This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥
श्रीमत्-वाल्मीकिय-रामायणे अरण्य-काण्डे द्विषष्ठितमः सर्गः ॥३॥
śrīmat-vālmīkiya-rāmāyaṇe araṇya-kāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..3..
सीतामपश्यन् धर्मात्मा शोकोपहतचेतनः । विललाप महाबाहू रामः कमललोचनः॥ १॥
सीताम् अपश्यन् धर्म-आत्मा शोक-उपहत-चेतनः । विललाप महा-बाहुः रामः कमल-लोचनः॥ १॥
sītām apaśyan dharma-ātmā śoka-upahata-cetanaḥ . vilalāpa mahā-bāhuḥ rāmaḥ kamala-locanaḥ.. 1..
पश्यन्निव च तां सीतामपश्यन्मन्मथार्दितः । उवाच राघवो वाक्यं विलापाश्रयदुर्वचम्॥ २॥
पश्यन् इव च ताम् सीताम् अपश्यत् मन्मथ-अर्दितः । उवाच राघवः वाक्यम् विलाप-आश्रय-दुर्वचम्॥ २॥
paśyan iva ca tām sītām apaśyat manmatha-arditaḥ . uvāca rāghavaḥ vākyam vilāpa-āśraya-durvacam.. 2..
त्वमशोकस्य शाखाभिः पुष्पप्रियतरा प्रिये । आवृणोषि शरीरं ते मम शोकविवर्धनी॥ ३॥
त्वम् अशोकस्य शाखाभिः पुष्प-प्रियतरा प्रिये । आवृणोषि शरीरम् ते मम शोक-विवर्धनी॥ ३॥
tvam aśokasya śākhābhiḥ puṣpa-priyatarā priye . āvṛṇoṣi śarīram te mama śoka-vivardhanī.. 3..
कदलीकाण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगूहितुम्॥ ४॥
कदली-काण्ड-सदृशौ कदल्या संवृतौ उभौ । ऊरू पश्यामि ते देवि न असि शक्ता निगूहितुम्॥ ४॥
kadalī-kāṇḍa-sadṛśau kadalyā saṃvṛtau ubhau . ūrū paśyāmi te devi na asi śaktā nigūhitum.. 4..
कर्णिकारवनं भद्रे हसन्ती देवि सेवसे । अलं ते परिहासेन मम बाधावहेन वै॥ ५॥
कर्णिकार-वनम् भद्रे हसन्ती देवि सेवसे । अलम् ते परिहासेन मम बाधावहेन वै॥ ५॥
karṇikāra-vanam bhadre hasantī devi sevase . alam te parihāsena mama bādhāvahena vai.. 5..
विशेषेणाश्रमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहासप्रियं प्रिये॥ ६॥
विशेषेण आश्रम-स्थाने हासः अयम् न प्रशस्यते । अवगच्छामि ते शीलम् परिहास-प्रियम् प्रिये॥ ६॥
viśeṣeṇa āśrama-sthāne hāsaḥ ayam na praśasyate . avagacchāmi te śīlam parihāsa-priyam priye.. 6..
आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव । सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा॥ ७॥
आगच्छ त्वम् विशाल-अक्षि शून्यः अयम् उटजः तव । सु व्यक्तम् राक्षसैः सीता भक्षिता वा हृता अपि वा॥ ७॥
āgaccha tvam viśāla-akṣi śūnyaḥ ayam uṭajaḥ tava . su vyaktam rākṣasaiḥ sītā bhakṣitā vā hṛtā api vā.. 7..
न हि सा विलपन्तं मामुपसम्प्रैति लक्ष्मण । एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण॥ ८॥
न हि सा विलपन्तम् माम् उपसम्प्रैति लक्ष्मण । एतानि मृग-यूथानि स अश्रु-नेत्राणि लक्ष्मण॥ ८॥
na hi sā vilapantam mām upasampraiti lakṣmaṇa . etāni mṛga-yūthāni sa aśru-netrāṇi lakṣmaṇa.. 8..
शंसन्तीव हि मे देवीं भक्षितां रजनीचरैः । हा ममार्ये क्व यातासि हा साध्वि वरवर्णिनि॥ ९॥
शंसन्ति इव हि मे देवीम् भक्षिताम् रजनीचरैः । हा मम आर्ये क्व याता असि हा साध्वि वरवर्णिनि॥ ९॥
śaṃsanti iva hi me devīm bhakṣitām rajanīcaraiḥ . hā mama ārye kva yātā asi hā sādhvi varavarṇini.. 9..
हा सकामाद्य कैकेयी देवि मेऽद्य भविष्यति । सीतया सह निर्यातो विना सीतामुपागतः॥ १०॥
हा स कामा अद्य कैकेयी देवि मे अद्य भविष्यति । सीतया सह निर्यातः विना सीताम् उपागतः॥ १०॥
hā sa kāmā adya kaikeyī devi me adya bhaviṣyati . sītayā saha niryātaḥ vinā sītām upāgataḥ.. 10..
कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं मम । निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति॥ ११॥
कथम् नाम प्रवेक्ष्यामि शून्यम् अन्तःपुरम् मम । निर्वीर्यः इति लोकः माम् निर्दयः च इति वक्ष्यति॥ ११॥
katham nāma pravekṣyāmi śūnyam antaḥpuram mama . nirvīryaḥ iti lokaḥ mām nirdayaḥ ca iti vakṣyati.. 11..
कातरत्वं प्रकाशं हि सीतापनयनेन मे । निवृत्तवनवासश्च जनकं मिथिलाधिपम्॥ १२॥
कातर-त्वम् प्रकाशम् हि सीता-अपनयनेन मे । निवृत्त-वन-वासः च जनकम् मिथिला-अधिपम्॥ १२॥
kātara-tvam prakāśam hi sītā-apanayanena me . nivṛtta-vana-vāsaḥ ca janakam mithilā-adhipam.. 12..
कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् । विदेहराजो नूनं मां दृष्ट्वा विरहितं तया॥ १३॥
कुशलम् परिपृच्छन्तम् कथम् शक्ष्ये निरीक्षितुम् । विदेह-राजः नूनम् माम् दृष्ट्वा विरहितम् तया॥ १३॥
kuśalam paripṛcchantam katham śakṣye nirīkṣitum . videha-rājaḥ nūnam mām dṛṣṭvā virahitam tayā.. 13..
सुताविनाशसंतप्तो मोहस्य वशमेष्यति । अथवा न गमिष्यामि पुरीं भरतपालिताम्॥ १४॥
सुता-विनाश-संतप्तः मोहस्य वशम् एष्यति । अथवा न गमिष्यामि पुरीम् भरत-पालिताम्॥ १४॥
sutā-vināśa-saṃtaptaḥ mohasya vaśam eṣyati . athavā na gamiṣyāmi purīm bharata-pālitām.. 14..
स्वर्गोऽपि हि तया हीनः शून्य एव मतो मम । तन्मामुत्सृज्य हि वने गच्छायोध्यापुरीं शुभाम्॥ १५॥
स्वर्गः अपि हि तया हीनः शून्यः एव मतः मम । तत् माम् उत्सृज्य हि वने गच्छ अयोध्या-पुरीम् शुभाम्॥ १५॥
svargaḥ api hi tayā hīnaḥ śūnyaḥ eva mataḥ mama . tat mām utsṛjya hi vane gaccha ayodhyā-purīm śubhām.. 15..
न त्वहं तां विना सीतां जीवेयं हि कथंचन । गाढमाश्लिष्य भरतो वाच्यो मद्वचनात् त्वया॥ १६॥
न तु अहम् ताम् विना सीताम् जीवेयम् हि कथंचन । गाढम् आश्लिष्य भरतः वाच्यः मद्-वचनात् त्वया॥ १६॥
na tu aham tām vinā sītām jīveyam hi kathaṃcana . gāḍham āśliṣya bharataḥ vācyaḥ mad-vacanāt tvayā.. 16..
अनुज्ञातोऽसि रामेण पालयेति वसुंधराम् । अम्बा च मम कैकेयी सुमित्रा च त्वया विभो॥ १७॥
अनुज्ञातः असि रामेण पालय इति वसुंधराम् । अम्बा च मम कैकेयी सुमित्रा च त्वया विभो॥ १७॥
anujñātaḥ asi rāmeṇa pālaya iti vasuṃdharām . ambā ca mama kaikeyī sumitrā ca tvayā vibho.. 17..
कौसल्या च यथान्यायमभिवाद्या ममाज्ञया । रक्षणीया प्रयत्नेन भवता सूक्तचारिणा॥ १८॥
कौसल्या च यथान्यायम् अभिवाद्या मम आज्ञया । रक्षणीया प्रयत्नेन भवता सूक्त-चारिणा॥ १८॥
kausalyā ca yathānyāyam abhivādyā mama ājñayā . rakṣaṇīyā prayatnena bhavatā sūkta-cāriṇā.. 18..
सीतायाश्च विनाशोऽयं मम चामित्रसूदन । विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत्॥ १९॥
सीतायाः च विनाशः अयम् मम च अमित्र-सूदन । विस्तरेण जनन्याः मे विनिवेद्यः त्वया भवेत्॥ १९॥
sītāyāḥ ca vināśaḥ ayam mama ca amitra-sūdana . vistareṇa jananyāḥ me vinivedyaḥ tvayā bhavet.. 19..
इति विलपति राघवे तु दीने वनमुपगम्य तया विना सुकेश्या । भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव॥ २०॥
इति विलपति राघवे तु दीने वनम् उपगम्य तया विना सु केश्या । भय-विकल-मुखः तु लक्ष्मणः अपि व्यथित-मनाः भृशम् आतुरः बभूव॥ २०॥
iti vilapati rāghave tu dīne vanam upagamya tayā vinā su keśyā . bhaya-vikala-mukhaḥ tu lakṣmaṇaḥ api vyathita-manāḥ bhṛśam āturaḥ babhūva.. 20..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे द्विषष्ठितमः सर्गः ॥३-६२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अरण्य-काण्डे द्विषष्ठितमः सर्गः ॥३॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye araṇya-kāṇḍe dviṣaṣṭhitamaḥ sargaḥ ..3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In