This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टादशः सर्गः ॥१-१८॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे अष्टादशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe aṣṭādaśaḥ sargaḥ ..1..
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः । प्रतिगृह्यमरा भागान् प्रतिजग्मुर्यथागतम् ॥१-१८-१॥
निर्वृत्ते तु क्रतौ तस्मिन् हयमेधे महात्मनः । प्रतिगृह्य अमराः भागान् प्रतिजग्मुः यथागतम् ॥१॥
nirvṛtte tu kratau tasmin hayamedhe mahātmanaḥ . pratigṛhya amarāḥ bhāgān pratijagmuḥ yathāgatam ..1..
समाप्तदीक्षानियमः पत्नीगणसमन्वितः । प्रविवेश पुरीं राजा सभृत्यबलवाहनः ॥१-१८-२॥
समाप्त-दीक्षा-नियमः पत्नी-गण-समन्वितः । प्रविवेश पुरीम् राजा स भृत्य-बल-वाहनः ॥१॥
samāpta-dīkṣā-niyamaḥ patnī-gaṇa-samanvitaḥ . praviveśa purīm rājā sa bhṛtya-bala-vāhanaḥ ..1..
यथार्हं पूजितास्तेन राज्ञा वै पृथिवीश्वराः । मुदिताः प्रययुर्देशान् प्रणम्य मुनिपुंगवम् ॥१-१८-३॥
यथार्हम् पूजिताः तेन राज्ञा वै पृथिवीश्वराः । मुदिताः प्रययुः देशान् प्रणम्य मुनि-पुंगवम् ॥१॥
yathārham pūjitāḥ tena rājñā vai pṛthivīśvarāḥ . muditāḥ prayayuḥ deśān praṇamya muni-puṃgavam ..1..
श्रीमतां गच्छतां तेषां स्वगृहाणि पुरात् ततः । बलानि राज्ञां शुभ्राणि प्रहृष्टानि चकाशिरे ॥१-१८-४॥
श्रीमताम् गच्छताम् तेषाम् स्व-गृहाणि पुरात् ततस् । बलानि राज्ञाम् शुभ्राणि प्रहृष्टानि चकाशिरे ॥१॥
śrīmatām gacchatām teṣām sva-gṛhāṇi purāt tatas . balāni rājñām śubhrāṇi prahṛṣṭāni cakāśire ..1..
गतेषु पृथिवीशेषु राजा दशरथः पुनः । प्रविवेश पुरीं श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१-१८-५॥
गतेषु पृथिवी-ईशेषु राजा दशरथः पुनर् । प्रविवेश पुरीम् श्रीमान् पुरस्कृत्य द्विजोत्तमान् ॥१॥
gateṣu pṛthivī-īśeṣu rājā daśarathaḥ punar . praviveśa purīm śrīmān puraskṛtya dvijottamān ..1..
शान्तया प्रययौ सार्धमृशष्यशृङ्गः सुपूजितः । अमुगम्यमानो राज्ञा च सानुयात्रेण धीमता ॥१-१८-६॥
शान्तया प्रययौ सार्धम् ऋशष्यशृङ्गः सु पूजितः । अमुगम्यमानः राज्ञा च स अनुयात्रेण धीमता ॥१॥
śāntayā prayayau sārdham ṛśaṣyaśṛṅgaḥ su pūjitaḥ . amugamyamānaḥ rājñā ca sa anuyātreṇa dhīmatā ..1..
एवं विसृज्य तान् सर्वान् राजा सम्पूर्णमानसः । उवास सुखितस्तत्र पुत्रोत्पत्तिं विचिन्तयन् ॥१-१८-७॥
एवम् विसृज्य तान् सर्वान् राजा सम्पूर्ण-मानसः । उवास सुखितः तत्र पुत्र-उत्पत्तिम् विचिन्तयन् ॥१॥
evam visṛjya tān sarvān rājā sampūrṇa-mānasaḥ . uvāsa sukhitaḥ tatra putra-utpattim vicintayan ..1..
ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः । ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१-१८-८॥
ततस् यज्ञे समाप्ते तु ऋतूनाम् षट् समत्ययुः । ततस् च द्वादशे मासे चैत्रे नावमिके तिथौ ॥१॥
tatas yajñe samāpte tu ṛtūnām ṣaṭ samatyayuḥ . tatas ca dvādaśe māse caitre nāvamike tithau ..1..
नक्षत्रेऽदितिदैवत्ये स्वोच्चसंस्थेषु पञ्चसु । ग्रहेषु कर्कटे लग्ने वाक्पताविन्दुना सह ॥१-१८-९॥
नक्षत्रे अदिति-दैवत्ये स्व-उच्च-संस्थेषु पञ्चसु । ग्रहेषु कर्कटे लग्ने वाक्पतौ इन्दुना सह ॥१॥
nakṣatre aditi-daivatye sva-ucca-saṃstheṣu pañcasu . graheṣu karkaṭe lagne vākpatau indunā saha ..1..
प्रोद्यमाने जगन्नाथं सर्वलोकनमस्कृतम् । कौसल्याजनयद् रामं दिव्यलक्षणसंयुतम् ॥१-१८-१०॥
प्रोद्यमाने जगन्नाथम् सर्व-लोक-नमस्कृतम् । कौसल्या जनयत् रामम् दिव्य-लक्षण-संयुतम् ॥१॥
prodyamāne jagannātham sarva-loka-namaskṛtam . kausalyā janayat rāmam divya-lakṣaṇa-saṃyutam ..1..
विष्णोरर्धं महाभागं पुत्रमैक्ष्वाकुनन्दनम् । लोहिताक्षं महाबाहुं रक्तोष्ठं दुन्दुभिस्वनम् ॥१-१८-११॥
विष्णोः अर्धम् महाभागम् पुत्रम् ऐक्ष्वाकु-नन्दनम् । लोहित-अक्षम् महा-बाहुम् रक्त-उष्ठम् दुन्दुभि-स्वनम् ॥१॥
viṣṇoḥ ardham mahābhāgam putram aikṣvāku-nandanam . lohita-akṣam mahā-bāhum rakta-uṣṭham dundubhi-svanam ..1..
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा । यथा वरेण देवानामदितिर्वज्रपाणिना ॥१-१८-१२॥
कौसल्या शुशुभे तेन पुत्रेण अमित-तेजसा । यथा वरेण देवानाम् अदितिः वज्रपाणिना ॥१॥
kausalyā śuśubhe tena putreṇa amita-tejasā . yathā vareṇa devānām aditiḥ vajrapāṇinā ..1..
भरतो नाम कैकेय्यां जज्ञे सत्यपराक्रमः । साक्षाद् विष्णोश्चतुर्भागः सर्वैः समुदितो गुणैः ॥१-१८-१३॥
भरतः नाम कैकेय्याम् जज्ञे सत्य-पराक्रमः । साक्षात् विष्णोः चतुर्भागः सर्वैः समुदितः गुणैः ॥१॥
bharataḥ nāma kaikeyyām jajñe satya-parākramaḥ . sākṣāt viṣṇoḥ caturbhāgaḥ sarvaiḥ samuditaḥ guṇaiḥ ..1..
अथ लक्ष्मणशत्रुघ्नौ सुमित्राजनयत् सुतौ । वीरौ सर्वास्त्रकुशलौ विष्णोरर्धसमन्वितौ ॥१-१८-१४॥
अथ लक्ष्मण-शत्रुघ्नौ सुमित्रा जनयत् सुतौ । वीरौ सर्व-अस्त्र-कुशलौ विष्णोः अर्ध-समन्वितौ ॥१॥
atha lakṣmaṇa-śatrughnau sumitrā janayat sutau . vīrau sarva-astra-kuśalau viṣṇoḥ ardha-samanvitau ..1..
पुष्ये जातस्तु भरतो मीनलग्ने प्रसन्नधीः । सार्पे जातौ तु सौमित्री कुलीरेऽभ्युदिते रवौ ॥१-१८-१५॥
पुष्ये जातः तु भरतः मीन-लग्ने प्रसन्न-धीः । सार्पे जातौ तु सौमित्री कुलीरे अभ्युदिते रवौ ॥१॥
puṣye jātaḥ tu bharataḥ mīna-lagne prasanna-dhīḥ . sārpe jātau tu saumitrī kulīre abhyudite ravau ..1..
राज्ञः पुत्रा महात्मानश्चत्वारो जज्ञिरे पृथक् । गुणवन्तोऽनुरूपाश्च रुच्या प्रोष्ठपदोपमाः ॥१-१८-१६॥
राज्ञः पुत्राः महात्मानः चत्वारः जज्ञिरे पृथक् । गुणवन्तः अनुरूपाः च रुच्या प्रोष्ठपद-उपमाः ॥१॥
rājñaḥ putrāḥ mahātmānaḥ catvāraḥ jajñire pṛthak . guṇavantaḥ anurūpāḥ ca rucyā proṣṭhapada-upamāḥ ..1..
जगुः कलं च गन्धर्वा ननृतुश्चाप्सरोगणाः । देवदुन्दुभयो नेदुः पुष्पवृष्टिश्च खात् पतत् ॥१-१८-१७॥
जगुः कलम् च गन्धर्वाः ननृतुः च अप्सरः-गणाः । देव-दुन्दुभयः नेदुः पुष्प-वृष्टिः च खात् पतत् ॥१॥
jaguḥ kalam ca gandharvāḥ nanṛtuḥ ca apsaraḥ-gaṇāḥ . deva-dundubhayaḥ neduḥ puṣpa-vṛṣṭiḥ ca khāt patat ..1..
उत्सवश्च महानासीदयोध्यायां जनाकुलः । रथ्याश्च जनसम्बाधा नटनर्तकसंकुलाः ॥१-१८-१८॥
उत्सवः च महान् आसीत् अयोध्यायाम् जन-आकुलः । रथ्याः च जन-सम्बाधाः नट-नर्तक-संकुलाः ॥१॥
utsavaḥ ca mahān āsīt ayodhyāyām jana-ākulaḥ . rathyāḥ ca jana-sambādhāḥ naṭa-nartaka-saṃkulāḥ ..1..
गायनैश्च विराविण्यो वादनैश्च तथापरैः । विरेजुर्विपुलास्तत्र सर्वरत्नसमन्विताः ॥१-१८-१९॥
गायनैः च विराविण्यः वादनैः च तथा अपरैः । विरेजुः विपुलाः तत्र सर्व-रत्न-समन्विताः ॥१॥
gāyanaiḥ ca virāviṇyaḥ vādanaiḥ ca tathā aparaiḥ . virejuḥ vipulāḥ tatra sarva-ratna-samanvitāḥ ..1..
प्रदेयांश्च ददौ राजा सूतमागधवन्दिनाम् । ब्राह्मणेभ्यो ददौ वित्तम् गोधनानि सहस्रशः ॥१-१८-२०॥
प्रदेयान् च ददौ राजा सूत-मागध-वन्दिनाम् । ब्राह्मणेभ्यः ददौ वित्तम् गो-धनानि सहस्रशस् ॥१॥
pradeyān ca dadau rājā sūta-māgadha-vandinām . brāhmaṇebhyaḥ dadau vittam go-dhanāni sahasraśas ..1..
अतीत्यैकादशाहं तु नामकर्म तथाकरोत् । ज्येष्ठं रामं महात्मानं भरतं कैकयीसुतम् ॥१-१८-२१॥
अतीत्य एकादश-अहम् तु नामकर्म तथा अकरोत् । ज्येष्ठम् रामम् महात्मानम् भरतम् कैकयी-सुतम् ॥१॥
atītya ekādaśa-aham tu nāmakarma tathā akarot . jyeṣṭham rāmam mahātmānam bharatam kaikayī-sutam ..1..
सौमित्रिं लक्ष्मणमिति शत्रुघ्नमपरं तथा । वसिष्ठः परमप्रीतो नामानि कुरुते तदा ॥१-१८-२२॥
सौमित्रिम् लक्ष्मणम् इति शत्रुघ्नम् अपरम् तथा । वसिष्ठः परम-प्रीतः नामानि कुरुते तदा ॥१॥
saumitrim lakṣmaṇam iti śatrughnam aparam tathā . vasiṣṭhaḥ parama-prītaḥ nāmāni kurute tadā ..1..
ब्राह्मणान् भोजयामास पौराजानपदानपि । अददद् ब्राह्मणानां च रत्नौघमलं बहु ॥१-१८-२३॥
ब्राह्मणान् भोजयामास पौर-अजानपदान् अपि । अददत् ब्राह्मणानाम् च रत्न-ओघ-मलम् बहु ॥१॥
brāhmaṇān bhojayāmāsa paura-ajānapadān api . adadat brāhmaṇānām ca ratna-ogha-malam bahu ..1..
तेषां जन्मक्रियादीनि सर्वकर्माण्यकारयत् । तेषां केतुरिव ज्येष्ठो रामो रतिकरः पितुः ॥१-१८-२४॥
तेषाम् जन्म-क्रिया-आदीनि सर्व-कर्माणि अकारयत् । तेषाम् केतुः इव ज्येष्ठः रामः रति-करः पितुः ॥१॥
teṣām janma-kriyā-ādīni sarva-karmāṇi akārayat . teṣām ketuḥ iva jyeṣṭhaḥ rāmaḥ rati-karaḥ pituḥ ..1..
बभूव भूयो भूतानां स्वयम्भूरिव सम्मतः । सर्वे वेदविदः शूराः सर्वे लोकहिते रताः ॥१-१८-२५॥
बभूव भूयस् भूतानाम् स्वयम्भूः इव सम्मतः । सर्वे वेद-विदः शूराः सर्वे लोक-हिते रताः ॥१॥
babhūva bhūyas bhūtānām svayambhūḥ iva sammataḥ . sarve veda-vidaḥ śūrāḥ sarve loka-hite ratāḥ ..1..
सर्वे ज्ञानोपसम्पन्नाः सर्वे समुदिता गुणैः । तेषामपि महातेजा रामः सत्यपराक्रमः ॥१-१८-२६॥
सर्वे ज्ञान-उपसम्पन्नाः सर्वे समुदिताः गुणैः । तेषाम् अपि महा-तेजाः रामः सत्य-पराक्रमः ॥१॥
sarve jñāna-upasampannāḥ sarve samuditāḥ guṇaiḥ . teṣām api mahā-tejāḥ rāmaḥ satya-parākramaḥ ..1..
इष्टः सर्वस्य लोकस्य शशाङ्क इव निर्मलः । गजस्कन्धेऽश्वपृष्ठे च रथचर्यासु सम्मतः ॥१-१८-२७॥
इष्टः सर्वस्य लोकस्य शशाङ्कः इव निर्मलः । गज-स्कन्धे अश्व-पृष्ठे च रथ-चर्यासु सम्मतः ॥१॥
iṣṭaḥ sarvasya lokasya śaśāṅkaḥ iva nirmalaḥ . gaja-skandhe aśva-pṛṣṭhe ca ratha-caryāsu sammataḥ ..1..
धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः । बाल्यात् प्रभृति सुस्निग्धो लक्ष्मणो लक्ष्मिवर्धनः ॥१-१८-२८॥
धनुर्वेदे च निरतः पितुः शुश्रूषणे रतः । बाल्यात् प्रभृति सु स्निग्धः लक्ष्मणः लक्ष्मि-वर्धनः ॥१॥
dhanurvede ca nirataḥ pituḥ śuśrūṣaṇe rataḥ . bālyāt prabhṛti su snigdhaḥ lakṣmaṇaḥ lakṣmi-vardhanaḥ ..1..
रामस्य लोकरामस्य भ्रातुर्ज्येष्ठस्य नित्यशः । सर्वप्रियकरस्तस्य रामस्यापि शरीरतः ॥१-१८-२९॥
रामस्य लोक-रामस्य भ्रातुः ज्येष्ठस्य नित्यशस् । सर्व-प्रिय-करः तस्य रामस्य अपि शरीरतः ॥१॥
rāmasya loka-rāmasya bhrātuḥ jyeṣṭhasya nityaśas . sarva-priya-karaḥ tasya rāmasya api śarīrataḥ ..1..
लक्ष्मणो लक्ष्मिसम्पन्नो बहिःप्राण इवापरः । न च तेन विना निद्रां लभते पुरुषोत्तमः ॥१-१८-३०॥
इव । न च तेन विना निद्राम् लभते पुरुषोत्तमः ॥१॥
iva . na ca tena vinā nidrām labhate puruṣottamaḥ ..1..
मृष्टमन्नमुपानीतमश्नाति न हि तं विना । यदा हि हयमारूढो मृगयां याति राघवः ॥१-१८-३१॥
मृष्टम् अन्नम् उपानीतम् अश्नाति न हि तम् विना । यदा हि हयम् आरूढः मृगयाम् याति राघवः ॥१॥
mṛṣṭam annam upānītam aśnāti na hi tam vinā . yadā hi hayam ārūḍhaḥ mṛgayām yāti rāghavaḥ ..1..
अथैनं पृष्ठतोऽभ्येति सधनुः परिपालयन् । भरतस्यापि शत्रुघ्नो लक्ष्मणावरजो हि सः ॥१-१८-३२॥
अथ एनम् पृष्ठतस् अभ्येति स धनुः परिपालयन् । भरतस्य अपि शत्रुघ्नः लक्ष्मण-अवरजः हि सः ॥१॥
atha enam pṛṣṭhatas abhyeti sa dhanuḥ paripālayan . bharatasya api śatrughnaḥ lakṣmaṇa-avarajaḥ hi saḥ ..1..
प्राणैः प्रियतरो नित्यं तस्य चासीत् तथा प्रियः । स चतुर्भिर्महाभागैः पुत्रैर्दशरथः प्रियैः ॥१-१८-३३॥
प्राणैः प्रियतरः नित्यम् तस्य च आसीत् तथा प्रियः । स चतुर्भिः महाभागैः पुत्रैः दशरथः प्रियैः ॥१॥
prāṇaiḥ priyataraḥ nityam tasya ca āsīt tathā priyaḥ . sa caturbhiḥ mahābhāgaiḥ putraiḥ daśarathaḥ priyaiḥ ..1..
बभूव परमप्रीतो देवैरिव पितामहः । ते यदा ज्ञानसंपन्नाः सर्वे समुदिता गुणैः ॥१-१८-३४॥
बभूव परम-प्रीतः देवैः इव पितामहः । ते यदा ज्ञान-संपन्नाः सर्वे समुदिताः गुणैः ॥१॥
babhūva parama-prītaḥ devaiḥ iva pitāmahaḥ . te yadā jñāna-saṃpannāḥ sarve samuditāḥ guṇaiḥ ..1..
ह्रीमन्तः कीर्तिमन्तश्च सर्वज्ञा दीर्घदर्शिनः । तेषामेवंप्रभावाणां सर्वेषां दीप्ततेजसाम् ॥१-१८-३५॥
ह्रीमन्तः कीर्तिमन्तः च सर्व-ज्ञाः दीर्घ-दर्शिनः । तेषाम् एवंप्रभावाणाम् सर्वेषाम् दीप्त-तेजसाम् ॥१॥
hrīmantaḥ kīrtimantaḥ ca sarva-jñāḥ dīrgha-darśinaḥ . teṣām evaṃprabhāvāṇām sarveṣām dīpta-tejasām ..1..
पिता दशरथो हृष्टो ब्रह्मा लोकाधिपो यथा । ते चापि मनुजव्याघ्रा वैदिकाध्ययने रताः ॥१-१८-३६॥
पिता दशरथः हृष्टः ब्रह्मा लोक-अधिपः यथा । ते च अपि मनुज-व्याघ्राः वैदिक-अध्ययने रताः ॥१॥
pitā daśarathaḥ hṛṣṭaḥ brahmā loka-adhipaḥ yathā . te ca api manuja-vyāghrāḥ vaidika-adhyayane ratāḥ ..1..
पितृशुश्रूषणरता धनुर्वेदे च निष्ठिताः । अथ राजा दशरथस्तेषां दारक्रियां प्रति ॥१-१८-३७॥
पितृ-शुश्रूषण-रताः धनुर्वेदे च निष्ठिताः । अथ राजा दशरथः तेषाम् दारक्रियाम् प्रति ॥१॥
pitṛ-śuśrūṣaṇa-ratāḥ dhanurvede ca niṣṭhitāḥ . atha rājā daśarathaḥ teṣām dārakriyām prati ..1..
चिन्तयामास धर्मात्मा सोपाध्यायः सबान्धवः । तस्य चिन्तयमानस्य मन्त्रिमध्ये महात्मनः ॥१-१८-३८॥
चिन्तयामास धर्म-आत्मा स उपाध्यायः स बान्धवः । तस्य चिन्तयमानस्य मन्त्रि-मध्ये महात्मनः ॥१॥
cintayāmāsa dharma-ātmā sa upādhyāyaḥ sa bāndhavaḥ . tasya cintayamānasya mantri-madhye mahātmanaḥ ..1..
अभ्यागच्छन्महातेजो विश्वामित्रो महामुनिः । स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ॥१-१८-३९॥
अभ्यागच्छत् महा-तेजः विश्वामित्रः महा-मुनिः । स राज्ञः दर्शन-आकाङ्क्षी द्वार-अध्यक्षान् उवाच ह ॥१॥
abhyāgacchat mahā-tejaḥ viśvāmitraḥ mahā-muniḥ . sa rājñaḥ darśana-ākāṅkṣī dvāra-adhyakṣān uvāca ha ..1..
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् । तच्छ्रुत्वा वचनं तस्य राज्ञो वेश्म प्रदुद्रुवुः ॥१-१८-४०॥
शीघ्रम् आख्यात माम् प्राप्तम् कौशिकम् गाधिनः सुतम् । तत् श्रुत्वा वचनम् तस्य राज्ञः वेश्म प्रदुद्रुवुः ॥१॥
śīghram ākhyāta mām prāptam kauśikam gādhinaḥ sutam . tat śrutvā vacanam tasya rājñaḥ veśma pradudruvuḥ ..1..
संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः । ते गत्वा राजभवनं विश्वामित्रमृषिं तदा ॥१-१८-४१॥
संभ्रान्त-मनसः सर्वे तेन वाक्येन चोदिताः । ते गत्वा राज-भवनम् विश्वामित्रम् ऋषिम् तदा ॥१॥
saṃbhrānta-manasaḥ sarve tena vākyena coditāḥ . te gatvā rāja-bhavanam viśvāmitram ṛṣim tadā ..1..
प्राप्तमावेदयामासुर्नृपायेक्ष्वाकवे तदा । तेषां तद्वचनं श्रुत्वा सपुरोधाः समाहितः ॥१-१८-४२॥
प्राप्तम् आवेदयामासुः नृपाय इक्ष्वाकवे तदा । तेषाम् तत् वचनम् श्रुत्वा स पुरोधाः समाहितः ॥१॥
prāptam āvedayāmāsuḥ nṛpāya ikṣvākave tadā . teṣām tat vacanam śrutvā sa purodhāḥ samāhitaḥ ..1..
प्रत्युज्जगाम संहृष्टो ब्रह्माणमिव वासवः । स दृष्ट्वा ज्वलितं दीप्त्या तापसं संशितव्रतम् ॥१-१८-४३॥
प्रत्युज्जगाम संहृष्टः ब्रह्माणम् इव वासवः । स दृष्ट्वा ज्वलितम् दीप्त्या तापसम् संशित-व्रतम् ॥१॥
pratyujjagāma saṃhṛṣṭaḥ brahmāṇam iva vāsavaḥ . sa dṛṣṭvā jvalitam dīptyā tāpasam saṃśita-vratam ..1..
प्रहृष्टवदनो राजा ततोऽर्घ्यमुपहारयत् । स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ॥१-१८-४४॥
प्रहृष्ट-वदनः राजा ततस् अर्घ्यम् उपहारयत् । स राज्ञः प्रतिगृह्य अर्घ्यम् शास्त्र-दृष्टेन कर्मणा ॥१॥
prahṛṣṭa-vadanaḥ rājā tatas arghyam upahārayat . sa rājñaḥ pratigṛhya arghyam śāstra-dṛṣṭena karmaṇā ..1..
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् । पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१-१८-४५॥
कुशलम् च अव्ययम् च एव पर्यपृच्छत् नराधिपम् । पुरे कोशे जनपदे बान्धवेषु सुहृत्सु च ॥१॥
kuśalam ca avyayam ca eva paryapṛcchat narādhipam . pure kośe janapade bāndhaveṣu suhṛtsu ca ..1..
कुशलं कौशिको राज्ञः पर्यपृच्छत् सुधार्मिकः । अपि ते संनताः सर्वे सामन्तरिपवो जिताः ॥१-१८-४६॥
कुशलम् कौशिकः राज्ञः पर्यपृच्छत् सु धार्मिकः । अपि ते संनताः सर्वे सामन्त-रिपवः जिताः ॥१॥
kuśalam kauśikaḥ rājñaḥ paryapṛcchat su dhārmikaḥ . api te saṃnatāḥ sarve sāmanta-ripavaḥ jitāḥ ..1..
दैवं च मानुषं चैव कर्म ते साध्वनुष्ठितम् । वसिष्ठं च समागम्य कुशलं मुनिपुङ्गवः ॥१-१८-४७॥
दैवम् च मानुषम् च एव कर्म ते साधु अनुष्ठितम् । वसिष्ठम् च समागम्य कुशलम् मुनि-पुङ्गवः ॥१॥
daivam ca mānuṣam ca eva karma te sādhu anuṣṭhitam . vasiṣṭham ca samāgamya kuśalam muni-puṅgavaḥ ..1..
ऋषींश्च तान् यथान्यायं महाभाग उवाच ह । ते सर्वे हृष्टमनसस्तस्य राज्ञो निवेशनम् ॥१-१८-४८॥
ऋषीन् च तान् यथान्यायम् महाभागः उवाच ह । ते सर्वे हृष्ट-मनसः तस्य राज्ञः निवेशनम् ॥१॥
ṛṣīn ca tān yathānyāyam mahābhāgaḥ uvāca ha . te sarve hṛṣṭa-manasaḥ tasya rājñaḥ niveśanam ..1..
विविशुः पूजितास्तेन निषेदुश्च यथार्हतः । अथ हृष्टमना राजा विश्वामित्रं महामुनिम् ॥१-१८-४९॥
विविशुः पूजिताः तेन निषेदुः च यथार्हतः । अथ हृष्ट-मनाः राजा विश्वामित्रम् महा-मुनिम् ॥१॥
viviśuḥ pūjitāḥ tena niṣeduḥ ca yathārhataḥ . atha hṛṣṭa-manāḥ rājā viśvāmitram mahā-munim ..1..
उवाच परमोदारो हृष्टस्तमभिपूजयन् । यथामृतस्य सम्प्राप्तिर्यथा वर्षमनूदके ॥१-१८-५०॥
उवाच परम-उदारः हृष्टः तम् अभिपूजयन् । यथा अमृतस्य सम्प्राप्तिः यथा वर्षम् अनूदके ॥१॥
uvāca parama-udāraḥ hṛṣṭaḥ tam abhipūjayan . yathā amṛtasya samprāptiḥ yathā varṣam anūdake ..1..
यथा सदृशदारेषु पुत्रजन्माप्रजस्य वै । प्रणष्टस्य यथा लाभो यथा हर्षो महोदयः ॥१-१८-५१॥
यथा सदृश-दारेषु पुत्र-जन्म अप्रजस्य वै । प्रणष्टस्य यथा लाभः यथा हर्षः महा-उदयः ॥१॥
yathā sadṛśa-dāreṣu putra-janma aprajasya vai . praṇaṣṭasya yathā lābhaḥ yathā harṣaḥ mahā-udayaḥ ..1..
तथैवागमनं मन्ये स्वागतं ते महामुने । कं च ते परमं कामं करोमि किमु हर्षितः ॥१-१८-५२॥
तथा एव आगमनम् मन्ये स्वागतम् ते महा-मुने । कम् च ते परमम् कामम् करोमि किमु हर्षितः ॥१॥
tathā eva āgamanam manye svāgatam te mahā-mune . kam ca te paramam kāmam karomi kimu harṣitaḥ ..1..
पात्रभूतोऽसि मे विप्र दिष्ट्या प्राप्तोऽसि मानद । अद्य मे सफलं जन्म जीवितं च सुजीवितम् ॥१-१८-५३॥
पात्र-भूतः असि मे विप्र दिष्ट्या प्राप्तः असि मानद । अद्य मे सफलम् जन्म जीवितम् च सु जीवितम् ॥१॥
pātra-bhūtaḥ asi me vipra diṣṭyā prāptaḥ asi mānada . adya me saphalam janma jīvitam ca su jīvitam ..1..
यस्माद् विप्रेन्द्रमद्राक्षं सुप्रभाता निशा मम । पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ॥१-१८-५४॥
यस्मात् विप्र-इन्द्रम् अद्राक्षम् सु प्रभाता निशा मम । पूर्वम् राजर्षि-शब्देन तपसा द्योतित-प्रभः ॥१॥
yasmāt vipra-indram adrākṣam su prabhātā niśā mama . pūrvam rājarṣi-śabdena tapasā dyotita-prabhaḥ ..1..
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि बहुधा मया । तदद्भुतमभूद् विप्र पवित्रं परमं मम ॥१-१८-५५॥
ब्रह्मर्षि-त्वम् अनुप्राप्तः पूज्यः असि बहुधा मया । तत् अद्भुतम् अभूत् विप्र पवित्रम् परमम् मम ॥१॥
brahmarṣi-tvam anuprāptaḥ pūjyaḥ asi bahudhā mayā . tat adbhutam abhūt vipra pavitram paramam mama ..1..
शुभक्षेत्रगतश्चाहं तव संदर्शनात् प्रभो । ब्रूहि यत् प्रार्थितं तुभ्यं कार्यमागमनं प्रति ॥१-१८-५६॥
शुभ-क्षेत्र-गतः च अहम् तव संदर्शनात् प्रभो । ब्रूहि यत् प्रार्थितम् तुभ्यम् कार्यम् आगमनम् प्रति ॥१॥
śubha-kṣetra-gataḥ ca aham tava saṃdarśanāt prabho . brūhi yat prārthitam tubhyam kāryam āgamanam prati ..1..
इच्छाम्यनुगृहीतोऽहं त्वदर्थं परिवृद्धये । कार्यस्य न विमर्शं च गन्तुमर्हसि सुव्रत ॥१-१८-५७॥
इच्छामि अनुगृहीतः अहम् त्वद्-अर्थम् परिवृद्धये । कार्यस्य न विमर्शम् च गन्तुम् अर्हसि सुव्रत ॥१॥
icchāmi anugṛhītaḥ aham tvad-artham parivṛddhaye . kāryasya na vimarśam ca gantum arhasi suvrata ..1..
कर्ता चाहमशेषेण दैवतं हि भवान् मम । मम च अयमनुप्राप्तो महानभ्युदयो द्विज । तवागमनजः कृत्स्नो धर्मश्चानुत्तमो द्विज ॥१-१८-५८॥
कर्ता च अहम् अशेषेण दैवतम् हि भवान् मम । मम च अयम् अनुप्राप्तः महान् अभ्युदयः द्विज । तव आगमन-जः कृत्स्नः धर्मः च अनुत्तमः द्विज ॥१॥
kartā ca aham aśeṣeṇa daivatam hi bhavān mama . mama ca ayam anuprāptaḥ mahān abhyudayaḥ dvija . tava āgamana-jaḥ kṛtsnaḥ dharmaḥ ca anuttamaḥ dvija ..1..
इति हृदयसुखं निशम्य वाक्यंश्रुतिसुखमात्मवता विनीतमुक्तम् । प्रथितगुणयशा गुणैर्विशिष्टःपरमऋषिः परमं जगाम हर्षम् ॥१-१८-५९॥
इति हृदय-सुखम् निशम्य वाक्यम् श्रुति-सुखम् आत्मवता विनीतम् उक्तम् । प्रथित-गुण-यशाः गुणैः विशिष्टः परम-ऋषिः परमम् जगाम हर्षम् ॥१॥
iti hṛdaya-sukham niśamya vākyam śruti-sukham ātmavatā vinītam uktam . prathita-guṇa-yaśāḥ guṇaiḥ viśiṣṭaḥ parama-ṛṣiḥ paramam jagāma harṣam ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टादशः सर्गः ॥१-१८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टादशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭādaśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In