This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिंशः सर्गः ॥१-३०॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे त्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe triṃśaḥ sargaḥ ..1..
अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ । देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥१-३०-१॥
अथ तौ देश-काल-ज्ञौ राज-पुत्रौ अरिंदमौ । देशे काले च वाक्य-ज्ञौ अब्रूताम् कौशिकम् वचः ॥१॥
atha tau deśa-kāla-jñau rāja-putrau ariṃdamau . deśe kāle ca vākya-jñau abrūtām kauśikam vacaḥ ..1..
भगवञ्छ्रोतुमिच्छावो यस्मिन् काले निशाचरौ । संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम् ॥१-३०-२॥
भगवन् श्रोतुम् इच्छावः यस्मिन् काले निशाचरौ । संरक्षणीयौ तौ ब्रूहि न अतिवर्तेत तद्-क्षणम् ॥१॥
bhagavan śrotum icchāvaḥ yasmin kāle niśācarau . saṃrakṣaṇīyau tau brūhi na ativarteta tad-kṣaṇam ..1..
एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया । सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥१-३०-३॥
एवम् ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया । सर्वे ते मुनयः प्रीताः प्रशशंसुः नृप-आत्मजौ ॥१॥
evam bruvāṇau kākutsthau tvaramāṇau yuyutsayā . sarve te munayaḥ prītāḥ praśaśaṃsuḥ nṛpa-ātmajau ..1..
अद्यप्रभृति षड्रात्रं रक्षतां राघवौ युवाम् । दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥१-३०-४॥
अद्य प्रभृति षष्-रात्रम् रक्षताम् राघवौ युवाम् । दीक्षाम् गतः हि एष मुनिः मौनि-त्वम् च गमिष्यति ॥१॥
adya prabhṛti ṣaṣ-rātram rakṣatām rāghavau yuvām . dīkṣām gataḥ hi eṣa muniḥ mauni-tvam ca gamiṣyati ..1..
तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ । अनिद्रं षडहोरात्रं तपोवनमरक्षताम् ॥१-३०-५॥
तौ तु तत् वचनम् श्रुत्वा राज-पुत्रौ यशस्विनौ । अनिद्रम् षष्-अहोरात्रम् तपोवनम् अरक्षताम् ॥१॥
tau tu tat vacanam śrutvā rāja-putrau yaśasvinau . anidram ṣaṣ-ahorātram tapovanam arakṣatām ..1..
उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ । ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥१-३०-६॥
उपासांचक्रतुः वीरौ यत् तौ परम-धन्विनौ । ररक्षतुः मुनि-वरम् विश्वामित्रम् अरिंदमौ ॥१॥
upāsāṃcakratuḥ vīrau yat tau parama-dhanvinau . rarakṣatuḥ muni-varam viśvāmitram ariṃdamau ..1..
अथ काले गते तस्मिन् षष्ठेऽहनि तदागते । सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥
अथ काले गते तस्मिन् षष्ठे अहनि तत् आगते । सौमित्रिम् अब्रवीत् रामः यत्तः भव समाहितः ॥१॥
atha kāle gate tasmin ṣaṣṭhe ahani tat āgate . saumitrim abravīt rāmaḥ yattaḥ bhava samāhitaḥ ..1..
रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया । प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥१-३०-८॥
रामस्य एवम् ब्रुवाणस्य त्वरितस्य युयुत्सया । प्रजज्वाल ततस् वेदिः स उपाध्याय-पुरोहिता ॥१॥
rāmasya evam bruvāṇasya tvaritasya yuyutsayā . prajajvāla tatas vediḥ sa upādhyāya-purohitā ..1..
सदर्भचमसस्रुक्का स समित्कुसुमोच्चया । विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥१-३०-९॥
स दर्भ-चमस-स्रुक्का स समिध्-कुसुम-उच्चया । विश्वामित्रेण सहिता वेदिः जज्वाल स ऋत्विजा ॥१॥
sa darbha-camasa-srukkā sa samidh-kusuma-uccayā . viśvāmitreṇa sahitā vediḥ jajvāla sa ṛtvijā ..1..
मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते । आकाशे च महाञ्छ्ब्दः प्रादुरासीद् भयानकः ॥१-३०-१०॥
मन्त्रवत् च यथान्यायम् यज्ञः असौ सम्प्रवर्तते । आकाशे च महान् श्ब्दः प्रादुरासीत् भयानकः ॥१॥
mantravat ca yathānyāyam yajñaḥ asau sampravartate . ākāśe ca mahān śbdaḥ prādurāsīt bhayānakaḥ ..1..
आवार्य गगनं मेघो यथा प्रावृषि दृश्यते । तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥१-३०-११॥
आवार्य गगनम् मेघः यथा प्रावृषि दृश्यते । तथा मायाम् विकुर्वाणौ राक्षसौ अभ्यधावताम् ॥१॥
āvārya gaganam meghaḥ yathā prāvṛṣi dṛśyate . tathā māyām vikurvāṇau rākṣasau abhyadhāvatām ..1..
मारीचश्च सुबाहुश्च तयोरनुचरास्तथा । आगम्य भीमसंकाशा रुधिरौघानवासृजन् ॥१-३०-१२॥
मारीचः च सुबाहुः च तयोः अनुचराः तथा । आगम्य भीम-संकाशाः रुधिर-ओघान् अवासृजन् ॥१॥
mārīcaḥ ca subāhuḥ ca tayoḥ anucarāḥ tathā . āgamya bhīma-saṃkāśāḥ rudhira-oghān avāsṛjan ..1..
ताम् तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम् । सहसाभिद्रुतो रामस्तानपश्यत् ततो दिवि ॥१-३०-१३॥
ताम् तेन रुधिर-ओघेण वेदीम् वीक्ष्य समुक्षिताम् । सहसा अभिद्रुतः रामः तान् अपश्यत् ततस् दिवि ॥१॥
tām tena rudhira-ogheṇa vedīm vīkṣya samukṣitām . sahasā abhidrutaḥ rāmaḥ tān apaśyat tatas divi ..1..
तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः । लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥१-३०-१४॥
तौ आपतन्तौ सहसा दृष्ट्वा राजीव-लोचनः । लक्ष्मणम् तु अभिसम्प्रेक्ष्य रामः वचनम् अब्रवीत् ॥१॥
tau āpatantau sahasā dṛṣṭvā rājīva-locanaḥ . lakṣmaṇam tu abhisamprekṣya rāmaḥ vacanam abravīt ..1..
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् । मानवास्त्रसमाधूताननिलेन यथा घनान् ॥१-३०-१५॥
पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशित-अशनान् । मानव-अस्त्र-समाधूतान् अनिलेन यथा घनान् ॥१॥
paśya lakṣmaṇa durvṛttān rākṣasān piśita-aśanān . mānava-astra-samādhūtān anilena yathā ghanān ..1..
करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान् । इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् ॥१-३०-१६॥
करिष्यामि न संदेहः ना उत्सहे हन्तुम् ईदृशान् । इति उक्त्वा वचनम् रामः चापे संधाय वेगवान् ॥१॥
kariṣyāmi na saṃdehaḥ nā utsahe hantum īdṛśān . iti uktvā vacanam rāmaḥ cāpe saṃdhāya vegavān ..1..
मानवं परमोदारमस्त्रं परमभास्वरम् । चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥१-३०-१७॥
मानवम् परम-उदारम् अस्त्रम् परम-भास्वरम् । चिक्षेप परम-क्रुद्धः मारीच-उरसि राघवः ॥१॥
mānavam parama-udāram astram parama-bhāsvaram . cikṣepa parama-kruddhaḥ mārīca-urasi rāghavaḥ ..1..
स तेन परमास्त्रेण मानवेन समाहतः । सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥१-३०-१८॥
स तेन परम-अस्त्रेण मानवेन समाहतः । सम्पूर्णम् योजन-शतम् क्षिप्तः सागर-सम्प्लवे ॥१॥
sa tena parama-astreṇa mānavena samāhataḥ . sampūrṇam yojana-śatam kṣiptaḥ sāgara-samplave ..1..
विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् । निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥१-३०-१९॥
विचेतनम् विघूर्णन्तम् शीतेषु-बल-पीडितम् । निरस्तम् दृश्य मारीचम् रामः लक्ष्मणम् अब्रवीत् ॥१॥
vicetanam vighūrṇantam śīteṣu-bala-pīḍitam . nirastam dṛśya mārīcam rāmaḥ lakṣmaṇam abravīt ..1..
पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितम् । मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते ॥१-३०-२०॥
पश्य लक्ष्मण शीतेषुम् मानवम् मनु-संहितम् । मोहयित्वा नयति एनम् न च प्राणैः वियुज्यते ॥१॥
paśya lakṣmaṇa śīteṣum mānavam manu-saṃhitam . mohayitvā nayati enam na ca prāṇaiḥ viyujyate ..1..
इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः । राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥१-३०-२१॥
इमान् अपि वधिष्यामि निर्घृणान् दुष्ट-चारिणः । राक्षसान् पाप-कर्म-स्थान् यज्ञ-घ्नान् रुधिर-अशनान् ॥१॥
imān api vadhiṣyāmi nirghṛṇān duṣṭa-cāriṇaḥ . rākṣasān pāpa-karma-sthān yajña-ghnān rudhira-aśanān ..1..
इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव । विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः ॥१-३०-२२॥
इति उक्त्वा लक्ष्मणम् च आशु लाघवम् दर्शयन् इव । विगृह्य सु महत् च अस्त्रम् आग्नेयम् रघुनन्दनः ॥१॥
iti uktvā lakṣmaṇam ca āśu lāghavam darśayan iva . vigṛhya su mahat ca astram āgneyam raghunandanaḥ ..1..
सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि । शेषान् वायव्यमादाय निजघान महायशाः । राघवः परमोदारो मुनीनां मुदमावहन् ॥१-३०-२३॥
सुबाहु-उरसि चिक्षेप स विद्धः प्रापतत् भुवि । शेषान् वायव्यम् आदाय निजघान महा-यशाः । राघवः परम-उदारः मुनीनाम् मुदम् आवहन् ॥१॥
subāhu-urasi cikṣepa sa viddhaḥ prāpatat bhuvi . śeṣān vāyavyam ādāya nijaghāna mahā-yaśāḥ . rāghavaḥ parama-udāraḥ munīnām mudam āvahan ..1..
स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः । ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥१-३०-२४॥
स हत्वा राक्षसान् सर्वान् यज्ञ-घ्नान् रघुनन्दनः । ऋषिभिः पूजितः तत्र यथा इन्द्रः विजये पुरा ॥१॥
sa hatvā rākṣasān sarvān yajña-ghnān raghunandanaḥ . ṛṣibhiḥ pūjitaḥ tatra yathā indraḥ vijaye purā ..1..
अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः । निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥१-३०-२५॥
अथ यज्ञे समाप्ते तु विश्वामित्रः महा-मुनिः । निरीतिकाः दिशः दृष्ट्वा काकुत्स्थम् इदम् अब्रवीत् ॥१॥
atha yajñe samāpte tu viśvāmitraḥ mahā-muniḥ . nirītikāḥ diśaḥ dṛṣṭvā kākutstham idam abravīt ..1..
कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया । सिद्धाश्रममिदं सत्यं कृतं वीर महायशः । स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत् ॥१-३०-२६॥
कृतार्थः अस्मि महा-बाहो कृतम् गुरु-वचः त्वया । सिद्धाश्रमम् इदम् सत्यम् कृतम् वीर महा-यशः । स हि रामम् प्रशस्य एवम् ताभ्याम् संध्याम् उपागमत् ॥१॥
kṛtārthaḥ asmi mahā-bāho kṛtam guru-vacaḥ tvayā . siddhāśramam idam satyam kṛtam vīra mahā-yaśaḥ . sa hi rāmam praśasya evam tābhyām saṃdhyām upāgamat ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥१-३०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe triṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In