This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकोनचत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekonacatvāriṃśaḥ sargaḥ ..2..
रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्।समीक्ष्य सह भार्याभी राजा विगतचेतनः॥ १॥
रामस्य तु वचः श्रुत्वा मुनि-वेष-धरम् च तम्।समीक्ष्य सह भार्याभिः राजा विगत-चेतनः॥ १॥
rāmasya tu vacaḥ śrutvā muni-veṣa-dharam ca tam.samīkṣya saha bhāryābhiḥ rājā vigata-cetanaḥ.. 1..
नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्।न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः॥ २॥
न एनम् दुःखेन संतप्तः प्रत्यवैक्षत राघवम्।न च एनम् अभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः॥ २॥
na enam duḥkhena saṃtaptaḥ pratyavaikṣata rāghavam.na ca enam abhisamprekṣya pratyabhāṣata durmanāḥ.. 2..
स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः।विललाप महाबाहू राममेवानुचिन्तयन्॥ ३॥
स मुहूर्तम् इव असंज्ञः दुःखितः च महीपतिः।विललाप महा-बाहुः रामम् एव अनुचिन्तयन्॥ ३॥
sa muhūrtam iva asaṃjñaḥ duḥkhitaḥ ca mahīpatiḥ.vilalāpa mahā-bāhuḥ rāmam eva anucintayan.. 3..
मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः।प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम्॥ ४॥
मन्ये खलु मया पूर्वम् विवत्साः बहवः कृताः।प्राणिनः हिंसिताः वा अपि तत् माम् इदम् उपस्थितम्॥ ४॥
manye khalu mayā pūrvam vivatsāḥ bahavaḥ kṛtāḥ.prāṇinaḥ hiṃsitāḥ vā api tat mām idam upasthitam.. 4..
न त्वेवानागते काले देहाच्च्यवति जीवितम्।कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते॥ ५॥
न तु एव अनागते काले देहात् च्यवति जीवितम्।कैकेय्या क्लिश्यमानस्य मृत्युः मम न विद्यते॥ ५॥
na tu eva anāgate kāle dehāt cyavati jīvitam.kaikeyyā kliśyamānasya mṛtyuḥ mama na vidyate.. 5..
योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्।विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्॥ ६॥
यः अहम् पावक-संकाशम् पश्यामि पुरतस् स्थितम्।विहाय वसने सूक्ष्मे तापस-आच्छादम् आत्मजम्॥ ६॥
yaḥ aham pāvaka-saṃkāśam paśyāmi puratas sthitam.vihāya vasane sūkṣme tāpasa-ācchādam ātmajam.. 6..
एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः।स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्॥ ७॥
एकस्याः खलु कैकेय्याः कृते अयम् खिद्यते जनः।स्व-अर्थे प्रयतमानायाः संश्रित्य निकृतिम् तु इमाम्॥ ७॥
ekasyāḥ khalu kaikeyyāḥ kṛte ayam khidyate janaḥ.sva-arthe prayatamānāyāḥ saṃśritya nikṛtim tu imām.. 7..
एवमुक्त्वा तु वचनं बाष्पेण विहतेन्द्रियः।रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः॥ ८॥
एवम् उक्त्वा तु वचनम् बाष्पेण विहत-इन्द्रियः।राम इति सकृत् एव उक्त्वा व्याहर्तुम् न शशाक सः॥ ८॥
evam uktvā tu vacanam bāṣpeṇa vihata-indriyaḥ.rāma iti sakṛt eva uktvā vyāhartum na śaśāka saḥ.. 8..
संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः।नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्॥ ९॥
संज्ञाम् तु प्रतिलभ्य एव मुहूर्तात् स महीपतिः।नेत्राभ्याम् अश्रु-पूर्णाभ्याम् सुमन्त्रम् इदम् अब्रवीत्॥ ९॥
saṃjñām tu pratilabhya eva muhūrtāt sa mahīpatiḥ.netrābhyām aśru-pūrṇābhyām sumantram idam abravīt.. 9..
औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः।प्रापयैनं महाभागमितो जनपदात् परम्॥ १०॥
औपवाह्यम् रथम् युक्त्वा त्वम् आयाहि हय-उत्तमैः।प्रापय एनम् महाभागम् इतस् जनपदात् परम्॥ १०॥
aupavāhyam ratham yuktvā tvam āyāhi haya-uttamaiḥ.prāpaya enam mahābhāgam itas janapadāt param.. 10..
एवं मन्ये गुणवतां गुणानां फलमुच्यते।पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्॥ ११॥
एवम् मन्ये गुणवताम् गुणानाम् फलम् उच्यते।पित्रा मात्रा च यत् साधुः वीरः निर्वास्यते वनम्॥ ११॥
evam manye guṇavatām guṇānām phalam ucyate.pitrā mātrā ca yat sādhuḥ vīraḥ nirvāsyate vanam.. 11..
राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः।योजयित्वा ययौ तत्र रथमश्वैरलंकृतम्॥ १२॥
राज्ञः वचनम् आज्ञाय सुमन्त्रः शीघ्र-विक्रमः।योजयित्वा ययौ तत्र रथम् अश्वैः अलंकृतम्॥ १२॥
rājñaḥ vacanam ājñāya sumantraḥ śīghra-vikramaḥ.yojayitvā yayau tatra ratham aśvaiḥ alaṃkṛtam.. 12..
तं रथं राजपुत्राय सूतः कनकभूषितम्।आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः॥ १३॥
तम् रथम् राज-पुत्राय सूतः कनक-भूषितम्।आचचक्षे अञ्जलिम् कृत्वा युक्तम् परम-वाजिभिः॥ १३॥
tam ratham rāja-putrāya sūtaḥ kanaka-bhūṣitam.ācacakṣe añjalim kṛtvā yuktam parama-vājibhiḥ.. 13..
राजा सत्वरमाहूय व्यापृतं वित्तसंचये।उवाच देशकालज्ञो निश्चितं सर्वतः शुचिः॥ १४॥
राजा स त्वरम् आहूय व्यापृतम् वित्त-संचये।उवाच देश-काल-ज्ञः निश्चितम् सर्वतस् शुचिः॥ १४॥
rājā sa tvaram āhūya vyāpṛtam vitta-saṃcaye.uvāca deśa-kāla-jñaḥ niścitam sarvatas śuciḥ.. 14..
वासांसि च वरार्हाणि भूषणानि महान्ति च।वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय॥ १५॥
वासांसि च वर-अर्हाणि भूषणानि महान्ति च।वर्षाणि एतानि संख्याय वैदेह्याः क्षिप्रम् आनय॥ १५॥
vāsāṃsi ca vara-arhāṇi bhūṣaṇāni mahānti ca.varṣāṇi etāni saṃkhyāya vaidehyāḥ kṣipram ānaya.. 15..
नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः।प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत्॥ १६॥
नरेन्द्रेण एवम् उक्तः तु गत्वा कोशगृहम् ततस्।प्रायच्छत् सर्वम् आहृत्य सीतायै क्षिप्रम् एव तत्॥ १६॥
narendreṇa evam uktaḥ tu gatvā kośagṛham tatas.prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat.. 16..
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्।भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः॥ १७॥
सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्।भूषयामास गात्राणि तैः विचित्रैः विभूषणैः॥ १७॥
sā sujātā sujātāni vaidehī prasthitā vanam.bhūṣayāmāsa gātrāṇi taiḥ vicitraiḥ vibhūṣaṇaiḥ.. 17..
व्यराजयत वैदेही वेश्म तत् सुविभूषिता।उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः॥ १८॥
व्यराजयत वैदेही वेश्म तत् सु विभूषिता।उद्यत-उंऽशुमतः काले खम् प्रभा इव विवस्वतः॥ १८॥
vyarājayata vaidehī veśma tat su vibhūṣitā.udyata-uṃ'śumataḥ kāle kham prabhā iva vivasvataḥ.. 18..
तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्।अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम्॥ १९॥
ताम् भुजाभ्याम् परिष्वज्य श्वश्रूः वचनम् अब्रवीत्।अन् आचरन्तीम् कृपणम् मूर्ध्नि उपाघ्राय मैथिलीम्॥ १९॥
tām bhujābhyām pariṣvajya śvaśrūḥ vacanam abravīt.an ācarantīm kṛpaṇam mūrdhni upāghrāya maithilīm.. 19..
असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः।भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः॥ २०॥
असत्यः सर्व-लोके अस्मिन् सततम् सत्कृताः प्रियैः।भर्तारम् न अनुमन्यन्ते विनिपात-गतम् स्त्रियः॥ २०॥
asatyaḥ sarva-loke asmin satatam satkṛtāḥ priyaiḥ.bhartāram na anumanyante vinipāta-gatam striyaḥ.. 20..
एष स्वभावो नारीणामनुभूय पुरा सुखम्।अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि॥ २१॥
एष स्वभावः नारीणाम् अनुभूय पुरा सुखम्।अल्पाम् अपि आपदम् प्राप्य दुष्यन्ति प्रजहति अपि॥ २१॥
eṣa svabhāvaḥ nārīṇām anubhūya purā sukham.alpām api āpadam prāpya duṣyanti prajahati api.. 21..
असत्यशीला विकृता दुर्गा अहृदयाः सदा।असत्यः पापसंकल्पाः क्षणमात्रविरागिणः॥ २२॥
असत्य-शीलाः विकृताः दुर्गाः अहृदयाः सदा।असत्यः पाप-संकल्पाः क्षण-मात्र-विरागिणः॥ २२॥
asatya-śīlāḥ vikṛtāḥ durgāḥ ahṛdayāḥ sadā.asatyaḥ pāpa-saṃkalpāḥ kṣaṇa-mātra-virāgiṇaḥ.. 22..
न कुलं न कृतं विद्या न दत्तं नापि संग्रहः।स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः॥ २३॥
न कुलम् न कृतम् विद्या न दत्तम् न अपि संग्रहः।स्त्रीणाम् गृह्णाति हृदयम् अनित्य-हृदयाः हि ताः॥ २३॥
na kulam na kṛtam vidyā na dattam na api saṃgrahaḥ.strīṇām gṛhṇāti hṛdayam anitya-hṛdayāḥ hi tāḥ.. 23..
साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते।स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते॥ २४॥
साध्वीनाम् तु स्थितानाम् तु शीले सत्ये श्रुते स्थिते।स्त्रीणाम् पवित्रम् परमम् पतिः एकः विशिष्यते॥ २४॥
sādhvīnām tu sthitānām tu śīle satye śrute sthite.strīṇām pavitram paramam patiḥ ekaḥ viśiṣyate.. 24..
स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो वनम्।तव देवसमस्त्वेष निर्धनः सधनोऽपि वा॥ २५॥
स त्वया न अवमन्तव्यः पुत्रः प्रव्राजितः वनम्।तव देव-समः तु एष निर्धनः स धनः अपि वा॥ २५॥
sa tvayā na avamantavyaḥ putraḥ pravrājitaḥ vanam.tava deva-samaḥ tu eṣa nirdhanaḥ sa dhanaḥ api vā.. 25..
विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्।कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता॥ २६॥
विज्ञाय वचनम् सीता तस्याः धर्म-अर्थ-संहितम्।कृत्वा अञ्जलिम् उवाच इदम् श्वश्रूम् अभिमुखे स्थिता॥ २६॥
vijñāya vacanam sītā tasyāḥ dharma-artha-saṃhitam.kṛtvā añjalim uvāca idam śvaśrūm abhimukhe sthitā.. 26..
करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्।अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे॥ २७॥
करिष्ये सर्वम् एव अहम् आर्या यत् अनुशास्ति माम्।अभिज्ञा अस्मि यथा भर्तुः वर्तितव्यम् श्रुतम् च मे॥ २७॥
kariṣye sarvam eva aham āryā yat anuśāsti mām.abhijñā asmi yathā bhartuḥ vartitavyam śrutam ca me.. 27..
न मामसज्जनेनार्या समानयितुमर्हति।धर्माद् विचलितुं नाहमलं चन्द्रादिव प्रभा॥ २८॥
न माम् असत्-जनेन आर्या समानयितुम् अर्हति।धर्मात् विचलितुम् न अहम् अलम् चन्द्रात् इव प्रभा॥ २८॥
na mām asat-janena āryā samānayitum arhati.dharmāt vicalitum na aham alam candrāt iva prabhā.. 28..
नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः।नापतिः सुखमेधेत या स्यादपि शतात्मजा॥ २९॥
न अ तन्त्री वाद्यते वीणा न अ चक्रः विद्यते रथः।नापतिः सुखम् एधेत या स्यात् अपि शत-आत्मजा॥ २९॥
na a tantrī vādyate vīṇā na a cakraḥ vidyate rathaḥ.nāpatiḥ sukham edheta yā syāt api śata-ātmajā.. 29..
मितं ददाति हि पिता मितं भ्राता मितं सुतः।अमितस्य तु दातारं भर्तारं का न पूजयेत्॥ ३०॥
मितम् ददाति हि पिता मितम् भ्राता मितम् सुतः।अमितस्य तु दातारम् भर्तारम् का न पूजयेत्॥ ३०॥
mitam dadāti hi pitā mitam bhrātā mitam sutaḥ.amitasya tu dātāram bhartāram kā na pūjayet.. 30..
साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा।आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम्॥ ३१॥
सा अहम् एवंगता श्रेष्ठा श्रुत-धर्म-परावरा।आर्ये किम् अवमन्येयम् स्त्रियाः भर्ता हि दैवतम्॥ ३१॥
sā aham evaṃgatā śreṣṭhā śruta-dharma-parāvarā.ārye kim avamanyeyam striyāḥ bhartā hi daivatam.. 31..
सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्।शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्॥ ३२॥
सीतायाः वचनम् श्रुत्वा कौसल्या हृदयङ्गमम्।शुद्ध-सत्त्वा मुमोच अश्रु सहसा दुःख-हर्ष-जम्॥ ३२॥
sītāyāḥ vacanam śrutvā kausalyā hṛdayaṅgamam.śuddha-sattvā mumoca aśru sahasā duḥkha-harṣa-jam.. 32..
तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम्।रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्॥ ३३॥
ताम् प्राञ्जलिः अभिप्रेक्ष्य मातृ-मध्ये अति सत्कृताम्।रामः परम-धर्म-आत्मा मातरम् वाक्यम् अब्रवीत्॥ ३३॥
tām prāñjaliḥ abhiprekṣya mātṛ-madhye ati satkṛtām.rāmaḥ parama-dharma-ātmā mātaram vākyam abravīt.. 33..
अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम।क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति॥ ३४॥
अम्ब मा दुःखिता भूत्वा पश्येः त्वम् पितरम् मम।क्षयः अपि वन-वासस्य क्षिप्रम् एव भविष्यति॥ ३४॥
amba mā duḥkhitā bhūtvā paśyeḥ tvam pitaram mama.kṣayaḥ api vana-vāsasya kṣipram eva bhaviṣyati.. 34..
सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च।समग्रमिह सम्प्राप्तं मां द्रक्ष्यसि सुहृद्वृतम्॥ ३५॥
सुप्तायाः ते गमिष्यन्ति नव वर्षाणि पञ्च च।समग्रम् इह सम्प्राप्तम् माम् द्रक्ष्यसि सुहृद्-वृतम्॥ ३५॥
suptāyāḥ te gamiṣyanti nava varṣāṇi pañca ca.samagram iha samprāptam mām drakṣyasi suhṛd-vṛtam.. 35..
एतावदभिनीतार्थमुक्त्वा स जननीं वचः।त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः॥ ३६॥
एतावत् अभिनीत-अर्थम् उक्त्वा स जननीम् वचः।त्रयः शत-शत-अर्धाः हि ददर्श अवेक्ष्य मातरः॥ ३६॥
etāvat abhinīta-artham uktvā sa jananīm vacaḥ.trayaḥ śata-śata-ardhāḥ hi dadarśa avekṣya mātaraḥ.. 36..
ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः।धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः॥ ३७॥
ताः च अपि स तथा एव आर्ताः मातॄः दशरथ-आत्मजः।धर्म-युक्तम् इदम् वाक्यम् निजगाद कृताञ्जलिः॥ ३७॥
tāḥ ca api sa tathā eva ārtāḥ mātṝḥ daśaratha-ātmajaḥ.dharma-yuktam idam vākyam nijagāda kṛtāñjaliḥ.. 37..
संवासात् परुषं किंचिदज्ञानादपि यत् कृतम्।तन्मे समुपजानीत सर्वाश्चामन्त्रयामि वः॥ ३८॥
संवासात् परुषम् किंचिद् अज्ञानात् अपि यत् कृतम्।तत् मे समुपजानीत सर्वाः च आमन्त्रयामि वः॥ ३८॥
saṃvāsāt paruṣam kiṃcid ajñānāt api yat kṛtam.tat me samupajānīta sarvāḥ ca āmantrayāmi vaḥ.. 38..
वचनं राघवस्यैतद् धर्मयुक्तं समाहितम्।शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः॥ ३९॥
वचनम् राघवस्य एतत् धर्म-युक्तम् समाहितम्।शुश्रुवुः ताः स्त्रियः सर्वाः शोक-उपहत-चेतसः॥ ३९॥
vacanam rāghavasya etat dharma-yuktam samāhitam.śuśruvuḥ tāḥ striyaḥ sarvāḥ śoka-upahata-cetasaḥ.. 39..
जज्ञोऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः।मानवेन्द्रस्य भार्याणामेवं वदति राघवे॥ ४०॥
जज्ञः अथ तासाम् संनादः क्रौञ्चीनाम् इव निःस्वनः।मानवेन्द्रस्य भार्याणाम् एवम् वदति राघवे॥ ४०॥
jajñaḥ atha tāsām saṃnādaḥ krauñcīnām iva niḥsvanaḥ.mānavendrasya bhāryāṇām evam vadati rāghave.. 40..
मुरजपणवमेघघोषवद् दशरथवेश्म बभूव यत् पुरा।विलपितपरिदेवनाकुलं व्यसनगतं तदभूत् सुदुःखितम्॥ ४१॥
मुरज-पणव-मेघ-घोषवत् दशरथ-वेश्म बभूव यत् पुरा।विलपित-परिदेवना-आकुलम् व्यसन-गतम् तत् अभूत् सु दुःखितम्॥ ४१॥
muraja-paṇava-megha-ghoṣavat daśaratha-veśma babhūva yat purā.vilapita-paridevanā-ākulam vyasana-gatam tat abhūt su duḥkhitam.. 41..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे एकोनचत्वारिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe ekonacatvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In