This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे चतुःपञ्चाशः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe catuḥpañcāśaḥ sargaḥ ..3..
ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान्॥ १॥
ह्रियमाणा तु वैदेही कंचिद् नाथम् अपश्यती । ददर्श गिरि-शृङ्ग-स्थान् पञ्च वानर-पुङ्गवान्॥ १॥
hriyamāṇā tu vaidehī kaṃcid nātham apaśyatī . dadarśa giri-śṛṅga-sthān pañca vānara-puṅgavān.. 1..
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च॥ २॥
तेषाम् मध्ये विशाल-अक्षी कौशेयम् कनक-प्रभम् । उत्तरीयम् वरारोहा शुभानि आभरणानि च॥ २॥
teṣām madhye viśāla-akṣī kauśeyam kanaka-prabham . uttarīyam varārohā śubhāni ābharaṇāni ca.. 2..
मुमोच यदि रामाय शंसेयुरिति भामिनी । वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम्॥ ३॥
मुमोच यदि रामाय शंसेयुः इति भामिनी । वस्त्रम् उत्सृज्य तद्-मध्ये निक्षिप्तम् सहभूषणम्॥ ३॥
mumoca yadi rāmāya śaṃseyuḥ iti bhāminī . vastram utsṛjya tad-madhye nikṣiptam sahabhūṣaṇam.. 3..
सम्भ्रमात् तु दशग्रीवस्तत्कर्म च न बुद्धवान् । पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव॥ ४॥
सम्भ्रमात् तु दशग्रीवः तत् कर्म च न बुद्धवान् । पिङ्ग-अक्षाः ताम् विशाल-अक्षीम् नेत्रैः अनिमिषैः इव॥ ४॥
sambhramāt tu daśagrīvaḥ tat karma ca na buddhavān . piṅga-akṣāḥ tām viśāla-akṣīm netraiḥ animiṣaiḥ iva.. 4..
विक्रोशन्तीं तदा सीतां ददृशुर्वानरोत्तमाः । स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्॥ ५॥
विक्रोशन्तीम् तदा सीताम् ददृशुः वानर-उत्तमाः । स च पम्पाम् अतिक्रम्य लङ्काम् अभिमुखः पुरीम्॥ ५॥
vikrośantīm tadā sītām dadṛśuḥ vānara-uttamāḥ . sa ca pampām atikramya laṅkām abhimukhaḥ purīm.. 5..
जगाम मैथिलीं गृह्य रुदतीं राक्षसेश्वरः । तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः॥ ६॥
जगाम मैथिलीम् गृह्य रुदतीम् राक्षसेश्वरः । ताम् जहार सु संहृष्टः रावणः मृत्युम् आत्मनः॥ ६॥
jagāma maithilīm gṛhya rudatīm rākṣaseśvaraḥ . tām jahāra su saṃhṛṣṭaḥ rāvaṇaḥ mṛtyum ātmanaḥ.. 6..
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् । वनानि सरितः शैलान् सरांसि च विहायसा॥ ७॥
उत्सङ्गेन एव भुजगीम् तीक्ष्ण-दंष्ट्राम् महा-विषाम् । वनानि सरितः शैलान् सरांसि च विहायसा॥ ७॥
utsaṅgena eva bhujagīm tīkṣṇa-daṃṣṭrām mahā-viṣām . vanāni saritaḥ śailān sarāṃsi ca vihāyasā.. 7..
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः । तिमिनक्रनिकेतं तु वरुणालयमक्षयम्॥ ८॥
स क्षिप्रम् समतीयाय शरः चापात् इव च्युतः । तिमि-नक्र-निकेतम् तु वरुणालयम् अक्षयम्॥ ८॥
sa kṣipram samatīyāya śaraḥ cāpāt iva cyutaḥ . timi-nakra-niketam tu varuṇālayam akṣayam.. 8..
सरितां शरणं गत्वा समतीयाय सागरम् । सम्भ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः॥ ९॥
सरिताम् शरणम् गत्वा समतीयाय सागरम् । सम्भ्रमात् परिवृत्त-ऊर्मी रुद्ध-मीन-महा-उरगः॥ ९॥
saritām śaraṇam gatvā samatīyāya sāgaram . sambhramāt parivṛtta-ūrmī ruddha-mīna-mahā-uragaḥ.. 9..
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः । अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा॥ १०॥
वैदेह्याम् ह्रियमाणायाम् बभूव वरुणालयः । अन्तरिक्ष-गताः वाचः ससृजुः चारणाः तदा॥ १०॥
vaidehyām hriyamāṇāyām babhūva varuṇālayaḥ . antarikṣa-gatāḥ vācaḥ sasṛjuḥ cāraṇāḥ tadā.. 10..
एतदन्तो दशग्रीव इति सिद्धास्तथाब्रुवन् । स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः॥ ११॥
एतत् अन्तः दशग्रीवः इति सिद्धाः तथा ब्रुवन् । स तु सीताम् विचेष्टन्तीम् अङ्केन आदाय रावणः॥ ११॥
etat antaḥ daśagrīvaḥ iti siddhāḥ tathā bruvan . sa tu sītām viceṣṭantīm aṅkena ādāya rāvaṇaḥ.. 11..
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः । सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्॥ १२॥
प्रविवेश पुरीम् लङ्काम् रूपिणीम् मृत्युम् आत्मनः । सः अभिगम्य पुरीम् लङ्काम् सुविभक्त-महापथाम्॥ १२॥
praviveśa purīm laṅkām rūpiṇīm mṛtyum ātmanaḥ . saḥ abhigamya purīm laṅkām suvibhakta-mahāpathām.. 12..
संरूढकक्ष्यां बहुलां स्वमन्तःपुरमाविशत् । तत्र तामसितापाङ्गीं शोकमोहसमन्विताम्॥ १३॥
संरूढ-कक्ष्याम् बहुलाम् स्वम् अन्तःपुरम् आविशत् । तत्र ताम् असितापाङ्गीम् शोक-मोह-समन्विताम्॥ १३॥
saṃrūḍha-kakṣyām bahulām svam antaḥpuram āviśat . tatra tām asitāpāṅgīm śoka-moha-samanvitām.. 13..
निदधे रावणः सीतां मयो मायामिवासुरीम् । अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः॥ १४॥
निदधे रावणः सीताम् मयः मायाम् इव असुरीम् । अब्रवीत् च दशग्रीवः पिशाचीः घोर-दर्शनाः॥ १४॥
nidadhe rāvaṇaḥ sītām mayaḥ māyām iva asurīm . abravīt ca daśagrīvaḥ piśācīḥ ghora-darśanāḥ.. 14..
यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः । मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च॥ १५॥
यथा ना एनाम् पुमान् स्त्री वा सीताम् पश्यति अ सम्मतः । मुक्ता-मणि-सुवर्णानि वस्त्राणि आभरणानि च॥ १५॥
yathā nā enām pumān strī vā sītām paśyati a sammataḥ . muktā-maṇi-suvarṇāni vastrāṇi ābharaṇāni ca.. 15..
यद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा । या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम्॥ १६॥
यत् यत् इच्छेत् तदा एव अस्याः देयम् मद्-छन्दतः यथा । या च वक्ष्यति वैदेहीम् वचनम् किंचिद् अप्रियम्॥ १६॥
yat yat icchet tadā eva asyāḥ deyam mad-chandataḥ yathā . yā ca vakṣyati vaidehīm vacanam kiṃcid apriyam.. 16..
अज्ञानाद् यदि वा ज्ञानान्न तस्या जीवितं प्रियम् । तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्॥ १७॥
अज्ञानात् यदि वा ज्ञानात् न तस्याः जीवितम् प्रियम् । तथा उक्त्वा राक्षसीः ताः तु राक्षस-इन्द्रः प्रतापवान्॥ १७॥
ajñānāt yadi vā jñānāt na tasyāḥ jīvitam priyam . tathā uktvā rākṣasīḥ tāḥ tu rākṣasa-indraḥ pratāpavān.. 17..
निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यमिति चिन्तयन् । ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान्॥ १८॥
निष्क्रम्य अन्तःपुरात् तस्मात् किम् कृत्यम् इति चिन्तयन् । ददर्श अष्टौ महा-वीर्यान् राक्षसान् पिशित-अशनान्॥ १८॥
niṣkramya antaḥpurāt tasmāt kim kṛtyam iti cintayan . dadarśa aṣṭau mahā-vīryān rākṣasān piśita-aśanān.. 18..
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः । उवाच तानिदं वाक्यं प्रशस्य बलवीर्यतः॥ १९॥
स तान् दृष्ट्वा महा-वीर्यः वर-दानेन मोहितः । उवाच तान् इदम् वाक्यम् प्रशस्य बल-वीर्यतः॥ १९॥
sa tān dṛṣṭvā mahā-vīryaḥ vara-dānena mohitaḥ . uvāca tān idam vākyam praśasya bala-vīryataḥ.. 19..
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । जनस्थानं हतस्थानं भूतपूर्वं खरालयम्॥ २०॥
नाना प्रहरणाः क्षिप्रम् इतस् गच्छत स त्वराः । जनस्थानम् हत-स्थानम् भूत-पूर्वम् खर-आलयम्॥ २०॥
nānā praharaṇāḥ kṣipram itas gacchata sa tvarāḥ . janasthānam hata-sthānam bhūta-pūrvam khara-ālayam.. 20..
तत्रास्यतां जनस्थाने शून्ये निहतराक्षसे । पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥ २१॥
तत्र आस्यताम् जनस्थाने शून्ये निहत-राक्षसे । पौरुषम् बलम् आश्रित्य त्रासम् उत्सृज्य दूरतस्॥ २१॥
tatra āsyatām janasthāne śūnye nihata-rākṣase . pauruṣam balam āśritya trāsam utsṛjya dūratas.. 21..
बहुसैन्यं महावीर्यं जनस्थाने निवेशितम् । सदूषणखरं युद्धे निहतं रामसायकैः॥ २२॥
बहु-सैन्यम् महा-वीर्यम् जनस्थाने निवेशितम् । स दूषण-खरम् युद्धे निहतम् राम-सायकैः॥ २२॥
bahu-sainyam mahā-vīryam janasthāne niveśitam . sa dūṣaṇa-kharam yuddhe nihatam rāma-sāyakaiḥ.. 22..
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते । वैरं च सुमहज्जातं रामं प्रति सुदारुणम्॥ २३॥
ततस् क्रोधः मम अपूर्वः धैर्यस्य उपरि वर्धते । वैरम् च सु महत् जातम् रामम् प्रति सु दारुणम्॥ २३॥
tatas krodhaḥ mama apūrvaḥ dhairyasya upari vardhate . vairam ca su mahat jātam rāmam prati su dāruṇam.. 23..
निर्यातयितुमिच्छामि तच्च वैरं महारिपोः । नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्॥ २४॥
निर्यातयितुम् इच्छामि तत् च वैरम् महा-रिपोः । नहि लप्स्यामि अहम् निद्राम् अ हत्वा संयुगे रिपुम्॥ २४॥
niryātayitum icchāmi tat ca vairam mahā-ripoḥ . nahi lapsyāmi aham nidrām a hatvā saṃyuge ripum.. 24..
तं त्विदानीमहं हत्वा खरदूषणघातिनम् । रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः॥ २५॥
तम् तु इदानीम् अहम् हत्वा खर-दूषण-घातिनम् । रामम् शर्म उपलप्स्यामि धनम् लब्ध्वा इव निर्धनः॥ २५॥
tam tu idānīm aham hatvā khara-dūṣaṇa-ghātinam . rāmam śarma upalapsyāmi dhanam labdhvā iva nirdhanaḥ.. 25..
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता । प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः॥ २६॥
जनस्थाने वसद्भिः तु रामम् आश्रिता । प्रवृत्तिः उपनेतव्या किम् करोति इति तत्त्वतः॥ २६॥
janasthāne vasadbhiḥ tu rāmam āśritā . pravṛttiḥ upanetavyā kim karoti iti tattvataḥ.. 26..
अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः । कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति॥ २७॥
अप्रमादात् च गन्तव्यम् सर्वैः एव निशाचरैः । कर्तव्यः च सदा यत्नः राघवस्य वधम् प्रति॥ २७॥
apramādāt ca gantavyam sarvaiḥ eva niśācaraiḥ . kartavyaḥ ca sadā yatnaḥ rāghavasya vadham prati.. 27..
युष्माकं तु बलं ज्ञातं बहुशो रणमूर्धनि । अतश्चास्मिञ्जनस्थाने मया यूयं निवेशिताः॥ २८॥
युष्माकम् तु बलम् ज्ञातम् बहुशस् रण-मूर्धनि । अतस् च अस्मिन् जनस्थाने मया यूयम् निवेशिताः॥ २८॥
yuṣmākam tu balam jñātam bahuśas raṇa-mūrdhani . atas ca asmin janasthāne mayā yūyam niveśitāḥ.. 28..
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् । विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः॥ २९॥
ततस् प्रियम् वाक्यम् उपेत्य राक्षसाः महा-अर्थम् अष्टौ अभिवाद्य रावणम् । विहाय लङ्काम् सहिताः प्रतस्थिरे यतस् जनस्थानम् अलक्ष्य-दर्शनाः॥ २९॥
tatas priyam vākyam upetya rākṣasāḥ mahā-artham aṣṭau abhivādya rāvaṇam . vihāya laṅkām sahitāḥ pratasthire yatas janasthānam alakṣya-darśanāḥ.. 29..
ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स रावणः॥ ३०॥
ततस् तु सीताम् उपलभ्य रावणः सु सम्प्रहृष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरम् उत्तमम् बभूव मोहात् मुदितः स रावणः॥ ३०॥
tatas tu sītām upalabhya rāvaṇaḥ su samprahṛṣṭaḥ parigṛhya maithilīm . prasajya rāmeṇa ca vairam uttamam babhūva mohāt muditaḥ sa rāvaṇaḥ.. 30..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुःपञ्चाशः सर्गः ॥३-५४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे चतुःपञ्चाशः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe catuḥpañcāśaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In