This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे षट्सप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe ṣaṭsaptatitamaḥ sargaḥ ..2..
तम् एवम् शोक सम्तप्तम् भरतम् केकयी सुतम् । उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ वाग् ऋषिः ॥२-७६-१॥
तम् एवम् शोक-सम्तप्तम् भरतम् केकयी-सुतम् । उवाच वदताम् श्रेष्ठः वसिष्ठः श्रेष्ठ वाच् ऋषिः ॥२॥
tam evam śoka-samtaptam bharatam kekayī-sutam . uvāca vadatām śreṣṭhaḥ vasiṣṭhaḥ śreṣṭha vāc ṛṣiḥ ..2..
अलम् शोकेन भद्रम् ते राज पुत्र महा यशः । प्राप्त कालम् नर पतेः कुरु सम्यानम् उत्तरम् ॥२-७६-२॥
अलम् शोकेन भद्रम् ते राज-पुत्र महा-यशः । प्राप्त-कालम् नर-पतेः कुरु सम्यानम् उत्तरम् ॥२॥
alam śokena bhadram te rāja-putra mahā-yaśaḥ . prāpta-kālam nara-pateḥ kuru samyānam uttaram ..2..
वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः । प्रेत कार्याणि सर्वाणि कारयाम् आस धर्मवित् ॥२-७६-३॥
वसिष्ठस्य वचः श्रुत्वा भरतः धारणाम् गतः । प्रेत-कार्याणि सर्वाणि कारयाम् आस धर्म-विद् ॥२॥
vasiṣṭhasya vacaḥ śrutvā bharataḥ dhāraṇām gataḥ . preta-kāryāṇi sarvāṇi kārayām āsa dharma-vid ..2..
उद्धृतम् तैल सम्क्लेदात् स तु भूमौ निवेशितम् । आपीत वर्ण वदनम् प्रसुप्तम् इव भूमिपम् ॥२-७६-४॥
उद्धृतम् तैल-सम्क्लेदात् स तु भूमौ निवेशितम् । आपीत-वर्ण-वदनम् प्रसुप्तम् इव भूमिपम् ॥२॥
uddhṛtam taila-samkledāt sa tu bhūmau niveśitam . āpīta-varṇa-vadanam prasuptam iva bhūmipam ..2..
सम्वेश्य शयने च अग्र्ये नाना रत्न परिष्कृते । ततः दशरथम् पुत्रः विललाप सुदुह्खितः ॥२-७६-५॥
सम्वेश्य शयने च अग्र्ये नाना रत्न-परिष्कृते । ततस् दशरथम् पुत्रः विललाप सुदुह्खितः ॥२॥
samveśya śayane ca agrye nānā ratna-pariṣkṛte . tatas daśaratham putraḥ vilalāpa suduhkhitaḥ ..2..
किम् ते व्यवसितम् राजन् प्रोषिते मय्य् अनागते । विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा बलम् ॥२-७६-६॥
किम् ते व्यवसितम् राजन् प्रोषिते मयि अनागते । विवास्य रामम् धर्मज्ञम् लक्ष्मणम् च महा-बलम् ॥२॥
kim te vyavasitam rājan proṣite mayi anāgate . vivāsya rāmam dharmajñam lakṣmaṇam ca mahā-balam ..2..
क्व यास्यसि महा राज हित्वा इमम् दुह्खितम् जनम् । हीनम् पुरुष सिम्हेन रामेण अक्लिष्ट कर्मणा ॥२-७६-७॥
क्व यास्यसि महा-राज हित्वा इमम् दुह्खितम् जनम् । हीनम् पुरुष-सिम्हेन रामेण अक्लिष्ट-कर्मणा ॥२॥
kva yāsyasi mahā-rāja hitvā imam duhkhitam janam . hīnam puruṣa-simhena rāmeṇa akliṣṭa-karmaṇā ..2..
योग क्षेमम् तु ते राजन् को अस्मिन् कल्पयिता पुरे । त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२-७६-८॥
योग-क्षेमम् तु ते राजन् कः अस्मिन् कल्पयिता पुरे । त्वयि प्रयाते स्वः तात रामे च वनम् आश्रिते ॥२॥
yoga-kṣemam tu te rājan kaḥ asmin kalpayitā pure . tvayi prayāte svaḥ tāta rāme ca vanam āśrite ..2..
विधवा पृथिवी राजम्स् त्वया हीना न राजते । हीन चन्द्रा इव रजनी नगरी प्रतिभाति माम् ॥२-७६-९॥
विधवा पृथिवी राजम् त्वया हीना न राजते । हीन-चन्द्रा इव रजनी-नगरी प्रतिभाति माम् ॥२॥
vidhavā pṛthivī rājam tvayā hīnā na rājate . hīna-candrā iva rajanī-nagarī pratibhāti mām ..2..
एवम् विलपमानम् तम् भरतम् दीन मानसम् । अब्रवीद् वचनम् भूयो वसिष्ठः तु महान् ऋषिः ॥२-७६-१०॥
एवम् विलपमानम् तम् भरतम् दीन-मानसम् । अब्रवीत् वचनम् भूयस् वसिष्ठः तु महान् ऋषिः ॥२॥
evam vilapamānam tam bharatam dīna-mānasam . abravīt vacanam bhūyas vasiṣṭhaḥ tu mahān ṛṣiḥ ..2..
प्रेत कार्याणि यानि अस्य कर्तव्यानि विशाम्पतेः । तानि अव्यग्रम् महा बाहो क्रियताम् अविचारितम् ॥२-७६-११॥
प्रेत-कार्याणि यानि अस्य कर्तव्यानि विशाम् पतेः । तानि अव्यग्रम् महा-बाहो क्रियताम् अविचारितम् ॥२॥
preta-kāryāṇi yāni asya kartavyāni viśām pateḥ . tāni avyagram mahā-bāho kriyatām avicāritam ..2..
तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् । ऋत्विक् पुरोहित आचार्याम्स् त्वरयाम् आस सर्वशः ॥२-७६-१२॥
तथा इति भरतः वाक्यम् वसिष्ठस्य अभिपूज्य तत् । ऋत्विज् पुरोहितः आचार्याम्स् त्वरयाम् आस सर्वशस् ॥२॥
tathā iti bharataḥ vākyam vasiṣṭhasya abhipūjya tat . ṛtvij purohitaḥ ācāryāms tvarayām āsa sarvaśas ..2..
ये तु अग्रतः नर इन्द्रस्याग्नि अगारात् बहिष् कृताः । ऋत्विग्भिर् याजकैः चैव ते ह्रियन्ते यथा विधि ॥२-७६-१३॥
ये तु अग्रतस् नरः इन्द्रस्य अग्नि-अगारात् बहिष् कृताः । ऋत्विग्भिः याजकैः च एव ते ह्रियन्ते यथा विधि ॥२॥
ye tu agratas naraḥ indrasya agni-agārāt bahiṣ kṛtāḥ . ṛtvigbhiḥ yājakaiḥ ca eva te hriyante yathā vidhi ..2..
शिबिलायाम् अथ आरोप्य राजानम् गत चेतनम् । बाष्प कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२-७६-१४॥
शिबिलायाम् अथ आरोप्य राजानम् गत-चेतनम् । बाष्प-कण्ठा विमनसः तम् ऊहुः परिचारकाः ॥२॥
śibilāyām atha āropya rājānam gata-cetanam . bāṣpa-kaṇṭhā vimanasaḥ tam ūhuḥ paricārakāḥ ..2..
हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च । प्रकिरन्तः जना मार्गम् नृपतेर् अग्रतः ययुः ॥२-७६-१५॥
हिरण्यम् च सुवर्णम् च वासाम्सि विविधानि च । प्रकिरन्तः जनाः मार्गम् नृपतेः अग्रतस् ययुः ॥२॥
hiraṇyam ca suvarṇam ca vāsāmsi vividhāni ca . prakirantaḥ janāḥ mārgam nṛpateḥ agratas yayuḥ ..2..
चन्दन अगुरु निर्यासान् सरलम् पद्मकम् तथा । देव दारूणि च आहृत्य चिताम् चक्रुस् तथा अपरे ॥२-७६-१६॥
चन्दन-अगुरु-निर्यासान् सरलम् पद्मकम् तथा । देव-दारूणि च आहृत्य चिताम् चक्रुः तथा अपरे ॥२॥
candana-aguru-niryāsān saralam padmakam tathā . deva-dārūṇi ca āhṛtya citām cakruḥ tathā apare ..2..
गन्धान् उच्च अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् । ततः सम्वेशयाम् आसुः चिता मध्ये तम् ऋत्विजः ॥२-७६-१७॥
गन्धान् उच्च-अवचामः च अन्याम्स् तत्र दत्त्वा अथ भूमिपम् । ततस् सम्वेशयाम् आसुः चिता-मध्ये तम् ऋत्विजः ॥२॥
gandhān ucca-avacāmaḥ ca anyāms tatra dattvā atha bhūmipam . tatas samveśayām āsuḥ citā-madhye tam ṛtvijaḥ ..2..
तथा हुत अशनम् हुत्वा जेपुस् तस्य तदा ऋत्विजः । जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२-७६-१८॥
तथा हुत-अशनम् हुत्वा जेपुः तस्य तदा ऋत्विजः । जगुः च ते यथा शास्त्रम् तत्र सामानि सामगाः ॥२॥
tathā huta-aśanam hutvā jepuḥ tasya tadā ṛtvijaḥ . jaguḥ ca te yathā śāstram tatra sāmāni sāmagāḥ ..2..
शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः । नगरान् निर्ययुस् तत्र वृद्धैः परिवृताः तदा ॥२-७६-१९॥
शिबिकाभिः च यानैः च यथा अर्हम् तस्य योषितः । नगरात् निर्ययुः तत्र वृद्धैः परिवृताः तदा ॥२॥
śibikābhiḥ ca yānaiḥ ca yathā arham tasya yoṣitaḥ . nagarāt niryayuḥ tatra vṛddhaiḥ parivṛtāḥ tadā ..2..
प्रसव्यम् च अपि तम् चक्रुर् ऋत्विजो अग्नि चितम् नृपम् । स्त्रियः च शोक सम्तप्ताः कौसल्या प्रमुखाः तदा ॥२-७६-२०॥
प्रसव्यम् च अपि तम् चक्रुः ऋत्विजः अग्नि-चितम् नृपम् । स्त्रियः च शोक-सम्तप्ताः कौसल्या-प्रमुखाः तदा ॥२॥
prasavyam ca api tam cakruḥ ṛtvijaḥ agni-citam nṛpam . striyaḥ ca śoka-samtaptāḥ kausalyā-pramukhāḥ tadā ..2..
क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे । आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः ॥२-७६-२१॥
क्रौन्चीनाम् इव नारीणाम् निनादः तत्र शुश्रुवे । आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशस् ॥२॥
krauncīnām iva nārīṇām ninādaḥ tatra śuśruve . ārtānām karuṇam kāle krośantīnām sahasraśas ..2..
ततः रुदन्त्यो विवशा विलप्य च पुनः पुनः । यानेभ्यः सरयू तीरम् अवतेरुर् वर अन्गनाः ॥२-७६-२२॥
ततस् रुदन्त्यः विवशाः विलप्य च पुनर् पुनर् । यानेभ्यः सरयू-तीरम् अवतेरुः वर-अन्गनाः ॥२॥
tatas rudantyaḥ vivaśāḥ vilapya ca punar punar . yānebhyaḥ sarayū-tīram avateruḥ vara-anganāḥ ..2..
कृत उदकम् ते भरतेन सार्धम् । नृप अन्गना मन्त्रि पुरोहिताः च । पुरम् प्रविश्य अश्रु परीत नेत्रा । भूमौ दश अहम् व्यनयन्त दुह्खम् ॥२-७६-२३॥
कृत-उदकम् ते भरतेन सार्धम् । नृप-अन्गना-मन्त्रि-पुरोहिताः च । पुरम् प्रविश्य अश्रु-परीत-नेत्रा । भूमौ दश-अहम् व्यनयन्त दुह्खम् ॥२॥
kṛta-udakam te bharatena sārdham . nṛpa-anganā-mantri-purohitāḥ ca . puram praviśya aśru-parīta-netrā . bhūmau daśa-aham vyanayanta duhkham ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२-७६॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे षट्सप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe ṣaṭsaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In