This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे एकपञ्चाशः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ekapañcāśaḥ sargaḥ ..2..
तम् जाग्रतम् अदम्भेन भ्रातुर् अर्थाय लक्ष्मणम् । गुहः सम्ताप सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२-५१-१॥
तम् जाग्रतम् अदम्भेन भ्रातुः अर्थाय लक्ष्मणम् । गुहः सम्ताप-सम्तप्तः राघवम् वाक्यम् अब्रवीत् ॥२॥
tam jāgratam adambhena bhrātuḥ arthāya lakṣmaṇam . guhaḥ samtāpa-samtaptaḥ rāghavam vākyam abravīt ..2..
इयम् तात सुखा शय्या त्वद् अर्थम् उपकल्पिता । प्रत्याश्वसिहि साध्व् अस्याम् राज पुत्र यथा सुखम् ॥२-५१-२॥
इयम् तात सुखा शय्या त्वद्-अर्थम् उपकल्पिता । प्रत्याश्वसिहि साधु अस्याम् राज-पुत्र यथा सुखम् ॥२॥
iyam tāta sukhā śayyā tvad-artham upakalpitā . pratyāśvasihi sādhu asyām rāja-putra yathā sukham ..2..
उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख उचितः । गुप्ति अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२-५१-३॥
उचितः अयम् जनः सर्वः क्लेशानाम् त्वम् सुख-उचितः । गुप्ति-अर्थम् जागरिष्यामः काकुत्स्थस्य वयम् निशाम् ॥२॥
ucitaḥ ayam janaḥ sarvaḥ kleśānām tvam sukha-ucitaḥ . gupti-artham jāgariṣyāmaḥ kākutsthasya vayam niśām ..2..
न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन । ब्रवीम्य् एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२-५१-४॥
न हि रामात् प्रियतरः मम अस्ति भुवि कश्चन । ब्रवीमि एतत् अहम् सत्यम् सत्येन एव च ते शपे ॥२॥
na hi rāmāt priyataraḥ mama asti bhuvi kaścana . bravīmi etat aham satyam satyena eva ca te śape ..2..
अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहद् यशः । धर्म अवाप्तिम् च विपुलाम् अर्थ अवाप्तिम् च केवलाम् ॥२-५१-५॥
अस्य प्रसादात् आशम्से लोके अस्मिन् सुमहत् यशः । धर्म-अवाप्तिम् च विपुलाम् अर्थ-अवाप्तिम् च केवलाम् ॥२॥
asya prasādāt āśamse loke asmin sumahat yaśaḥ . dharma-avāptim ca vipulām artha-avāptim ca kevalām ..2..
सो अहम् प्रिय सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष् पाणिः सर्वतः ज्ञातिभिः सह ॥२-५१-६॥
सः अहम् प्रिय-सखम् रामम् शयानम् सह सीतया । रक्षिष्यामि धनुष्-पाणिः सर्वतस् ज्ञातिभिः सह ॥२॥
saḥ aham priya-sakham rāmam śayānam saha sītayā . rakṣiṣyāmi dhanuṣ-pāṇiḥ sarvatas jñātibhiḥ saha ..2..
न हि मे अविदितम् किम्चित् वने अस्मिमः चरतः सदा । चतुर् अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२-५१-७॥
न हि मे अविदितम् किम्चिद् वने अस्मिमः चरतः सदा । चतुर्-अन्गम् हि अपि बलम् सुमहत् प्रसहेमहि ॥२॥
na hi me aviditam kimcid vane asmimaḥ carataḥ sadā . catur-angam hi api balam sumahat prasahemahi ..2..
लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ । न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२-५१-८॥
लक्ष्मणः तम् तदा उवाच रक्ष्यमाणाः त्वया अनघ । न अत्र भीता वयम् सर्वे धर्मम् एव अनुपश्यता ॥२॥
lakṣmaṇaḥ tam tadā uvāca rakṣyamāṇāḥ tvayā anagha . na atra bhītā vayam sarve dharmam eva anupaśyatā ..2..
कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२-५१-९॥
कथम् दाशरथौ भूमौ शयाने सह सीतया । शक्या निद्रा मया लब्धुम् जीवितम् वा सुखानि वा ॥२॥
katham dāśarathau bhūmau śayāne saha sītayā . śakyā nidrā mayā labdhum jīvitam vā sukhāni vā ..2..
यो न देव असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य सुख सम्विष्टम् तृणेषु सह सीतया ॥२-५१-१०॥
यः न देव-असुरैः सर्वैः शक्यः प्रसहितुम् युधि । तम् पश्य सुख-सम्विष्टम् तृणेषु सह सीतया ॥२॥
yaḥ na deva-asuraiḥ sarvaiḥ śakyaḥ prasahitum yudhi . tam paśya sukha-samviṣṭam tṛṇeṣu saha sītayā ..2..
यो मन्त्र तपसा लब्धो विविधैः च परिश्रमैः । एको दशरथस्य एष पुत्रः सदृश लक्षणः ॥२-५१-११॥
यः मन्त्र-तपसा लब्धः विविधैः च परिश्रमैः । एकः दशरथस्य एष पुत्रः सदृश-लक्षणः ॥२॥
yaḥ mantra-tapasā labdhaḥ vividhaiḥ ca pariśramaiḥ . ekaḥ daśarathasya eṣa putraḥ sadṛśa-lakṣaṇaḥ ..2..
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२-५१-१२॥
अस्मिन् प्रव्रजितः राजा न चिरम् वर्तयिष्यति । विधवा मेदिनी नूनम् क्षिप्रम् एव भविष्यति ॥२॥
asmin pravrajitaḥ rājā na ciram vartayiṣyati . vidhavā medinī nūnam kṣipram eva bhaviṣyati ..2..
विनद्य सुमहा नादम् श्रमेण उपरताः स्त्रियः । निर्घोष उपरतम् तात मन्ये राज निवेशनम् ॥२-५१-१३॥
विनद्य सुमहा-नादम् श्रमेण उपरताः स्त्रियः । निर्घोष-उपरतम् तात मन्ये राज-निवेशनम् ॥२॥
vinadya sumahā-nādam śrameṇa uparatāḥ striyaḥ . nirghoṣa-uparatam tāta manye rāja-niveśanam ..2..
कौसल्या चैव राजा च तथैव जननी मम । न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२-५१-१४॥
कौसल्या च एव राजा च तथा एव जननी मम । न आशम्से यदि जीवन्ति सर्वे ते शर्वरीम् इमाम् ॥२॥
kausalyā ca eva rājā ca tathā eva jananī mama . na āśamse yadi jīvanti sarve te śarvarīm imām ..2..
जीवेद् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । तत् दुह्खम् यत् तु कौसल्या वीरसूर् विनशिष्यति ॥२-५१-१५॥
जीवेत् अपि हि मे माता शत्रुघ्नस्य अन्ववेक्षया । तत् दुह्खम् यत् तु कौसल्या वीरसूः विनशिष्यति ॥२॥
jīvet api hi me mātā śatrughnasya anvavekṣayā . tat duhkham yat tu kausalyā vīrasūḥ vinaśiṣyati ..2..
अनुरक्त जन आकीर्णा सुख आलोक प्रिय आवहा । राज व्यसन सम्सृष्टा सा पुरी विनशिष्यति ॥२-५१-१६॥
अनुरक्त-जन-आकीर्णा सुख-आलोक-प्रिय-आवहा । राज-व्यसन-सम्सृष्टा सा पुरी विनशिष्यति ॥२॥
anurakta-jana-ākīrṇā sukha-āloka-priya-āvahā . rāja-vyasana-samsṛṣṭā sā purī vinaśiṣyati ..2..
कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः । शरीरम् धारयुष्यान्ति प्राणा राज्ञो महात्मनः ॥२-५१-१७॥
कथम् पुत्रम् महात्मानम् ज्येष्ठम् प्रियमपस्यतः । शरीरम् धारयुष्य आन्ति प्राणाः राज्ञः महात्मनः ॥२॥
katham putram mahātmānam jyeṣṭham priyamapasyataḥ . śarīram dhārayuṣya ānti prāṇāḥ rājñaḥ mahātmanaḥ ..2..
विनष्टे नृपतौ पश्चात्कौसल्या विनशिष्यति । अनन्तरम् च माताऽपि मम नाशमुपैष्यति ॥२-५१-१८॥
विनष्टे नृपतौ पश्चात् कौसल्या विनशिष्यति । अनन्तरम् च माता अपि मम नाशम् उपैष्यति ॥२॥
vinaṣṭe nṛpatau paścāt kausalyā vinaśiṣyati . anantaram ca mātā api mama nāśam upaiṣyati ..2..
अतिक्रान्तम् अतिक्रान्तम् अनवाप्य मनोरथम् । राज्ये रामम् अनिक्षिप्य पिता मे विनशिष्यति ॥२-५१-१९॥
अतिक्रान्तम् अतिक्रान्तम् अन् अवाप्य मनोरथम् । राज्ये रामम् अ निक्षिप्य पिता मे विनशिष्यति ॥२॥
atikrāntam atikrāntam an avāpya manoratham . rājye rāmam a nikṣipya pitā me vinaśiṣyati ..2..
सिद्ध अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते । प्रेत कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२-५१-२०॥
सिद्ध-अर्थाः पितरम् वृत्तम् तस्मिन् काले हि उपस्थिते । प्रेत-कार्येषु सर्वेषु सम्स्करिष्यन्ति भूमिपम् ॥२॥
siddha-arthāḥ pitaram vṛttam tasmin kāle hi upasthite . preta-kāryeṣu sarveṣu samskariṣyanti bhūmipam ..2..
रम्य चत्वर सम्स्थानाम् सुविभक्त महा पथाम् । हर्म्य प्रसाद सम्पन्नाम् गणिका वर शोभिताम् ॥२-५१-२१॥
रम्य-चत्वर-सम्स्थानाम् सुविभक्त-महा-पथाम् । हर्म्य-प्रसाद-सम्पन्नाम् गणिका-वर-शोभिताम् ॥२॥
ramya-catvara-samsthānām suvibhakta-mahā-pathām . harmya-prasāda-sampannām gaṇikā-vara-śobhitām ..2..
रथ अश्व गज सम्बाधाम् तूर्य नाद विनादिताम् । सर्व कल्याण सम्पूर्णाम् हृष्ट पुष्ट जन आकुलाम् ॥२-५१-२२॥
रथ-अश्व-गज-सम्बाधाम् तूर्य-नाद-विनादिताम् । सर्व-कल्याण-सम्पूर्णाम् हृष्ट-पुष्ट-जन-आकुलाम् ॥२॥
ratha-aśva-gaja-sambādhām tūrya-nāda-vināditām . sarva-kalyāṇa-sampūrṇām hṛṣṭa-puṣṭa-jana-ākulām ..2..
आराम उद्यान सम्पन्नाम् समाज उत्सव शालिनीम् । सुखिता विचरिष्यन्ति राज धानीम् पितुर् मम ॥२-५१-२३॥
आराम-उद्यान-सम्पन्नाम् समाज-उत्सव-शालिनीम् । सुखिताः विचरिष्यन्ति राज धानीम् पितुः मम ॥२॥
ārāma-udyāna-sampannām samāja-utsava-śālinīm . sukhitāḥ vicariṣyanti rāja dhānīm pituḥ mama ..2..
अपि जीवेद्धशरथो वनवासात्पुनर्वयम् । प्रत्यागम्य महात्मानमपि पश्येम सुव्रतम् ॥२-५१-२४॥
अपि जीवेत् हशरथः वन-वासात् पुनर् वयम् । प्रत्यागम्य महात्मानम् अपि पश्येम सुव्रतम् ॥२॥
api jīvet haśarathaḥ vana-vāsāt punar vayam . pratyāgamya mahātmānam api paśyema suvratam ..2..
अपि सत्य प्रतिज्ञेन सार्धम् कुशलिना वयम् । निवृत्ते वन वासे अस्मिन्न् अयोध्याम् प्रविशेमहि ॥२-५१-२५॥
अपि सत्य-प्रतिज्ञेन सार्धम् कुशलिना वयम् । निवृत्ते वन-वासे अस्मिन् अयोध्याम् प्रविशेमहि ॥२॥
api satya-pratijñena sārdham kuśalinā vayam . nivṛtte vana-vāse asmin ayodhyām praviśemahi ..2..
परिदेवयमानस्य दुह्ख आर्तस्य महात्मनः । तिष्ठतः राज पुत्रस्य शर्वरी सा अत्यवर्तत ॥२-५१-२६॥
परिदेवयमानस्य दुह्खे आर्तस्य महात्मनः । तिष्ठतः राज-पुत्रस्य शर्वरी सा अत्यवर्तत ॥२॥
paridevayamānasya duhkhe ārtasya mahātmanaḥ . tiṣṭhataḥ rāja-putrasya śarvarī sā atyavartata ..2..
तथा हि सत्यम् ब्रुवति प्रजा हिते । नर इन्द्र पुत्रे गुरु सौहृदात् गुहः । मुमोच बाष्पम् व्यसन अभिपीडितः । ज्वरा आतुरः नागैव व्यथा आतुरः ॥२-५१-२७॥
तथा हि सत्यम् ब्रुवति प्रजा-हिते । नर-इन्द्र-पुत्रे गुरु-सौहृदात् गुहः । मुमोच बाष्पम् व्यसन-अभिपीडितः । ज्वरा आतुरः व्यथा आतुरः ॥२॥
tathā hi satyam bruvati prajā-hite . nara-indra-putre guru-sauhṛdāt guhaḥ . mumoca bāṣpam vyasana-abhipīḍitaḥ . jvarā āturaḥ vyathā āturaḥ ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२-५१॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे एकपञ्चाशः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ekapañcāśaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In