This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥
श्रीमत्-वाल्मीकिय-रामायणे अयोध्या-काण्डे त्र्यशीतितमः सर्गः ॥२॥
śrīmat-vālmīkiya-rāmāyaṇe ayodhyā-kāṇḍe tryaśītitamaḥ sargaḥ ..2..
ततः समुत्थितः काल्यम् आस्थाय स्यन्दन उत्तमम् । प्रययौ भरतः शीघ्रम् राम दर्शन कान्क्षया ॥२-८३-१॥
ततस् समुत्थितः काल्यम् आस्थाय स्यन्दने उत्तमम् । प्रययौ भरतः शीघ्रम् राम-दर्शन-कान्क्षया ॥२॥
tatas samutthitaḥ kālyam āsthāya syandane uttamam . prayayau bharataḥ śīghram rāma-darśana-kānkṣayā ..2..
अग्रतः प्रययुस् तस्य सर्वे मन्त्रि पुरोधसः । अधिरुह्य हयैः युक्तान् रथान् सूर्य रथ उपमान् ॥२-८३-२॥
अग्रतस् प्रययुः तस्य सर्वे मन्त्रि पुरोधसः । अधिरुह्य हयैः युक्तान् रथान् सूर्य-रथ-उपमान् ॥२॥
agratas prayayuḥ tasya sarve mantri purodhasaḥ . adhiruhya hayaiḥ yuktān rathān sūrya-ratha-upamān ..2..
नव नाग सहस्राणि कल्पितानि यथा विधि । अन्वयुर् भरतम् यान्तम् इक्ष्वाकु कुल नन्दनम् ॥२-८३-३॥
नव-नाग-सहस्राणि कल्पितानि यथा विधि । अन्वयुः भरतम् यान्तम् इक्ष्वाकु-कुल-नन्दनम् ॥२॥
nava-nāga-sahasrāṇi kalpitāni yathā vidhi . anvayuḥ bharatam yāntam ikṣvāku-kula-nandanam ..2..
षष्ठी रथ सहस्राणि धन्विनो विविध आयुधाः । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-४॥
षष्ठी-रथ-सहस्राणि धन्विनः विविध-आयुधाः । अन्वयुः भरतम् यान्तम् राज-पुत्रम् यशस्विनम् ॥२॥
ṣaṣṭhī-ratha-sahasrāṇi dhanvinaḥ vividha-āyudhāḥ . anvayuḥ bharatam yāntam rāja-putram yaśasvinam ..2..
शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् । अन्वयुर् भरतम् यान्तम् राज पुत्रम् यशस्विनम् ॥२-८३-५॥
शतम् सहस्राणि अश्वानाम् समारूढानि राघवम् । अन्वयुः भरतम् यान्तम् राज-पुत्रम् यशस्विनम् ॥२॥
śatam sahasrāṇi aśvānām samārūḍhāni rāghavam . anvayuḥ bharatam yāntam rāja-putram yaśasvinam ..2..
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । राम आनयन सम्हृष्टा ययुर् यानेन भास्वता ॥२-८३-६॥
कैकेयी च सुमित्रा च कौसल्या च यशस्विनी । सम्हृष्टाः ययुः यानेन भास्वता ॥२॥
kaikeyī ca sumitrā ca kausalyā ca yaśasvinī . samhṛṣṭāḥ yayuḥ yānena bhāsvatā ..2..
प्रयाताः च आर्य सम्घाता रामम् द्रष्टुम् सलक्ष्मणम् । तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट मानसाः ॥२-८३-७॥
प्रयाताः च आर्य-सम्घाताः रामम् द्रष्टुम् सलक्ष्मणम् । तस्य एव च कथाः चित्राः कुर्वाणा हृष्ट-मानसाः ॥२॥
prayātāḥ ca ārya-samghātāḥ rāmam draṣṭum salakṣmaṇam . tasya eva ca kathāḥ citrāḥ kurvāṇā hṛṣṭa-mānasāḥ ..2..
मेघ श्यामम् महा बाहुम् स्थिर सत्त्वम् दृढ व्रतम् । कदा द्रक्ष्यामहे रामम् जगतः शोक नाशनम् ॥२-८३-८॥
मेघ-श्यामम् महा-बाहुम् स्थिर-सत्त्वम् दृढ-व्रतम् । कदा द्रक्ष्यामहे रामम् जगतः शोक-नाशनम् ॥२॥
megha-śyāmam mahā-bāhum sthira-sattvam dṛḍha-vratam . kadā drakṣyāmahe rāmam jagataḥ śoka-nāśanam ..2..
दृष्टएव हि नः शोकम् अपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन्न् इव भास्करः ॥२-८३-९॥
दृष्ट-एव हि नः शोकम् अपनेष्यति राघवः । तमः सर्वस्य लोकस्य समुद्यन् इव भास्करः ॥२॥
dṛṣṭa-eva hi naḥ śokam apaneṣyati rāghavaḥ . tamaḥ sarvasya lokasya samudyan iva bhāskaraḥ ..2..
इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाः च अन्योन्यम् ययुर् नागरिकाः तदा ॥२-८३-१०॥
इति एवम् कथयन्तः ते सम्प्रहृष्टाः कथाः शुभाः । परिष्वजानाः च अन्योन्यम् ययुः नागरिकाः तदा ॥२॥
iti evam kathayantaḥ te samprahṛṣṭāḥ kathāḥ śubhāḥ . pariṣvajānāḥ ca anyonyam yayuḥ nāgarikāḥ tadā ..2..
ये च तत्र अपरे सर्वे सम्मता ये च नैगमाः । रामम् प्रति ययुर् हृष्टाः सर्वाः प्रकृतयः तदा ॥२-८३-११॥
ये च तत्र अपरे सर्वे सम्मताः ये च नैगमाः । रामम् प्रति ययुः हृष्टाः सर्वाः प्रकृतयः तदा ॥२॥
ye ca tatra apare sarve sammatāḥ ye ca naigamāḥ . rāmam prati yayuḥ hṛṣṭāḥ sarvāḥ prakṛtayaḥ tadā ..2..
मणि काराः च ये केचित् कुम्भ काराः च शोभनाः । सूत्र कर्म कृतः चैव ये च शस्त्र उपजीविनः ॥२-८३-१२॥
मणि-काराः च ये केचिद् कुम्भ-काराः च शोभनाः । सूत्र-कर्म-कृतः च एव ये च शस्त्र-उपजीविनः ॥२॥
maṇi-kārāḥ ca ye kecid kumbha-kārāḥ ca śobhanāḥ . sūtra-karma-kṛtaḥ ca eva ye ca śastra-upajīvinaḥ ..2..
मायूरकाः क्राकचिका रोचका वेधकाः तथा । दन्त काराः सुधा काराः तथा गन्ध उपजीविनः ॥२-८३-१३॥
मायूरकाः क्राकचिकाः रोचकाः वेधकाः तथा । दन्त-काराः सुधा-काराः तथा गन्ध-उपजीविनः ॥२॥
māyūrakāḥ krākacikāḥ rocakāḥ vedhakāḥ tathā . danta-kārāḥ sudhā-kārāḥ tathā gandha-upajīvinaḥ ..2..
सुवर्ण काराः प्रख्याताः तथा कम्बल धावकाः । स्नापक आच्चादका वैद्या धूपकाः शौण्डिकाः तथा ॥२-८३-१४॥
सुवर्ण-काराः प्रख्याताः तथा कम्बल-धावकाः । स्नापक-आच्चादका वैद्याः धूपकाः शौण्डिकाः तथा ॥२॥
suvarṇa-kārāḥ prakhyātāḥ tathā kambala-dhāvakāḥ . snāpaka-āccādakā vaidyāḥ dhūpakāḥ śauṇḍikāḥ tathā ..2..
रजकाः तुन्न वायाः च ग्राम घोष महत्तराः । शैलूषाः च सह स्त्रीभिर् यान्ति कैवर्तकाः तथा ॥२-८३-१५॥
रजकाः तुन्न-वायाः च ग्राम-घोष-महत्तराः । शैलूषाः च सह स्त्रीभिः यान्ति कैवर्तकाः तथा ॥२॥
rajakāḥ tunna-vāyāḥ ca grāma-ghoṣa-mahattarāḥ . śailūṣāḥ ca saha strībhiḥ yānti kaivartakāḥ tathā ..2..
समाहिता वेदविदो ब्राह्मणा वृत्त सम्मताः । गो रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशः ॥२-८३-१६॥
समाहिताः वेद-विदः ब्राह्मणाः वृत्त-सम्मताः । गो-रथैः भरतम् यान्तम् अनुजग्मुः सहस्रशस् ॥२॥
samāhitāḥ veda-vidaḥ brāhmaṇāḥ vṛtta-sammatāḥ . go-rathaiḥ bharatam yāntam anujagmuḥ sahasraśas ..2..
सुवेषाः शुद्ध वसनाः ताम्र मृष्ट अनुलेपनाः । सर्वे ते विविधैः यानैः शनैः भरतम् अन्वयुः ॥२-८३-१७॥
सुवेषाः शुद्ध-वसनाः ताम्र-मृष्ट-अनुलेपनाः । सर्वे ते विविधैः यानैः शनैस् भरतम् अन्वयुः ॥२॥
suveṣāḥ śuddha-vasanāḥ tāmra-mṛṣṭa-anulepanāḥ . sarve te vividhaiḥ yānaiḥ śanais bharatam anvayuḥ ..2..
प्रहृष्ट मुदिता सेना सान्वयात् कैकयी सुतम् । भ्रातुरानयने यान्तम् भरतम् भ्रातृवत्सलम् ॥२-८३-१८॥
प्रहृष्ट-मुदिता सेना सा अन्वयात् कैकयी सुतम् । भ्रातुः आनयने यान्तम् भरतम् भ्रातृ-वत्सलम् ॥२॥
prahṛṣṭa-muditā senā sā anvayāt kaikayī sutam . bhrātuḥ ānayane yāntam bharatam bhrātṛ-vatsalam ..2..
ते गत्वा दूरमध्वानम् रथम् यानाश्वकुञ्जरैः । समासेदुस्ततो गङ्गाम् शृङ्गिबेरपुरम् प्रति ॥२-८३-१९॥
ते गत्वा दूरम् अध्वानम् रथम् यान-अश्व-कुञ्जरैः । समासेदुः ततस् गङ्गाम् शृङ्गिबेर-पुरम् प्रति ॥२॥
te gatvā dūram adhvānam ratham yāna-aśva-kuñjaraiḥ . samāseduḥ tatas gaṅgām śṛṅgibera-puram prati ..2..
यत्र रामसखो वीरो गुहो ज्ञातिगणैर्वृतः । निवसत्यप्रमादेन देशम् तम् परिपालयन् ॥२-८३-२०॥
यत्र राम-सखः वीरः गुहः ज्ञाति-गणैः वृतः । निवसति अप्रमादेन देशम् तम् परिपालयन् ॥२॥
yatra rāma-sakhaḥ vīraḥ guhaḥ jñāti-gaṇaiḥ vṛtaḥ . nivasati apramādena deśam tam paripālayan ..2..
उपेत्य तीरम् गङ्गायाश्चक्रमाकैरलङ्कतम् । व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२-८३-२१॥
उपेत्य तीरम् गङ्गायाः चक्रमाकैः अलङ्कतम् । व्यवतिष्ठत सा सेना भरतस्य अनुयायिनी ॥२॥
upetya tīram gaṅgāyāḥ cakramākaiḥ alaṅkatam . vyavatiṣṭhata sā senā bharatasya anuyāyinī ..2..
निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव उदकाम् । भरतः सचिवान् सर्वान् अब्रवीद् वाक्य कोविदः ॥२-८३-२२॥
निरीक्ष्य अनुगताम् सेनाम् ताम् च गन्गाम् शिव-उदकाम् । भरतः सचिवान् सर्वान् अब्रवीत् वाक्य-कोविदः ॥२॥
nirīkṣya anugatām senām tām ca gangām śiva-udakām . bharataḥ sacivān sarvān abravīt vākya-kovidaḥ ..2..
निवेशयत मे सैन्यम् अभिप्रायेण सर्वशः । विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा नदीम् ॥२-८३-२३॥
निवेशयत मे सैन्यम् अभिप्रायेण सर्वशस् । विश्रान्तः प्रतरिष्यामः श्वैदानीम् महा-नदीम् ॥२॥
niveśayata me sainyam abhiprāyeṇa sarvaśas . viśrāntaḥ pratariṣyāmaḥ śvaidānīm mahā-nadīm ..2..
दातुम् च तावद् इच्चामि स्वर् गतस्य मही पतेः । और्ध्वदेह निमित्त अर्थम् अवतीर्य उदकम् नदीम् ॥२-८३-२४॥
दातुम् च तावत् इच्चामि स्वर् गतस्य मही-पतेः । और्ध्वदेह-निमित्त-अर्थम् अवतीर्य उदकम् नदीम् ॥२॥
dātum ca tāvat iccāmi svar gatasya mahī-pateḥ . aurdhvadeha-nimitta-artham avatīrya udakam nadīm ..2..
तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः । न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२-८३-२५॥
तस्य एवम् ब्रुवतः अमात्याः तथा इति उक्त्वा समाहिताः । न्यवेशयम्स् तामः चन्देन स्वेन स्वेन पृथक् पृथक् ॥२॥
tasya evam bruvataḥ amātyāḥ tathā iti uktvā samāhitāḥ . nyaveśayams tāmaḥ candena svena svena pṛthak pṛthak ..2..
निवेश्य गन्गाम् अनु ताम् महा नदीम् । चमूम् विधानैः परिबर्ह शोभिनीम् । उवास रामस्य तदा महात्मनो । विचिन्तयानो भरतः निवर्तनम् ॥२-८३-२६॥
निवेश्य गन्गाम् अनु ताम् महा-नदीम् । चमूम् विधानैः परिबर्ह-शोभिनीम् । उवास रामस्य तदा महात्मनः । विचिन्तयानः भरतः निवर्तनम् ॥२॥
niveśya gangām anu tām mahā-nadīm . camūm vidhānaiḥ paribarha-śobhinīm . uvāsa rāmasya tadā mahātmanaḥ . vicintayānaḥ bharataḥ nivartanam ..2..
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२-८३॥
इति वाल्मीकि-रामायणे आदि-काव्ये अयोध्याकाण्डे त्र्यशीतितमः सर्गः ॥२॥
iti vālmīki-rāmāyaṇe ādi-kāvye ayodhyākāṇḍe tryaśītitamaḥ sargaḥ ..2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In