This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे चतुश्चत्वारिंशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe catuścatvāriṃśaḥ sargaḥ ..2..
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्।इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्॥ १॥
विलपन्तीम् तथा ताम् तु कौसल्याम् प्रमदा-उत्तमाम्।इदम् धर्मे स्थिता धर्म्यम् सुमित्रा वाक्यम् अब्रवीत्॥ १॥
vilapantīm tathā tām tu kausalyām pramadā-uttamām.idam dharme sthitā dharmyam sumitrā vākyam abravīt.. 1..
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः।किं ते विलपितेनैवं कृपणं रुदितेन वा॥ २॥
तव आर्ये सत्-गुणैः युक्तः स पुत्रः पुरुष-उत्तमः।किम् ते विलपितेन एवम् कृपणम् रुदितेन वा॥ २॥
tava ārye sat-guṇaiḥ yuktaḥ sa putraḥ puruṣa-uttamaḥ.kim te vilapitena evam kṛpaṇam ruditena vā.. 2..
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः।साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्॥ ३॥
यः तव आर्ये गतः पुत्रः त्यक्त्वा राज्यम् महा-बलः।साधु कुर्वन् महात्मानम् पितरम् सत्य-वादिनम्॥ ३॥
yaḥ tava ārye gataḥ putraḥ tyaktvā rājyam mahā-balaḥ.sādhu kurvan mahātmānam pitaram satya-vādinam.. 3..
शिष्टैराचरिते सम्यक्शश्वत् प्रेत्य फलोदये।रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन॥ ४॥
शिष्टैः आचरिते सम्यक् शश्वत् प्रेत्य फल-उदये।रामः धर्मे स्थितः श्रेष्ठः न स शोच्यः कदाचन॥ ४॥
śiṣṭaiḥ ācarite samyak śaśvat pretya phala-udaye.rāmaḥ dharme sthitaḥ śreṣṭhaḥ na sa śocyaḥ kadācana.. 4..
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः।दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः॥ ५॥
वर्तते च उत्तमाम् वृत्तिम् लक्ष्मणः अस्मिन् सदा अनघः।दयावान् सर्व-भूतेषु लाभः तस्य महात्मनः॥ ५॥
vartate ca uttamām vṛttim lakṣmaṇaḥ asmin sadā anaghaḥ.dayāvān sarva-bhūteṣu lābhaḥ tasya mahātmanaḥ.. 5..
अरण्यवासे यद् दुःखं जानन्त्येव सुखोचिता।अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्॥ ६॥
अरण्य-वासे यत् दुःखम् जानन्ती एव सुख-उचिता।अनुगच्छति वैदेही धर्म-आत्मानम् तव आत्मजम्॥ ६॥
araṇya-vāse yat duḥkham jānantī eva sukha-ucitā.anugacchati vaidehī dharma-ātmānam tava ātmajam.. 6..
कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः।धर्मः सत्यव्रतपरः किं न प्राप्तस्तवात्मजः॥ ७॥
कीर्ति-भूताम् पताकाम् यः लोके भ्रमयति प्रभुः।धर्मः सत्य-व्रत-परः किम् न प्राप्तः तव आत्मजः॥ ७॥
kīrti-bhūtām patākām yaḥ loke bhramayati prabhuḥ.dharmaḥ satya-vrata-paraḥ kim na prāptaḥ tava ātmajaḥ.. 7..
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्।न गात्रमंशुभिः सूर्यः संतापयितुमर्हति॥ ८॥
व्यक्तम् रामस्य विज्ञाय शौचम् माहात्म्यम् उत्तमम्।न गात्रम् अंशुभिः सूर्यः संतापयितुम् अर्हति॥ ८॥
vyaktam rāmasya vijñāya śaucam māhātmyam uttamam.na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati.. 8..
शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः।राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः॥ ९॥
शिवः सर्वेषु कालेषु काननेभ्यः विनिःसृतः।राघवम् युक्त-शीत-उष्णः सेविष्यति सुखः अनिलः॥ ९॥
śivaḥ sarveṣu kāleṣu kānanebhyaḥ viniḥsṛtaḥ.rāghavam yukta-śīta-uṣṇaḥ seviṣyati sukhaḥ anilaḥ.. 9..
शयानमनघं रात्रौ पितेवाभिपरिष्वजन्।घर्मघ्नः संस्पृशन् शीतश्चन्द्रमा ह्लादयिष्यति॥ १०॥
शयानम् अनघम् रात्रौ पिता इव अभिपरिष्वजन्।घर्म-घ्नः संस्पृशन् शीतः चन्द्रमाः ह्लादयिष्यति॥ १०॥
śayānam anagham rātrau pitā iva abhipariṣvajan.gharma-ghnaḥ saṃspṛśan śītaḥ candramāḥ hlādayiṣyati.. 10..
ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे।दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे॥ ११॥
ददौ च अस्त्राणि दिव्यानि यस्मै ब्रह्मा महा-ओजसे।दानव-इन्द्रम् हतम् दृष्ट्वा तिमिध्वज-सुतम् रणे॥ ११॥
dadau ca astrāṇi divyāni yasmai brahmā mahā-ojase.dānava-indram hatam dṛṣṭvā timidhvaja-sutam raṇe.. 11..
स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः।असंत्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यते॥ १२॥
स शूरः पुरुष-व्याघ्रः स्व-बाहु-बलम् आश्रितः।असंत्रस्तः हि अरण्ये असौ वेश्मनि इव निवत्स्यते॥ १२॥
sa śūraḥ puruṣa-vyāghraḥ sva-bāhu-balam āśritaḥ.asaṃtrastaḥ hi araṇye asau veśmani iva nivatsyate.. 12..
यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः।कथं न पृथिवी तस्य शासने स्थातुमर्हति॥ १३॥
यस्य इषु-पथम् आसाद्य विनाशम् यान्ति शत्रवः।कथम् न पृथिवी तस्य शासने स्थातुम् अर्हति॥ १३॥
yasya iṣu-patham āsādya vināśam yānti śatravaḥ.katham na pṛthivī tasya śāsane sthātum arhati.. 13..
या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता।निवृत्तारण्यवासः स्वं क्षिप्रं राज्यमवाप्स्यति॥ १४॥
या श्रीः शौर्यम् च रामस्य या च कल्याण-सत्त्व-ता।निवृत्त-अरण्य-वासः स्वम् क्षिप्रम् राज्यम् अवाप्स्यति॥ १४॥
yā śrīḥ śauryam ca rāmasya yā ca kalyāṇa-sattva-tā.nivṛtta-araṇya-vāsaḥ svam kṣipram rājyam avāpsyati.. 14..
सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्नः प्रभोः प्रभुः।श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा॥ १५॥
सूर्यस्य अपि भवेत् सूर्यः हि अग्नेः अग्नः प्रभोः प्रभुः।श्रियाः श्रीः च भवेत् अग्र्या कीर्त्याः कीर्तिः क्षमा-अक्षमा॥ १५॥
sūryasya api bhavet sūryaḥ hi agneḥ agnaḥ prabhoḥ prabhuḥ.śriyāḥ śrīḥ ca bhavet agryā kīrtyāḥ kīrtiḥ kṣamā-akṣamā.. 15..
दैवतं देवतानां च भूतानां भूतसत्तमः।तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे॥ १६॥
दैवतम् देवतानाम् च भूतानाम् भूत-सत्तमः।तस्य के हि अगुणाः देवि वने वा अपि अथवा पुरे॥ १६॥
daivatam devatānām ca bhūtānām bhūta-sattamaḥ.tasya ke hi aguṇāḥ devi vane vā api athavā pure.. 16..
पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः।क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते॥ १७॥
पृथिव्या सह वैदेह्या श्रिया च पुरुष-ऋषभः।क्षिप्रम् तिसृभिः एताभिः सह रामः अभिषेक्ष्यते॥ १७॥
pṛthivyā saha vaidehyā śriyā ca puruṣa-ṛṣabhaḥ.kṣipram tisṛbhiḥ etābhiḥ saha rāmaḥ abhiṣekṣyate.. 17..
दुःखजं विसृजत्यश्रु निष्क्रामन्तमुदीक्ष्य यम्।अयोध्यायां जनः सर्वः शोकवेगसमाहतः॥ १८॥
दुःख-जम् विसृजति अश्रु निष्क्रामन्तम् उदीक्ष्य यम्।अयोध्यायाम् जनः सर्वः शोक-वेग-समाहतः॥ १८॥
duḥkha-jam visṛjati aśru niṣkrāmantam udīkṣya yam.ayodhyāyām janaḥ sarvaḥ śoka-vega-samāhataḥ.. 18..
कुशचीरधरं वीरं गच्छन्तमपराजितम्।सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम्॥ १९॥
कुश-चीर-धरम् वीरम् गच्छन्तम् अपराजितम्।सीता इव अनुगता लक्ष्मीः तस्य किम् नाम दुर्लभम्॥ १९॥
kuśa-cīra-dharam vīram gacchantam aparājitam.sītā iva anugatā lakṣmīḥ tasya kim nāma durlabham.. 19..
धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम्।लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्॥ २०॥
धनुः-ग्रह-वरः यस्य बाण-खड्ग-अस्त्र-भृत् स्वयम्।लक्ष्मणः व्रजति हि अग्रे तस्य किम् नाम दुर्लभम्॥ २०॥
dhanuḥ-graha-varaḥ yasya bāṇa-khaḍga-astra-bhṛt svayam.lakṣmaṇaḥ vrajati hi agre tasya kim nāma durlabham.. 20..
निवृत्तवनवासं तं द्रष्टासि पुनरागतम्।जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते॥ २१॥
निवृत्त-वन-वासम् तम् द्रष्टासि पुनर् आगतम्।जहि शोकम् च मोहम् च देवि सत्यम् ब्रवीमि ते॥ २१॥
nivṛtta-vana-vāsam tam draṣṭāsi punar āgatam.jahi śokam ca moham ca devi satyam bravīmi te.. 21..
शिरसा चरणावेतौ वन्दमानमनिन्दिते।पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्॥ २२॥
शिरसा चरणौ एतौ वन्दमानम् अनिन्दिते।पुनर् द्रक्ष्यसि कल्याणि पुत्रम् चन्द्रम् इव उदितम्॥ २२॥
śirasā caraṇau etau vandamānam anindite.punar drakṣyasi kalyāṇi putram candram iva uditam.. 22..
पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्।समुत्स्रक्ष्यसि नेत्राभ्यां शीघ्रमानन्दजं जलम्॥ २३॥
पुनर् प्रविष्टम् दृष्ट्वा तम् अभिषिक्तम् महा-श्रियम्।समुत्स्रक्ष्यसि नेत्राभ्याम् शीघ्रम् आनन्द-जम् जलम्॥ २३॥
punar praviṣṭam dṛṣṭvā tam abhiṣiktam mahā-śriyam.samutsrakṣyasi netrābhyām śīghram ānanda-jam jalam.. 23..
मा शोको देवि दुःखं वा न रामे दृष्यतेऽशिवम्।क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम्॥ २४॥
मा शोकः देवि दुःखम् वा न रामे दृष्यते अशिवम्।क्षिप्रम् द्रक्ष्यसि पुत्रम् त्वम् स सीतम् सह लक्ष्मणम्॥ २४॥
mā śokaḥ devi duḥkham vā na rāme dṛṣyate aśivam.kṣipram drakṣyasi putram tvam sa sītam saha lakṣmaṇam.. 24..
त्वयाऽशेषो जनश्चायं समाश्वास्यो यतोऽनघे।कमिदानीमिदं देवि करोषि हृदि विक्लवम्॥ २५॥
त्वया अशेषः जनः च अयम् समाश्वास्यः यतस् अनघे।कम् इदानीम् इदम् देवि करोषि हृदि विक्लवम्॥ २५॥
tvayā aśeṣaḥ janaḥ ca ayam samāśvāsyaḥ yatas anaghe.kam idānīm idam devi karoṣi hṛdi viklavam.. 25..
नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः।नहि रामात् परो लोके विद्यते सत्पथे स्थितः॥ २६॥
न अर्हा त्वम् शोचितुम् देवि यस्याः ते राघवः सुतः।नहि रामात् परः लोके विद्यते सत्-पथे स्थितः॥ २६॥
na arhā tvam śocitum devi yasyāḥ te rāghavaḥ sutaḥ.nahi rāmāt paraḥ loke vidyate sat-pathe sthitaḥ.. 26..
अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्।मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी॥ २७॥
अभिवादयमानम् तम् दृष्ट्वा स सुहृदम् सुतम्।मुदा अश्रु मोक्ष्यसे क्षिप्रम् मेघ-रेखा इव वार्षिकी॥ २७॥
abhivādayamānam tam dṛṣṭvā sa suhṛdam sutam.mudā aśru mokṣyase kṣipram megha-rekhā iva vārṣikī.. 27..
पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः।कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति॥ २८॥
पुत्रः ते वर-दः क्षिप्रम् अयोध्याम् पुनर् आगतः।कराभ्याम् मृदु-पीनाभ्याम् चरणौ पीडयिष्यति॥ २८॥
putraḥ te vara-daḥ kṣipram ayodhyām punar āgataḥ.karābhyām mṛdu-pīnābhyām caraṇau pīḍayiṣyati.. 28..
अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्।मुदास्रैः प्रोक्षसे पुत्रं मेघराजिरिवाचलम्॥ २९॥
अभिवाद्य नमस्यन्तम् शूरम् स सुहृदम् सुतम्।मुदा अस्रैः प्रोक्षसे पुत्रम् मेघ-राजिः इव अचलम्॥ २९॥
abhivādya namasyantam śūram sa suhṛdam sutam.mudā asraiḥ prokṣase putram megha-rājiḥ iva acalam.. 29..
आश्वासयन्ती विविधैश्च वाक्यै- र्वाक्योपचारे कुशलानवद्या।रामस्य तां मातरमेवमुक्त्वा देवी सुमित्रा विरराम रामा॥ ३०॥
आश्वासयन्ती विविधैः च वाक्यैः वाक्य-उपचारे कुशल-अनवद्या।रामस्य ताम् मातरम् एवम् उक्त्वा देवी सुमित्रा विरराम रामा॥ ३०॥
āśvāsayantī vividhaiḥ ca vākyaiḥ vākya-upacāre kuśala-anavadyā.rāmasya tām mātaram evam uktvā devī sumitrā virarāma rāmā.. 30..
निशम्य तल्लक्ष्मणमातृवाक्यं रामस्य मातुर्नरदेवपत्न्याः।सद्यः शरीरे विननाश शोकः शरद्गतो मेघ इवाल्पतोयः॥ ३१॥
निशम्य तत् लक्ष्मण-मातृ-वाक्यम् रामस्य मातुः नरदेव-पत्न्याः।सद्यस् शरीरे विननाश शोकः शरद्-गतः मेघः इव अल्प-तोयः॥ ३१॥
niśamya tat lakṣmaṇa-mātṛ-vākyam rāmasya mātuḥ naradeva-patnyāḥ.sadyas śarīre vinanāśa śokaḥ śarad-gataḥ meghaḥ iva alpa-toyaḥ.. 31..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये अयोध्या-काण्डे चतुश्चत्वारिंशः सर्गः ॥२॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye ayodhyā-kāṇḍe catuścatvāriṃśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In