This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे चतुर्विंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe caturviṃśaḥ sargaḥ ..1..
ततः प्रभाते विमले कृताह्निकमरिन्दमौ । विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥१-२४-१॥
ततस् प्रभाते विमले कृत-आह्निकम् अरिन्दमौ । विश्वामित्रम् पुरस्कृत्य नद्याः तीरम् उपागतौ ॥१॥
tatas prabhāte vimale kṛta-āhnikam arindamau . viśvāmitram puraskṛtya nadyāḥ tīram upāgatau ..1..
ते च सर्वे महात्मानो मुनयः संशितव्रताः । उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥१-२४-२॥
ते च सर्वे महात्मानः मुनयः संशित-व्रताः । उपस्थाप्य शुभाम् नावम् विश्वामित्रम् अथ अब्रुवन् ॥१॥
te ca sarve mahātmānaḥ munayaḥ saṃśita-vratāḥ . upasthāpya śubhām nāvam viśvāmitram atha abruvan ..1..
आरोहतु भवान् नावं राजपुत्रपुरस्कृतः । अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः ॥१-२४-३॥
आरोहतु भवान् नावम् राज-पुत्र-पुरस्कृतः । अरिष्टम् गच्छ पन्थानम् मा भूत् कालस्य पर्ययः ॥१॥
ārohatu bhavān nāvam rāja-putra-puraskṛtaḥ . ariṣṭam gaccha panthānam mā bhūt kālasya paryayaḥ ..1..
विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च । ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥१-२४-४॥
विश्वामित्रः तथा इति उक्त्वा तान् ऋषीन् प्रतिपूज्य च । ततार सहितः ताभ्याम् सरितम् सागरङ्गमाम् ॥१॥
viśvāmitraḥ tathā iti uktvā tān ṛṣīn pratipūjya ca . tatāra sahitaḥ tābhyām saritam sāgaraṅgamām ..1..
तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम् । मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥
तत्र शुश्राव वै शब्दम् तोय-संरम्भ-वर्धितम् । मध्यम् आगम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१॥
tatra śuśrāva vai śabdam toya-saṃrambha-vardhitam . madhyam āgamya toyasya tasya śabdasya niścayam ..1..
ज्ञातुकामो महातेजाः सह रामः कनीयसा । अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ॥१-२४-६॥
ज्ञातु-कामः महा-तेजाः सह रामः कनीयसा । अथ रामः सरित्-मध्ये पप्रच्छ मुनि-पुङ्गवम् ॥१॥
jñātu-kāmaḥ mahā-tejāḥ saha rāmaḥ kanīyasā . atha rāmaḥ sarit-madhye papraccha muni-puṅgavam ..1..
वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः । राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् ॥१-२४-७॥
वारिणः भिद्यमानस्य किम् अयम् तुमुलः ध्वनिः । राघवस्य वचः श्रुत्वा कौतूहल-समन्वितम् ॥१॥
vāriṇaḥ bhidyamānasya kim ayam tumulaḥ dhvaniḥ . rāghavasya vacaḥ śrutvā kautūhala-samanvitam ..1..
कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् । कैलासपर्वते राम मनसा निर्मितं परम् ॥१-२४-८॥
कथयामास धर्म-आत्मा तस्य शब्दस्य निश्चयम् । कैलास-पर्वते राम मनसा निर्मितम् परम् ॥१॥
kathayāmāsa dharma-ātmā tasya śabdasya niścayam . kailāsa-parvate rāma manasā nirmitam param ..1..
ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः । तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ॥१-२४-९॥
ब्रह्मणा नर-शार्दूल तेन इदम् मानसम् सरः । तस्मात् सुस्राव सरसः सा अयोध्याम् उपगूहते ॥१॥
brahmaṇā nara-śārdūla tena idam mānasam saraḥ . tasmāt susrāva sarasaḥ sā ayodhyām upagūhate ..1..
सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता । तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥१-२४-१०॥
सरः-प्रवृत्ता सरयूः पुण्या ब्रह्मसरः-च्युता । तस्य अयम् अतुलः शब्दः जाह्नवीम् अभिवर्तते ॥१॥
saraḥ-pravṛttā sarayūḥ puṇyā brahmasaraḥ-cyutā . tasya ayam atulaḥ śabdaḥ jāhnavīm abhivartate ..1..
वारिसंक्षोभजो राम प्रणामं नियतः कुरु । ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ॥१-२४-११॥
वारि-संक्षोभ-जः राम प्रणामम् नियतः कुरु । ताभ्याम् तु तौ उभौ कृत्वा प्रणामम् अति धार्मिकौ ॥१॥
vāri-saṃkṣobha-jaḥ rāma praṇāmam niyataḥ kuru . tābhyām tu tau ubhau kṛtvā praṇāmam ati dhārmikau ..1..
तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ । स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥
तीरम् दक्षिणम् आसाद्य जग्मतुः लघु-विक्रमौ । स वनम् घोर-संकाशम् दृष्ट्वा नर-वर-आत्मजः ॥१॥
tīram dakṣiṇam āsādya jagmatuḥ laghu-vikramau . sa vanam ghora-saṃkāśam dṛṣṭvā nara-vara-ātmajaḥ ..1..
अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् । अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् ॥१-२४-१३॥
अविप्रहतम् ऐक्ष्वाकः पप्रच्छ मुनि-पुङ्गवम् । अहो वनम् इदम् दुर्गम् झिल्लिका-गण-संयुतम् ॥१॥
aviprahatam aikṣvākaḥ papraccha muni-puṅgavam . aho vanam idam durgam jhillikā-gaṇa-saṃyutam ..1..
भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः । नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः ॥१-२४-१४॥
भैरवैः श्वापदैः कीर्णम् शकुन्तैः दारुण-आरवैः । नाना प्रकारैः शकुनैः वाश्यद्भिः भैरव-स्वनैः ॥१॥
bhairavaiḥ śvāpadaiḥ kīrṇam śakuntaiḥ dāruṇa-āravaiḥ . nānā prakāraiḥ śakunaiḥ vāśyadbhiḥ bhairava-svanaiḥ ..1..
सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् । धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ॥१-२४-१५॥
सिंह-व्याघ्र-वराहैः च वारणैः च अपि शोभितम् । धव-अश्वकर्ण-ककुभैः बिल्व-तिन्दुक-पाटलैः ॥१॥
siṃha-vyāghra-varāhaiḥ ca vāraṇaiḥ ca api śobhitam . dhava-aśvakarṇa-kakubhaiḥ bilva-tinduka-pāṭalaiḥ ..1..
संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् । तमुवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥
संकीर्णम् बदरीभिः च किम् नु इदम् दारुणम् वनम् । तम् उवाच महा-तेजाः विश्वामित्रः महा-मुनिः ॥१॥
saṃkīrṇam badarībhiḥ ca kim nu idam dāruṇam vanam . tam uvāca mahā-tejāḥ viśvāmitraḥ mahā-muniḥ ..1..
श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् । एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ॥१-२४-१७॥
श्रूयताम् वत्स काकुत्स्थ यस्य एतत् दारुणम् वनम् । एतौ जनपदौ स्फीतौ पूर्वम् आस्ताम् नरोत्तम ॥१॥
śrūyatām vatsa kākutstha yasya etat dāruṇam vanam . etau janapadau sphītau pūrvam āstām narottama ..1..
मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ । पुरा वृत्रवधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥
मलदाः च करूषाः च देव-निर्माण-निर्मितौ । पुरा वृत्र-वधे राम मलेन समभिप्लुतम् ॥१॥
maladāḥ ca karūṣāḥ ca deva-nirmāṇa-nirmitau . purā vṛtra-vadhe rāma malena samabhiplutam ..1..
क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् । तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः ॥१-२४-१९॥
क्षुधा च एव सहस्राक्षम् ब्रह्महत्या समाविशत् । तम् इन्द्रम् मलिनम् देवाः ऋषयः च तपोधनाः ॥१॥
kṣudhā ca eva sahasrākṣam brahmahatyā samāviśat . tam indram malinam devāḥ ṛṣayaḥ ca tapodhanāḥ ..1..
कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् । इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च ॥१-२४-२०॥
कलशैः स्नापयामासुः मलम् च अस्य प्रमोचयन् । इह भूम्याम् मलम् दत्त्वा देवाः कारूषम् एव च ॥१॥
kalaśaiḥ snāpayāmāsuḥ malam ca asya pramocayan . iha bhūmyām malam dattvā devāḥ kārūṣam eva ca ..1..
शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे । निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत् ॥१-२४-२१॥
शरीर-जम् महा-इन्द्रस्य ततस् हर्षम् प्रपेदिरे । निर्मलः निष्करूषः च शुद्धः इन्द्रः यथा भवत् ॥१॥
śarīra-jam mahā-indrasya tatas harṣam prapedire . nirmalaḥ niṣkarūṣaḥ ca śuddhaḥ indraḥ yathā bhavat ..1..
ददौ देशस्य सुप्रीतो वरं प्रादातनुत्तमम् । इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ॥१-२४-२२॥
ददौ देशस्य सु प्रीतः वरम् । इमौ जनपदौ स्फीतौ ख्यातिम् लोके गमिष्यतः ॥१॥
dadau deśasya su prītaḥ varam . imau janapadau sphītau khyātim loke gamiṣyataḥ ..1..
मलदाश्च करूषाश्च ममाङ्गमलधारिणौ । साधु साध्विति तं देवाः पाकशासनमब्रुवन् ॥१-२४-२३॥
मलदाः च करूषाः च मम अङ्ग-मल-धारिणौ । साधु साधु इति तम् देवाः पाकशासनम् अब्रुवन् ॥१॥
maladāḥ ca karūṣāḥ ca mama aṅga-mala-dhāriṇau . sādhu sādhu iti tam devāḥ pākaśāsanam abruvan ..1..
देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता । एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥१-२४-२४॥
देशस्य पूजाम् ताम् दृष्ट्वा कृताम् शक्रेण धीमता । एतौ जनपदौ स्फीतौ दीर्घ-कालम् अरिंदम ॥१॥
deśasya pūjām tām dṛṣṭvā kṛtām śakreṇa dhīmatā . etau janapadau sphītau dīrgha-kālam ariṃdama ..1..
मलदाश्च करूषाश्च मुदिता धनधान्यतः । कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी ॥१-२४-२५॥
मलदाः च करूषाः च मुदिताः धन-धान्यतः । कस्यचिद् तु अथ कालस्य यक्षिणी कामरूपिणी ॥१॥
maladāḥ ca karūṣāḥ ca muditāḥ dhana-dhānyataḥ . kasyacid tu atha kālasya yakṣiṇī kāmarūpiṇī ..1..
बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् । ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥
बलम् नाग-सहस्रस्य धारयन्ती तदा हि अभूत् । ताटका नाम भद्रम् ते भार्या सुन्दस्य धीमतः ॥१॥
balam nāga-sahasrasya dhārayantī tadā hi abhūt . tāṭakā nāma bhadram te bhāryā sundasya dhīmataḥ ..1..
मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः । वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान् ॥१-२४-२७॥
मारीचः राक्षसः पुत्रः यस्याः शक्र-पराक्रमः । वृत्त-बाहुः महा-शीर्षः विपुल-आस्य-तनुः महान् ॥१॥
mārīcaḥ rākṣasaḥ putraḥ yasyāḥ śakra-parākramaḥ . vṛtta-bāhuḥ mahā-śīrṣaḥ vipula-āsya-tanuḥ mahān ..1..
राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः । इमौ जनपदौ नित्यं विनाशयति राघव ॥१-२४-२८॥
राक्षसः भैरव-आकारः नित्यम् त्रासयते प्रजाः । इमौ जनपदौ नित्यम् विनाशयति राघव ॥१॥
rākṣasaḥ bhairava-ākāraḥ nityam trāsayate prajāḥ . imau janapadau nityam vināśayati rāghava ..1..
मलदांश्च करूषांश्च ताटका दुष्टचारिणी । सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने ॥१-२४-२९॥
मलदान् च करूषान् च ताटका दुष्ट-चारिणी । सा इयम् पन्थानम् आवृत्य वसति अति अर्ध-योजने ॥१॥
maladān ca karūṣān ca tāṭakā duṣṭa-cāriṇī . sā iyam panthānam āvṛtya vasati ati ardha-yojane ..1..
अत एव च गन्तव्यं ताटकाया वनं यतः । स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ॥१-२४-३०॥
अतस् एव च गन्तव्यम् ताटकायाः वनम् यतस् । स्व-बाहु-बलम् आश्रित्य जहि इमाम् दुष्ट-चारिणीम् ॥१॥
atas eva ca gantavyam tāṭakāyāḥ vanam yatas . sva-bāhu-balam āśritya jahi imām duṣṭa-cāriṇīm ..1..
मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः । नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम् ॥१-२४-३१॥
मद्-नियोगात् इमम् देशम् कुरु निष्कण्टकम् पुनर् । नहि कश्चिद् इमम् देशम् शक्तः हि आगन्तुम् ईदृशम् ॥१॥
mad-niyogāt imam deśam kuru niṣkaṇṭakam punar . nahi kaścid imam deśam śaktaḥ hi āgantum īdṛśam ..1..
यक्षिण्या घोरया राम उत्सादितमसह्यया । एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम् । यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥१-२४-३२॥
यक्षिण्या घोरया रामः उत्सादितम् असह्यया । एतत् ते सर्वम् आख्यातम् यथा एतत् दारुणम् वनम् । यक्ष्या च उत्सादितम् सर्वम् अद्या अपि न निवर्तते ॥१॥
yakṣiṇyā ghorayā rāmaḥ utsāditam asahyayā . etat te sarvam ākhyātam yathā etat dāruṇam vanam . yakṣyā ca utsāditam sarvam adyā api na nivartate ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe caturviṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In