This overlay will guide you through the buttons:

| |
|
ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः।चिन्तामभिसमापेदे मुहूर्तं प्रतताप च॥ १॥
ततस् श्रुत्वा महा-राजः कैकेय्याः दारुणम् वचः।चिन्ताम् अभिसमापेदे मुहूर्तम् प्रतताप च॥ १॥
tatas śrutvā mahā-rājaḥ kaikeyyāḥ dāruṇam vacaḥ.cintām abhisamāpede muhūrtam pratatāpa ca.. 1..
किं नु मेऽयं दिवास्वप्नश्चित्तमोहोऽपि वा मम।अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः॥ २॥
किम् नु मे अयम् दिवास्वप्नः चित्त-मोहः अपि वा मम।अनुभूत-उपसर्गः वा मनसः वा अपि उपद्रवः॥ २॥
kim nu me ayam divāsvapnaḥ citta-mohaḥ api vā mama.anubhūta-upasargaḥ vā manasaḥ vā api upadravaḥ.. 2..
इति संचिन्त्य तद् राजा नाध्यगच्छत् तदासुखम्।प्रतिलभ्य ततः संज्ञां कैकेयीवाक्यतापितः॥ ३॥
इति संचिन्त्य तत् राजा न अध्यगच्छत् तदा असुखम्।प्रतिलभ्य ततस् संज्ञाम् कैकेयी-वाक्य-तापितः॥ ३॥
iti saṃcintya tat rājā na adhyagacchat tadā asukham.pratilabhya tatas saṃjñām kaikeyī-vākya-tāpitaḥ.. 3..
व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः।असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन्॥ ४॥
व्यथितः विक्लवः च एव व्याघ्रीम् दृष्ट्वा यथा मृगः।असंवृतायाम् आसीनः जगत्याम् दीर्घम् उच्छ्वसन्॥ ४॥
vyathitaḥ viklavaḥ ca eva vyāghrīm dṛṣṭvā yathā mṛgaḥ.asaṃvṛtāyām āsīnaḥ jagatyām dīrgham ucchvasan.. 4..
मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः।अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः॥ ५॥
मण्डले पन्नगः रुद्धः मन्त्रैः इव महा-विषः।अहो धिक् इति स अमर्षः वाचम् उक्त्वा नराधिपः॥ ५॥
maṇḍale pannagaḥ ruddhaḥ mantraiḥ iva mahā-viṣaḥ.aho dhik iti sa amarṣaḥ vācam uktvā narādhipaḥ.. 5..
मोहम् आपेदिवान् भूयः शोकोपहतचेतनः।चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः॥ ६॥
मोहम् आपेदिवान् भूयस् शोक-उपहत-चेतनः।चिरेण तु नृपः संज्ञाम् प्रतिलभ्य सु दुःखितः॥ ६॥
moham āpedivān bhūyas śoka-upahata-cetanaḥ.cireṇa tu nṛpaḥ saṃjñām pratilabhya su duḥkhitaḥ.. 6..
कैकेयीमब्रवीत् क्रुद्धो निर्दहन्निव तेजसा।नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि॥ ७॥
कैकेयीम् अब्रवीत् क्रुद्धः निर्दहन् इव तेजसा।नृशंसे दुष्ट-चारित्रे कुलस्य अस्य विनाशिनि॥ ७॥
kaikeyīm abravīt kruddhaḥ nirdahan iva tejasā.nṛśaṃse duṣṭa-cāritre kulasya asya vināśini.. 7..
किं कृतं तव रामेण पापे पापं मयापि वा।सदा ते जननीतुल्यां वृत्तिं वहति राघवः॥ ८॥
किम् कृतम् तव रामेण पापे पापम् मया अपि वा।सदा ते जननी-तुल्याम् वृत्तिम् वहति राघवः॥ ८॥
kim kṛtam tava rāmeṇa pāpe pāpam mayā api vā.sadā te jananī-tulyām vṛttim vahati rāghavaḥ.. 8..
तस्यैवं त्वमनर्थाय किंनिमित्तमिहोद्यता।त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता॥ ९॥
तस्य एवम् त्वम् अनर्थाय किंनिमित्तम् इह उद्यता।त्वम् मया आत्म-विनाशाय भवनम् स्वम् निवेशिता॥ ९॥
tasya evam tvam anarthāya kiṃnimittam iha udyatā.tvam mayā ātma-vināśāya bhavanam svam niveśitā.. 9..
अविज्ञानान्नृपसुता व्याला तीक्ष्णविषा यथा।जीवलोको यदा सर्वो रामस्याह गुणस्तवम्॥ १०॥
अविज्ञानात् नृप-सुता व्याला तीक्ष्ण-विषा यथा।जीव-लोकः यदा सर्वः रामस्य आह गुण-स्तवम्॥ १०॥
avijñānāt nṛpa-sutā vyālā tīkṣṇa-viṣā yathā.jīva-lokaḥ yadā sarvaḥ rāmasya āha guṇa-stavam.. 10..
अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्।कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम्॥ ११॥
अपराधम् कम् उद्दिश्य त्यक्ष्यामि इष्टम् अहम् सुतम्।कौसल्याम् च सुमित्राम् च त्यजेयम् अपि वा श्रियम्॥ ११॥
aparādham kam uddiśya tyakṣyāmi iṣṭam aham sutam.kausalyām ca sumitrām ca tyajeyam api vā śriyam.. 11..
जीवितं चात्मनो रामं न त्वेव पितृवत्सलम्।परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम्॥ १२॥
जीवितम् च आत्मनः रामम् न तु एव पितृ-वत्सलम्।परा भवति मे प्रीतिः दृष्ट्वा तनयम् अग्रजम्॥ १२॥
jīvitam ca ātmanaḥ rāmam na tu eva pitṛ-vatsalam.parā bhavati me prītiḥ dṛṣṭvā tanayam agrajam.. 12..
अपश्यतस्तु मे रामं नष्टं भवति चेतनम्।तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना॥ १३॥
अ पश्यतः तु मे रामम् नष्टम् भवति चेतनम्।तिष्ठेत् लोकः विना सूर्यम् सस्यम् वा सलिलम् विना॥ १३॥
a paśyataḥ tu me rāmam naṣṭam bhavati cetanam.tiṣṭhet lokaḥ vinā sūryam sasyam vā salilam vinā.. 13..
न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्।तदलं त्यज्यतामेष निश्चयः पापनिश्चये॥ १४॥
न तु रामम् विना देहे तिष्ठेत् तु मम जीवितम्।तत् अलम् त्यज्यताम् एष निश्चयः पाप-निश्चये॥ १४॥
na tu rāmam vinā dehe tiṣṭhet tu mama jīvitam.tat alam tyajyatām eṣa niścayaḥ pāpa-niścaye.. 14..
अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे।किमर्थं चिन्तितं पापे त्वया परमदारुणम्॥ १५॥
अपि ते चरणौ मूर्ध्ना स्पृशामि एष प्रसीद मे।किमर्थम् चिन्तितम् पापे त्वया परम-दारुणम्॥ १५॥
api te caraṇau mūrdhnā spṛśāmi eṣa prasīda me.kimartham cintitam pāpe tvayā parama-dāruṇam.. 15..
अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये।अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति॥ १६॥
अथ जिज्ञाससे माम् त्वम् भरतस्य प्रिय-अप्रिये।अस्तु यत् तत् त्वया पूर्वम् व्याहृतम् राघवम् प्रति॥ १६॥
atha jijñāsase mām tvam bharatasya priya-apriye.astu yat tat tvayā pūrvam vyāhṛtam rāghavam prati.. 16..
स मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे।तत् त्वया प्रियवादिन्या सेवार्थं कथितं भवेत्॥ १७॥
स मे ज्येष्ठ-सुतः श्रीमान् धर्म-ज्येष्ठः इति इव मे।तत् त्वया प्रिय-वादिन्या सेवा-अर्थम् कथितम् भवेत्॥ १७॥
sa me jyeṣṭha-sutaḥ śrīmān dharma-jyeṣṭhaḥ iti iva me.tat tvayā priya-vādinyā sevā-artham kathitam bhavet.. 17..
तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम्।आविष्टासि गृहे शून्ये सा त्वं परवशं गता॥ १८॥
तत् श्रुत्वा शोक-संतप्ता संतापयसि माम् भृशम्।आविष्टा असि गृहे शून्ये सा त्वम् पर-वशम् गता॥ १८॥
tat śrutvā śoka-saṃtaptā saṃtāpayasi mām bhṛśam.āviṣṭā asi gṛhe śūnye sā tvam para-vaśam gatā.. 18..
इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम्।अनयो नयसम्पन्ने यत्र ते विकृता मतिः॥ १९॥
इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सु महान् अयम्।अनयः नय-सम्पन्ने यत्र ते विकृता मतिः॥ १९॥
ikṣvākūṇām kule devi samprāptaḥ su mahān ayam.anayaḥ naya-sampanne yatra te vikṛtā matiḥ.. 19..
नहि किंचिदयुक्तं वा विप्रियं वा पुरा मम।अकरोस्त्वं विशालाक्षि तेन न श्रद्दधामि ते॥ २०॥
नहि किंचिद् अयुक्तम् वा विप्रियम् वा पुरा मम।अकरोः त्वम् विशाल-अक्षि तेन न श्रद्दधामि ते॥ २०॥
nahi kiṃcid ayuktam vā vipriyam vā purā mama.akaroḥ tvam viśāla-akṣi tena na śraddadhāmi te.. 20..
ननु ते राघवस्तुल्यो भरतेन महात्मना।बहुशो हि स्म बाले त्वं कथाः कथयसे मम॥ २१॥
ननु ते राघवः तुल्यः भरतेन महात्मना।बहुशस् हि स्म बाले त्वम् कथाः कथयसे मम॥ २१॥
nanu te rāghavaḥ tulyaḥ bharatena mahātmanā.bahuśas hi sma bāle tvam kathāḥ kathayase mama.. 21..
तस्य धर्मात्मनो देवि वने वासं यशस्विनः।कथं रोचयसे भीरु नव वर्षाणि पञ्च च॥ २२॥
तस्य धर्म-आत्मनः देवि वने वासम् यशस्विनः।कथम् रोचयसे भीरु नव वर्षाणि पञ्च च॥ २२॥
tasya dharma-ātmanaḥ devi vane vāsam yaśasvinaḥ.katham rocayase bhīru nava varṣāṇi pañca ca.. 22..
अत्यन्तसुकुमारस्य तस्य धर्मे कृतात्मनः।कथं रोचयसे वासमरण्ये भृशदारुणे॥ २३॥
अत्यन्त-सुकुमारस्य तस्य धर्मे कृतात्मनः।कथम् रोचयसे वासम् अरण्ये भृश-दारुणे॥ २३॥
atyanta-sukumārasya tasya dharme kṛtātmanaḥ.katham rocayase vāsam araṇye bhṛśa-dāruṇe.. 23..
रोचयस्यभिरामस्य रामस्य शुभलोचने।तव शुश्रूषमाणस्य किमर्थं विप्रवासनम्॥ २४॥
रोचयसि अभिरामस्य रामस्य शुभ-लोचने।तव शुश्रूषमाणस्य किमर्थम् विप्रवासनम्॥ २४॥
rocayasi abhirāmasya rāmasya śubha-locane.tava śuśrūṣamāṇasya kimartham vipravāsanam.. 24..
रामो हि भरताद् भूयस्तव शुश्रूषते सदा।विशेषं त्वयि तस्मात् तु भरतस्य न लक्षये॥ २५॥
रामः हि भरतात् भूयस् तव शुश्रूषते सदा।विशेषम् त्वयि तस्मात् तु भरतस्य न लक्षये॥ २५॥
rāmaḥ hi bharatāt bhūyas tava śuśrūṣate sadā.viśeṣam tvayi tasmāt tu bharatasya na lakṣaye.. 25..
शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्।कस्तु भूयस्तरं कुर्यादन्यत्र पुरुषर्षभात्॥ २६॥
शुश्रूषाम् गौरवम् च एव प्रमाणम् वचन-क्रियाम्।कः तु भूयस्तरम् कुर्यात् अन्यत्र पुरुष-ऋषभात्॥ २६॥
śuśrūṣām gauravam ca eva pramāṇam vacana-kriyām.kaḥ tu bhūyastaram kuryāt anyatra puruṣa-ṛṣabhāt.. 26..
बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्।परिवादोऽपवादो वा राघवे नोपपद्यते॥ २७॥
बहूनाम् स्त्री-सहस्राणाम् बहूनाम् च उपजीविनाम्।परिवादः अपवादः वा राघवे न उपपद्यते॥ २७॥
bahūnām strī-sahasrāṇām bahūnām ca upajīvinām.parivādaḥ apavādaḥ vā rāghave na upapadyate.. 27..
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा।गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः॥ २८॥
सान्त्वयन् सर्व-भूतानि रामः शुद्धेन चेतसा।गृह्णाति मनुज-व्याघ्रः प्रियैः विषय-वासिनः॥ २८॥
sāntvayan sarva-bhūtāni rāmaḥ śuddhena cetasā.gṛhṇāti manuja-vyāghraḥ priyaiḥ viṣaya-vāsinaḥ.. 28..
सत्येन लोकाञ् जयति द्विजान् दानेन राघवः।गुरूञ् छुश्रूषया वीरो धनुषा युधि शात्रवान्॥ २९॥
सत्येन लोकान् जयति द्विजान् दानेन राघवः।गुरून् शुश्रूषया वीरः धनुषा युधि शात्रवान्॥ २९॥
satyena lokān jayati dvijān dānena rāghavaḥ.gurūn śuśrūṣayā vīraḥ dhanuṣā yudhi śātravān.. 29..
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्।विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे॥ ३०॥
सत्यम् दानम् तपः त्यागः मित्र-ता शौचम् आर्जवम्।विद्या च गुरु-शुश्रूषा ध्रुवाणि एतानि राघवे॥ ३०॥
satyam dānam tapaḥ tyāgaḥ mitra-tā śaucam ārjavam.vidyā ca guru-śuśrūṣā dhruvāṇi etāni rāghave.. 30..
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्।पापमाशंससे रामे महर्षिसमतेजसि॥ ३१॥
तस्मिन् आर्जव-सम्पन्ने देवि देव-उपमे कथम्।पापम् आशंससे रामे महा-ऋषि-सम-तेजसि॥ ३१॥
tasmin ārjava-sampanne devi deva-upame katham.pāpam āśaṃsase rāme mahā-ṛṣi-sama-tejasi.. 31..
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः।स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम्॥ ३२॥
न स्मरामि अप्रियम् वाक्यम् लोकस्य प्रिय-वादिनः।स कथम् त्वद्-कृते रामम् वक्ष्यामि प्रियम् अप्रियम्॥ ३२॥
na smarāmi apriyam vākyam lokasya priya-vādinaḥ.sa katham tvad-kṛte rāmam vakṣyāmi priyam apriyam.. 32..
क्षमा यस्मिंस्तपस्त्यागः सत्यं धर्मः कृतज्ञता।अप्यहिंसा च भूतानां तमृते कागतिर्मम॥ ३३॥
क्षमा यस्मिन् तपः त्यागः सत्यम् धर्मः कृतज्ञ-ता।अपि अहिंसा च भूतानाम् तम् ऋते का आगतिः मम॥ ३३॥
kṣamā yasmin tapaḥ tyāgaḥ satyam dharmaḥ kṛtajña-tā.api ahiṃsā ca bhūtānām tam ṛte kā āgatiḥ mama.. 33..
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः।दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि॥ ३४॥
मम वृद्धस्य कैकेयि गत-अन्तस्य तपस्विनः।दीनम् लालप्यमानस्य कारुण्यम् कर्तुम् अर्हसि॥ ३४॥
mama vṛddhasya kaikeyi gata-antasya tapasvinaḥ.dīnam lālapyamānasya kāruṇyam kartum arhasi.. 34..
पृथिव्यां सागरान्तायां यत् किंचिदधिगम्यते।तत् सर्वं तव दास्यामि मा च त्वं मन्युमाविश॥ ३५॥
पृथिव्याम् सागर-अन्तायाम् यत् किंचिद् अधिगम्यते।तत् सर्वम् तव दास्यामि मा च त्वम् मन्युम् आविश॥ ३५॥
pṛthivyām sāgara-antāyām yat kiṃcid adhigamyate.tat sarvam tava dāsyāmi mā ca tvam manyum āviśa.. 35..
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते।शरणं भव रामस्य माधर्मो मामिह स्पृशेत्॥ ३६॥
अञ्जलिम् कुर्मि कैकेयि पादौ च अपि स्पृशामि ते।शरणम् भव रामस्य मा अधर्मः माम् इह स्पृशेत्॥ ३६॥
añjalim kurmi kaikeyi pādau ca api spṛśāmi te.śaraṇam bhava rāmasya mā adharmaḥ mām iha spṛśet.. 36..
इति दुःखाभिसंतप्तं विलपन्तमचेतनम्।घूर्णमानं महाराजं शोकेन समभिप्लुतम्॥ ३७॥
इति दुःख-अभिसंतप्तम् विलपन्तम् अचेतनम्।घूर्णमानम् महा-राजम् शोकेन समभिप्लुतम्॥ ३७॥
iti duḥkha-abhisaṃtaptam vilapantam acetanam.ghūrṇamānam mahā-rājam śokena samabhiplutam.. 37..
पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः।प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः॥ ३८॥
पारम् शोक-अर्णवस्य आशु प्रार्थयन्तम् पुनर् पुनर्।प्रत्युवाच अथ कैकेयी रौद्रा रौद्रतरम् वचः॥ ३८॥
pāram śoka-arṇavasya āśu prārthayantam punar punar.pratyuvāca atha kaikeyī raudrā raudrataram vacaḥ.. 38..
यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे।धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि॥ ३९॥
यदि दत्त्वा वरौ राजन् पुनर् प्रत्यनुतप्यसे।धार्मिक-त्वम् कथम् वीर पृथिव्याम् कथयिष्यसि॥ ३९॥
yadi dattvā varau rājan punar pratyanutapyase.dhārmika-tvam katham vīra pṛthivyām kathayiṣyasi.. 39..
यदा समेता बहवस्त्वया राजर्षयः सह।कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि॥ ४०॥
यदा समेताः बहवः त्वया राजर्षयः सह।कथयिष्यन्ति धर्म-ज्ञ तत्र किम् प्रतिवक्ष्यसि॥ ४०॥
yadā sametāḥ bahavaḥ tvayā rājarṣayaḥ saha.kathayiṣyanti dharma-jña tatra kim prativakṣyasi.. 40..
यस्याः प्रसादे जीवामि या च मामभ्यपालयत्।तस्याः कृता मया मिथ्या कैकेय्या इति वक्ष्यसि॥ ४१॥
यस्याः प्रसादे जीवामि या च माम् अभ्यपालयत्।तस्याः कृता मया मिथ्या कैकेय्याः इति वक्ष्यसि॥ ४१॥
yasyāḥ prasāde jīvāmi yā ca mām abhyapālayat.tasyāḥ kṛtā mayā mithyā kaikeyyāḥ iti vakṣyasi.. 41..
किल्बिषं त्वं नरेन्द्राणां करिष्यसि नराधिप।यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे॥ ४२॥
किल्बिषम् त्वम् नरेन्द्राणाम् करिष्यसि नराधिप।यः दत्त्वा वरम् अद्या एव पुनर् अन्यानि भाषसे॥ ४२॥
kilbiṣam tvam narendrāṇām kariṣyasi narādhipa.yaḥ dattvā varam adyā eva punar anyāni bhāṣase.. 42..
शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ।अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम्॥ ४३॥
शैब्यः श्येनकपोतीये स्व-मांसम् पक्षिणे ददौ।अलर्कः चक्षुषी दत्त्वा जगाम गतिम् उत्तमाम्॥ ४३॥
śaibyaḥ śyenakapotīye sva-māṃsam pakṣiṇe dadau.alarkaḥ cakṣuṣī dattvā jagāma gatim uttamām.. 43..
सागरः समयं कृत्वा न वेलामतिवर्तते।समयं मानृतं कार्षीः पूर्ववृत्तमनुस्मरन्॥ ४४॥
सागरः समयम् कृत्वा न वेलाम् अतिवर्तते।समयम् मा अनृतम् कार्षीः पूर्व-वृत्तम् अनुस्मरन्॥ ४४॥
sāgaraḥ samayam kṛtvā na velām ativartate.samayam mā anṛtam kārṣīḥ pūrva-vṛttam anusmaran.. 44..
स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च।सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते॥ ४५॥
स त्वम् धर्मम् परित्यज्य रामम् राज्ये अभिषिच्य च।सह कौसल्यया नित्यम् रन्तुम् इच्छसि दुर्मते॥ ४५॥
sa tvam dharmam parityajya rāmam rājye abhiṣicya ca.saha kausalyayā nityam rantum icchasi durmate.. 45..
भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम्।यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः॥ ४६॥
भवतु अधर्मः धर्मः वा सत्यम् वा यदि वा अनृतम्।यत् त्वया संश्रुतम् मह्यम् तस्य ना अस्ति व्यतिक्रमः॥ ४६॥
bhavatu adharmaḥ dharmaḥ vā satyam vā yadi vā anṛtam.yat tvayā saṃśrutam mahyam tasya nā asti vyatikramaḥ.. 46..
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः।पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते॥ ४७॥
अहम् हि विषम् अद्य एव पीत्वा बहु तव अग्रतस्।पश्यतः ते मरिष्यामि रामः यदि अभिषिच्यते॥ ४७॥
aham hi viṣam adya eva pītvā bahu tava agratas.paśyataḥ te mariṣyāmi rāmaḥ yadi abhiṣicyate.. 47..
एकाहमपि पश्येयं यद्यहं राममातरम्।अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम॥ ४८॥
एका अहम् अपि पश्येयम् यदि अहम् राम-मातरम्।अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयः ननु मृतिः मम॥ ४८॥
ekā aham api paśyeyam yadi aham rāma-mātaram.añjalim pratigṛhṇantīm śreyaḥ nanu mṛtiḥ mama.. 48..
भरतेनात्मना चाहं शपे ते मनुजाधिप।यथा नान्येन तुष्येयमृते रामविवासनात्॥ ४९॥
भरतेन आत्मना च अहम् शपे ते मनुज-अधिप।यथा न अन्येन तुष्येयम् ऋते राम-विवासनात्॥ ४९॥
bharatena ātmanā ca aham śape te manuja-adhipa.yathā na anyena tuṣyeyam ṛte rāma-vivāsanāt.. 49..
एतावदुक्त्वा वचनं कैकेयी विरराम ह।विलपन्तं च राजानं न प्रतिव्याजहार सा॥ ५०॥
एतावत् उक्त्वा वचनम् कैकेयी विरराम ह।विलपन्तम् च राजानम् न प्रतिव्याजहार सा॥ ५०॥
etāvat uktvā vacanam kaikeyī virarāma ha.vilapantam ca rājānam na prativyājahāra sā.. 50..
श्रुत्वा तु राजा कैकेय्या वाक्यं परमशोभनम्।रामस्य च वने वासमैश्वर्यं भरतस्य च॥ ५१॥
श्रुत्वा तु राजा कैकेय्याः वाक्यम् परम-शोभनम्।रामस्य च वने वासम् ऐश्वर्यम् भरतस्य च॥ ५१॥
śrutvā tu rājā kaikeyyāḥ vākyam parama-śobhanam.rāmasya ca vane vāsam aiśvaryam bharatasya ca.. 51..
नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः।प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम्॥ ५२॥
न अभ्यभाषत कैकेयीम् मुहूर्तम् व्याकुल-इन्द्रियः।प्रैक्षत अनिमिषः देवीम् प्रियाम् अप्रिय-वादिनीम्॥ ५२॥
na abhyabhāṣata kaikeyīm muhūrtam vyākula-indriyaḥ.praikṣata animiṣaḥ devīm priyām apriya-vādinīm.. 52..
तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्।दुःखशोकमयीं श्रुत्वा राजा न सुखितोऽभवत्॥ ५३॥
ताम् हि वज्र-समाम् वाचम् आकर्ण्य हृदय-अप्रियाम्।दुःख-शोक-मयीम् श्रुत्वा राजा न सुखितः अभवत्॥ ५३॥
tām hi vajra-samām vācam ākarṇya hṛdaya-apriyām.duḥkha-śoka-mayīm śrutvā rājā na sukhitaḥ abhavat.. 53..
स देव्या व्यवसायं च घोरं च शपथं कृतम्।ध्यात्वा रामेति निःश्वस्य च्छिन्नस्तरुरिवापतत्॥ ५४॥
स देव्याः व्यवसायम् च घोरम् च शपथम् कृतम्।ध्यात्वा राम इति निःश्वस्य छिन्नः तरुः इव अपतत्॥ ५४॥
sa devyāḥ vyavasāyam ca ghoram ca śapatham kṛtam.dhyātvā rāma iti niḥśvasya chinnaḥ taruḥ iva apatat.. 54..
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः।हृततेजा यथा सर्पो बभूव जगतीपतिः॥ ५५॥
नष्ट-चित्तः यथा उन्मत्तः विपरीतः यथा आतुरः।हृत-तेजाः यथा सर्पः बभूव जगतीपतिः॥ ५५॥
naṣṭa-cittaḥ yathā unmattaḥ viparītaḥ yathā āturaḥ.hṛta-tejāḥ yathā sarpaḥ babhūva jagatīpatiḥ.. 55..
दीनयाऽऽतुरया वाचा इति होवाच कैकयीम्।अनर्थमिममर्थाभं केन त्वमुपदेशिता॥ ५६॥
दीनया आतुरया वाचा इति ह उवाच कैकयीम्।अनर्थम् इमम् अर्थ-आभम् केन त्वम् उपदेशिता॥ ५६॥
dīnayā āturayā vācā iti ha uvāca kaikayīm.anartham imam artha-ābham kena tvam upadeśitā.. 56..
भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे।शीलव्यसनमेतत् ते नाभिजानाम्यहं पुरा॥ ५७॥
भूत-उपहत-चित्ता इव ब्रुवन्ती माम् न लज्जसे।शील-व्यसनम् एतत् ते न अभिजानामि अहम् पुरा॥ ५७॥
bhūta-upahata-cittā iva bruvantī mām na lajjase.śīla-vyasanam etat te na abhijānāmi aham purā.. 57..
बालायास्तत् त्विदानीं ते लक्षये विपरीतवत्।कुतो वा ते भयं जातं या त्वमेवंविधं वरम्॥ ५८॥
बालायाः तत् तु इदानीम् ते लक्षये विपरीत-वत्।कुतस् वा ते भयम् जातम् या त्वम् एवंविधम् वरम्॥ ५८॥
bālāyāḥ tat tu idānīm te lakṣaye viparīta-vat.kutas vā te bhayam jātam yā tvam evaṃvidham varam.. 58..
राष्ट्रे भरतमासीनं वृणीषे राघवं वने।विरमैतेन भावेन त्वमेतेनानृतेन च॥ ५९॥
राष्ट्रे भरतम् आसीनम् वृणीषे राघवम् वने।विरम एतेन भावेन त्वम् एतेन अनृतेन च॥ ५९॥
rāṣṭre bharatam āsīnam vṛṇīṣe rāghavam vane.virama etena bhāvena tvam etena anṛtena ca.. 59..
यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च।नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि॥ ६०॥
यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च।नृशंसे पाप-संकल्पे क्षुद्रे दुष्कृत-कारिणि॥ ६०॥
yadi bhartuḥ priyam kāryam lokasya bharatasya ca.nṛśaṃse pāpa-saṃkalpe kṣudre duṣkṛta-kāriṇi.. 60..
किं नु दुःखमलीकं वा मयि रामे च पश्यसि।न कथंचिदृते रामाद् भरतो राज्यमावसेत्॥ ६१॥
किम् नु दुःखम् अलीकम् वा मयि रामे च पश्यसि।न कथंचिद् ऋते रामात् भरतः राज्यम् आवसेत्॥ ६१॥
kim nu duḥkham alīkam vā mayi rāme ca paśyasi.na kathaṃcid ṛte rāmāt bharataḥ rājyam āvaset.. 61..
रामादपि हि तं मन्ये धर्मतो बलवत्तरम्।कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते॥ ६२॥
रामात् अपि हि तम् मन्ये धर्मतः बलवत्तरम्।कथम् द्रक्ष्यामि रामस्य वनम् गच्छ इति भाषिते॥ ६२॥
rāmāt api hi tam manye dharmataḥ balavattaram.katham drakṣyāmi rāmasya vanam gaccha iti bhāṣite.. 62..
मुखवर्णं विवर्णं तु यथैवेन्दुमुपप्लुतम्।तां तु मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम्॥ ६३॥
मुख-वर्णम् विवर्णम् तु यथा एव इन्दुम् उपप्लुतम्।ताम् तु मे सु कृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम्॥ ६३॥
mukha-varṇam vivarṇam tu yathā eva indum upaplutam.tām tu me su kṛtām buddhim suhṛdbhiḥ saha niścitām.. 63..
कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्।किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः॥ ६४॥
कथम् द्रक्ष्यामि अपावृत्ताम् परैः इव हताम् चमूम्।किम् माम् वक्ष्यन्ति राजानः नाना दिग्भ्यः समागताः॥ ६४॥
katham drakṣyāmi apāvṛttām paraiḥ iva hatām camūm.kim mām vakṣyanti rājānaḥ nānā digbhyaḥ samāgatāḥ.. 64..
बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत्।यदा हि बहवो वृद्धा गुणवन्तो बहुश्रुताः॥ ६५॥
बालः बत अयम् ऐक्ष्वाकः चिरम् राज्यम् अकारयत्।यदा हि बहवः वृद्धाः गुणवन्तः बहु-श्रुताः॥ ६५॥
bālaḥ bata ayam aikṣvākaḥ ciram rājyam akārayat.yadā hi bahavaḥ vṛddhāḥ guṇavantaḥ bahu-śrutāḥ.. 65..
परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामीह कथं तदा।कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया॥ ६६॥
परिप्रक्ष्यन्ति काकुत्स्थम् वक्ष्यामि इह कथम् तदा।कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितः मया॥ ६६॥
pariprakṣyanti kākutstham vakṣyāmi iha katham tadā.kaikeyyā kliśyamānena putraḥ pravrājitaḥ mayā.. 66..
यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति।किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते॥ ६७॥
यदि सत्यम् ब्रवीमि एतत् तत् असत्यम् भविष्यति।किम् माम् वक्ष्यति कौसल्या राघवे वनम् आस्थिते॥ ६७॥
yadi satyam bravīmi etat tat asatyam bhaviṣyati.kim mām vakṣyati kausalyā rāghave vanam āsthite.. 67..
किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्।यदा यदा च कौसल्या दासीव च सखीव च॥ ६८॥
किम् च एनाम् प्रतिवक्ष्यामि कृत्वा विप्रियम् ईदृशम्।यदा यदा च कौसल्या दासी इव च सखी इव च॥ ६८॥
kim ca enām prativakṣyāmi kṛtvā vipriyam īdṛśam.yadā yadā ca kausalyā dāsī iva ca sakhī iva ca.. 68..
भार्यावद् भगिनीवच्च मातृवच्चोपतिष्ठति।सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा॥ ६९॥
भार्या-वत् भगिनी-वत् च मातृ-वत् च उपतिष्ठति।सततम् प्रिय-कामा मे प्रिय-पुत्रा प्रियंवदा॥ ६९॥
bhāryā-vat bhaginī-vat ca mātṛ-vat ca upatiṣṭhati.satatam priya-kāmā me priya-putrā priyaṃvadā.. 69..
न मया सत्कृता देवी सत्कारार्हा कृते तव।इदानीं तत्तपति मां यन्मया सुकृतं त्वयि॥ ७०॥
न मया सत्कृता देवी सत्कार-अर्हा कृते तव।इदानीम् तत् तपति माम् यत् मया सु कृतम् त्वयि॥ ७०॥
na mayā satkṛtā devī satkāra-arhā kṛte tava.idānīm tat tapati mām yat mayā su kṛtam tvayi.. 70..
अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्।विप्रकारं च रामस्य सम्प्रयाणं वनस्य च॥ ७१॥
अपथ्य-व्यञ्जन-उपेतम् भुक्तम् अन्नम् इव आतुरम्।विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च॥ ७१॥
apathya-vyañjana-upetam bhuktam annam iva āturam.viprakāram ca rāmasya samprayāṇam vanasya ca.. 71..
सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति।कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम्॥ ७२॥
सुमित्रा प्रेक्ष्य वै भीता कथम् मे विश्वसिष्यति।कृपणम् बत वैदेही श्रोष्यति द्वयम् अप्रियम्॥ ७२॥
sumitrā prekṣya vai bhītā katham me viśvasiṣyati.kṛpaṇam bata vaidehī śroṣyati dvayam apriyam.. 72..
मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्।वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति॥ ७३॥
माम् च पञ्चत्वम् आपन्नम् रामम् च वनम् आश्रितम्।वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति॥ ७३॥
mām ca pañcatvam āpannam rāmam ca vanam āśritam.vaidehī bata me prāṇān śocantī kṣapayiṣyati.. 73..
हीना हिमवतः पार्श्वे किंनरेणेव किंनरी।नहि राममहं दृष्ट्वा प्रवसन्तं महावने॥ ७४॥
हीना हिमवतः पार्श्वे किंनरेण इव किंनरी।नहि रामम् अहम् दृष्ट्वा प्रवसन्तम् महा-वने॥ ७४॥
hīnā himavataḥ pārśve kiṃnareṇa iva kiṃnarī.nahi rāmam aham dṛṣṭvā pravasantam mahā-vane.. 74..
चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्।सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि॥ ७५॥
चिरम् जीवितुम् आशंसे रुदन्तीम् च अपि मैथिलीम्।सा नूनम् विधवा राज्यम् स पुत्रा कारयिष्यसि॥ ७५॥
ciram jīvitum āśaṃse rudantīm ca api maithilīm.sā nūnam vidhavā rājyam sa putrā kārayiṣyasi.. 75..
सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्।रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः॥ ७६॥
सतीम् त्वाम् अहम् अत्यन्तम् व्यवस्यामि असतीम् सतीम्।रूपिणीम् विष-संयुक्ताम् पीत्वा इव मदिराम् नरः॥ ७६॥
satīm tvām aham atyantam vyavasyāmi asatīm satīm.rūpiṇīm viṣa-saṃyuktām pītvā iva madirām naraḥ.. 76..
अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे।गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः॥ ७७॥
अनृतैः बत माम् सान्त्वैः सान्त्वयन्ती स्म भाषसे।गीत-शब्देन संरुध्य लुब्धः मृगम् इव अवधीः॥ ७७॥
anṛtaiḥ bata mām sāntvaiḥ sāntvayantī sma bhāṣase.gīta-śabdena saṃrudhya lubdhaḥ mṛgam iva avadhīḥ.. 77..
अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्।विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा॥ ७८॥
अनार्यः इति माम् आर्याः पुत्र-विक्रायकम् ध्रुवम्।विकरिष्यन्ति रथ्यासु सुरा-पम् ब्राह्मणम् यथा॥ ७८॥
anāryaḥ iti mām āryāḥ putra-vikrāyakam dhruvam.vikariṣyanti rathyāsu surā-pam brāhmaṇam yathā.. 78..
अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव।दुःखमेवंविधं प्राप्तं पुरा कृतमिवाशुभम्॥ ७९॥
अहो दुःखम् अहो कृच्छ्रम् यत्र वाचः क्षमे तव।दुःखम् एवंविधम् प्राप्तम् पुरा कृतम् इव अशुभम्॥ ७९॥
aho duḥkham aho kṛcchram yatra vācaḥ kṣame tava.duḥkham evaṃvidham prāptam purā kṛtam iva aśubham.. 79..
चिरं खलु मया पापे त्वं पापेनाभिरक्षिता।अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धनी यथा॥ ८०॥
चिरम् खलु मया पापे त्वम् पापेन अभिरक्षिता।अज्ञानात् उपसम्पन्ना रज्जुः उद्बन्धनी यथा॥ ८०॥
ciram khalu mayā pāpe tvam pāpena abhirakṣitā.ajñānāt upasampannā rajjuḥ udbandhanī yathā.. 80..
रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये।बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम्॥ ८१॥
रममाणः त्वया सार्धम् मृत्युम् त्वाम् ना अभिलक्षये।बालः रहसि हस्तेन कृष्ण-सर्पम् इव अस्पृशम्॥ ८१॥
ramamāṇaḥ tvayā sārdham mṛtyum tvām nā abhilakṣaye.bālaḥ rahasi hastena kṛṣṇa-sarpam iva aspṛśam.. 81..
तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति।मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना॥ ८२॥
तम् तु माम् जीव-लोकः अयम् नूनम् आक्रोष्टुम् अर्हति।मया हि अपितृकः पुत्रः स महात्मा दुरात्मना॥ ८२॥
tam tu mām jīva-lokaḥ ayam nūnam ākroṣṭum arhati.mayā hi apitṛkaḥ putraḥ sa mahātmā durātmanā.. 82..
बालिशो बत कामात्मा राजा दशरथो भृशम्।स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति॥ ८३॥
बालिशः बत काम-आत्मा राजा दशरथः भृशम्।स्त्री-कृते यः प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति॥ ८३॥
bāliśaḥ bata kāma-ātmā rājā daśarathaḥ bhṛśam.strī-kṛte yaḥ priyam putram vanam prasthāpayiṣyati.. 83..
वेदैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः।भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते॥ ८४॥
वेदैः च ब्रह्मचर्यैः च गुरुभिः च उपकर्शितः।भोग-काले महत् कृच्छ्रम् पुनर् एव प्रपत्स्यते॥ ८४॥
vedaiḥ ca brahmacaryaiḥ ca gurubhiḥ ca upakarśitaḥ.bhoga-kāle mahat kṛcchram punar eva prapatsyate.. 84..
नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्।स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति॥ ८५॥
न अलम् द्वितीयम् वचनम् पुत्रः माम् प्रतिभाषितुम्।स वनम् प्रव्रज इति उक्तः बाढम् इति एव वक्ष्यति॥ ८५॥
na alam dvitīyam vacanam putraḥ mām pratibhāṣitum.sa vanam pravraja iti uktaḥ bāḍham iti eva vakṣyati.. 85..
यदि मे राघवः कुर्याद् वनं गच्छेति चोदितः।प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति॥ ८६॥
यदि मे राघवः कुर्यात् वनम् गच्छ इति चोदितः।प्रतिकूलम् प्रियम् मे स्यात् न तु वत्सः करिष्यति॥ ८६॥
yadi me rāghavaḥ kuryāt vanam gaccha iti coditaḥ.pratikūlam priyam me syāt na tu vatsaḥ kariṣyati.. 86..
राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्।मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम्॥ ८७॥
राघवे हि वनम् प्राप्ते सर्व-लोकस्य धिक्कृतम्।मृत्युः अक्षमणीयम् माम् नयिष्यति यम-क्षयम्॥ ८७॥
rāghave hi vanam prāpte sarva-lokasya dhikkṛtam.mṛtyuḥ akṣamaṇīyam mām nayiṣyati yama-kṣayam.. 87..
मृते मयि गते रामे वनं मनुजपुङ्गवे।इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे॥ ८८॥
मृते मयि गते रामे वनम् मनुज-पुङ्गवे।इष्टे मम जने शेषे किम् पापम् प्रतिपत्स्यसे॥ ८८॥
mṛte mayi gate rāme vanam manuja-puṅgave.iṣṭe mama jane śeṣe kim pāpam pratipatsyase.. 88..
कौसल्या मां च रामं च पुत्रौ च यदि हास्यति।दुःखान्यसहती देवी मामेवानुगमिष्यति॥ ८९॥
कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति।दुःखानि असहती देवी माम् एव अनुगमिष्यति॥ ८९॥
kausalyā mām ca rāmam ca putrau ca yadi hāsyati.duḥkhāni asahatī devī mām eva anugamiṣyati.. 89..
कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह।प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव॥ ९०॥
कौसल्याम् च सुमित्राम् च माम् च पुत्रैः त्रिभिः सह।प्रक्षिप्य नरके सा त्वम् कैकेयि सुखिता भव॥ ९०॥
kausalyām ca sumitrām ca mām ca putraiḥ tribhiḥ saha.prakṣipya narake sā tvam kaikeyi sukhitā bhava.. 90..
मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः।इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि॥ ९१॥
मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः।इक्ष्वाकु-कुलम् अक्षोभ्यम् आकुलम् पालयिष्यसि॥ ९१॥
mayā rāmeṇa ca tyaktam śāśvatam satkṛtam guṇaiḥ.ikṣvāku-kulam akṣobhyam ākulam pālayiṣyasi.. 91..
प्रियं चेद् भरतस्यैतद् रामप्रव्राजनं भवेत्।मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः॥ ९२॥
प्रियम् चेद् भरतस्य एतत् राम-प्रव्राजनम् भवेत्।मा स्म मे भरतः कार्षीत् प्रेत-कृत्यम् गत-आयुषः॥ ९२॥
priyam ced bharatasya etat rāma-pravrājanam bhavet.mā sma me bharataḥ kārṣīt preta-kṛtyam gata-āyuṣaḥ.. 92..
मृते मयि गते रामे वनं पुरुषपुङ्गवे।सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि॥ ९३॥
मृते मयि गते रामे वनम् पुरुष-पुङ्गवे।सा इदानीम् विधवा राज्यम् स पुत्रा कारयिष्यसि॥ ९३॥
mṛte mayi gate rāme vanam puruṣa-puṅgave.sā idānīm vidhavā rājyam sa putrā kārayiṣyasi.. 93..
त्वं राजपुत्रि दैवेन न्यवसो मम वेश्मनि।अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे।सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा॥ ९४॥
त्वम् राज-पुत्रि दैवेन न्यवसः मम वेश्मनि।अकीर्तिः च अतुला लोके ध्रुवः परिभवः च मे।सर्व-भूतेषु च अवज्ञा यथा पाप-कृतः तथा॥ ९४॥
tvam rāja-putri daivena nyavasaḥ mama veśmani.akīrtiḥ ca atulā loke dhruvaḥ paribhavaḥ ca me.sarva-bhūteṣu ca avajñā yathā pāpa-kṛtaḥ tathā.. 94..
कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः।पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति॥ ९५॥
कथम् रथैः विभुः यात्वा गज-अश्वैः च मुहुर् मुहुर्।पद्भ्याम् रामः महा-अरण्ये वत्सः मे विचरिष्यति॥ ९५॥
katham rathaiḥ vibhuḥ yātvā gaja-aśvaiḥ ca muhur muhur.padbhyām rāmaḥ mahā-araṇye vatsaḥ me vicariṣyati.. 95..
यस्य चाहारसमये सूदाः कुण्डलधारिणः।अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम्॥ ९६॥
यस्य च आहार-समये सूदाः कुण्डल-धारिणः।अहंपूर्वाः पचन्ति स्म प्रसन्नाः पान-भोजनम्॥ ९६॥
yasya ca āhāra-samaye sūdāḥ kuṇḍala-dhāriṇaḥ.ahaṃpūrvāḥ pacanti sma prasannāḥ pāna-bhojanam.. 96..
स कथं नु कषायाणि तिक्तानि कटुकानि च।भक्षयन् वन्यमाहारं सुतो मे वर्तयिष्यति॥ ९७॥
स कथम् नु कषायाणि तिक्तानि कटुकानि च।भक्षयन् वन्यम् आहारम् सुतः मे वर्तयिष्यति॥ ९७॥
sa katham nu kaṣāyāṇi tiktāni kaṭukāni ca.bhakṣayan vanyam āhāram sutaḥ me vartayiṣyati.. 97..
महार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः।काषायपरिधानस्तु कथं रामो भविष्यति॥ ९८॥
महार्ह-वस्त्र-सम्बद्धः भूत्वा चिर-सुख-उचितः।काषाय-परिधानः तु कथम् रामः भविष्यति॥ ९८॥
mahārha-vastra-sambaddhaḥ bhūtvā cira-sukha-ucitaḥ.kāṣāya-paridhānaḥ tu katham rāmaḥ bhaviṣyati.. 98..
कस्येदं दारुणं वाक्यमेवंविधमपीरितम्।रामस्यारण्यगमनं भरतस्याभिषेचनम्॥ ९९॥
कस्य इदम् दारुणम् वाक्यम् एवंविधम् अपि ईरितम्।रामस्य अरण्य-गमनम् भरतस्य अभिषेचनम्॥ ९९॥
kasya idam dāruṇam vākyam evaṃvidham api īritam.rāmasya araṇya-gamanam bharatasya abhiṣecanam.. 99..
धिगस्तु योषितो नाम शठाः स्वार्थपरायणाः।न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम्॥ १००॥
धिक् अस्तु योषितः नाम शठाः स्व-अर्थ-परायणाः।न ब्रवीमि स्त्रियः सर्वाः भरतस्य एव मातरम्॥ १००॥
dhik astu yoṣitaḥ nāma śaṭhāḥ sva-artha-parāyaṇāḥ.na bravīmi striyaḥ sarvāḥ bharatasya eva mātaram.. 100..
अनर्थभावेऽर्थपरे नृशंसे ममानुतापाय निवेशितासि।किमप्रियं पश्यसि मन्निमित्तं हितानुकारिण्यथवापि रामे॥ १०१॥
अनर्थ-भावे अर्थ-परे नृशंसे मम अनुतापाय निवेशिता असि।किम् अप्रियम् पश्यसि मद्-निमित्तम् हित-अनुकारिणी अथवा अपि रामे॥ १०१॥
anartha-bhāve artha-pare nṛśaṃse mama anutāpāya niveśitā asi.kim apriyam paśyasi mad-nimittam hita-anukāriṇī athavā api rāme.. 101..
परित्यजेयुः पितरोऽपि पुत्रान् भार्याः पतींश्चापि कृतानुरागाः।कृत्स्नं हि सर्वं कुपितं जगत् स्याद् दृष्ट्वैव रामं व्यसने निमग्नम्॥ १०२॥
परित्यजेयुः पितरः अपि पुत्रान् भार्याः पतीन् च अपि कृत-अनुरागाः।कृत्स्नम् हि सर्वम् कुपितम् जगत् स्यात् दृष्ट्वा एव रामम् व्यसने निमग्नम्॥ १०२॥
parityajeyuḥ pitaraḥ api putrān bhāryāḥ patīn ca api kṛta-anurāgāḥ.kṛtsnam hi sarvam kupitam jagat syāt dṛṣṭvā eva rāmam vyasane nimagnam.. 102..
अहं पुनर्देवकुमाररूप- मलंकृतं तं सुतमाव्रजन्तम्।नन्दामि पश्यन्निव दर्शनेन भवामि दृष्ट्वैव पुनर्युवेव॥ १०३॥
अहम् पुनर् देव-कुमार-रूपम् अलंकृतम् तम् सुतम् आव्रजन्तम्।नन्दामि पश्यन् इव दर्शनेन भवामि दृष्ट्वा एव पुनर् युवा इव॥ १०३॥
aham punar deva-kumāra-rūpam alaṃkṛtam tam sutam āvrajantam.nandāmi paśyan iva darśanena bhavāmi dṛṣṭvā eva punar yuvā iva.. 103..
विना हि सूर्येण भवेत् प्रवृत्ति- रवर्षता वज्रधरेण वापि।रामं तु गच्छन्तमितः समीक्ष्य जीवेन्न कश्चित्त्विति चेतना मे॥ १०४॥
विना हि सूर्येण भवेत् प्रवृत्तिः र वर्षता वज्रधरेण वा अपि।रामम् तु गच्छन्तम् इतस् समीक्ष्य जीवेत् न कश्चिद् तु इति चेतना मे॥ १०४॥
vinā hi sūryeṇa bhavet pravṛttiḥ ra varṣatā vajradhareṇa vā api.rāmam tu gacchantam itas samīkṣya jīvet na kaścid tu iti cetanā me.. 104..
विनाशकामामहिताममित्रा- मावासयं मृत्युमिवात्मनस्त्वाम्।चिरं बताङ्केन धृतासि सर्पी महाविषा तेन हतोऽस्मि मोहात्॥ १०५॥
विनाश-कामाम् अहिताम् अमित्रा आ अवासयम् मृत्युम् इव आत्मनः त्वाम्।चिरम् बत अङ्केन धृता असि सर्पी महा-विषा तेन हतः अस्मि मोहात्॥ १०५॥
vināśa-kāmām ahitām amitrā ā avāsayam mṛtyum iva ātmanaḥ tvām.ciram bata aṅkena dhṛtā asi sarpī mahā-viṣā tena hataḥ asmi mohāt.. 105..
मया च रामेण सलक्ष्मणेन प्रशास्तु हीनो भरतस्त्वया सह।पुरं च राष्ट्रं च निहत्य बान्धवान् ममाहितानां च भवाभिहर्षिणी॥ १०६॥
मया च रामेण स लक्ष्मणेन प्रशास्तु हीनः भरतः त्वया सह।पुरम् च राष्ट्रम् च निहत्य बान्धवान् मम अहितानाम् च भव अभिहर्षिणी॥ १०६॥
mayā ca rāmeṇa sa lakṣmaṇena praśāstu hīnaḥ bharataḥ tvayā saha.puram ca rāṣṭram ca nihatya bāndhavān mama ahitānām ca bhava abhiharṣiṇī.. 106..
नृशंसवृत्ते व्यसनप्रहारिणि प्रसह्य वाक्यं यदिहाद्य भाषसे।न नाम ते तेन मुखात् पतन्त्यधो विशीर्यमाणा दशनाः सहस्रधा॥ १०७॥
नृशंस-वृत्ते व्यसन-प्रहारिणि प्रसह्य वाक्यम् यत् इह अद्य भाषसे।न नाम ते तेन मुखात् पतन्ति अधस् विशीर्यमाणाः दशनाः सहस्रधा॥ १०७॥
nṛśaṃsa-vṛtte vyasana-prahāriṇi prasahya vākyam yat iha adya bhāṣase.na nāma te tena mukhāt patanti adhas viśīryamāṇāḥ daśanāḥ sahasradhā.. 107..
न किंचिदाहाहितमप्रियं वचो न वेत्ति रामः परुषाणि भाषितुम्।कथं तु रामे ह्यभिरामवादिनि ब्रवीषि दोषान् गुणनित्यसम्मते॥ १०८॥
न किंचिद् आह अहितम् अप्रियम् वचः न वेत्ति रामः परुषाणि भाषितुम्।कथम् तु रामे हि अभिराम-वादिनि ब्रवीषि दोषान् गुण-नित्य-सम्मते॥ १०८॥
na kiṃcid āha ahitam apriyam vacaḥ na vetti rāmaḥ paruṣāṇi bhāṣitum.katham tu rāme hi abhirāma-vādini bravīṣi doṣān guṇa-nitya-sammate.. 108..
प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशो वा स्फुटितां महीं व्रज।न ते करिष्यामि वचः सुदारुणं ममाहितं केकयराजपांसने॥ १०९॥
प्रताम्य वा प्रज्वल वा प्रणश्य वा सहस्रशस् वा स्फुटिताम् महीम् व्रज।न ते करिष्यामि वचः सु दारुणम् मम अहितम् केकय-राज-पांसने॥ १०९॥
pratāmya vā prajvala vā praṇaśya vā sahasraśas vā sphuṭitām mahīm vraja.na te kariṣyāmi vacaḥ su dāruṇam mama ahitam kekaya-rāja-pāṃsane.. 109..
क्षुरोपमां नित्यमसत्प्रियंवदां प्रदुष्टभावां स्वकुलोपघातिनीम्।न जीवितुं त्वां विषहेऽमनोरमां दिधक्षमाणां हृदयं सबन्धनम्॥ ११०॥
क्षुर-उपमाम् नित्यम् असत्-प्रियंवदाम् प्रदुष्ट-भावाम् स्व-कुल-उपघातिनीम्।न जीवितुम् त्वाम् विषहे अमनोरमाम् दिधक्षमाणाम् हृदयम् स बन्धनम्॥ ११०॥
kṣura-upamām nityam asat-priyaṃvadām praduṣṭa-bhāvām sva-kula-upaghātinīm.na jīvitum tvām viṣahe amanoramām didhakṣamāṇām hṛdayam sa bandhanam.. 110..
न जीवितं मेऽस्ति कुतः पुनः सुखं विनात्मजेनात्मवतां कुतो रतिः।ममाहितं देवि न कर्तुमर्हसि स्पृशामि पादावपि ते प्रसीद मे॥ १११॥
न जीवितम् मे अस्ति कुतस् पुनर् सुखम् विना आत्मजेन आत्मवताम् कुतस् रतिः।मम अहितम् देवि न कर्तुम् अर्हसि स्पृशामि पादौ अपि ते प्रसीद मे॥ १११॥
na jīvitam me asti kutas punar sukham vinā ātmajena ātmavatām kutas ratiḥ.mama ahitam devi na kartum arhasi spṛśāmi pādau api te prasīda me.. 111..
स भूमिपालो विलपन्ननाथवत् स्त्रिया गृहीतो हृदयेऽतिमात्रया।पपात देव्याश्चरणौ प्रसारिता- वुभावसम्प्राप्य यथाऽऽतुरस्तथा॥ ११२॥
स भूमिपालः विलपन् अनाथ-वत् स्त्रिया गृहीतः हृदये अतिमात्रया।पपात देव्याः चरणौ प्रसारितौ उभौ अ सम्प्राप्य यथा आतुरः तथा॥ ११२॥
sa bhūmipālaḥ vilapan anātha-vat striyā gṛhītaḥ hṛdaye atimātrayā.papāta devyāḥ caraṇau prasāritau ubhau a samprāpya yathā āturaḥ tathā.. 112..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥२-१२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे द्वादशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe dvādaśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In