This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे त्रयोदशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe trayodaśaḥ sargaḥ ..1..
पुनः प्राप्ते वसन्ते तु पूर्णः संवत्सरोऽभवत् । प्रसवार्थं गतो यष्टुं हयमेधेन वीर्यवान् ॥१-१३-१॥
पुनर् प्राप्ते वसन्ते तु पूर्णः संवत्सरः अभवत् । प्रसव-अर्थम् गतः यष्टुम् हयमेधेन वीर्यवान् ॥१॥
punar prāpte vasante tu pūrṇaḥ saṃvatsaraḥ abhavat . prasava-artham gataḥ yaṣṭum hayamedhena vīryavān ..1..
अभिवाद्य वसिष्ठं च न्यायतः प्रतिपूज्य च । अब्रवीत् प्रश्रितं वाक्यं प्रसवार्थं द्विजोत्तमम् ॥१-१३-२॥
अभिवाद्य वसिष्ठम् च न्यायतः प्रतिपूज्य च । अब्रवीत् प्रश्रितम् वाक्यम् प्रसव-अर्थम् द्विजोत्तमम् ॥१॥
abhivādya vasiṣṭham ca nyāyataḥ pratipūjya ca . abravīt praśritam vākyam prasava-artham dvijottamam ..1..
यज्ञो मे क्रियतां ब्रह्मन् यथोक्तं मुनिपुङ्गव । यथा न विघ्नाः क्रियन्ते यज्ञाङ्गेषु विधीयताम् ॥१-१३-३॥
यज्ञः मे क्रियताम् ब्रह्मन् यथोक्तम् मुनि-पुङ्गव । यथा न विघ्नाः क्रियन्ते यज्ञ-अङ्गेषु विधीयताम् ॥१॥
yajñaḥ me kriyatām brahman yathoktam muni-puṅgava . yathā na vighnāḥ kriyante yajña-aṅgeṣu vidhīyatām ..1..
भवान् स्निग्धः सुहृन्मह्यं गुरुश्च परमो महान् । वोढव्यो भवता चैव भारो यज्ञस्य चोद्यतः ॥१-१३-४॥
भवान् स्निग्धः सुहृद् मह्यम् गुरुः च परमः महान् । वोढव्यः भवता च एव भारः यज्ञस्य च उद्यतः ॥१॥
bhavān snigdhaḥ suhṛd mahyam guruḥ ca paramaḥ mahān . voḍhavyaḥ bhavatā ca eva bhāraḥ yajñasya ca udyataḥ ..1..
तथेति च स राजानमब्रवीद् द्विजसत्तमः । करिष्ये सर्वमेवैतद् भवता यत् समर्थितम् ॥१-१३-५॥
तथा इति च स राजानम् अब्रवीत् द्विजसत्तमः । करिष्ये सर्वम् एव एतत् भवता यत् समर्थितम् ॥१॥
tathā iti ca sa rājānam abravīt dvijasattamaḥ . kariṣye sarvam eva etat bhavatā yat samarthitam ..1..
ततोऽब्रवीद् द्विजान् वृद्धान् यज्ञकर्मसुनिष्ठितान् । स्थापत्ये निष्ठितांश्चैव वृद्धान् परमधार्मिकान् ॥१-१३-६॥
ततस् अब्रवीत् द्विजान् वृद्धान् यज्ञ-कर्म-सु निष्ठितान् । स्थापत्ये निष्ठितान् च एव वृद्धान् परम-धार्मिकान् ॥१॥
tatas abravīt dvijān vṛddhān yajña-karma-su niṣṭhitān . sthāpatye niṣṭhitān ca eva vṛddhān parama-dhārmikān ..1..
कर्मान्तिकाञ्शिल्पकारान् वर्धकीन् खनकानपि । गणकाञ्शिल्पिनश्चैव तथैव नटनर्तकान् ॥१-१३-७॥
कर्मान्तिकान् शिल्पकारान् वर्धकीन् खनकान् अपि । गणकान् शिल्पिनः च एव तथा एव नट-नर्तकान् ॥१॥
karmāntikān śilpakārān vardhakīn khanakān api . gaṇakān śilpinaḥ ca eva tathā eva naṭa-nartakān ..1..
तथा शुचीञ्शास्त्रविदः पुरुषान् सुबहुश्रुतान् । यज्ञकर्म समीहन्तां भवन्तो राजशासनात् ॥१-१३-८॥
तथा शुचीन् शास्त्र-विदः पुरुषान् सु बहु-श्रुतान् । यज्ञ-कर्म समीहन्ताम् भवन्तः राज-शासनात् ॥१॥
tathā śucīn śāstra-vidaḥ puruṣān su bahu-śrutān . yajña-karma samīhantām bhavantaḥ rāja-śāsanāt ..1..
इष्टका बहुसाहस्री शीघ्रमानीयतामिति । उपकार्याः क्रियन्तां च राज्ञो बहुगुणान्विताः ॥१-१३-९॥
इष्टका बहु-साहस्री शीघ्रम् आनीयताम् इति । उपकार्याः क्रियन्ताम् च राज्ञः बहु-गुण-अन्विताः ॥१॥
iṣṭakā bahu-sāhasrī śīghram ānīyatām iti . upakāryāḥ kriyantām ca rājñaḥ bahu-guṇa-anvitāḥ ..1..
ब्राह्मणावसथाश्चैव कर्तव्याः शतशः शुभाः । भक्ष्यान्नपानैर्बहुभिः समुपेताः सुनिष्ठिताः ॥१-१३-१०॥
ब्राह्मण-आवसथाः च एव कर्तव्याः शतशस् शुभाः । भक्ष्य-अन्न-पानैः बहुभिः समुपेताः सु निष्ठिताः ॥१॥
brāhmaṇa-āvasathāḥ ca eva kartavyāḥ śataśas śubhāḥ . bhakṣya-anna-pānaiḥ bahubhiḥ samupetāḥ su niṣṭhitāḥ ..1..
तथा पौरजनस्यापि कर्तव्याश्च सुविस्तराः । आगतानां सुदूराच्च पार्थिवानां पृथक् पृथक् ॥१-१३-११॥
तथा पौर-जनस्य अपि कर्तव्याः च सु विस्तराः । आगतानाम् सु दूरात् च पार्थिवानाम् पृथक् पृथक् ॥१॥
tathā paura-janasya api kartavyāḥ ca su vistarāḥ . āgatānām su dūrāt ca pārthivānām pṛthak pṛthak ..1..
वाजिवारणशालाश्च तथा शय्यागृहाणि च । भटानां महदावासा वैदेशिकनिवासिनाम् ॥१-१३-१२॥
वाजि-वारण-शालाः च तथा शय्या-गृहाणि च । भटानाम् महत्-आवासाः वैदेशिक-निवासिनाम् ॥१॥
vāji-vāraṇa-śālāḥ ca tathā śayyā-gṛhāṇi ca . bhaṭānām mahat-āvāsāḥ vaideśika-nivāsinām ..1..
आवासा बहुभक्ष्या वै सर्वकामैरुपस्थिताः । तथा पौरजनस्यापि जनस्य बहुशोभनम् ॥१-१३-१३॥
आवासाः बहु-भक्ष्याः वै सर्व-कामैः उपस्थिताः । तथा पौर-जनस्य अपि जनस्य बहु-शोभनम् ॥१॥
āvāsāḥ bahu-bhakṣyāḥ vai sarva-kāmaiḥ upasthitāḥ . tathā paura-janasya api janasya bahu-śobhanam ..1..
दातव्यमन्नं विधिवत् सत्कृत्य न तु लीलया । सर्वे वर्णा यथा पूजां प्राप्नुवन्ति सुसत्कृताः ॥१-१३-१४॥
दातव्यम् अन्नम् विधिवत् सत्कृत्य न तु लीलया । सर्वे वर्णाः यथा पूजाम् प्राप्नुवन्ति सु सत्कृताः ॥१॥
dātavyam annam vidhivat satkṛtya na tu līlayā . sarve varṇāḥ yathā pūjām prāpnuvanti su satkṛtāḥ ..1..
न चावज्ञा प्रयोक्तव्या कामक्रोधवशादपि । यज्ञकर्मसु ये व्यग्राः पुरुषाः शिल्पिनस्तथा ॥१-१३-१५॥
न च अवज्ञा प्रयोक्तव्या काम-क्रोध-वशात् अपि । यज्ञ-कर्मसु ये व्यग्राः पुरुषाः शिल्पिनः तथा ॥१॥
na ca avajñā prayoktavyā kāma-krodha-vaśāt api . yajña-karmasu ye vyagrāḥ puruṣāḥ śilpinaḥ tathā ..1..
तेषामपि विशेषेण पूजा कार्या यथाक्रमम् । ये स्युः सम्पूजिताः सर्वे वसुभिर्भोजनेन च ॥१-१३-१६॥
तेषाम् अपि विशेषेण पूजा कार्या यथाक्रमम् । ये स्युः सम्पूजिताः सर्वे वसुभिः भोजनेन च ॥१॥
teṣām api viśeṣeṇa pūjā kāryā yathākramam . ye syuḥ sampūjitāḥ sarve vasubhiḥ bhojanena ca ..1..
यथा सर्वं सुविहितं न किंचित् परिहीयते । तथा भवन्तः कुर्वन्तु प्रीतियुक्तेन चेतसा ॥१-१३-१७॥
यथा सर्वम् सु विहितम् न किंचिद् परिहीयते । तथा भवन्तः कुर्वन्तु प्रीति-युक्तेन चेतसा ॥१॥
yathā sarvam su vihitam na kiṃcid parihīyate . tathā bhavantaḥ kurvantu prīti-yuktena cetasā ..1..
ततः सर्वे समागम्य वसिष्ठमिदमब्रुवन् । यथेष्टं तत् सुविहितं न किंचित् परिहीयते ॥१-१३-१८॥
ततस् सर्वे समागम्य वसिष्ठम् इदम् अब्रुवन् । यथा इष्टम् तत् सु विहितम् न किंचिद् परिहीयते ॥१॥
tatas sarve samāgamya vasiṣṭham idam abruvan . yathā iṣṭam tat su vihitam na kiṃcid parihīyate ..1..
यथोक्तं तत् करिष्यामो न किंचित् परिहास्यते । ततः सुमन्त्रमाहूय वसिष्ठो वाक्यमब्रवीत् ॥१-१३-१९॥
यथा उक्तम् तत् करिष्यामः न किंचिद् परिहास्यते । ततस् सुमन्त्रम् आहूय वसिष्ठः वाक्यम् अब्रवीत् ॥१॥
yathā uktam tat kariṣyāmaḥ na kiṃcid parihāsyate . tatas sumantram āhūya vasiṣṭhaḥ vākyam abravīt ..1..
निमन्त्रयस्व नृपतीन् पृथिव्यां ये च धार्मिकाः । ब्राह्मणान् क्षत्रियान् वैश्याञ्शूद्रांश्चैव सहस्रशः ॥१-१३-२०॥
निमन्त्रयस्व नृपतीन् पृथिव्याम् ये च धार्मिकाः । ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रान् च एव सहस्रशस् ॥१॥
nimantrayasva nṛpatīn pṛthivyām ye ca dhārmikāḥ . brāhmaṇān kṣatriyān vaiśyān śūdrān ca eva sahasraśas ..1..
समानयस्व सत्कृत्य सर्वदेशेषु मानवान् । मिथिलाधिपतिं शूरं जनकं सत्यवादिनम् ॥१-१३-२१॥
समानयस्व सत्कृत्य सर्व-देशेषु मानवान् । मिथिला-अधिपतिम् शूरम् जनकम् सत्य-वादिनम् ॥१॥
samānayasva satkṛtya sarva-deśeṣu mānavān . mithilā-adhipatim śūram janakam satya-vādinam ..1..
तमानय महाभागं स्वयमेव सुसत्कृतम् । पूर्वं सम्बन्धिनं ज्ञात्वा ततः पूर्वं ब्रवीमि ते ॥१-१३-२२॥
तम् आनय महाभागम् स्वयम् एव सु सत्कृतम् । पूर्वम् सम्बन्धिनम् ज्ञात्वा ततस् पूर्वम् ब्रवीमि ते ॥१॥
tam ānaya mahābhāgam svayam eva su satkṛtam . pūrvam sambandhinam jñātvā tatas pūrvam bravīmi te ..1..
तथा काशिपतिं स्निग्धं सततं प्रियवादिनम् । सद्वृत्तं देवसंकाशं स्वयमेवानयस्व ह ॥१-१३-२३॥
तथा काशि-पतिम् स्निग्धम् सततम् प्रिय-वादिनम् । सत्-वृत्तम् देव-संकाशम् स्वयम् एवा आनयस्व ह ॥१॥
tathā kāśi-patim snigdham satatam priya-vādinam . sat-vṛttam deva-saṃkāśam svayam evā ānayasva ha ..1..
तथा केकयराजानं वृद्धं परमधार्मिकम् । श्वशुरं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२४॥
तथा केकय-राजानम् वृद्धम् परम-धार्मिकम् । श्वशुरम् राज-सिंहस्य स पुत्रम् तम् इह आनय ॥१॥
tathā kekaya-rājānam vṛddham parama-dhārmikam . śvaśuram rāja-siṃhasya sa putram tam iha ānaya ..1..
अङ्गेश्वरं महेष्वासं रोमपादं सुसत्कृतम् । वयस्यं राजसिंहस्य सपुत्रं तमिहानय ॥१-१३-२५॥
अङ्ग-ईश्वरम् महा-इष्वासम् रोमपादम् सु सत्कृतम् । वयस्यम् राज-सिंहस्य स पुत्रम् तम् इह आनय ॥१॥
aṅga-īśvaram mahā-iṣvāsam romapādam su satkṛtam . vayasyam rāja-siṃhasya sa putram tam iha ānaya ..1..
तथा कोसलराजानं भानुमन्तं सुसंस्कृतम् । मगधाधिपतिं शूरं सर्वशास्त्रविशारदम् ॥१-१३-२६॥
तथा कोसल-राजानम् भानुमन्तम् सु संस्कृतम् । मगध-अधिपतिम् शूरम् सर्व-शास्त्र-विशारदम् ॥१॥
tathā kosala-rājānam bhānumantam su saṃskṛtam . magadha-adhipatim śūram sarva-śāstra-viśāradam ..1..
प्राप्तिज्ञं परमोदारं सत्कृतं पुरुषर्षभम् । राज्ञः शासनमादाय चोदयस्व नृपर्षभान् । प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयांश्च पार्थिवान् ॥१-१३-२७॥
प्राप्ति-ज्ञम् परम-उदारम् सत्कृतम् पुरुष-ऋषभम् । राज्ञः शासनम् आदाय चोदयस्व नृप-ऋषभान् । प्राचीनान् सिन्धुसौवीरान् सौराष्ठ्रेयान् च पार्थिवान् ॥१॥
prāpti-jñam parama-udāram satkṛtam puruṣa-ṛṣabham . rājñaḥ śāsanam ādāya codayasva nṛpa-ṛṣabhān . prācīnān sindhusauvīrān saurāṣṭhreyān ca pārthivān ..1..
दाक्षिणात्यान् नरेन्द्रांश्च समस्तानानयस्व ह । सन्ति स्निग्धाश्च ये चान्ये राजानः पृथिवीतले ॥१-१३-२८॥
दाक्षिणात्यान् नरेन्द्रान् च समस्तान् आनयस्व ह । सन्ति स्निग्धाः च ये च अन्ये राजानः पृथिवी-तले ॥१॥
dākṣiṇātyān narendrān ca samastān ānayasva ha . santi snigdhāḥ ca ye ca anye rājānaḥ pṛthivī-tale ..1..
तानानय यथा क्षिप्रं सानुगान् सहबान्धवान् । एतान् दूतैर्महाभागैरानयस्व नृपाज्ञया ॥१-१३-२९॥
तान् आनय यथा क्षिप्रम् स अनुगान् सहबान्धवान् । एतान् दूतैः महाभागैः आनयस्व नृप-आज्ञया ॥१॥
tān ānaya yathā kṣipram sa anugān sahabāndhavān . etān dūtaiḥ mahābhāgaiḥ ānayasva nṛpa-ājñayā ..1..
वसिष्ठवाक्यं तच्छ्रुत्वा सुमन्त्रस्त्वरितं तदा । व्यादिशत् पुरुषांस्तत्र राज्ञामानयने शुभान् ॥१-१३-३०॥
वसिष्ठ-वाक्यम् तत् श्रुत्वा सुमन्त्रः त्वरितम् तदा । व्यादिशत् पुरुषान् तत्र राज्ञाम् आनयने शुभान् ॥१॥
vasiṣṭha-vākyam tat śrutvā sumantraḥ tvaritam tadā . vyādiśat puruṣān tatra rājñām ānayane śubhān ..1..
स्वयमेव हि धर्मात्मा प्रयातो मुनिशासनात् । सुमन्त्रस्त्वरितो भूत्वा समानेतुं महामतिः ॥१-१३-३१॥
स्वयम् एव हि धर्म-आत्मा प्रयातः मुनि-शासनात् । सुमन्त्रः त्वरितः भूत्वा समानेतुम् महामतिः ॥१॥
svayam eva hi dharma-ātmā prayātaḥ muni-śāsanāt . sumantraḥ tvaritaḥ bhūtvā samānetum mahāmatiḥ ..1..
ते च कर्मान्तिकाः सर्वे वसिष्ठाय महर्षये । सर्वं निवेदयन्ति स्म यज्ञे यदुपकल्पितम् ॥१-१३-३२॥
ते च कर्मान्तिकाः सर्वे वसिष्ठाय महा-ऋषये । सर्वम् निवेदयन्ति स्म यज्ञे यत् उपकल्पितम् ॥१॥
te ca karmāntikāḥ sarve vasiṣṭhāya mahā-ṛṣaye . sarvam nivedayanti sma yajñe yat upakalpitam ..1..
ततः प्रीतो द्विजश्रेष्ठस्तान् सर्वान् मुनिरब्रवीत् । अवज्ञया न दातव्यं कस्यचिल्लीलयापि वा ॥१-१३-३३॥
ततस् प्रीतः द्विजश्रेष्ठः तान् सर्वान् मुनिः अब्रवीत् । अवज्ञया न दातव्यम् कस्यचिद् लीलया अपि वा ॥१॥
tatas prītaḥ dvijaśreṣṭhaḥ tān sarvān muniḥ abravīt . avajñayā na dātavyam kasyacid līlayā api vā ..1..
अवज्ञया कृतं हन्याद् दातारं नात्र संशयः । ततः कैश्चिदहोरात्रैरुपयाता महीक्षितः ॥१-१३-३४॥
अवज्ञया कृतम् हन्यात् दातारम् न अत्र संशयः । ततस् कैश्चिद् अहोरात्रैः उपयाताः महीक्षितः ॥१॥
avajñayā kṛtam hanyāt dātāram na atra saṃśayaḥ . tatas kaiścid ahorātraiḥ upayātāḥ mahīkṣitaḥ ..1..
बहूनि रत्नान्यादाय राज्ञो दशरथस्य ह । ततो वसिष्ठः सुप्रीतो राजानमिदमब्रवीत् ॥१-१३-३५॥
बहूनि रत्नानि आदाय राज्ञः दशरथस्य ह । ततस् वसिष्ठः सु प्रीतः राजानम् इदम् अब्रवीत् ॥१॥
bahūni ratnāni ādāya rājñaḥ daśarathasya ha . tatas vasiṣṭhaḥ su prītaḥ rājānam idam abravīt ..1..
उपयाता नरव्याघ्र राजानस्तव शासनात् । मयापि सत्कृताः सर्वे यथार्हं राजसत्तमाः ॥१-१३-३६॥
उपयाताः नर-व्याघ्र राजानः तव शासनात् । मया अपि सत्कृताः सर्वे यथार्हम् राज-सत्तमाः ॥१॥
upayātāḥ nara-vyāghra rājānaḥ tava śāsanāt . mayā api satkṛtāḥ sarve yathārham rāja-sattamāḥ ..1..
यज्ञियं च कृतं सर्वं पुरुषैः सुसमाहितैः । निर्यातु च भवान् यष्टुं यज्ञायतनमन्तिकात् ॥१-१३-३७॥
यज्ञियम् च कृतम् सर्वम् पुरुषैः सु समाहितैः । निर्यातु च भवान् यष्टुम् यज्ञ-आयतनम् अन्तिकात् ॥१॥
yajñiyam ca kṛtam sarvam puruṣaiḥ su samāhitaiḥ . niryātu ca bhavān yaṣṭum yajña-āyatanam antikāt ..1..
सर्वकामैरुपहृतैरुपेतं वै समन्ततः । द्रष्टुमर्हसि राजेन्द्र मनसेव विनिर्मितम् ॥१-१३-३८॥
सर्व-कामैः उपहृतैः उपेतम् वै समन्ततः । द्रष्टुम् अर्हसि राज-इन्द्र मनसा इव विनिर्मितम् ॥१॥
sarva-kāmaiḥ upahṛtaiḥ upetam vai samantataḥ . draṣṭum arhasi rāja-indra manasā iva vinirmitam ..1..
तथा वसिष्ठवचनादृशष्यशृङ्गस्य चोभयोः । दिवसे शुभनक्षत्रे निर्यातो जगतीपतिः ॥१-१३-३९॥
तथा च उभयोः । दिवसे शुभ-नक्षत्रे निर्यातः जगतीपतिः ॥१॥
tathā ca ubhayoḥ . divase śubha-nakṣatre niryātaḥ jagatīpatiḥ ..1..
ततो वसिष्ठप्रमुखाः सर्व एव द्विजोत्तमाः । ऋष्यशृङ्गं पुरस्कृत्य यज्ञकर्मारभंस्तदा ॥१-१३-४०॥
ततस् वसिष्ठ-प्रमुखाः सर्वे एव द्विजोत्तमाः । ऋष्यशृङ्गम् पुरस्कृत्य यज्ञ-कर्म आरभन् तदा ॥१॥
tatas vasiṣṭha-pramukhāḥ sarve eva dvijottamāḥ . ṛṣyaśṛṅgam puraskṛtya yajña-karma ārabhan tadā ..1..
यज्ञवाटं गताः सर्वे यथाशास्त्रं यथाविधि । श्रीमांश्च सह पत्नीभी राजा दीक्षामुपाविशत् ॥१-१३-४१॥
यज्ञ-वाटम् गताः सर्वे यथाशास्त्रम् यथाविधि । श्रीमान् च सह पत्नीभिः राजा दीक्षाम् उपाविशत् ॥१॥
yajña-vāṭam gatāḥ sarve yathāśāstram yathāvidhi . śrīmān ca saha patnībhiḥ rājā dīkṣām upāviśat ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥१-१३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोदशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe trayodaśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In