This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे एकोनत्रिंशः सर्गः ॥३-२९॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे एकोनत्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe ekonatriṃśaḥ sargaḥ ..3..
खरं तु विरथं रामो गदापाणिमवस्थितम् । मृदुपूर्वं महातेजाः परुषं वाक्यमब्रवीत्॥ १॥
खरम् तु विरथम् रामः गदा-पाणिम् अवस्थितम् । मृदुपूर्वम् महा-तेजाः परुषम् वाक्यम् अब्रवीत्॥ १॥
kharam tu viratham rāmaḥ gadā-pāṇim avasthitam . mṛdupūrvam mahā-tejāḥ paruṣam vākyam abravīt.. 1..
गजाश्वरथसम्बाधे बले महति तिष्ठता । कृतं ते दारुणं कर्म सर्वलोकजुगुप्सितम्॥ २॥
गज-अश्व-रथ-सम्बाधे बले महति तिष्ठता । कृतम् ते दारुणम् कर्म सर्व-लोक-जुगुप्सितम्॥ २॥
gaja-aśva-ratha-sambādhe bale mahati tiṣṭhatā . kṛtam te dāruṇam karma sarva-loka-jugupsitam.. 2..
उद्वेजनीयो भूतानां नृशंसः पापकर्मकृत् । त्रयाणामपि लोकानामीश्वरोऽपि न तिष्ठति॥ ३॥
उद्वेजनीयः भूतानाम् नृशंसः पाप-कर्म-कृत् । त्रयाणाम् अपि लोकानाम् ईश्वरः अपि न तिष्ठति॥ ३॥
udvejanīyaḥ bhūtānām nṛśaṃsaḥ pāpa-karma-kṛt . trayāṇām api lokānām īśvaraḥ api na tiṣṭhati.. 3..
कर्म लोकविरुद्धं तु कुर्वाणं क्षणदाचर । तीक्ष्णं सर्वजनो हन्ति सर्पं दुष्टमिवागतम्॥ ४॥
कर्म लोक-विरुद्धम् तु कुर्वाणम् क्षणदा-चर । तीक्ष्णम् सर्व-जनः हन्ति सर्पम् दुष्टम् इव आगतम्॥ ४॥
karma loka-viruddham tu kurvāṇam kṣaṇadā-cara . tīkṣṇam sarva-janaḥ hanti sarpam duṣṭam iva āgatam.. 4..
लोभात् पापानि कुर्वाणः कामाद् वा यो न बुध्यते । हृष्टः पश्यति तस्यान्तं ब्राह्मणी करकादिव॥ ५॥
लोभात् पापानि कुर्वाणः कामात् वा यः न बुध्यते । हृष्टः पश्यति तस्य अन्तम् ब्राह्मणी करकात् इव॥ ५॥
lobhāt pāpāni kurvāṇaḥ kāmāt vā yaḥ na budhyate . hṛṣṭaḥ paśyati tasya antam brāhmaṇī karakāt iva.. 5..
वसतो दण्डकारण्ये तापसान् धर्मचारिणः । किं नु हत्वा महाभागान् फलं प्राप्स्यसि राक्षस॥ ६॥
वसतः दण्डक-अरण्ये तापसान् धर्म-चारिणः । किम् नु हत्वा महाभागान् फलम् प्राप्स्यसि राक्षस॥ ६॥
vasataḥ daṇḍaka-araṇye tāpasān dharma-cāriṇaḥ . kim nu hatvā mahābhāgān phalam prāpsyasi rākṣasa.. 6..
न चिरं पापकर्माणः क्रूरा लोकजुगुप्सिताः । ऐश्वर्यं प्राप्य तिष्ठन्ति शीर्णमूला इव द्रुमाः॥ ७॥
न चिरम् पाप-कर्माणः क्रूराः लोक-जुगुप्सिताः । ऐश्वर्यम् प्राप्य तिष्ठन्ति शीर्ण-मूलाः इव द्रुमाः॥ ७॥
na ciram pāpa-karmāṇaḥ krūrāḥ loka-jugupsitāḥ . aiśvaryam prāpya tiṣṭhanti śīrṇa-mūlāḥ iva drumāḥ.. 7..
अवश्यं लभते कर्ता फलं पापस्य कर्मणः । घोरं पर्यागते काले द्रुमः पुष्पमिवार्तवम्॥ ८॥
अवश्यम् लभते कर्ता फलम् पापस्य कर्मणः । घोरम् पर्यागते काले द्रुमः पुष्पम् इव आर्तवम्॥ ८॥
avaśyam labhate kartā phalam pāpasya karmaṇaḥ . ghoram paryāgate kāle drumaḥ puṣpam iva ārtavam.. 8..
नचिरात् प्राप्यते लोके पापानां कर्मणां फलम् । सविषाणामिवान्नानां भुक्तानां क्षणदाचर॥ ९॥
नचिरात् प्राप्यते लोके पापानाम् कर्मणाम् फलम् । स विषाणाम् इव अन्नानाम् भुक्तानाम् क्षणदा-चर॥ ९॥
nacirāt prāpyate loke pāpānām karmaṇām phalam . sa viṣāṇām iva annānām bhuktānām kṣaṇadā-cara.. 9..
पापमाचरतां घोरं लोकस्याप्रियमिच्छताम् । अहमासादितो राज्ञा प्राणान् हन्तुं निशाचर॥ १०॥
पापम् आचरताम् घोरम् लोकस्य अप्रियम् इच्छताम् । अहम् आसादितः राज्ञा प्राणान् हन्तुम् निशाचर॥ १०॥
pāpam ācaratām ghoram lokasya apriyam icchatām . aham āsāditaḥ rājñā prāṇān hantum niśācara.. 10..
अद्य भित्त्वा मया मुक्ताः शराः काञ्चनभूषणाः । विदार्यातिपतिष्यन्ति वल्मीकमिव पन्नगाः॥ ११॥
अद्य भित्त्वा मया मुक्ताः शराः काञ्चन-भूषणाः । विदार्य अतिपतिष्यन्ति वल्मीकम् इव पन्नगाः॥ ११॥
adya bhittvā mayā muktāḥ śarāḥ kāñcana-bhūṣaṇāḥ . vidārya atipatiṣyanti valmīkam iva pannagāḥ.. 11..
ये त्वया दण्डकारण्ये भक्षिता धर्मचारिणः । तानद्य निहतः संख्ये ससैन्योऽनुगमिष्यसि॥ १२॥
ये त्वया दण्डक-अरण्ये भक्षिताः धर्म-चारिणः । तान् अद्य निहतः संख्ये स सैन्यः अनुगमिष्यसि॥ १२॥
ye tvayā daṇḍaka-araṇye bhakṣitāḥ dharma-cāriṇaḥ . tān adya nihataḥ saṃkhye sa sainyaḥ anugamiṣyasi.. 12..
अद्य त्वां निहतं बाणैः पश्यन्तु परमर्षयः । निरयस्थं विमानस्था ये त्वया निहताः पुरा॥ १३॥
अद्य त्वाम् निहतम् बाणैः पश्यन्तु परम-ऋषयः । निरय-स्थम् विमान-स्थाः ये त्वया निहताः पुरा॥ १३॥
adya tvām nihatam bāṇaiḥ paśyantu parama-ṛṣayaḥ . niraya-stham vimāna-sthāḥ ye tvayā nihatāḥ purā.. 13..
प्रहरस्व यथाकामं कुरु यत्नं कुलाधम । अद्य ते पातयिष्यामि शिरस्तालफलं यथा॥ १४॥
प्रहरस्व यथाकामम् कुरु यत्नम् कुल-अधम । अद्य ते पातयिष्यामि शिरः ताल-फलम् यथा॥ १४॥
praharasva yathākāmam kuru yatnam kula-adhama . adya te pātayiṣyāmi śiraḥ tāla-phalam yathā.. 14..
एवमुक्तस्तु रामेण क्रुद्धः संरक्तलोचनः । प्रत्युवाच ततो रामं प्रहसन् क्रोधमूर्च्छितः॥ १५॥
एवम् उक्तः तु रामेण क्रुद्धः संरक्त-लोचनः । प्रत्युवाच ततस् रामम् प्रहसन् क्रोध-मूर्च्छितः॥ १५॥
evam uktaḥ tu rāmeṇa kruddhaḥ saṃrakta-locanaḥ . pratyuvāca tatas rāmam prahasan krodha-mūrcchitaḥ.. 15..
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथात्मज । आत्मना कथमात्मानमप्रशस्यं प्रशंससि॥ १६॥
प्राकृतान् राक्षसान् हत्वा युद्धे दशरथ-आत्मज । आत्मना कथम् आत्मानम् अप्रशस्यम् प्रशंससि॥ १६॥
prākṛtān rākṣasān hatvā yuddhe daśaratha-ātmaja . ātmanā katham ātmānam apraśasyam praśaṃsasi.. 16..
विक्रान्ता बलवन्तो वा ये भवन्ति नरर्षभाः । कथयन्ति न ते किंचित् तेजसा चातिगर्विताः॥ १७॥
विक्रान्ताः बलवन्तः वा ये भवन्ति नर-ऋषभाः । कथयन्ति न ते किंचिद् तेजसा च अति गर्विताः॥ १७॥
vikrāntāḥ balavantaḥ vā ye bhavanti nara-ṛṣabhāḥ . kathayanti na te kiṃcid tejasā ca ati garvitāḥ.. 17..
प्राकृतास्त्वकृतात्मानो लोके क्षत्रियपांसनाः । निरर्थकं विकत्थन्ते यथा राम विकत्थसे॥ १८॥
प्राकृताः तु अकृतात्मानः लोके क्षत्रिय-पांसनाः । निरर्थकम् विकत्थन्ते यथा राम विकत्थसे॥ १८॥
prākṛtāḥ tu akṛtātmānaḥ loke kṣatriya-pāṃsanāḥ . nirarthakam vikatthante yathā rāma vikatthase.. 18..
कुलं व्यपदिशन् वीरः समरे कोऽभिधास्यति । मृत्युकाले तु सम्प्राप्ते स्वयमप्रस्तवे स्तवम्॥ १९॥
कुलम् व्यपदिशन् वीरः समरे कः अभिधास्यति । मृत्यु-काले तु सम्प्राप्ते स्वयमप्रस्तवे स्तवम्॥ १९॥
kulam vyapadiśan vīraḥ samare kaḥ abhidhāsyati . mṛtyu-kāle tu samprāpte svayamaprastave stavam.. 19..
सर्वथा तु लघुत्वं ते कत्थनेन विदर्शितम् । सुवर्णप्रतिरूपेण तप्तेनेव कुशाग्निना॥ २०॥
सर्वथा तु लघु-त्वम् ते कत्थनेन विदर्शितम् । सुवर्ण-प्रतिरूपेण तप्तेन इव कुश-अग्निना॥ २०॥
sarvathā tu laghu-tvam te katthanena vidarśitam . suvarṇa-pratirūpeṇa taptena iva kuśa-agninā.. 20..
न तु मामिह तिष्ठन्तं पश्यसि त्वं गदाधरम् । धराधरमिवाकम्प्यं पर्वतं धातुभिश्चितम्॥ २१॥
न तु माम् इह तिष्ठन्तम् पश्यसि त्वम् गदा-धरम् । धराधरम् इव अकम्प्यम् पर्वतम् धातुभिः चितम्॥ २१॥
na tu mām iha tiṣṭhantam paśyasi tvam gadā-dharam . dharādharam iva akampyam parvatam dhātubhiḥ citam.. 21..
पर्याप्तोऽहं गदापाणिर्हन्तुं प्राणान् रणे तव । त्रयाणामपि लोकानां पाशहस्त इवान्तकः॥ २२॥
पर्याप्तः अहम् गदा-पाणिः हन्तुम् प्राणान् रणे तव । त्रयाणाम् अपि लोकानाम् पाश-हस्तः इव अन्तकः॥ २२॥
paryāptaḥ aham gadā-pāṇiḥ hantum prāṇān raṇe tava . trayāṇām api lokānām pāśa-hastaḥ iva antakaḥ.. 22..
कामं बह्वपि वक्तव्यं त्वयि वक्ष्यामि न त्वहम् । अस्तं प्राप्नोति सविता युद्धविघ्नस्ततो भवेत्॥ २३॥
कामम् बहु अपि वक्तव्यम् त्वयि वक्ष्यामि न तु अहम् । अस्तम् प्राप्नोति सविता युद्ध-विघ्नः ततस् भवेत्॥ २३॥
kāmam bahu api vaktavyam tvayi vakṣyāmi na tu aham . astam prāpnoti savitā yuddha-vighnaḥ tatas bhavet.. 23..
चतुर्दश सहस्राणि राक्षसानां हतानि ते । त्वद्विनाशात् करोम्यद्य तेषामश्रुप्रमार्जनम्॥ २४॥
चतुर्दश सहस्राणि राक्षसानाम् हतानि ते । त्वद्-विनाशात् करोमि अद्य तेषाम् अश्रु-प्रमार्जनम्॥ २४॥
caturdaśa sahasrāṇi rākṣasānām hatāni te . tvad-vināśāt karomi adya teṣām aśru-pramārjanam.. 24..
इत्युक्त्वा परमक्रुद्धः स गदां परमाङ्गदाम् । खरश्चिक्षेप रामाय प्रदीप्तामशनिं यथा॥ २५॥
इति उक्त्वा परम-क्रुद्धः स गदाम् परम-अङ्गदाम् । खरः चिक्षेप रामाय प्रदीप्ताम् अशनिम् यथा॥ २५॥
iti uktvā parama-kruddhaḥ sa gadām parama-aṅgadām . kharaḥ cikṣepa rāmāya pradīptām aśanim yathā.. 25..
खरबाहुप्रमुक्ता सा प्रदीप्ता महती गदा । भस्म वृक्षांश्च गुल्मांश्च कृत्वागात् तत्समीपतः॥ २६॥
खर-बाहु-प्रमुक्ता सा प्रदीप्ता महती गदा । भस्म वृक्षान् च गुल्मान् च कृत्वा अगात् तद्-समीपतः॥ २६॥
khara-bāhu-pramuktā sā pradīptā mahatī gadā . bhasma vṛkṣān ca gulmān ca kṛtvā agāt tad-samīpataḥ.. 26..
तामापतन्तीं महतीं मृत्युपाशोपमां गदाम् । अन्तरिक्षगतां रामश्चिच्छेद बहुधा शरैः॥ २७॥
ताम् आपतन्तीम् महतीम् मृत्यु-पाश-उपमाम् गदाम् । अन्तरिक्ष-गताम् रामः चिच्छेद बहुधा शरैः॥ २७॥
tām āpatantīm mahatīm mṛtyu-pāśa-upamām gadām . antarikṣa-gatām rāmaḥ ciccheda bahudhā śaraiḥ.. 27..
सा विशीर्णा शरैर्भिन्ना पपात धरणीतले । गदा मन्त्रौषधिबलैर्व्यालीव विनिपातिता॥ २८॥
सा विशीर्णा शरैः भिन्ना पपात धरणी-तले । गदा मन्त्र-ओषधि-बलैः व्याली इव विनिपातिता॥ २८॥
sā viśīrṇā śaraiḥ bhinnā papāta dharaṇī-tale . gadā mantra-oṣadhi-balaiḥ vyālī iva vinipātitā.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे एकोनत्रिंशः सर्गः ॥३-२९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे एकोनत्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe ekonatriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In