This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकविंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekaviṃśaḥ sargaḥ ..2..
तथा तु विलपन्तीं तां कौसल्यां राममातरम्।उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः॥ १॥
तथा तु विलपन्तीम् ताम् कौसल्याम् राम-मातरम्।उवाच लक्ष्मणः दीनः तद्-काल-सदृशम् वचः॥ १॥
tathā tu vilapantīm tām kausalyām rāma-mātaram.uvāca lakṣmaṇaḥ dīnaḥ tad-kāla-sadṛśam vacaḥ.. 1..
न रोचते ममाप्येतदार्ये यद् राघवो वनम्।त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशंगतः॥ २॥
न रोचते मम अपि एतत् आर्ये यत् राघवः वनम्।त्यक्त्वा राज्य-श्रियम् गच्छेत् स्त्रियाः वाक्य-वशंगतः॥ २॥
na rocate mama api etat ārye yat rāghavaḥ vanam.tyaktvā rājya-śriyam gacchet striyāḥ vākya-vaśaṃgataḥ.. 2..
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः॥ ३॥
विपरीतः च वृद्धः च विषयैः च प्रधर्षितः।नृपः किम् इव न ब्रूयात् चोद्यमानः स मन्मथः॥ ३॥
viparītaḥ ca vṛddhaḥ ca viṣayaiḥ ca pradharṣitaḥ.nṛpaḥ kim iva na brūyāt codyamānaḥ sa manmathaḥ.. 3..
नास्यापराधं पश्यामि नापि दोषं तथाविधम्।येन निर्वास्यते राष्ट्राद् वनवासाय राघवः॥ ४॥
न अस्य अपराधम् पश्यामि ना अपि दोषम् तथाविधम्।येन निर्वास्यते राष्ट्रात् वन-वासाय राघवः॥ ४॥
na asya aparādham paśyāmi nā api doṣam tathāvidham.yena nirvāsyate rāṣṭrāt vana-vāsāya rāghavaḥ.. 4..
न तं पश्याम्यहं लोके परोक्षमपि यो नरः।स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्॥ ५॥
न तम् पश्यामि अहम् लोके परोक्षम् अपि यः नरः।स्व-मित्रः अपि निरस्तः अपि यः अस्य दोषम् उदाहरेत्॥ ५॥
na tam paśyāmi aham loke parokṣam api yaḥ naraḥ.sva-mitraḥ api nirastaḥ api yaḥ asya doṣam udāharet.. 5..
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्।अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात्॥ ६॥
देव-कल्पम् ऋजुम् दान्तम् रिपूणाम् अपि वत्सलम्।अवेक्षमाणः कः धर्मम् त्यजेत् पुत्रम् अकारणात्॥ ६॥
deva-kalpam ṛjum dāntam ripūṇām api vatsalam.avekṣamāṇaḥ kaḥ dharmam tyajet putram akāraṇāt.. 6..
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः।पुत्रः को हृदये कुर्याद् राजवृत्तमनुस्मरन्॥ ७॥
तत् इदम् वचनम् राज्ञः पुनर् बाल्यम् उपेयुषः।पुत्रः कः हृदये कुर्यात् राज-वृत्तम् अनुस्मरन्॥ ७॥
tat idam vacanam rājñaḥ punar bālyam upeyuṣaḥ.putraḥ kaḥ hṛdaye kuryāt rāja-vṛttam anusmaran.. 7..
यावदेव न जानाति कश्चिदर्थमिमं नरः।तावदेव मया सार्धमात्मस्थं कुरु शासनम्॥ ८॥
यावत् एव न जानाति कश्चिद् अर्थम् इमम् नरः।तावत् एव मया सार्धम् आत्म-स्थम् कुरु शासनम्॥ ८॥
yāvat eva na jānāti kaścid artham imam naraḥ.tāvat eva mayā sārdham ātma-stham kuru śāsanam.. 8..
मया पार्श्वे सधनुषा तव गुप्तस्य राघव।कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः॥ ९॥
मया पार्श्वे स धनुषा तव गुप्तस्य राघव।कः समर्थः अधिकम् कर्तुम् कृतान्तस्य इव तिष्ठतः॥ ९॥
mayā pārśve sa dhanuṣā tava guptasya rāghava.kaḥ samarthaḥ adhikam kartum kṛtāntasya iva tiṣṭhataḥ.. 9..
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ।करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये॥ १०॥
निर्मनुष्याम् इमाम् सर्वाम् अयोध्याम् मनुज-ऋषभ।करिष्यामि शरैः तीक्ष्णैः यदि स्थास्यति विप्रिये॥ १०॥
nirmanuṣyām imām sarvām ayodhyām manuja-ṛṣabha.kariṣyāmi śaraiḥ tīkṣṇaiḥ yadi sthāsyati vipriye.. 10..
भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति।सर्वांस्तांश्च वधिष्यामि मृदुर्हि परिभूयते॥ ११॥
भरतस्य अथ पक्ष्यः वा यः वा अस्य हितम् इच्छति।सर्वान् तान् च वधिष्यामि मृदुः हि परिभूयते॥ ११॥
bharatasya atha pakṣyaḥ vā yaḥ vā asya hitam icchati.sarvān tān ca vadhiṣyāmi mṛduḥ hi paribhūyate.. 11..
प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता।अमित्रभूतो निःसङ्गं वध्यतां वध्यतामपि॥ १२॥
प्रोत्साहितः अयम् कैकेय्या संतुष्टः यदि नः पिता।अमित्र-भूतः निःसङ्गम् वध्यताम् वध्यताम् अपि॥ १२॥
protsāhitaḥ ayam kaikeyyā saṃtuṣṭaḥ yadi naḥ pitā.amitra-bhūtaḥ niḥsaṅgam vadhyatām vadhyatām api.. 12..
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥ १३॥
गुरोः अपि अवलिप्तस्य कार्य-अकार्यम् अ जानतः।उत्पथम् प्रतिपन्नस्य कार्यम् भवति शासनम्॥ १३॥
guroḥ api avaliptasya kārya-akāryam a jānataḥ.utpatham pratipannasya kāryam bhavati śāsanam.. 13..
बलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम।दातुमिच्छति कैकेय्यै उपस्थितमिदं तव॥ १४॥
बलम् एष किम् आश्रित्य हेतुम् वा पुरुषोत्तम।दातुम् इच्छति कैकेय्यै उपस्थितम् इदम् तव॥ १४॥
balam eṣa kim āśritya hetum vā puruṣottama.dātum icchati kaikeyyai upasthitam idam tava.. 14..
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्।कास्य शक्तिः श्रियं दातुं भरतायारिशासन॥ १५॥
त्वया च एव मया च एव कृत्वा वैरम् अनुत्तमम्।का अस्य शक्तिः श्रियम् दातुम् भरताय अरि-शासन॥ १५॥
tvayā ca eva mayā ca eva kṛtvā vairam anuttamam.kā asya śaktiḥ śriyam dātum bharatāya ari-śāsana.. 15..
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः।सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे॥ १६॥
अनुरक्तः अस्मि भावेन भ्रातरम् देवि तत्त्वतः।सत्येन धनुषा च एव दत्तेन इष्टेन ते शपे॥ १६॥
anuraktaḥ asmi bhāvena bhrātaram devi tattvataḥ.satyena dhanuṣā ca eva dattena iṣṭena te śape.. 16..
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति।प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय॥ १७॥
दीप्तम् अग्निम् अरण्यम् वा यदि रामः प्रवेक्ष्यति।प्रविष्टम् तत्र माम् देवि त्वम् पूर्वम् अवधारय॥ १७॥
dīptam agnim araṇyam vā yadi rāmaḥ pravekṣyati.praviṣṭam tatra mām devi tvam pūrvam avadhāraya.. 17..
हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः।देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु॥ १८॥
हरामि वीर्यात् दुःखम् ते तमः सूर्यः इव उदितः।देवी पश्यतु मे वीर्यम् राघवः च एव पश्यतु॥ १८॥
harāmi vīryāt duḥkham te tamaḥ sūryaḥ iva uditaḥ.devī paśyatu me vīryam rāghavaḥ ca eva paśyatu.. 18..
हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्।कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम्॥ १९॥
हनिष्ये पितरम् वृद्धम् कैकेय्या आसक्त-मानसम्।कृपणम् च स्थितम् बाल्ये वृद्ध-भावेन गर्हितम्॥ १९॥
haniṣye pitaram vṛddham kaikeyyā āsakta-mānasam.kṛpaṇam ca sthitam bālye vṛddha-bhāvena garhitam.. 19..
एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः।उवाच रामं कौसल्या रुदती शोकलालसा॥ २०॥
एतत् तु वचनम् श्रुत्वा लक्ष्मणस्य महात्मनः।उवाच रामम् कौसल्या रुदती शोक-लालसा॥ २०॥
etat tu vacanam śrutvā lakṣmaṇasya mahātmanaḥ.uvāca rāmam kausalyā rudatī śoka-lālasā.. 20..
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया।यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते॥ २१॥
भ्रातुः ते वदतः पुत्र लक्ष्मणस्य श्रुतम् त्वया।यत् अत्र अनन्तरम् तत् त्वम् कुरुष्व यदि रोचते॥ २१॥
bhrātuḥ te vadataḥ putra lakṣmaṇasya śrutam tvayā.yat atra anantaram tat tvam kuruṣva yadi rocate.. 21..
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्।विहाय शोकसंतप्तां गन्तुमर्हसि मामितः॥ २२॥
न च अधर्म्यम् वचः श्रुत्वा सपत्न्याः मम भाषितम्।विहाय शोक-संतप्ताम् गन्तुम् अर्हसि माम् इतस्॥ २२॥
na ca adharmyam vacaḥ śrutvā sapatnyāḥ mama bhāṣitam.vihāya śoka-saṃtaptām gantum arhasi mām itas.. 22..
धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि।शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्॥ २३॥
धर्म-ज्ञः इति धर्मिष्ठ धर्मम् चरितुम् इच्छसि।शुश्रूष माम् इहस्थः त्वम् चर धर्मम् अनुत्तमम्॥ २३॥
dharma-jñaḥ iti dharmiṣṭha dharmam caritum icchasi.śuśrūṣa mām ihasthaḥ tvam cara dharmam anuttamam.. 23..
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्।परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः॥ २४॥
शुश्रूषुः जननीम् पुत्र स्व-गृहे नियतः वसन्।परेण तपसा युक्तः काश्यपः त्रिदिवम् गतः॥ २४॥
śuśrūṣuḥ jananīm putra sva-gṛhe niyataḥ vasan.pareṇa tapasā yuktaḥ kāśyapaḥ tridivam gataḥ.. 24..
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्।त्वां साहं नानुजानामि न गन्तव्यमितो वनम्॥ २५॥
यथा एव राजा पूज्यः ते गौरवेण तथा हि अहम्।त्वाम् सा अहम् न अनुजानामि न गन्तव्यम् इतस् वनम्॥ २५॥
yathā eva rājā pūjyaḥ te gauraveṇa tathā hi aham.tvām sā aham na anujānāmi na gantavyam itas vanam.. 25..
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन च।त्वया सह मम श्रेयस्तृणानामपि भक्षणम्॥ २६॥
त्वद्-वियोगात् न मे कार्यम् जीवितेन सुखेन च।त्वया सह मम श्रेयः तृणानाम् अपि भक्षणम्॥ २६॥
tvad-viyogāt na me kāryam jīvitena sukhena ca.tvayā saha mama śreyaḥ tṛṇānām api bhakṣaṇam.. 26..
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्।अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम्॥ २७॥
यदि त्वम् यास्यसि वनम् त्यक्त्वा माम् शोक-लालसाम्।अहम् प्रायम् इह आसिष्ये न च शक्ष्यामि जीवितुम्॥ २७॥
yadi tvam yāsyasi vanam tyaktvā mām śoka-lālasām.aham prāyam iha āsiṣye na ca śakṣyāmi jīvitum.. 27..
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्।ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः॥ २८॥
ततस् त्वम् प्राप्स्यसे पुत्र निरयम् लोक-विश्रुतम्।ब्रह्महत्याम् इव अधर्मात् समुद्रः सरिताम् पतिः॥ २८॥
tatas tvam prāpsyase putra nirayam loka-viśrutam.brahmahatyām iva adharmāt samudraḥ saritām patiḥ.. 28..
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः।उवाच रामो धर्मात्मा वचनं धर्मसंहितम्॥ २९॥
विलपन्तीम् तथा दीनाम् कौसल्याम् जननीम् ततस्।उवाच रामः धर्म-आत्मा वचनम् धर्म-संहितम्॥ २९॥
vilapantīm tathā dīnām kausalyām jananīm tatas.uvāca rāmaḥ dharma-ātmā vacanam dharma-saṃhitam.. 29..
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्॥ ३०॥
न अस्ति शक्तिः पितुः वाक्यम् समतिक्रमितुम् मम।प्रसादये त्वाम् शिरसा गन्तुम् इच्छामि अहम् वनम्॥ ३०॥
na asti śaktiḥ pituḥ vākyam samatikramitum mama.prasādaye tvām śirasā gantum icchāmi aham vanam.. 30..
ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा।गौर्हता जानताधर्मं कण्डुना च विपश्चिता॥ ३१॥
ऋषिणा च पितुः वाक्यम् कुर्वता वन-चारिणा।गौः हता जानता अधर्मम् कण्डुना च विपश्चिता॥ ३१॥
ṛṣiṇā ca pituḥ vākyam kurvatā vana-cāriṇā.gauḥ hatā jānatā adharmam kaṇḍunā ca vipaścitā.. 31..
अस्माकं तु कुले पूर्वं सगरस्याज्ञया पितुः।खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः॥ ३२॥
अस्माकम् तु कुले पूर्वम् सगरस्य आज्ञया पितुः।खनद्भिः सागरैः भूमिम् अवाप्तः सु महान् वधः॥ ३२॥
asmākam tu kule pūrvam sagarasya ājñayā pituḥ.khanadbhiḥ sāgaraiḥ bhūmim avāptaḥ su mahān vadhaḥ.. 32..
जामदग्न्येन रामेण रेणुका जननी स्वयम्।कृत्ता परशुनारण्ये पितुर्वचनकारणात्॥ ३३॥
जामदग्न्येन रामेण रेणुका जननी स्वयम्।कृत्ता परशुना अरण्ये पितुः वचन-कारणात्॥ ३३॥
jāmadagnyena rāmeṇa reṇukā jananī svayam.kṛttā paraśunā araṇye pituḥ vacana-kāraṇāt.. 33..
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्।पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्॥ ३४॥
एतैः अन्यैः च बहुभिः देवि देव-समैः कृतम्।पितुः वचनम् अक्लीबम् करिष्यामि पितुः हितम्॥ ३४॥
etaiḥ anyaiḥ ca bahubhiḥ devi deva-samaiḥ kṛtam.pituḥ vacanam aklībam kariṣyāmi pituḥ hitam.. 34..
न खल्वेतन्मयैकेन क्रियते पितृशासनम्।एतैरपि कृतं देवि ये मया परिकीर्तिताः॥ ३५॥
न खलु एतत् मया एकेन क्रियते पितृ-शासनम्।एतैः अपि कृतम् देवि ये मया परिकीर्तिताः॥ ३५॥
na khalu etat mayā ekena kriyate pitṛ-śāsanam.etaiḥ api kṛtam devi ye mayā parikīrtitāḥ.. 35..
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये।पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते॥ ३६॥
न अहम् धर्मम् अपूर्वम् ते प्रतिकूलम् प्रवर्तये।पूर्वैः अयम् अभिप्रेतः गतः मार्गः अनुगम्यते॥ ३६॥
na aham dharmam apūrvam te pratikūlam pravartaye.pūrvaiḥ ayam abhipretaḥ gataḥ mārgaḥ anugamyate.. 36..
तदेतत् तु मया कार्यं क्रियते भुवि नान्यथा।पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते॥ ३७॥
तत् एतत् तु मया कार्यम् क्रियते भुवि ना अन्यथा।पितुः हि वचनम् कुर्वत् न कश्चिद् नाम हीयते॥ ३७॥
tat etat tu mayā kāryam kriyate bhuvi nā anyathā.pituḥ hi vacanam kurvat na kaścid nāma hīyate.. 37..
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्।वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥ ३८॥
ताम् एवम् उक्त्वा जननीम् लक्ष्मणम् पुनर् अब्रवीत्।वाक्यम् वाक्य-विदाम् श्रेष्ठः श्रेष्ठः सर्व-धनुष्मताम्॥ ३८॥
tām evam uktvā jananīm lakṣmaṇam punar abravīt.vākyam vākya-vidām śreṣṭhaḥ śreṣṭhaḥ sarva-dhanuṣmatām.. 38..
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्।विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम्॥ ३९॥
तव लक्ष्मण जानामि मयि स्नेहम् अनुत्तमम्।विक्रमम् च एव सत्त्वम् च तेजः च सु दुरासदम्॥ ३९॥
tava lakṣmaṇa jānāmi mayi sneham anuttamam.vikramam ca eva sattvam ca tejaḥ ca su durāsadam.. 39..
मम मातुर्महद् दुःखमतुलं शुभलक्षण।अभिप्रायं न विज्ञाय सत्यस्य च शमस्य च॥ ४०॥
मम मातुः महत् दुःखम् अतुलम् शुभ-लक्षण।अभिप्रायम् न विज्ञाय सत्यस्य च शमस्य च॥ ४०॥
mama mātuḥ mahat duḥkham atulam śubha-lakṣaṇa.abhiprāyam na vijñāya satyasya ca śamasya ca.. 40..
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्।धर्मसंश्रितमप्येतत् पितुर्वचनमुत्तमम्॥ ४१॥
धर्मः हि परमः लोके धर्मे सत्यम् प्रतिष्ठितम्।धर्म-संश्रितम् अपि एतत् पितुः वचनम् उत्तमम्॥ ४१॥
dharmaḥ hi paramaḥ loke dharme satyam pratiṣṭhitam.dharma-saṃśritam api etat pituḥ vacanam uttamam.. 41..
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा।न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता॥ ४२॥
संश्रुत्य च पितुः वाक्यम् मातुः वा ब्राह्मणस्य वा।न कर्तव्यम् वृथा वीर धर्मम् आश्रित्य तिष्ठता॥ ४२॥
saṃśrutya ca pituḥ vākyam mātuḥ vā brāhmaṇasya vā.na kartavyam vṛthā vīra dharmam āśritya tiṣṭhatā.. 42..
सोऽहं न शक्ष्यामि पुनर्नियोगमतिवर्तितुम्।पितुर्हि वचनाद् वीर कैकेय्याहं प्रचोदितः॥ ४३॥
सः अहम् न शक्ष्यामि पुनर् नियोगम् अतिवर्तितुम्।पितुः हि वचनात् वीर कैकेय्या अहम् प्रचोदितः॥ ४३॥
saḥ aham na śakṣyāmi punar niyogam ativartitum.pituḥ hi vacanāt vīra kaikeyyā aham pracoditaḥ.. 43..
तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्।धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम्॥ ४४॥
तत् एताम् विसृज अनार्याम् क्षत्र-धर्म-आश्रिताम् मतिम्।धर्मम् आश्रय मा तैक्ष्ण्यम् मद्-बुद्धिः अनुगम्यताम्॥ ४४॥
tat etām visṛja anāryām kṣatra-dharma-āśritām matim.dharmam āśraya mā taikṣṇyam mad-buddhiḥ anugamyatām.. 44..
तमेवमुक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः।उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः॥ ४५॥
तम् एवम् उक्त्वा सौहार्दात् भ्रातरम् लक्ष्मण-अग्रजः।उवाच भूयस् कौसल्याम् प्राञ्जलिः शिरसा नतः॥ ४५॥
tam evam uktvā sauhārdāt bhrātaram lakṣmaṇa-agrajaḥ.uvāca bhūyas kausalyām prāñjaliḥ śirasā nataḥ.. 45..
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्।शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे॥ ४६॥
अनुमन्यस्व माम् देवि गमिष्यन्तम् इतस् वनम्।शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे॥ ४६॥
anumanyasva mām devi gamiṣyantam itas vanam.śāpitāsi mama prāṇaiḥ kuru svastyayanāni me.. 46..
तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्।ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम्॥ ४७॥
तीर्ण-प्रतिज्ञः च वनात् पुनर् एष्यामि अहम् पुरीम्।ययातिः इव राजर्षिः पुरा हित्वा पुनर् दिवम्॥ ४७॥
tīrṇa-pratijñaḥ ca vanāt punar eṣyāmi aham purīm.yayātiḥ iva rājarṣiḥ purā hitvā punar divam.. 47..
शोकः संधार्यतां मातर्हृदये साधु मा शुचः।वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः॥ ४८॥
शोकः संधार्यताम् मातर् हृदये साधु मा शुचः।वन-वासात् इह एष्यामि पुनर् कृत्वा पितुः वचः॥ ४८॥
śokaḥ saṃdhāryatām mātar hṛdaye sādhu mā śucaḥ.vana-vāsāt iha eṣyāmi punar kṛtvā pituḥ vacaḥ.. 48..
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया।पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः॥ ४९॥
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया।पितुः नियोगे स्थातव्यम् एष धर्मः सनातनः॥ ४९॥
tvayā mayā ca vaidehyā lakṣmaṇena sumitrayā.pituḥ niyoge sthātavyam eṣa dharmaḥ sanātanaḥ.. 49..
अम्ब सम्भृत्य सम्भारान् दुःखं हृदि निगृह्य च।वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम्॥ ५०॥
अम्ब सम्भृत्य सम्भारान् दुःखम् हृदि निगृह्य च।वन-वास-कृता बुद्धिः मम धर्म्या अनुवर्त्यताम्॥ ५०॥
amba sambhṛtya sambhārān duḥkham hṛdi nigṛhya ca.vana-vāsa-kṛtā buddhiḥ mama dharmyā anuvartyatām.. 50..
एतद् वचस्तस्य निशम्य माता सुधर्म्यमव्यग्रमविक्लवं च।मृतेव संज्ञां प्रतिलभ्य देवी समीक्ष्य रामं पुनरित्युवाच॥ ५१॥
एतत् वचः तस्य निशम्य माता सु धर्म्यम् अव्यग्रम् अविक्लवम् च।मृता इव संज्ञाम् प्रतिलभ्य देवी समीक्ष्य रामम् पुनर् इति उवाच॥ ५१॥
etat vacaḥ tasya niśamya mātā su dharmyam avyagram aviklavam ca.mṛtā iva saṃjñām pratilabhya devī samīkṣya rāmam punar iti uvāca.. 51..
यथैव ते पुत्र पिता तथाहं गुरुः स्वधर्मेण सुहृत्तया च।न त्वानुजानामि न मां विहाय सुदुःखितामर्हसि पुत्र गन्तुम्॥ ५२॥
यथा एव ते पुत्र पिता तथा अहम् गुरुः स्वधर्मेण सुहृद्-तया च।न त्वा अनुजानामि न माम् विहाय सु दुःखिताम् अर्हसि पुत्र गन्तुम्॥ ५२॥
yathā eva te putra pitā tathā aham guruḥ svadharmeṇa suhṛd-tayā ca.na tvā anujānāmi na mām vihāya su duḥkhitām arhasi putra gantum.. 52..
किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयामृतेन।श्रेयो मुहूर्तं तव संनिधानं ममैव कृत्स्नादपि जीवलोकात्॥ ५३॥
किम् जीवितेन इह विना त्वया मे लोकेन वा किम् स्वधया अमृतेन।श्रेयः मुहूर्तम् तव संनिधानम् मम एव कृत्स्नात् अपि जीव-लोकात्॥ ५३॥
kim jīvitena iha vinā tvayā me lokena vā kim svadhayā amṛtena.śreyaḥ muhūrtam tava saṃnidhānam mama eva kṛtsnāt api jīva-lokāt.. 53..
नरैरिवोल्काभिरपोह्यमानो महागजो ध्वान्तमभिप्रविष्टः।भूयः प्रजज्वाल विलापमेवं निशम्य रामः करुणं जनन्याः॥ ५४॥
नरैः इव उल्काभिः अपोह्यमानः महा-गजः ध्वान्तम् अभिप्रविष्टः।भूयस् प्रजज्वाल विलापम् एवम् निशम्य रामः करुणम् जनन्याः॥ ५४॥
naraiḥ iva ulkābhiḥ apohyamānaḥ mahā-gajaḥ dhvāntam abhipraviṣṭaḥ.bhūyas prajajvāla vilāpam evam niśamya rāmaḥ karuṇam jananyāḥ.. 54..
स मातरं चैव विसंज्ञकल्पा- मार्तं च सौमित्रिमभिप्रतप्तम्।धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम्॥ ५५॥
स मातरम् च एव विसंज्ञ-कल्पा मार्तम् च सौमित्रिम् अभिप्रतप्तम्।धर्मे स्थितः धर्म्यम् उवाच वाक्यम् यथा सः एव अर्हति तत्र वक्तुम्॥ ५५॥
sa mātaram ca eva visaṃjña-kalpā mārtam ca saumitrim abhiprataptam.dharme sthitaḥ dharmyam uvāca vākyam yathā saḥ eva arhati tatra vaktum.. 55..
अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च।मम त्वभिप्रायमसंनिरीक्ष्य मात्रा सहाभ्यर्दसि मा सुदुःखम्॥ ५६॥
अहम् हि ते लक्ष्मण नित्यम् एव जानामि भक्तिम् च पराक्रमम् च।मम तु अभिप्रायम् अ संनिरीक्ष्य मात्रा सह अभ्यर्दसि मा सु दुःखम्॥ ५६॥
aham hi te lakṣmaṇa nityam eva jānāmi bhaktim ca parākramam ca.mama tu abhiprāyam a saṃnirīkṣya mātrā saha abhyardasi mā su duḥkham.. 56..
धर्मार्थकामाः खलु जीवलोके समीक्षिता धर्मफलोदयेषु।ये तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सपुत्रा॥ ५७॥
धर्म-अर्थ-कामाः खलु जीव-लोके समीक्षिताः धर्म-फल-उदयेषु।ये तत्र सर्वे स्युः असंशयम् मे भार्या इव वश्य-अभिमता स पुत्रा॥ ५७॥
dharma-artha-kāmāḥ khalu jīva-loke samīkṣitāḥ dharma-phala-udayeṣu.ye tatra sarve syuḥ asaṃśayam me bhāryā iva vaśya-abhimatā sa putrā.. 57..
यस्मिंस्तु सर्वे स्युरसंनिविष्टा धर्मो यतः स्यात् तदुपक्रमेत।द्वेष्यो भवत्यर्थपरो हि लोके कामात्मता खल्वपि न प्रशस्ता॥ ५८॥
यस्मिन् तु सर्वे स्युः असंनिविष्टाः धर्मः यतस् स्यात् तत् उपक्रमेत।द्वेष्यः भवति अर्थ-परः हि लोके काम-आत्म-ता खलु अपि न प्रशस्ता॥ ५८॥
yasmin tu sarve syuḥ asaṃniviṣṭāḥ dharmaḥ yatas syāt tat upakrameta.dveṣyaḥ bhavati artha-paraḥ hi loke kāma-ātma-tā khalu api na praśastā.. 58..
गुरुश्च राजा च पिता च वृद्धः क्रोधात् प्रहर्षादथवापि कामात्।यद् व्यादिशेत् कार्यमवेक्ष्य धर्मं कस्तं न कुर्यादनृशंसवृत्तिः॥ ५९॥
गुरुः च राजा च पिता च वृद्धः क्रोधात् प्रहर्षात् अथवा अपि कामात्।यत् व्यादिशेत् कार्यम् अवेक्ष्य धर्मम् कः तम् न कुर्यात् अ नृशंस-वृत्तिः॥ ५९॥
guruḥ ca rājā ca pitā ca vṛddhaḥ krodhāt praharṣāt athavā api kāmāt.yat vyādiśet kāryam avekṣya dharmam kaḥ tam na kuryāt a nṛśaṃsa-vṛttiḥ.. 59..
न तेन शक्नोमि पितुः प्रतिज्ञा- मिमां न कर्तुं सकलां यथावत्।स ह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिश्च धर्मः॥ ६०॥
न तेन शक्नोमि पितुः प्रतिज्ञाम् इमाम् न कर्तुम् सकलाम् यथावत्।स हि आवयोः तात गुरुः नियोगे देव्याः च भर्ता स गतिः च धर्मः॥ ६०॥
na tena śaknomi pituḥ pratijñām imām na kartum sakalām yathāvat.sa hi āvayoḥ tāta guruḥ niyoge devyāḥ ca bhartā sa gatiḥ ca dharmaḥ.. 60..
तस्मिन् पुनर्जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने।देवी मया सार्धमितोऽभिगच्छेत् कथंस्विदन्या विधवेव नारी॥ ६१॥
तस्मिन् पुनर् जीवति धर्मराजे विशेषतः स्वे पथि वर्तमाने।देवी मया सार्धम् इतस् अभिगच्छेत् कथम् स्विद् अन्या विधवा इव नारी॥ ६१॥
tasmin punar jīvati dharmarāje viśeṣataḥ sve pathi vartamāne.devī mayā sārdham itas abhigacchet katham svid anyā vidhavā iva nārī.. 61..
सा मानुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि।यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः॥ ६२॥
सा मा अनुमन्यस्व वनम् व्रजन्तम् कुरुष्व नः स्वस्त्ययनानि देवि।यथा समाप्ते पुनर् आव्रजेयम् यथा हि सत्येन पुनर् ययातिः॥ ६२॥
sā mā anumanyasva vanam vrajantam kuruṣva naḥ svastyayanāni devi.yathā samāpte punar āvrajeyam yathā hi satyena punar yayātiḥ.. 62..
यशो ह्यहं केवलराज्यकारणा- न्न पृष्ठतः कर्तुमलं महोदयम्।अदीर्घकालेन तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः॥ ६३॥
यशः हि अहम् केवल-राज्य-कारणात् न पृष्ठतस् कर्तुम् अलम् महा-उदयम्।अदीर्घ-कालेन तु देवि जीविते वृणे अवराम् अद्य महीम् अधर्मतः॥ ६३॥
yaśaḥ hi aham kevala-rājya-kāraṇāt na pṛṣṭhatas kartum alam mahā-udayam.adīrgha-kālena tu devi jīvite vṛṇe avarām adya mahīm adharmataḥ.. 63..
प्रसादयन्नरवृषभः स मातरं पराक्रमाज्जिगमिषुरेव दण्डकान्।अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम्॥ ६४॥
प्रसादयन् नर-वृषभः स मातरम् पराक्रमात् जिगमिषुः एव दण्डकान्।अथ अनुजम् भृशम् अनुशास्य दर्शनम् चकार ताम् हृदि जननीम् प्रदक्षिणम्॥ ६४॥
prasādayan nara-vṛṣabhaḥ sa mātaram parākramāt jigamiṣuḥ eva daṇḍakān.atha anujam bhṛśam anuśāsya darśanam cakāra tām hṛdi jananīm pradakṣiṇam.. 64..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे एकविंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ekaviṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In