि ध्वजाग्राणि चर्माणि कवचानि च॥ २१॥
विनिष्पेतुः अतीव उग्राः रक्षः-प्राण-अपहारिणः । तैः धनूंषि ध्वज-अग्राणि चर्माणि कवचानि च॥ २१॥
viniṣpetuḥ atīva ugrāḥ rakṣaḥ-prāṇa-apahāriṇaḥ . taiḥ dhanūṃṣi dhvaja-agrāṇi carmāṇi kavacāni ca.. 21..
बाहून् सहस्ताभरणानूरून् करिकरोपमान् । चिच्छेद रामः समरे शतशोऽथ सहस्रशः॥ २२॥
बाहून् स हस्त-आभरणान् ऊरून् करि-कर-उपमान् । चिच्छेद रामः समरे शतशस् अथ सहस्रशस्॥ २२॥
bāhūn sa hasta-ābharaṇān ūrūn kari-kara-upamān . ciccheda rāmaḥ samare śataśas atha sahasraśas.. 22..
हयान् काञ्चनसंनाहान् रथयुक्तान् ससारथीन् । गजांश्च सगजारोहान् सहयान् सादिनस्तदा॥ २३॥
हयान् काञ्चन-संनाहान् रथ-युक्तान् स सारथीन् । गजान् च स गज-आरोहान् स हयान् सादिनः तदा॥ २३॥
hayān kāñcana-saṃnāhān ratha-yuktān sa sārathīn . gajān ca sa gaja-ārohān sa hayān sādinaḥ tadā.. 23..
चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः । पदातीन् समरे हत्वा ह्यनयद् यमसादनम्॥ २४॥
चिच्छिदुः बिभिदुः च एव राम-बाणाः गुण-च्युताः । पदातीन् समरे हत्वा हि अनयत् यम-सादनम्॥ २४॥
cicchiduḥ bibhiduḥ ca eva rāma-bāṇāḥ guṇa-cyutāḥ . padātīn samare hatvā hi anayat yama-sādanam.. 24..
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । भीममार्तस्वरं चक्रुश्छिद्यमाना निशाचराः॥ २५॥
ततस् नालीक-नाराचैः तीक्ष्ण-अग्रैः च विकर्णिभिः । भीमम् आर्त-स्वरम् चक्रुः छिद्यमानाः निशाचराः॥ २५॥
tatas nālīka-nārācaiḥ tīkṣṇa-agraiḥ ca vikarṇibhiḥ . bhīmam ārta-svaram cakruḥ chidyamānāḥ niśācarāḥ.. 25..
तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः । न रामेण सुखं लेभे शुष्कं वनमिवाग्निना॥ २६॥
तत् सैन्यम् विविधैः बाणैः अर्दितम् मर्म-भेदिभिः । न रामेण सुखम् लेभे शुष्कम् वनम् इव अग्निना॥ २६॥
tat sainyam vividhaiḥ bāṇaiḥ arditam marma-bhedibhiḥ . na rāmeṇa sukham lebhe śuṣkam vanam iva agninā.. 26..
केचिद् भीमबलाः शूराः प्रासान् शूलान् परश्वधान् । चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः॥ २७॥
केचिद् भीम-बलाः शूराः प्रासान् शूलान् परश्वधान् । चिक्षिपुः परम-क्रुद्धाः रामाय रजनीचराः॥ २७॥
kecid bhīma-balāḥ śūrāḥ prāsān śūlān paraśvadhān . cikṣipuḥ parama-kruddhāḥ rāmāya rajanīcarāḥ.. 27..
तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान् । जहार समरे प्राणांश्चिच्छेद च शिरोधरान्॥ २८॥
तेषाम् बाणैः महा-बाहुः शस्त्राणि आवार्य वीर्यवान् । जहार समरे प्राणान् चिच्छेद च शिरोधरान्॥ २८॥
teṣām bāṇaiḥ mahā-bāhuḥ śastrāṇi āvārya vīryavān . jahāra samare prāṇān ciccheda ca śirodharān.. 28..
ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः । सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा॥ २९॥
ते छिन्न-शिरसः पेतुः छिन्न-चर्म-शरासनाः । सुपर्ण-वात-विक्षिप्ताः जगत्याम् पादपाः यथा॥ २९॥
te chinna-śirasaḥ petuḥ chinna-carma-śarāsanāḥ . suparṇa-vāta-vikṣiptāḥ jagatyām pādapāḥ yathā.. 29..
अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः । खरमेवाभ्यधावन्त शरणार्थं शराहताः॥ ३०॥
अवशिष्टाः च ये तत्र विषण्णाः ते निशाचराः । खरम् एव अभ्यधावन्त शरण-अर्थम् शर-आहताः॥ ३०॥
avaśiṣṭāḥ ca ye tatra viṣaṇṇāḥ te niśācarāḥ . kharam eva abhyadhāvanta śaraṇa-artham śara-āhatāḥ.. 30..
तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः । अभ्यधावत् सुसंक्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः॥ ३१॥
तान् सर्वान् धनुः आदाय समाश्वास्य च दूषणः । अभ्यधावत् सु संक्रुद्धः क्रुद्धम् क्रुद्धः इव अन्तकः॥ ३१॥
tān sarvān dhanuḥ ādāya samāśvāsya ca dūṣaṇaḥ . abhyadhāvat su saṃkruddhaḥ kruddham kruddhaḥ iva antakaḥ.. 31..
निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः । राममेवाभ्यधावन्त सालतालशिलायुधाः॥ ३२॥
निवृत्ताः तु पुनर् सर्वे दूषण-आश्रय-निर्भयाः । रामम् एव अभ्यधावन्त साल-ताल-शिला-आयुधाः॥ ३२॥
nivṛttāḥ tu punar sarve dūṣaṇa-āśraya-nirbhayāḥ . rāmam eva abhyadhāvanta sāla-tāla-śilā-āyudhāḥ.. 32..
शूलमुद्गरहस्ताश्च पाशहस्ता महाबलाः । सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे॥ ३३॥
शूल-मुद्गर-हस्ताः च पाश-हस्ताः महा-बलाः । सृजन्तः शर-वर्षाणि शस्त्र-वर्षाणि संयुगे॥ ३३॥
śūla-mudgara-hastāḥ ca pāśa-hastāḥ mahā-balāḥ . sṛjantaḥ śara-varṣāṇi śastra-varṣāṇi saṃyuge.. 33..
द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः । तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम्॥ ३४॥
द्रुम-वर्षाणि मुञ्चन्तः शिला-वर्षाणि राक्षसाः । तत् बभूव अद्भुतम् युद्धम् तुमुलम् रोम-हर्षणम्॥ ३४॥
druma-varṣāṇi muñcantaḥ śilā-varṣāṇi rākṣasāḥ . tat babhūva adbhutam yuddham tumulam roma-harṣaṇam.. 34..
रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् । ते समन्तादभिक्रुद्धा राघवं पुनरार्दयन्॥ ३५॥
रामस्य अस्य महा-घोरम् पुनर् तेषाम् च रक्षसाम् । ते समन्तात् अभिक्रुद्धाः राघवम् पुनर् आर्दयन्॥ ३५॥
rāmasya asya mahā-ghoram punar teṣām ca rakṣasām . te samantāt abhikruddhāḥ rāghavam punar ārdayan.. 35..
ततः सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः । राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः॥ ३६॥
ततस् सर्वाः दिशः दृष्ट्वा प्रदिशः च समावृताः । राक्षसैः सर्वतस् प्राप्तैः शर-वर्षाभिः आवृतः॥ ३६॥
tatas sarvāḥ diśaḥ dṛṣṭvā pradiśaḥ ca samāvṛtāḥ . rākṣasaiḥ sarvatas prāptaiḥ śara-varṣābhiḥ āvṛtaḥ.. 36..
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् । समयोजयद् गान्धर्वं राक्षसेषु महाबलः॥ ३७॥
स कृत्वा भैरवम् नादम् अस्त्रम् परम-भास्वरम् । समयोजयत् गान्धर्वम् राक्षसेषु महा-बलः॥ ३७॥
sa kṛtvā bhairavam nādam astram parama-bhāsvaram . samayojayat gāndharvam rākṣaseṣu mahā-balaḥ.. 37..
ततः शरसहस्राणि निर्ययुश्चापमण्डलात् । सर्वा दश दिशो बाणैरापूर्यन्त समागतैः॥ ३८॥
ततस् शर-सहस्राणि निर्ययुः चाप-मण्डलात् । सर्वाः दश दिशः बाणैः आपूर्यन्त समागतैः॥ ३८॥
tatas śara-sahasrāṇi niryayuḥ cāpa-maṇḍalāt . sarvāḥ daśa diśaḥ bāṇaiḥ āpūryanta samāgataiḥ.. 38..
नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान् । विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः॥ ३९॥
न आददानम् शरान् घोरान् विमुञ्चन्तम् शर-उत्तमान् । विकर्षमाणम् पश्यन्ति राक्षसाः ते शर-अर्दिताः॥ ३९॥
na ādadānam śarān ghorān vimuñcantam śara-uttamān . vikarṣamāṇam paśyanti rākṣasāḥ te śara-arditāḥ.. 39..
शरान्धकारमाकाशमावृणोत् सदिवाकरम् । बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान्॥ ४०॥
शर-अन्धकारम् आकाशम् आवृणोत् स दिवाकरम् । बभूव अवस्थितः रामः प्रक्षिपन् इव तान् शरान्॥ ४०॥
śara-andhakāram ākāśam āvṛṇot sa divākaram . babhūva avasthitaḥ rāmaḥ prakṣipan iva tān śarān.. 40..
युगपत्पतमानैश्च युगपच्च हतैर्भृशम् । युगपत्पतितैश्चैव विकीर्णा वसुधाभवत्॥ ४१॥
युगपद् पतमानैः च युगपद् च हतैः भृशम् । युगपद् पतितैः च एव विकीर्णा वसुधा भवत्॥ ४१॥
yugapad patamānaiḥ ca yugapad ca hataiḥ bhṛśam . yugapad patitaiḥ ca eva vikīrṇā vasudhā bhavat.. 41..
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः । तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः॥ ४२॥
निहताः पतिताः क्षीणाः छिन्नाः भिन्नाः विदारिताः । तत्र तत्र स्म दृश्यन्ते राक्षसाः ते सहस्रशस्॥ ४२॥
nihatāḥ patitāḥ kṣīṇāḥ chinnāḥ bhinnāḥ vidāritāḥ . tatra tatra sma dṛśyante rākṣasāḥ te sahasraśas.. 42..
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा । ऊरुभिर्बाहुभिश्छिन्नैर्नानारूपैर्विभूषणैः॥ ४३॥
स उष्णीषैः उत्तमाङ्गैः च स अङ्गदैः बाहुभिः तथा । ऊरुभिः बाहुभिः छिन्नैः नाना रूपैः विभूषणैः॥ ४३॥
sa uṣṇīṣaiḥ uttamāṅgaiḥ ca sa aṅgadaiḥ bāhubhiḥ tathā . ūrubhiḥ bāhubhiḥ chinnaiḥ nānā rūpaiḥ vibhūṣaṇaiḥ.. 43..
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः । चामरव्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि॥ ४४॥
हयैः च द्विप-मुख्यैः च रथैः भिन्नैः अनेकशस् । चामर-व्यजनैः छत्रैः ध्वजैः नानाविधैः अपि॥ ४४॥
hayaiḥ ca dvipa-mukhyaiḥ ca rathaiḥ bhinnaiḥ anekaśas . cāmara-vyajanaiḥ chatraiḥ dhvajaiḥ nānāvidhaiḥ api.. 44..
रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिशैः । खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः॥ ४५॥
रामेण बाण-अभिहतैः विच्छिन्नैः शूल-पट्टिशैः । खड्गैः खण्डीकृतैः प्रासैः विकीर्णैः च परश्वधैः॥ ४५॥
rāmeṇa bāṇa-abhihataiḥ vicchinnaiḥ śūla-paṭṭiśaiḥ . khaḍgaiḥ khaṇḍīkṛtaiḥ prāsaiḥ vikīrṇaiḥ ca paraśvadhaiḥ.. 45..
चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः । विच्छिन्नैः समरे भूमिर्विस्तीर्णाभूद् भयंकरा॥ ४६॥
चूर्णिताभिः शिलाभिः च शरैः चित्रैः अनेकशस् । विच्छिन्नैः समरे भूमिः विस्तीर्णा अभूत् भयंकरा॥ ४६॥
cūrṇitābhiḥ śilābhiḥ ca śaraiḥ citraiḥ anekaśas . vicchinnaiḥ samare bhūmiḥ vistīrṇā abhūt bhayaṃkarā.. 46..
तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः । न तत्र चलितुं शक्ता रामं परपुरंजयम्॥ ४७॥
तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परम-आतुराः । न तत्र चलितुम् शक्ताः रामम् परपुरंजयम्॥ ४७॥
tān dṛṣṭvā nihatān sarve rākṣasāḥ parama-āturāḥ . na tatra calitum śaktāḥ rāmam parapuraṃjayam.. 47..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चविंशः सर्गः ॥३-२५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे पञ्चविंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe pañcaviṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In