This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चदशः सर्गः ॥१-१५॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे पञ्चदशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe pañcadaśaḥ sargaḥ ..1..
मेधावी तु ततो ध्यात्वा स किञ्चिदिदमुत्तरम् । लब्धसंज्ञस्ततस्तं तु वेदज्ञो नृपमब्रवीत् ॥१-१५-१॥
मेधावी तु ततस् ध्यात्वा स किञ्चिद् इदम् उत्तरम् । लब्ध-संज्ञः ततस् तम् तु वेद-ज्ञः नृपम् अब्रवीत् ॥१॥
medhāvī tu tatas dhyātvā sa kiñcid idam uttaram . labdha-saṃjñaḥ tatas tam tu veda-jñaḥ nṛpam abravīt ..1..
इष्टिं तेऽहं करिष्यामि पुत्रीयां पुत्रकारणात् । अथर्वशिरसि प्रोक्तैर्मन्त्रैः सिद्धां विधानतः ॥१-१५-२॥
इष्टिम् ते अहम् करिष्यामि पुत्रीयाम् पुत्र-कारणात् । अथर्वशिरसि प्रोक्तैः मन्त्रैः सिद्धाम् विधानतः ॥१॥
iṣṭim te aham kariṣyāmi putrīyām putra-kāraṇāt . atharvaśirasi proktaiḥ mantraiḥ siddhām vidhānataḥ ..1..
ततः प्राक्रमदिष्टिं तां पुत्रीयां पुत्रकारणात् । जुहावाग्नौ च तेजस्वी मन्त्रदृष्टेन कर्मणा ॥१-१५-३॥
ततस् प्राक्रमत्-इष्टिम् ताम् पुत्रीयाम् पुत्र-कारणात् । जुहाव अग्नौ च तेजस्वी मन्त्र-दृष्टेन कर्मणा ॥१॥
tatas prākramat-iṣṭim tām putrīyām putra-kāraṇāt . juhāva agnau ca tejasvī mantra-dṛṣṭena karmaṇā ..1..
ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । भागप्रतिग्रहार्थं वै समवेता यथाविधि ॥१-१५-४॥
ततस् देवाः स गन्धर्वाः सिद्धाः च परम-ऋषयः । भाग-प्रतिग्रह-अर्थम् वै समवेताः यथाविधि ॥१॥
tatas devāḥ sa gandharvāḥ siddhāḥ ca parama-ṛṣayaḥ . bhāga-pratigraha-artham vai samavetāḥ yathāvidhi ..1..
ताः समेत्य यथान्यायं तस्मिन् सदसि देवताः । अब्रुवँल्लोककर्तारं ब्रह्माणं वचनं ततः ॥१-१५-५॥
ताः समेत्य यथान्यायम् तस्मिन् सदसि देवताः । अब्रुवन् लोककर्तारम् ब्रह्माणम् वचनम् ततस् ॥१॥
tāḥ sametya yathānyāyam tasmin sadasi devatāḥ . abruvan lokakartāram brahmāṇam vacanam tatas ..1..
भगवंस्त्वत्प्रसादेन रावणो नाम राक्षसः । सर्वान् नो बाधते वीर्याच्छासितुं तं न शक्नुमः ॥१-१५-६॥
भगवन् त्वद्-प्रसादेन रावणः नाम राक्षसः । सर्वान् नः बाधते वीर्यात् शासितुम् तम् न शक्नुमः ॥१॥
bhagavan tvad-prasādena rāvaṇaḥ nāma rākṣasaḥ . sarvān naḥ bādhate vīryāt śāsitum tam na śaknumaḥ ..1..
त्वया तस्मै वरो दत्तः प्रीतेन भगवंस्तदा । मानयन्तश्च तं नित्यं सर्वं तस्य क्षमामहे ॥१-१५-७॥
त्वया तस्मै वरः दत्तः प्रीतेन भगवन् तदा । मानयन्तः च तम् नित्यम् सर्वम् तस्य क्षमामहे ॥१॥
tvayā tasmai varaḥ dattaḥ prītena bhagavan tadā . mānayantaḥ ca tam nityam sarvam tasya kṣamāmahe ..1..
उद्वेजयति लोकांस्त्रीनुच्छ्रितान् द्वेष्टि दुर्मतिः । शक्रं त्रिदशराजानं प्रधर्षयितुमिच्छति ॥१-१५-८॥
उद्वेजयति लोकान् त्रीन् उच्छ्रितान् द्वेष्टि दुर्मतिः । शक्रम् त्रिदश-राजानम् प्रधर्षयितुम् इच्छति ॥१॥
udvejayati lokān trīn ucchritān dveṣṭi durmatiḥ . śakram tridaśa-rājānam pradharṣayitum icchati ..1..
ऋषीन् यक्षान् सगन्धर्वान् ब्राह्मणानसुरांस्तदा । अतिक्रामति दुर्धर्षो वरदानेन मोहितः ॥१-१५-९॥
ऋषीन् यक्षान् स गन्धर्वान् ब्राह्मणान् असुरान् तदा । अतिक्रामति दुर्धर्षः वर-दानेन मोहितः ॥१॥
ṛṣīn yakṣān sa gandharvān brāhmaṇān asurān tadā . atikrāmati durdharṣaḥ vara-dānena mohitaḥ ..1..
नैनं सूर्यः प्रतपति पार्श्वे वाति न मारुतः । चलोर्मिमाली तं दृष्ट्वा समुद्रोऽपि न कम्पते ॥१-१५-१०॥
न एनम् सूर्यः प्रतपति पार्श्वे वाति न मारुतः । चल-ऊर्मिमाली तम् दृष्ट्वा समुद्रः अपि न कम्पते ॥१॥
na enam sūryaḥ pratapati pārśve vāti na mārutaḥ . cala-ūrmimālī tam dṛṣṭvā samudraḥ api na kampate ..1..
तन्महन्नो भयं तस्माद् राक्षसाद् घोरदर्शनात् । वधार्थं तस्य भगवन्नुपायं कर्तुमर्हसि ॥१-१५-११॥
तत् महत् नः भयम् तस्मात् राक्षसात् घोर-दर्शनात् । वध-अर्थम् तस्य भगवन् उपायम् कर्तुम् अर्हसि ॥१॥
tat mahat naḥ bhayam tasmāt rākṣasāt ghora-darśanāt . vadha-artham tasya bhagavan upāyam kartum arhasi ..1..
एवमुक्तः सुरैः सर्वैश्चिन्तयित्वा ततोऽब्रवीत् । हन्तायं विदितस्तस्य वधोपायो दुरात्मनः ॥१-१५-१२॥
एवम् उक्तः सुरैः सर्वैः चिन्तयित्वा ततस् अब्रवीत् । हन्त अयम् विदितः तस्य वध-उपायः दुरात्मनः ॥१॥
evam uktaḥ suraiḥ sarvaiḥ cintayitvā tatas abravīt . hanta ayam viditaḥ tasya vadha-upāyaḥ durātmanaḥ ..1..
तेन गन्धर्वयक्षाणां देवदानवरक्षसाम् । अवध्योऽस्मीति वागुक्ता तथेत्युक्तं च तन्मया ॥१-१५-१३॥
तेन गन्धर्व-यक्षाणाम् देव-दानव-रक्षसाम् । अवध्यः अस्मि इति वाच् उक्ता तथा इति उक्तम् च तत् मया ॥१॥
tena gandharva-yakṣāṇām deva-dānava-rakṣasām . avadhyaḥ asmi iti vāc uktā tathā iti uktam ca tat mayā ..1..
नाकीर्तयदवज्ञानात् तद् रक्षो मानुषांस्तदा । तस्मात् स मानुषाद् वध्यो मृत्युर्नान्योऽस्य विद्यते ॥१-१५-१४॥
न अकीर्तयत् अवज्ञानात् तत् रक्षः मानुषान् तदा । तस्मात् स मानुषात् वध्यः मृत्युः न अन्यः अस्य विद्यते ॥१॥
na akīrtayat avajñānāt tat rakṣaḥ mānuṣān tadā . tasmāt sa mānuṣāt vadhyaḥ mṛtyuḥ na anyaḥ asya vidyate ..1..
एतच्छ्रुत्वा प्रियं वाक्यं ब्रह्मणा समुदाहृतम् । देवा महर्षयः सर्वे प्रहृष्टास्तेऽभवंस्तदा ॥१-१५-१५॥
एतत् श्रुत्वा प्रियम् वाक्यम् ब्रह्मणा समुदाहृतम् । देवाः महा-ऋषयः सर्वे प्रहृष्टाः ते अभवन् तदा ॥१॥
etat śrutvā priyam vākyam brahmaṇā samudāhṛtam . devāḥ mahā-ṛṣayaḥ sarve prahṛṣṭāḥ te abhavan tadā ..1..
एतस्मिन्नन्तरे विष्णुरुपयातो महाद्युतिः । शङ्खचक्रगदापाणिः पीतवासा जगत्पतिः ॥१-१५-१६॥
एतस्मिन् अन्तरे विष्णुः उपयातः महा-द्युतिः । शङ्ख-चक्र-गदा-पाणिः पीत-वासाः जगत्पतिः ॥१॥
etasmin antare viṣṇuḥ upayātaḥ mahā-dyutiḥ . śaṅkha-cakra-gadā-pāṇiḥ pīta-vāsāḥ jagatpatiḥ ..1..
वैनतेयं समारुह्य भास्करस्तोयदम् यथा । तप्तहाटककेयूरो वन्द्यमानः सुरोत्तमैः ॥१-१५-१७॥
वैनतेयम् समारुह्य भास्करः तोयदम् यथा । तप्त-हाटक-केयूरः वन्द्यमानः सुर-उत्तमैः ॥१॥
vainateyam samāruhya bhāskaraḥ toyadam yathā . tapta-hāṭaka-keyūraḥ vandyamānaḥ sura-uttamaiḥ ..1..
ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः । तमब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१-१५-१८॥
ब्रह्मणा च समागत्य तत्र तस्थौ समाहितः । तम् अब्रुवन् सुराः सर्वे समभिष्टूय संनताः ॥१॥
brahmaṇā ca samāgatya tatra tasthau samāhitaḥ . tam abruvan surāḥ sarve samabhiṣṭūya saṃnatāḥ ..1..
त्वां नियोक्ष्यामहे विष्णो लोकानां हितकाम्यया । राज्ञो दशरथस्य त्वमयोध्याधिपतेर्विभो ॥१-१५-१९॥
त्वाम् नियोक्ष्यामहे विष्णो लोकानाम् हित-काम्यया । राज्ञः दशरथस्य त्वम् अयोध्या-अधिपतेः विभो ॥१॥
tvām niyokṣyāmahe viṣṇo lokānām hita-kāmyayā . rājñaḥ daśarathasya tvam ayodhyā-adhipateḥ vibho ..1..
धर्मज्ञस्य वदान्यस्य महर्षिसमतेजसः । तस्य भार्यासु तिसृषु ह्रीश्रीकीर्त्युपमासु च ॥१-१५-२०॥
धर्म-ज्ञस्य वदान्यस्य महा-ऋषि-सम-तेजसः । तस्य भार्यासु तिसृषु ह्री-श्री-कीर्ति-उपमासु च ॥१॥
dharma-jñasya vadānyasya mahā-ṛṣi-sama-tejasaḥ . tasya bhāryāsu tisṛṣu hrī-śrī-kīrti-upamāsu ca ..1..
विष्णो पुत्रत्वमागच्छ कृत्वाऽऽत्मानं चतुर्विधम् । तत्र त्वं मानुषो भूत्वा प्रवृद्धं लोककण्टकम् ॥१-१५-२१॥
विष्णो पुत्र-त्वम् आगच्छ कृत्वा आत्मानम् चतुर्विधम् । तत्र त्वम् मानुषः भूत्वा प्रवृद्धम् लोककण्टकम् ॥१॥
viṣṇo putra-tvam āgaccha kṛtvā ātmānam caturvidham . tatra tvam mānuṣaḥ bhūtvā pravṛddham lokakaṇṭakam ..1..
अवध्यं दैवतैर्विष्णो समरे जहि रावणम् । स हि देवान् सगन्धर्वान् सिद्धांश्च ऋषिसत्तमान् ॥१-१५-२२॥
अवध्यम् दैवतैः विष्णो समरे जहि रावणम् । स हि देवान् स गन्धर्वान् सिद्धान् च ऋषि-सत्तमान् ॥१॥
avadhyam daivataiḥ viṣṇo samare jahi rāvaṇam . sa hi devān sa gandharvān siddhān ca ṛṣi-sattamān ..1..
राक्षसो रावणो मूर्खो वीर्योद्रेकेण बाधते । ऋषयश्च ततस्तेन गन्धर्वाप्सरसस्तथा ॥१-१५-२३॥
राक्षसः रावणः मूर्खः वीर्य-उद्रेकेण बाधते । ऋषयः च ततस् तेन गन्धर्व-अप्सरसः तथा ॥१॥
rākṣasaḥ rāvaṇaḥ mūrkhaḥ vīrya-udrekeṇa bādhate . ṛṣayaḥ ca tatas tena gandharva-apsarasaḥ tathā ..1..
क्रीडन्तो नन्दनवने रौद्रेण विनिपातिताः । वधार्थं वयमायातास्तस्य वै मुनिभिः सह ॥१-१५-२४॥
क्रीडन्तः नन्दन-वने रौद्रेण विनिपातिताः । वध-अर्थम् वयम् आयाताः तस्य वै मुनिभिः सह ॥१॥
krīḍantaḥ nandana-vane raudreṇa vinipātitāḥ . vadha-artham vayam āyātāḥ tasya vai munibhiḥ saha ..1..
सिद्धगन्धर्वयक्षाश्च ततस्त्वां श्ररणं गताः । त्वं गतिः परमा देव सर्वेषाम् नः परंतपः ॥१-१५-२५॥
सिद्ध-गन्धर्व-यक्षाः च ततस् त्वाम् श्ररणम् गताः । त्वम् गतिः परमा देव सर्वेषाम् नः परंतपः ॥१॥
siddha-gandharva-yakṣāḥ ca tatas tvām śraraṇam gatāḥ . tvam gatiḥ paramā deva sarveṣām naḥ paraṃtapaḥ ..1..
वधाय देवशतॄणां नृणां लोके मनः कुरु । एवं स्तुतस्तु देवेशो विष्णुस्त्रिदशपुंगवः ॥१-१५-२६॥
वधाय देव-शतॄणाम् नृणाम् लोके मनः कुरु । एवम् स्तुतः तु देवेशः विष्णुः त्रिदश-पुंगवः ॥१॥
vadhāya deva-śatṝṇām nṛṇām loke manaḥ kuru . evam stutaḥ tu deveśaḥ viṣṇuḥ tridaśa-puṃgavaḥ ..1..
पितामहपुरोगांस्तान् सर्वलोकनमस्कृतः । अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्मसंहितान् ॥१-१५-२७॥
पितामह-पुरोगान् तान् सर्व-लोक-नमस्कृतः । अब्रवीत् त्रिदशान् सर्वान् समेतान् धर्म-संहितान् ॥१॥
pitāmaha-purogān tān sarva-loka-namaskṛtaḥ . abravīt tridaśān sarvān sametān dharma-saṃhitān ..1..
भयं त्यजत भद्रं वो हितार्थं युधि रावणम् । सपुत्रपौत्रं सामात्यं समन्त्रिज्ञातिबान्धवम् ॥१-१५-२८॥
भयम् त्यजत भद्रम् वः हित-अर्थम् युधि रावणम् । स पुत्र-पौत्रम् स अमात्यम् स मन्त्रि-ज्ञाति-बान्धवम् ॥१॥
bhayam tyajata bhadram vaḥ hita-artham yudhi rāvaṇam . sa putra-pautram sa amātyam sa mantri-jñāti-bāndhavam ..1..
हत्वा क्रूरं दुराधर्षं देवर्षीणां भयावहम् । दशवर्षसहस्राणि दशवर्षशतानि च ॥१-१५-२९॥
हत्वा क्रूरम् दुराधर्षम् देवर्षीणाम् भय-आवहम् । दश-वर्ष-सहस्राणि दश-वर्ष-शतानि च ॥१॥
hatvā krūram durādharṣam devarṣīṇām bhaya-āvaham . daśa-varṣa-sahasrāṇi daśa-varṣa-śatāni ca ..1..
वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् । एवं दत्त्वा वरं देवो देवानां विष्णुरात्मवान् ॥१-१५-३०॥
वत्स्यामि मानुषे लोके पालयन् पृथिवीम् इमाम् । एवम् दत्त्वा वरम् देवः देवानाम् विष्णुः आत्मवान् ॥१॥
vatsyāmi mānuṣe loke pālayan pṛthivīm imām . evam dattvā varam devaḥ devānām viṣṇuḥ ātmavān ..1..
मानुष्ये चिन्तयामास जन्मभूमिमथात्मनः । ततः पद्मपलाशाक्षः कृत्वात्मानं चतुर्विधम् ॥१-१५-३१॥
मानुष्ये चिन्तयामास जन्म-भूमिम् अथ आत्मनः । ततस् पद्म-पलाश-अक्षः कृत्वा आत्मानम् चतुर्विधम् ॥१॥
mānuṣye cintayāmāsa janma-bhūmim atha ātmanaḥ . tatas padma-palāśa-akṣaḥ kṛtvā ātmānam caturvidham ..1..
पितरं रोचयामास तदा दशरथं नृपम् । ततो देवर्षिगन्धर्वाः सरुद्राः साप्सरोगणाः । स्तुतिभिर्दिव्यरूपाभिस्तुष्टुवुर्मधुसूदनम् ॥१-१५-३२॥
पितरम् रोचयामास तदा दशरथम् नृपम् । ततस् देव-ऋषि-गन्धर्वाः स रुद्राः स अप्सरः-गणाः । स्तुतिभिः दिव्य-रूपाभिः तुष्टुवुः मधुसूदनम् ॥१॥
pitaram rocayāmāsa tadā daśaratham nṛpam . tatas deva-ṛṣi-gandharvāḥ sa rudrāḥ sa apsaraḥ-gaṇāḥ . stutibhiḥ divya-rūpābhiḥ tuṣṭuvuḥ madhusūdanam ..1..
तमुद्धतं रावणमुग्रतेजसं प्रवृद्धदर्पं त्रिदशेश्वरद्विषम् । विरावणं साधु तपस्विकण्टकं तपस्विनामुद्धर तं भयावहम् ॥१-१५-३३॥
तम् उद्धतम् रावणम् उग्र-तेजसम् प्रवृद्ध-दर्पम् त्रिदश-ईश्वर-द्विषम् । विरावणम् साधु तपस्वि-कण्टकम् तपस्विनाम् उद्धर तम् भय-आवहम् ॥१॥
tam uddhatam rāvaṇam ugra-tejasam pravṛddha-darpam tridaśa-īśvara-dviṣam . virāvaṇam sādhu tapasvi-kaṇṭakam tapasvinām uddhara tam bhaya-āvaham ..1..
तमेव हत्वा सबलं सबान्धवम्विरावणं रावणमुग्रपौरुषम् । स्वर्लोकमागच्छ गतज्वरश्चिरंसुरेन्द्रगुप्तं गतदोषकल्मषम् ॥१-१५-३४॥
तम् एव हत्वा स बलम् स बान्धवम् विरावणम् रावणम् उग्र-पौरुषम् । स्वर् लोकम् आगच्छ गत-ज्वरः चिरम् सुर-इन्द्र-गुप्तम् गत-दोष-कल्मषम् ॥१॥
tam eva hatvā sa balam sa bāndhavam virāvaṇam rāvaṇam ugra-pauruṣam . svar lokam āgaccha gata-jvaraḥ ciram sura-indra-guptam gata-doṣa-kalmaṣam ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चदशः सर्गः ॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcadaśaḥ sargaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In