This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-३५॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे पञ्चत्रिंशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe pañcatriṃśaḥ sargaḥ ..3..
ततः शूर्पणखावाक्यं तच्छ्रुत्वा रोमहर्षणम् । सचिवानभ्यनुज्ञाय कार्यं बुद्ध्वा जगाम ह॥ १॥
ततस् शूर्पणखा-वाक्यम् तत् श्रुत्वा रोम-हर्षणम् । सचिवान् अभ्यनुज्ञाय कार्यम् बुद्ध्वा जगाम ह॥ १॥
tatas śūrpaṇakhā-vākyam tat śrutvā roma-harṣaṇam . sacivān abhyanujñāya kāryam buddhvā jagāma ha.. 1..
तत् कार्यमनुगम्यान्तर्यथावदुपलभ्य च । दोषाणां च गुणानां च सम्प्रधार्य बलाबलम्॥ २॥
तत् कार्यम् अनुगम्य अन्तर् यथावत् उपलभ्य च । दोषाणाम् च गुणानाम् च सम्प्रधार्य बलाबलम्॥ २॥
tat kāryam anugamya antar yathāvat upalabhya ca . doṣāṇām ca guṇānām ca sampradhārya balābalam.. 2..
इति कर्तव्यमित्येव कृत्वा निश्चयमात्मनः । स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह॥ ३॥
इति कर्तव्यम् इति एव कृत्वा निश्चयम् आत्मनः । स्थिर-बुद्धिः ततस् रम्याम् यान-शालाम् जगाम ह॥ ३॥
iti kartavyam iti eva kṛtvā niścayam ātmanaḥ . sthira-buddhiḥ tatas ramyām yāna-śālām jagāma ha.. 3..
यानशालां ततो गत्वा प्रच्छन्नं राक्षसाधिपः । सूतं संचोदयामास रथः संयुज्यतामिति॥ ४॥
यान-शालाम् ततस् गत्वा प्रच्छन्नम् राक्षस-अधिपः । सूतम् संचोदयामास रथः संयुज्यताम् इति॥ ४॥
yāna-śālām tatas gatvā pracchannam rākṣasa-adhipaḥ . sūtam saṃcodayāmāsa rathaḥ saṃyujyatām iti.. 4..
एवमुक्तः क्षणेनैव सारथिर्लघुविक्रमः । रथं संयोजयामास तस्याभिमतमुत्तमम्॥ ५॥
एवम् उक्तः क्षणेन एव सारथिः लघु-विक्रमः । रथम् संयोजयामास तस्य अभिमतम् उत्तमम्॥ ५॥
evam uktaḥ kṣaṇena eva sārathiḥ laghu-vikramaḥ . ratham saṃyojayāmāsa tasya abhimatam uttamam.. 5..
कामगं रथमास्थाय काञ्चनं रत्नभूषितम् । पिशाचवदनैर्युक्तं खरैः कनकभूषणैः॥ ६॥
कामगम् रथम् आस्थाय काञ्चनम् रत्न-भूषितम् । पिशाच-वदनैः युक्तम् खरैः कनक-भूषणैः॥ ६॥
kāmagam ratham āsthāya kāñcanam ratna-bhūṣitam . piśāca-vadanaiḥ yuktam kharaiḥ kanaka-bhūṣaṇaiḥ.. 6..
मेघप्रतिमनादेन स तेन धनदानुजः । राक्षसाधिपतिः श्रीमान् ययौ नदनदीपतिम्॥ ७॥
मेघ-प्रतिम-नादेन स तेन धनद-अनुजः । राक्षस-अधिपतिः श्रीमान् ययौ नदनदीपतिम्॥ ७॥
megha-pratima-nādena sa tena dhanada-anujaḥ . rākṣasa-adhipatiḥ śrīmān yayau nadanadīpatim.. 7..
स श्वेतवालव्यजनः श्वेतच्छत्रो दशाननः । स्निग्धवैदूर्यसंकाशस्तप्तकाञ्चनभूषणः॥ ८॥
स श्वेत-वाल-व्यजनः श्वेत-छत्रः दश-आननः । स्निग्ध-वैदूर्य-संकाशः तप्त-काञ्चन-भूषणः॥ ८॥
sa śveta-vāla-vyajanaḥ śveta-chatraḥ daśa-ānanaḥ . snigdha-vaidūrya-saṃkāśaḥ tapta-kāñcana-bhūṣaṇaḥ.. 8..
दशग्रीवो विंशतिभुजो दर्शनीयपरिच्छदः । त्रिदशारिर्मुनीन्द्रघ्नो दशशीर्ष इवाद्रिराट्॥ ९॥
। त्रिदश-अरिः मुनि-इन्द्र-घ्नः दश-शीर्षः इव॥ ९॥
. tridaśa-ariḥ muni-indra-ghnaḥ daśa-śīrṣaḥ iva.. 9..
कामगं रथमास्थाय शुशुभे राक्षसाधिपः । विद्युन्मण्डलवान् मेघः सबलाक इवाम्बरे॥ १०॥
कामगम् रथम् आस्थाय शुशुभे राक्षस-अधिपः । विद्युत्-मण्डलवान् मेघः स बलाकः इव अम्बरे॥ १०॥
kāmagam ratham āsthāya śuśubhe rākṣasa-adhipaḥ . vidyut-maṇḍalavān meghaḥ sa balākaḥ iva ambare.. 10..
सशैलसागरानूपं वीर्यवानवलोकयन् । नानापुष्पफलैर्वृक्षैरनुकीर्णं सहस्रशः॥ ११॥
स शैल-सागर-अनूपम् वीर्यवान् अवलोकयन् । नाना पुष्प-फलैः वृक्षैः अनुकीर्णम् सहस्रशस्॥ ११॥
sa śaila-sāgara-anūpam vīryavān avalokayan . nānā puṣpa-phalaiḥ vṛkṣaiḥ anukīrṇam sahasraśas.. 11..
शीतमङ्गलतोयाभिः पद्मिनीभिः समन्ततः । विशालैराश्रमपदैर्वेदिमद्भिरलंकृतम्॥ १२॥
शीत-मङ्गल-तोयाभिः पद्मिनीभिः समन्ततः । विशालैः आश्रम-पदैः वेदिमद्भिः अलंकृतम्॥ १२॥
śīta-maṅgala-toyābhiḥ padminībhiḥ samantataḥ . viśālaiḥ āśrama-padaiḥ vedimadbhiḥ alaṃkṛtam.. 12..
कदल्यटविसंशोभं नारिकेलोपशोभितम् । सालैस्तालैस्तमालैश्च तरुभिश्च सुपुष्पितैः॥ १३॥
कदल-अटवि-संशोभम् नारिकेल-उपशोभितम् । सालैः तालैः तमालैः च तरुभिः च सु पुष्पितैः॥ १३॥
kadala-aṭavi-saṃśobham nārikela-upaśobhitam . sālaiḥ tālaiḥ tamālaiḥ ca tarubhiḥ ca su puṣpitaiḥ.. 13..
अत्यन्तनियताहारैः शोभितं परमर्षिभिः । नागैः सुपर्णैर्गन्धर्वैः किंनरैश्च सहस्रशः॥ १४॥
अत्यन्त-नियत-आहारैः शोभितम् परम-ऋषिभिः । नागैः सुपर्णैः गन्धर्वैः किंनरैः च सहस्रशस्॥ १४॥
atyanta-niyata-āhāraiḥ śobhitam parama-ṛṣibhiḥ . nāgaiḥ suparṇaiḥ gandharvaiḥ kiṃnaraiḥ ca sahasraśas.. 14..
जितकामैश्च सिद्धैश्च चारणैश्चोपशोभितम् । आजैर्वैखानसैर्माषैर्वालखिल्यैर्मरीचिपैः॥ १५॥
जित-कामैः च सिद्धैः च चारणैः च उपशोभितम् । आजैः वैखानसैः माषैः वालखिल्यैः मरीचिपैः॥ १५॥
jita-kāmaiḥ ca siddhaiḥ ca cāraṇaiḥ ca upaśobhitam . ājaiḥ vaikhānasaiḥ māṣaiḥ vālakhilyaiḥ marīcipaiḥ.. 15..
दिव्याभरणमाल्याभिर्दिव्यरूपाभिरावृतम् । क्रीडारतविधिज्ञाभिरप्सरोभिः सहस्रशः॥ १६॥
दिव्य-आभरण-माल्याभिः दिव्य-रूपाभिः आवृतम् । क्रीडा-रत-विधि-ज्ञाभिः अप्सरोभिः सहस्रशस्॥ १६॥
divya-ābharaṇa-mālyābhiḥ divya-rūpābhiḥ āvṛtam . krīḍā-rata-vidhi-jñābhiḥ apsarobhiḥ sahasraśas.. 16..
सेवितं देवपत्नीभिः श्रीमतीभिरुपासितम् । देवदानवसङ्घैश्च चरितं त्वमृताशिभिः॥ १७॥
सेवितम् देव-पत्नीभिः श्रीमतीभिः उपासितम् । देव-दानव-सङ्घैः च चरितम् तु अमृत-आशिभिः॥ १७॥
sevitam deva-patnībhiḥ śrīmatībhiḥ upāsitam . deva-dānava-saṅghaiḥ ca caritam tu amṛta-āśibhiḥ.. 17..
हंसक्रौञ्चप्लवाकीर्णं सारसैः सम्प्रसादितम् । वैदूर्यप्रस्तरं स्निग्धं सान्द्रं सागरतेजसा॥ १८॥
हंस-क्रौञ्च-प्लव-आकीर्णम् सारसैः सम्प्रसादितम् । वैदूर्य-प्रस्तरम् स्निग्धम् सान्द्रम् सागर-तेजसा॥ १८॥
haṃsa-krauñca-plava-ākīrṇam sārasaiḥ samprasāditam . vaidūrya-prastaram snigdham sāndram sāgara-tejasā.. 18..
पाण्डुराणि विशालानि दिव्यमाल्ययुतानि च । तूर्यगीताभिजुष्टानि विमानानि समन्ततः॥ १९॥
पाण्डुराणि विशालानि दिव्य-माल्य-युतानि च । तूर्य-गीत-अभिजुष्टानि विमानानि समन्ततः॥ १९॥
pāṇḍurāṇi viśālāni divya-mālya-yutāni ca . tūrya-gīta-abhijuṣṭāni vimānāni samantataḥ.. 19..
तपसा जितलोकानां कामगान्यभिसम्पतन् । गन्धर्वाप्सरसश्चैव ददर्श धनदानुजः॥ २०॥
तपसा जित-लोकानाम् कामगानि अभिसम्पतन् । गन्धर्व-अप्सरसः च एव ददर्श धनद-अनुजः॥ २०॥
tapasā jita-lokānām kāmagāni abhisampatan . gandharva-apsarasaḥ ca eva dadarśa dhanada-anujaḥ.. 20..
निर्यासरसमूलानां चन्दनानां सहस्रशः । वनानि पश्यन् सौम्यानि घ्राणतृप्तिकराणि च॥ २१॥
निर्यास-रस-मूलानाम् चन्दनानाम् सहस्रशस् । वनानि पश्यन् सौम्यानि घ्राण-तृप्ति-कराणि च॥ २१॥
niryāsa-rasa-mūlānām candanānām sahasraśas . vanāni paśyan saumyāni ghrāṇa-tṛpti-karāṇi ca.. 21..
अगुरूणां च मुख्यानां वनान्युपवनानि च । तक्कोलानां च जात्यानां फलिनां च सुगन्धिनाम्॥ २२॥
अगुरूणाम् च मुख्यानाम् वनानि उपवनानि च । तक्कोलानाम् च जात्यानाम् फलिनाम् च सुगन्धिनाम्॥ २२॥
agurūṇām ca mukhyānām vanāni upavanāni ca . takkolānām ca jātyānām phalinām ca sugandhinām.. 22..
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च । मुक्तानां च समूहानि शुष्यमाणानि तीरतः॥ २३॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च । मुक्तानाम् च समूहानि शुष्यमाणानि तीरतः॥ २३॥
puṣpāṇi ca tamālasya gulmāni maricasya ca . muktānām ca samūhāni śuṣyamāṇāni tīrataḥ.. 23..
शैलानि प्रवरांश्चैव प्रवालनिचयांस्तथा । काञ्चनानि च शृङ्गाणि राजतानि तथैव च॥ २४॥
शैलानि प्रवरान् च एव प्रवाल-निचयान् तथा । काञ्चनानि च शृङ्गाणि राजतानि तथा एव च॥ २४॥
śailāni pravarān ca eva pravāla-nicayān tathā . kāñcanāni ca śṛṅgāṇi rājatāni tathā eva ca.. 24..
प्रस्रवाणि मनोज्ञानि प्रसन्नान्यद्भुतानि च । धनधान्योपपन्नानि स्त्रीरत्नैरावृतानि च॥ २५॥
प्रस्रवाणि मनोज्ञानि प्रसन्नानि अद्भुतानि च । धन-धान्य-उपपन्नानि स्त्री-रत्नैः आवृतानि च॥ २५॥
prasravāṇi manojñāni prasannāni adbhutāni ca . dhana-dhānya-upapannāni strī-ratnaiḥ āvṛtāni ca.. 25..
हस्त्यश्वरथगाढानि नगराणि विलोकयन् । तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम्॥ २६॥
हस्ति-अश्व-रथ-गाढानि नगराणि विलोकयन् । तम् समम् सर्वतस् स्निग्धम् मृदु-संस्पर्श-मारुतम्॥ २६॥
hasti-aśva-ratha-gāḍhāni nagarāṇi vilokayan . tam samam sarvatas snigdham mṛdu-saṃsparśa-mārutam.. 26..
अनूपे सिन्धुराजस्य ददर्श त्रिदिवोपमम् । तत्रापश्यत् स मेघाभं न्यग्रोधं मुनिभिर्वृतम्॥ २७॥
अनूपे सिन्धुराजस्य ददर्श त्रिदिव-उपमम् । तत्र अपश्यत् स मेघ-आभम् न्यग्रोधम् मुनिभिः वृतम्॥ २७॥
anūpe sindhurājasya dadarśa tridiva-upamam . tatra apaśyat sa megha-ābham nyagrodham munibhiḥ vṛtam.. 27..
समन्ताद् यस्य ताः शाखाः शतयोजनमायताः । यस्य हस्तिनमादाय महाकायं च कच्छपम्॥ २८॥
समन्तात् यस्य ताः शाखाः शत-योजनम् आयताः । यस्य हस्तिनम् आदाय महा-कायम् च कच्छपम्॥ २८॥
samantāt yasya tāḥ śākhāḥ śata-yojanam āyatāḥ . yasya hastinam ādāya mahā-kāyam ca kacchapam.. 28..
भक्षार्थं गरुडः शाखामाजगाम महाबलः । तस्य तां सहसा शाखां भारेण पतगोत्तमः॥ २९॥
भक्ष-अर्थम् गरुडः शाखाम् आजगाम महा-बलः । तस्य ताम् सहसा शाखाम् भारेण पतग-उत्तमः॥ २९॥
bhakṣa-artham garuḍaḥ śākhām ājagāma mahā-balaḥ . tasya tām sahasā śākhām bhāreṇa pataga-uttamaḥ.. 29..
सुपर्णः पर्णबहुलां बभञ्जाथ महाबलः । तत्र वैखानसा माषा वालखिल्या मरीचिपाः॥ ३०॥
सुपर्णः पर्ण-बहुलाम् बभञ्ज अथ महा-बलः । तत्र वैखानसाः माषाः वालखिल्याः मरीचिपाः॥ ३०॥
suparṇaḥ parṇa-bahulām babhañja atha mahā-balaḥ . tatra vaikhānasāḥ māṣāḥ vālakhilyāḥ marīcipāḥ.. 30..
आजा बभूवुर्धूम्राश्च संगताः परमर्षयः । तेषां दयार्थं गरुडस्तां शाखां शतयोजनाम्॥ ३१॥
आजाः बभूवुः धूम्राः च संगताः परम-ऋषयः । तेषाम् दया-अर्थम् गरुडः ताम् शाखाम् शत-योजनाम्॥ ३१॥
ājāḥ babhūvuḥ dhūmrāḥ ca saṃgatāḥ parama-ṛṣayaḥ . teṣām dayā-artham garuḍaḥ tām śākhām śata-yojanām.. 31..
भग्नामादाय वेगेन तौ चोभौ गजकच्छपौ । एकपादेन धर्मात्मा भक्षयित्वा तदामिषम्॥ ३२॥
भग्नाम् आदाय वेगेन तौ च उभौ गज-कच्छपौ । एक-पादेन धर्म-आत्मा भक्षयित्वा तत् आमिषम्॥ ३२॥
bhagnām ādāya vegena tau ca ubhau gaja-kacchapau . eka-pādena dharma-ātmā bhakṣayitvā tat āmiṣam.. 32..
निषादविषयं हत्वा शाखया पतगोत्तमः । प्रहर्षमतुलं लेभे मोक्षयित्वा महामुनीन्॥ ३३॥
निषाद-विषयम् हत्वा शाखया पतग-उत्तमः । प्रहर्षम् अतुलम् लेभे मोक्षयित्वा महा-मुनीन्॥ ३३॥
niṣāda-viṣayam hatvā śākhayā pataga-uttamaḥ . praharṣam atulam lebhe mokṣayitvā mahā-munīn.. 33..
स तु तेन प्रहर्षेण द्विगुणीकृतविक्रमः । अमृतानयनार्थं वै चकार मतिमान् मतिम्॥ ३४॥
स तु तेन प्रहर्षेण द्विगुणीकृत-विक्रमः । अमृत-आनयन-अर्थम् वै चकार मतिमान् मतिम्॥ ३४॥
sa tu tena praharṣeṇa dviguṇīkṛta-vikramaḥ . amṛta-ānayana-artham vai cakāra matimān matim.. 34..
अयोजालानि निर्मथ्य भित्त्वा रत्नगृहं वरम् । महेन्द्रभवनाद् गुप्तमाजहारामृतं ततः॥ ३५॥
अयः-जालानि निर्मथ्य भित्त्वा रत्न-गृहम् वरम् । महा-इन्द्र-भवनात् गुप्तम् आजहार अमृतम् ततस्॥ ३५॥
ayaḥ-jālāni nirmathya bhittvā ratna-gṛham varam . mahā-indra-bhavanāt guptam ājahāra amṛtam tatas.. 35..
तं महर्षिगणैर्जुष्टं सुपर्णकृतलक्षणम् । नाम्ना सुभद्रं न्यग्रोधं ददर्श धनदानुजः॥ ३६॥
तम् महा-ऋषि-गणैः जुष्टम् सुपर्ण-कृत-लक्षणम् । नाम्ना सुभद्रम् न्यग्रोधम् ददर्श धनद-अनुजः॥ ३६॥
tam mahā-ṛṣi-gaṇaiḥ juṣṭam suparṇa-kṛta-lakṣaṇam . nāmnā subhadram nyagrodham dadarśa dhanada-anujaḥ.. 36..
तं तु गत्वा परं पारं समुद्रस्य नदीपतेः । ददर्शाश्रममेकान्ते पुण्ये रम्ये वनान्तरे॥ ३७॥
तम् तु गत्वा परम् पारम् समुद्रस्य नदीपतेः । ददर्श आश्रमम् एकान्ते पुण्ये रम्ये वन-अन्तरे॥ ३७॥
tam tu gatvā param pāram samudrasya nadīpateḥ . dadarśa āśramam ekānte puṇye ramye vana-antare.. 37..
तत्र कृष्णाजिनधरं जटामण्डलधारिणम् । ददर्श नियताहारं मारीचं नाम राक्षसम्॥ ३८॥
तत्र कृष्ण-अजिन-धरम् जटा-मण्डल-धारिणम् । ददर्श नियत-आहारम् मारीचम् नाम राक्षसम्॥ ३८॥
tatra kṛṣṇa-ajina-dharam jaṭā-maṇḍala-dhāriṇam . dadarśa niyata-āhāram mārīcam nāma rākṣasam.. 38..
स रावणः समागम्य विधिवत् तेन रक्षसा । मारीचेनार्चितो राजा सर्वकामैरमानुषैः॥ ३९॥
स रावणः समागम्य विधिवत् तेन रक्षसा । मारीचेन अर्चितः राजा सर्व-कामैः अमानुषैः॥ ३९॥
sa rāvaṇaḥ samāgamya vidhivat tena rakṣasā . mārīcena arcitaḥ rājā sarva-kāmaiḥ amānuṣaiḥ.. 39..
तं स्वयं पूजयित्वा च भोजनेनोदकेन च । अर्थोपहितया वाचा मारीचो वाक्यमब्रवीत्॥ ४०॥
तम् स्वयम् पूजयित्वा च भोजनेन उदकेन च । अर्थ-उपहितया वाचा मारीचः वाक्यम् अब्रवीत्॥ ४०॥
tam svayam pūjayitvā ca bhojanena udakena ca . artha-upahitayā vācā mārīcaḥ vākyam abravīt.. 40..
कच्चित्ते कुशलं राजन् लङ्कायां राक्षसेश्वर । केनार्थेन पुनस्त्वं वै तूर्णमेव इहागतः॥ ४१॥
कच्चित् ते कुशलम् राजन् लङ्कायाम् राक्षस-ईश्वर । केन अर्थेन पुनर् त्वम् वै तूर्णम् एव इह आगतः॥ ४१॥
kaccit te kuśalam rājan laṅkāyām rākṣasa-īśvara . kena arthena punar tvam vai tūrṇam eva iha āgataḥ.. 41..
एवमुक्तो महातेजा मारीचेन स रावणः । ततः पश्चादिदं वाक्यमब्रवीद् वाक्यकोविदः॥ ४२॥
एवम् उक्तः महा-तेजाः मारीचेन स रावणः । ततस् पश्चात् इदम् वाक्यम् अब्रवीत् वाक्य-कोविदः॥ ४२॥
evam uktaḥ mahā-tejāḥ mārīcena sa rāvaṇaḥ . tatas paścāt idam vākyam abravīt vākya-kovidaḥ.. 42..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे पञ्चत्रिंशः सर्गः ॥३-३५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे पञ्चत्रिंशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe pañcatriṃśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In