This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकोनत्रिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekonatriṃśaḥ sargaḥ ..2..
एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता।प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्॥ १॥
एतत् तु वचनम् श्रुत्वा सीता रामस्य दुःखिता।प्रसक्त-अश्रु-मुखी मन्दम् इदम् वचनम् अब्रवीत्॥ १॥
etat tu vacanam śrutvā sītā rāmasya duḥkhitā.prasakta-aśru-mukhī mandam idam vacanam abravīt.. 1..
ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता॥ २॥
ये त्वया कीर्तिताः दोषाः वने वस्तव्य-ताम् प्रति।गुणान् इति एव तान् विद्धि तव स्नेह-पुरस्कृता॥ २॥
ye tvayā kīrtitāḥ doṣāḥ vane vastavya-tām prati.guṇān iti eva tān viddhi tava sneha-puraskṛtā.. 2..
मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा।चमराः सृमराश्चैव ये चान्ये वनचारिणः॥ ३॥
मृगाः सिंहाः गजाः च एव शार्दूलाः शरभाः तथा।चमराः सृमराः च एव ये च अन्ये वन-चारिणः॥ ३॥
mṛgāḥ siṃhāḥ gajāḥ ca eva śārdūlāḥ śarabhāḥ tathā.camarāḥ sṛmarāḥ ca eva ye ca anye vana-cāriṇaḥ.. 3..
अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव।रूपं दृष्ट्वापसर्पेयुस्तव सर्वे हि बिभ्यति॥ ४॥
अ दृष्ट-पूर्व-रूप-त्वात् सर्वे ते तव राघव।रूपम् दृष्ट्वा अपसर्पेयुः तव सर्वे हि बिभ्यति॥ ४॥
a dṛṣṭa-pūrva-rūpa-tvāt sarve te tava rāghava.rūpam dṛṣṭvā apasarpeyuḥ tava sarve hi bibhyati.. 4..
त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्॥ ५॥
त्वया च सह गन्तव्यम् मया गुरु-जन-आज्ञया।त्वद्-वियोगेन मे राम त्यक्तव्यम् इह जीवितम्॥ ५॥
tvayā ca saha gantavyam mayā guru-jana-ājñayā.tvad-viyogena me rāma tyaktavyam iha jīvitam.. 5..
नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव।सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा॥ ६॥
नहि माम् त्वद्-समीप-स्थाम् अपि शक्रः अपि राघव।सुराणाम् ईश्वरः शक्तः प्रधर्षयितुम् ओजसा॥ ६॥
nahi mām tvad-samīpa-sthām api śakraḥ api rāghava.surāṇām īśvaraḥ śaktaḥ pradharṣayitum ojasā.. 6..
पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्।काममेवंविधं राम त्वया मम निदर्शितम्॥ ७॥
पति-हीना तु या नारी न सा शक्ष्यति जीवितुम्।कामम् एवंविधम् राम त्वया मम निदर्शितम्॥ ७॥
pati-hīnā tu yā nārī na sā śakṣyati jīvitum.kāmam evaṃvidham rāma tvayā mama nidarśitam.. 7..
अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम्।पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने॥ ८॥
अथ अपि च महा-प्राज्ञ ब्राह्मणानाम् मया श्रुतम्।पुरा पितृ-गृहे सत्यम् वस्तव्यम् किल मे वने॥ ८॥
atha api ca mahā-prājña brāhmaṇānām mayā śrutam.purā pitṛ-gṛhe satyam vastavyam kila me vane.. 8..
लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे।वनवासकृतोत्साहा नित्यमेव महाबल॥ ९॥
लक्षणिभ्यः द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे।वन-वास-कृत-उत्साहाः नित्यम् एव महा-बल॥ ९॥
lakṣaṇibhyaḥ dvijātibhyaḥ śrutvā aham vacanam gṛhe.vana-vāsa-kṛta-utsāhāḥ nityam eva mahā-bala.. 9..
आदेशो वनवासस्य प्राप्तव्यः स मया किल।सा त्वया सह भर्त्राहं यास्यामि प्रिय नान्यथा॥ १०॥
आदेशः वन-वासस्य प्राप्तव्यः स मया किल।सा त्वया सह भर्त्रा अहम् यास्यामि प्रिय ना अन्यथा॥ १०॥
ādeśaḥ vana-vāsasya prāptavyaḥ sa mayā kila.sā tvayā saha bhartrā aham yāsyāmi priya nā anyathā.. 10..
कृतादेशा भविष्यामि गमिष्यामि त्वया सह।कालश्चायं समुत्पन्नः सत्यवान् भवतु द्विजः॥ ११॥
कृत-आदेशा भविष्यामि गमिष्यामि त्वया सह।कालः च अयम् समुत्पन्नः सत्यवान् भवतु द्विजः॥ ११॥
kṛta-ādeśā bhaviṣyāmi gamiṣyāmi tvayā saha.kālaḥ ca ayam samutpannaḥ satyavān bhavatu dvijaḥ.. 11..
वनवासे हि जानामि दुःखानि बहुधा किल।प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः॥ १२॥
वन-वासे हि जानामि दुःखानि बहुधा किल।प्राप्यन्ते नियतम् वीर पुरुषैः अकृतात्मभिः॥ १२॥
vana-vāse hi jānāmi duḥkhāni bahudhā kila.prāpyante niyatam vīra puruṣaiḥ akṛtātmabhiḥ.. 12..
कन्यया च पितुर्गेहे वनवासः श्रुतो मया।भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः॥ १३॥
कन्यया च पितुः गेहे वन-वासः श्रुतः मया।भिक्षिण्याः शम-वृत्तायाः मम मातुः इह अग्रतस्॥ १३॥
kanyayā ca pituḥ gehe vana-vāsaḥ śrutaḥ mayā.bhikṣiṇyāḥ śama-vṛttāyāḥ mama mātuḥ iha agratas.. 13..
प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो।गमनं वनवासस्य कांक्षितं हि सह त्वया॥ १४॥
प्रसादितः च वै पूर्वम् त्वम् मे बहुतिथम् प्रभो।गमनम् वन-वासस्य कांक्षितम् हि सह त्वया॥ १४॥
prasāditaḥ ca vai pūrvam tvam me bahutitham prabho.gamanam vana-vāsasya kāṃkṣitam hi saha tvayā.. 14..
कृतक्षणाहं भद्रं ते गमनं प्रति राघव।वनवासस्य शूरस्य मम चर्या हि रोचते॥ १५॥
कृतक्षणा अहम् भद्रम् ते गमनम् प्रति राघव।वन-वासस्य शूरस्य मम चर्या हि रोचते॥ १५॥
kṛtakṣaṇā aham bhadram te gamanam prati rāghava.vana-vāsasya śūrasya mama caryā hi rocate.. 15..
शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा।भर्तारमनुगच्छन्ती भर्ता हि परदैवतम्॥ १६॥
शुद्ध-आत्मन् प्रेम-भावात् हि भविष्यामि विकल्मषा।भर्तारम् अनुगच्छन्ती भर्ता हि पर-दैवतम्॥ १६॥
śuddha-ātman prema-bhāvāt hi bhaviṣyāmi vikalmaṣā.bhartāram anugacchantī bhartā hi para-daivatam.. 16..
प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया।श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्॥ १७॥
प्रेत्यभावे हि कल्याणः संगमः मे सदा त्वया।श्रुतिः हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम्॥ १७॥
pretyabhāve hi kalyāṇaḥ saṃgamaḥ me sadā tvayā.śrutiḥ hi śrūyate puṇyā brāhmaṇānām yaśasvinām.. 17..
इहलोके च पितृभिर्या स्त्री यस्य महाबल।अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा॥ १८॥
इहलोके च पितृभिः या स्त्री यस्य महा-बल।अद्भिः दत्ता स्वधर्मेण प्रेत्यभावे अपि तस्य सा॥ १८॥
ihaloke ca pitṛbhiḥ yā strī yasya mahā-bala.adbhiḥ dattā svadharmeṇa pretyabhāve api tasya sā.. 18..
एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्।नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ १९॥
एवम् अस्मात् स्वकाम् नारीम् सु वृत्ताम् हि पतिव्रताम्।न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना॥ १९॥
evam asmāt svakām nārīm su vṛttām hi pativratām.na abhirocayase netum tvam mām kena iha hetunā.. 19..
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्॥ २०॥
भक्ताम् पतिव्रताम् दीनाम् माम् समाम् सुख-दुःखयोः।नेतुम् अर्हसि काकुत्स्थ समान-सुख-दुःखिनीम्॥ २०॥
bhaktām pativratām dīnām mām samām sukha-duḥkhayoḥ.netum arhasi kākutstha samāna-sukha-duḥkhinīm.. 20..
यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्॥ २१॥
यदि माम् दुःखिताम् एवम् वनम् नेतुम् न च इच्छसि।विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु-कारणात्॥ २१॥
yadi mām duḥkhitām evam vanam netum na ca icchasi.viṣam agnim jalam vā aham āsthāsye mṛtyu-kāraṇāt.. 21..
एवं बहुविधं तं सा याचते गमनं प्रति।नानुमेने महाबाहुस्तां नेतुं विजनं वनम्॥ २२॥
एवम् बहुविधम् तम् सा याचते गमनम् प्रति।न अनुमेने महा-बाहुः ताम् नेतुम् विजनम् वनम्॥ २२॥
evam bahuvidham tam sā yācate gamanam prati.na anumene mahā-bāhuḥ tām netum vijanam vanam.. 22..
एवमुक्ता तु सा चिन्तां मैथिली समुपागता।स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः॥ २३॥
एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता।स्नापयन्ती इव गाम् उष्णैः अश्रुभिः नयन-च्युतैः॥ २३॥
evam uktā tu sā cintām maithilī samupāgatā.snāpayantī iva gām uṣṇaiḥ aśrubhiḥ nayana-cyutaiḥ.. 23..
चिन्तयन्तीं तदा तां तु निवर्तयितुमात्मवान्।क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्॥ २४॥
चिन्तयन्तीम् तदा ताम् तु निवर्तयितुम् आत्मवान्।क्रोध-आविष्टाम् तु वैदेहीम् काकुत्स्थः बहु असान्त्वयत्॥ २४॥
cintayantīm tadā tām tu nivartayitum ātmavān.krodha-āviṣṭām tu vaidehīm kākutsthaḥ bahu asāntvayat.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे एकोनत्रिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ekonatriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In