This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे अष्टसप्ततितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe aṣṭasaptatitamaḥ sargaḥ ..2..
अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण अनुजः । भरतम् शोक सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२-७८-१॥
अत्र यात्राम् समीहन्तम् शत्रुघ्नः लक्ष्मण-अनुजः । भरतम् शोक-सम्तप्तम् इदम् वचनम् अब्रवीत् ॥२॥
atra yātrām samīhantam śatrughnaḥ lakṣmaṇa-anujaḥ . bharatam śoka-samtaptam idam vacanam abravīt ..2..
गतिर् यः सर्व भूतानाम् दुह्खे किम् पुनर् आत्मनः । स रामः सत्त्व सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२-७८-२॥
गतिः यः सर्व-भूतानाम् दुह्खे किम् पुनर् आत्मनः । स रामः सत्त्व-सम्पन्नः स्त्रिया प्रव्राजितः वनम् ॥२॥
gatiḥ yaḥ sarva-bhūtānām duhkhe kim punar ātmanaḥ . sa rāmaḥ sattva-sampannaḥ striyā pravrājitaḥ vanam ..2..
बलवान् वीर्य सम्पन्नो लक्ष्मणो नाम यो अपि असौ । किम् न मोचयते रामम् कृत्वा अपि पितृ निग्रहम् ॥२-७८-३॥
बलवान् वीर्य-सम्पन्नः लक्ष्मणः नाम यः अपि असौ । किम् न मोचयते रामम् कृत्वा अपि पितृ-निग्रहम् ॥२॥
balavān vīrya-sampannaḥ lakṣmaṇaḥ nāma yaḥ api asau . kim na mocayate rāmam kṛtvā api pitṛ-nigraham ..2..
पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय अनयौ । उत्पथम् यः समारूढो नार्या राजा वशम् गतः ॥२-७८-४॥
पूर्वम् एव तु निग्राह्यः समवेक्ष्य नय-अनयौ । उत्पथम् यः समारूढः नार्याः राजा वशम् गतः ॥२॥
pūrvam eva tu nigrāhyaḥ samavekṣya naya-anayau . utpatham yaḥ samārūḍhaḥ nāryāḥ rājā vaśam gataḥ ..2..
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण अनुजे । प्राग् द्वारे अभूत् तदा कुब्जा सर्व आभरण भूषिता ॥२-७८-५॥
इति सम्भाषमाणे तु शत्रुघ्ने लक्ष्मण-अनुजे । प्राग् द्वारे अभूत् तदा कुब्जा सर्व-आभरण-भूषिता ॥२॥
iti sambhāṣamāṇe tu śatrughne lakṣmaṇa-anuje . prāg dvāre abhūt tadā kubjā sarva-ābharaṇa-bhūṣitā ..2..
लिप्ता चन्दन सारेण राज वस्त्राणि बिभ्रती । विविधम् विविधैस्तैस्तैर्भूषणैश्च विभूषिता ॥२-७८-६॥
लिप्ता चन्दन-सारेण राज-वस्त्राणि बिभ्रती । विविधम् विविधैः तैः तैः भूषणैः च विभूषिता ॥२॥
liptā candana-sāreṇa rāja-vastrāṇi bibhratī . vividham vividhaiḥ taiḥ taiḥ bhūṣaṇaiḥ ca vibhūṣitā ..2..
मेखला दामभिः चित्रै रज्जु बद्धा इव वानरी । बभासे बहुभिर्बद्धा रज्जुबद्देव वानरी ॥२-७८-७॥
मेखला-दामभिः चित्रैः रज्जु-बद्धा इव वानरी । बभासे बहुभिः बद्धा रज्जु-बत् देव वानरी ॥२॥
mekhalā-dāmabhiḥ citraiḥ rajju-baddhā iva vānarī . babhāse bahubhiḥ baddhā rajju-bat deva vānarī ..2..
ताम् समीक्ष्य तदा द्वाह्स्थो भृशम् पापस्य कारिणीम् । गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२-७८-८॥
ताम् समीक्ष्य तदा द्वाह्स्थः भृशम् पापस्य कारिणीम् । गृहीत्वा अकरुणम् कुब्जाम् शत्रुघ्नाय न्यवेदयत् ॥२॥
tām samīkṣya tadā dvāhsthaḥ bhṛśam pāpasya kāriṇīm . gṛhītvā akaruṇam kubjām śatrughnāya nyavedayat ..2..
यस्याः कृते वने रामः न्यस्त देहः च वः पिता । सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२-७८-९॥
यस्याः कृते वने रामः न्यस्त-देहः च वः पिता । सा इयम् पापा नृशम्सा च तस्याः कुरु यथा मति ॥२॥
yasyāḥ kṛte vane rāmaḥ nyasta-dehaḥ ca vaḥ pitā . sā iyam pāpā nṛśamsā ca tasyāḥ kuru yathā mati ..2..
शत्रुघ्नः च तत् आज्ञाय वचनम् भृश दुह्खितः । अन्तः पुर चरान् सर्वान् इति उवाच धृत व्रतः ॥२-७८-१०॥
शत्रुघ्नः च तत् आज्ञाय वचनम् भृश-दुह्खितः । अन्तः पुर-चरान् सर्वान् इति उवाच धृत-व्रतः ॥२॥
śatrughnaḥ ca tat ājñāya vacanam bhṛśa-duhkhitaḥ . antaḥ pura-carān sarvān iti uvāca dhṛta-vrataḥ ..2..
तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः । यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२-७८-११॥
तीव्रम् उत्पादितम् दुह्खम् भ्रातृऋणाम् मे तथा पितुः । यया सा इयम् नृशम्सस्य कर्मणः फलम् अश्नुताम् ॥२॥
tīvram utpāditam duhkham bhrātṛṛṇām me tathā pituḥ . yayā sā iyam nṛśamsasya karmaṇaḥ phalam aśnutām ..2..
एवम् उक्ता च तेन आशु सखी जन समावृता । गृहीता बलवत् कुब्जा सा तत् गृहम् अनादयत् ॥२-७८-१२॥
एवम् उक्ता च तेन आशु सखी जन-समावृता । गृहीता बलवत्-कुब्जा सा तत् गृहम् अनादयत् ॥२॥
evam uktā ca tena āśu sakhī jana-samāvṛtā . gṛhītā balavat-kubjā sā tat gṛham anādayat ..2..
ततः सुभृश सम्तप्तः तस्याः सर्वः सखी जनः । क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशः ॥२-७८-१३॥
ततस् सुभृश-सम्तप्तः तस्याः सर्वः सखी-जनः । क्रुद्धम् आज्ञाय शत्रुघ्नम् व्यपलायत सर्वशस् ॥२॥
tatas subhṛśa-samtaptaḥ tasyāḥ sarvaḥ sakhī-janaḥ . kruddham ājñāya śatrughnam vyapalāyata sarvaśas ..2..
अमन्त्रयत कृत्स्नः च तस्याः सर्व सखी जनः । यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२-७८-१४॥
अमन्त्रयत कृत्स्नः च तस्याः सर्व-सखी-जनः । यथा अयम् समुपक्रान्तः निह्शेषम् नः करिष्यति ॥२॥
amantrayata kṛtsnaḥ ca tasyāḥ sarva-sakhī-janaḥ . yathā ayam samupakrāntaḥ nihśeṣam naḥ kariṣyati ..2..
सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् । कौसल्याम् शरणम् यामः सा हि नो अस्तु ध्रुवा गतिः ॥२-७८-१५॥
सानुक्रोशाम् वदान्याम् च धर्मज्ञाम् च यशस्विनीम् । कौसल्याम् शरणम् यामः सा हि नः अस्तु ध्रुवा गतिः ॥२॥
sānukrośām vadānyām ca dharmajñām ca yaśasvinīm . kausalyām śaraṇam yāmaḥ sā hi naḥ astu dhruvā gatiḥ ..2..
स च रोषेण ताम्र अक्षः शत्रुघ्नः शत्रु तापनः । विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी तले ॥२-७८-१६॥
स च रोषेण ताम्र-अक्षः शत्रुघ्नः शत्रु-तापनः । विचकर्ष तदा कुब्जाम् क्रोशन्तीम् पृथिवी-तले ॥२॥
sa ca roṣeṇa tāmra-akṣaḥ śatrughnaḥ śatru-tāpanaḥ . vicakarṣa tadā kubjām krośantīm pṛthivī-tale ..2..
तस्या हि आकृष्यमाणाया मन्थरायाः ततः ततः । चित्रम् बहु विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२-७८-१७॥
तस्याः हि आकृष्यमाणायाः मन्थरायाः ततस् ततस् । चित्रम् बहु-विधम् भाण्डम् पृथिव्याम् तत् व्यशीर्यत ॥२॥
tasyāḥ hi ākṛṣyamāṇāyāḥ mantharāyāḥ tatas tatas . citram bahu-vidham bhāṇḍam pṛthivyām tat vyaśīryata ..2..
तेन भाण्डेन सम्कीर्णम् श्रीमद् राज निवेशनम् । अशोभत तदा भूयः शारदम् गगनम् यथा ॥२-७८-१८॥
तेन भाण्डेन सम्कीर्णम् श्रीमद्-राज-निवेशनम् । अशोभत तदा भूयः शारदम् गगनम् यथा ॥२॥
tena bhāṇḍena samkīrṇam śrīmad-rāja-niveśanam . aśobhata tadā bhūyaḥ śāradam gaganam yathā ..2..
स बली बलवत् क्रोधात् गृहीत्वा पुरुष ऋषभः । कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२-७८-१९॥
स बली बलवत् क्रोधात् गृहीत्वा पुरुष-ऋषभः । कैकेयीम् अभिनिर्भर्त्स्य बभाषे परुषम् वचः ॥२॥
sa balī balavat krodhāt gṛhītvā puruṣa-ṛṣabhaḥ . kaikeyīm abhinirbhartsya babhāṣe paruṣam vacaḥ ..2..
तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश दुह्हिता । शत्रुघ्न भय सम्त्रस्ता पुत्रम् शरणम् आगता ॥२-७८-२०॥
तैः वाक्यैः परुषैः दुह्खैः कैकेयी भृश-दुह्हिता । शत्रुघ्न-भय-सम्त्रस्ता पुत्रम् शरणम् आगता ॥२॥
taiḥ vākyaiḥ paruṣaiḥ duhkhaiḥ kaikeyī bhṛśa-duhhitā . śatrughna-bhaya-samtrastā putram śaraṇam āgatā ..2..
ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् । अवध्याः सर्व भूतानाम् प्रमदाः क्षम्यताम् इति ॥२-७८-२१॥
ताम् प्रेक्ष्य भरतः क्रुद्धम् शत्रुघ्नम् इदम् अब्रवीत् । अवध्याः सर्व-भूतानाम् प्रमदाः क्षम्यताम् इति ॥२॥
tām prekṣya bharataḥ kruddham śatrughnam idam abravīt . avadhyāḥ sarva-bhūtānām pramadāḥ kṣamyatām iti ..2..
हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट चारिणीम् । यदि माम् धार्मिको रामः न असूयेन् मातृ घातकम् ॥२-७८-२२॥
हन्याम् अहम् इमाम् पापाम् कैकेयीम् दुष्ट-चारिणीम् । यदि माम् धार्मिकः रामः न असूयेत् मातृ-घातकम् ॥२॥
hanyām aham imām pāpām kaikeyīm duṣṭa-cāriṇīm . yadi mām dhārmikaḥ rāmaḥ na asūyet mātṛ-ghātakam ..2..
इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः । त्वाम् च माम् चैव धर्म आत्मा न अभिभाषिष्यते ध्रुवम् ॥२-७८-२३॥
इमाम् अपि हताम् कुब्जाम् यदि जानाति राघवः । त्वाम् च माम् च एव धर्म-आत्मा न अभिभाषिष्यते ध्रुवम् ॥२॥
imām api hatām kubjām yadi jānāti rāghavaḥ . tvām ca mām ca eva dharma-ātmā na abhibhāṣiṣyate dhruvam ..2..
भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण अनुजः । न्यवर्तत ततः रोषात् ताम् मुमोच च मन्थराम् ॥२-७८-२४॥
भरतस्य वचः श्रुत्वा शत्रुघ्नः लक्ष्मण-अनुजः । न्यवर्तत ततस् रोषात् ताम् मुमोच च मन्थराम् ॥२॥
bharatasya vacaḥ śrutvā śatrughnaḥ lakṣmaṇa-anujaḥ . nyavartata tatas roṣāt tām mumoca ca mantharām ..2..
सा पाद मूले कैकेय्या मन्थरा निपपात ह । निह्श्वसन्ती सुदुह्ख आर्ता कृपणम् विललाप च ॥२-७८-२५॥
सा पाद-मूले कैकेय्याः मन्थरा निपपात ह । निह्श्वसन्ती सुदुह्ख-आर्ता कृपणम् विललाप च ॥२॥
sā pāda-mūle kaikeyyāḥ mantharā nipapāta ha . nihśvasantī suduhkha-ārtā kṛpaṇam vilalāpa ca ..2..
शत्रुघ्न विक्षेप विमूढ सम्ज्ञाम् । समीक्ष्य कुब्जाम् भरतस्य माता । शनैः समाश्वासयद् आर्त रूपाम् । क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२-७८-२६॥
शत्रुघ्न-विक्षेप-विमूढ-सम्ज्ञाम् । समीक्ष्य कुब्जाम् भरतस्य माता । शनैस् समाश्वासयत् आर्त रूपाम् । क्रौन्चीम् विलग्नाम् इव वीक्षमाणाम् ॥२॥
śatrughna-vikṣepa-vimūḍha-samjñām . samīkṣya kubjām bharatasya mātā . śanais samāśvāsayat ārta rūpām . krauncīm vilagnām iva vīkṣamāṇām ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२-७८॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे अष्टसप्ततितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe aṣṭasaptatitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In