This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे अष्टात्रिंशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe aṣṭātriṃśaḥ sargaḥ ..1..
तां कथां कौशिको रामे निवेद्य मधुराक्षराम् । पुनरेवापरं वाक्यं काकुत्स्थमिदमब्रवीत् ॥१-३८-१॥
ताम् कथाम् कौशिकः रामे निवेद्य मधुर-अक्षराम् । पुनर् एव अपरम् वाक्यम् काकुत्स्थम् इदम् अब्रवीत् ॥१॥
tām kathām kauśikaḥ rāme nivedya madhura-akṣarām . punar eva aparam vākyam kākutstham idam abravīt ..1..
अयोध्याधिपतिर्वीर पूर्वमासीन्नराधिपः । सगरो नाम धर्मात्मा प्रजाकामः स चाप्रजः ॥१-३८-२॥
अयोध्या-अधिपतिः वीर पूर्वम् आसीत् नराधिपः । सगरः नाम धर्म-आत्मा प्रजा-कामः स च अप्रजः ॥१॥
ayodhyā-adhipatiḥ vīra pūrvam āsīt narādhipaḥ . sagaraḥ nāma dharma-ātmā prajā-kāmaḥ sa ca aprajaḥ ..1..
वैदर्भदुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगरपत्नी सा धर्मिष्ठा सत्यवादिनी ॥१-३८-३॥
वैदर्भ-दुहिता राम केशिनी नाम नामतः । ज्येष्ठा सगर-पत्नी सा धर्मिष्ठा सत्य-वादिनी ॥१॥
vaidarbha-duhitā rāma keśinī nāma nāmataḥ . jyeṣṭhā sagara-patnī sā dharmiṣṭhā satya-vādinī ..1..
अरिष्टनेमेर्दुहिता सुपर्णभगिनी तु सा । द्वितीया सगरस्यासीत् पत्नी सुमतिसंज्ञिता ॥१-३८-४॥
अरिष्टनेमेः दुहिता सुपर्ण-भगिनी तु सा । द्वितीया सगरस्य आसीत् पत्नी सुमति-संज्ञिता ॥१॥
ariṣṭanemeḥ duhitā suparṇa-bhaginī tu sā . dvitīyā sagarasya āsīt patnī sumati-saṃjñitā ..1..
ताभ्यां सह महाराजः पत्नीभ्यां तप्तवांस्तपः । हिमवन्तं समासाद्य भृगुप्रस्रवणे गिरौ ॥१-३८-५॥
ताभ्याम् सह महा-राजः पत्नीभ्याम् तप्तवान् तपः । हिमवन्तम् समासाद्य भृगुप्रस्रवणे गिरौ ॥१॥
tābhyām saha mahā-rājaḥ patnībhyām taptavān tapaḥ . himavantam samāsādya bhṛguprasravaṇe girau ..1..
अथ वर्षशते पूर्णे तपसाऽऽराधितो मुनिः । सगराय वरं प्रादाद् भृगुः सत्यवतां वरः ॥१-३८-६॥
अथ वर्ष-शते पूर्णे तपसा आराधितः मुनिः । सगराय वरम् प्रादात् भृगुः सत्यवताम् वरः ॥१॥
atha varṣa-śate pūrṇe tapasā ārādhitaḥ muniḥ . sagarāya varam prādāt bhṛguḥ satyavatām varaḥ ..1..
अपत्यलाभः सुमहान् भविष्यति तवानघ । कीर्तिं चाप्रतिमां लोके प्राप्स्यसे पुरुषर्षभ ॥१-३८-७॥
अपत्य-लाभः सु महान् भविष्यति तव अनघ । कीर्तिम् च अप्रतिमाम् लोके प्राप्स्यसे पुरुष-ऋषभ ॥१॥
apatya-lābhaḥ su mahān bhaviṣyati tava anagha . kīrtim ca apratimām loke prāpsyase puruṣa-ṛṣabha ..1..
एका जनयिता तात पुत्रं वंशकरं तव । षष्टिं पुत्रसहस्राणि अपरा जनयिष्यति ॥१-३८-८॥
एका जनयिता तात पुत्रम् वंश-करम् तव । षष्टिम् पुत्र-सहस्राणि अपरा जनयिष्यति ॥१॥
ekā janayitā tāta putram vaṃśa-karam tava . ṣaṣṭim putra-sahasrāṇi aparā janayiṣyati ..1..
भाषमाणं महात्मानं राजपुत्र्यौ प्रसाद्य तम् । ऊचतुः परमप्रीते कृताञ्जलिपुटे तदा ॥१-३८-९॥
भाषमाणम् महात्मानम् राज-पुत्र्यौ प्रसाद्य तम् । ऊचतुः परम-प्रीते कृत-अञ्जलि-पुटे तदा ॥१॥
bhāṣamāṇam mahātmānam rāja-putryau prasādya tam . ūcatuḥ parama-prīte kṛta-añjali-puṭe tadā ..1..
एकः कस्याः सुतो ब्रह्मन् का बहूञ्जनयिष्यति । श्रोतुमिच्छावहे ब्रह्मन् सत्यमस्तु वचस्तव ॥१-३८-१०॥
एकः कस्याः सुतः ब्रह्मन् का बहून् जनयिष्यति । श्रोतुम् इच्छावहे ब्रह्मन् सत्यम् अस्तु वचः तव ॥१॥
ekaḥ kasyāḥ sutaḥ brahman kā bahūn janayiṣyati . śrotum icchāvahe brahman satyam astu vacaḥ tava ..1..
तयोस्तद् वचनं श्रुत्वा भृगुः परमधार्मिकः । उवाच परमां वाणीं स्वच्छन्दोऽत्र विधीयताम् ॥१-३८-११॥
तयोः तत् वचनम् श्रुत्वा भृगुः परम-धार्मिकः । उवाच परमाम् वाणीम् स्वच्छन्दः अत्र विधीयताम् ॥१॥
tayoḥ tat vacanam śrutvā bhṛguḥ parama-dhārmikaḥ . uvāca paramām vāṇīm svacchandaḥ atra vidhīyatām ..1..
एको वंशकरो वास्तु बहवो वा महाबलाः । कीर्तिमन्तो महोत्साहाः का वा कं वरमिच्छति ॥१-३८-१२॥
एकः वंश-करः वा अस्तु बहवः वा महा-बलाः । कीर्तिमन्तः महा-उत्साहाः का वा कम् वरम् इच्छति ॥१॥
ekaḥ vaṃśa-karaḥ vā astu bahavaḥ vā mahā-balāḥ . kīrtimantaḥ mahā-utsāhāḥ kā vā kam varam icchati ..1..
मुनेस्तु वचनं श्रुत्वा केशिनी रघुनन्दन । पुत्रं वंशकरं राम जग्राह नृपसंनिधौ ॥१-३८-१३॥
मुनेः तु वचनम् श्रुत्वा केशिनी रघुनन्दन । पुत्रम् वंश-करम् राम जग्राह नृप-संनिधौ ॥१॥
muneḥ tu vacanam śrutvā keśinī raghunandana . putram vaṃśa-karam rāma jagrāha nṛpa-saṃnidhau ..1..
षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तदा । महोत्साहान् कीर्तिमतो जग्राह सुमतिः सुतान् ॥१-३८-१४॥
षष्टिम् पुत्र-सहस्राणि सुपर्ण-भगिनी तदा । महा-उत्साहान् कीर्तिमतः जग्राह सुमतिः सुतान् ॥१॥
ṣaṣṭim putra-sahasrāṇi suparṇa-bhaginī tadā . mahā-utsāhān kīrtimataḥ jagrāha sumatiḥ sutān ..1..
प्रदक्षिणमृषिं कृत्वा शिरसाभिप्रणम्य तम् । जगाम स्वपुरं राजा सभार्यो रघुनन्दन ॥१-३८-१५॥
प्रदक्षिणम् ऋषिम् कृत्वा शिरसा अभिप्रणम्य तम् । जगाम स्व-पुरम् राजा स भार्यः रघुनन्दन ॥१॥
pradakṣiṇam ṛṣim kṛtvā śirasā abhipraṇamya tam . jagāma sva-puram rājā sa bhāryaḥ raghunandana ..1..
अथ काले गते तस्य ज्येष्ठा पुत्रं व्यजायत । असमञ्ज इति ख्यातं केशिनी सगरात्मजम् ॥१-३८-१६॥
अथ काले गते तस्य ज्येष्ठा पुत्रम् व्यजायत । असमञ्जः इति ख्यातम् केशिनी सगर-आत्मजम् ॥१॥
atha kāle gate tasya jyeṣṭhā putram vyajāyata . asamañjaḥ iti khyātam keśinī sagara-ātmajam ..1..
सुमतिस्तु नरव्याघ्र गर्भतुम्बं व्यजायत । षष्टिः पुत्रसहस्राणि तुम्बभेदाद् विनिःसृताः ॥१-३८-१७॥
सुमतिः तु नर-व्याघ्र गर्भ-तुम्बम् व्यजायत । षष्टिः पुत्र-सहस्राणि तुम्ब-भेदात् विनिःसृताः ॥१॥
sumatiḥ tu nara-vyāghra garbha-tumbam vyajāyata . ṣaṣṭiḥ putra-sahasrāṇi tumba-bhedāt viniḥsṛtāḥ ..1..
घृतपूर्णेषु कुम्भेषु धात्र्यस्तान् समवर्धयन् । कालेन महता सर्वे यौवनं प्रतिपेदिरे ॥१-३८-१८॥
घृत-पूर्णेषु कुम्भेषु धात्र्यः तान् समवर्धयन् । कालेन महता सर्वे यौवनम् प्रतिपेदिरे ॥१॥
ghṛta-pūrṇeṣu kumbheṣu dhātryaḥ tān samavardhayan . kālena mahatā sarve yauvanam pratipedire ..1..
अथ दीर्घेण कालेन रूपयौवनशालिनः । षष्टिः पुत्रसहस्राणि सगरस्याभवंस्तदा ॥१-३८-१९॥
अथ दीर्घेण कालेन रूप-यौवन-शालिनः । षष्टिः पुत्र-सहस्राणि सगरस्य अभवन् तदा ॥१॥
atha dīrgheṇa kālena rūpa-yauvana-śālinaḥ . ṣaṣṭiḥ putra-sahasrāṇi sagarasya abhavan tadā ..1..
स च ज्येष्ठो नरश्रेष्ठ सगरस्यात्मसम्भवः । बालान् गृहीत्वा तु जले सरय्वा रघुनन्दन ॥१-३८-२०॥
स च ज्येष्ठः नर-श्रेष्ठ सगरस्य आत्मसम्भवः । बालान् गृहीत्वा तु जले सरय्वाः रघुनन्दन ॥१॥
sa ca jyeṣṭhaḥ nara-śreṣṭha sagarasya ātmasambhavaḥ . bālān gṛhītvā tu jale sarayvāḥ raghunandana ..1..
प्रक्षिप्य प्राहसन्नित्यं मज्जतस्तान् निरीक्ष्य वै । एवं पापसमाचारः सज्जनप्रतिबाधकः ॥१-३८-२१॥
प्रक्षिप्य प्राहसत् नित्यम् मज्जतः तान् निरीक्ष्य वै । एवम् पाप-समाचारः सत्-जन-प्रतिबाधकः ॥१॥
prakṣipya prāhasat nityam majjataḥ tān nirīkṣya vai . evam pāpa-samācāraḥ sat-jana-pratibādhakaḥ ..1..
पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रोंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥१-३८-२२॥
पौराणाम् अहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रः ऊंऽशुमान् नाम असमञ्जस्य वीर्यवान् ॥१॥
paurāṇām ahite yuktaḥ pitrā nirvāsitaḥ purāt . tasya putraḥ ūṃ'śumān nāma asamañjasya vīryavān ..1..
सम्मतः सर्वलोकस्य सर्वस्यापि प्रियंवदः । ततः कालेन महता मतिः समभिजायत ॥१-३८-२३॥
सम्मतः सर्व-लोकस्य सर्वस्य अपि प्रियंवदः । ततस् कालेन महता मतिः समभिजायत ॥१॥
sammataḥ sarva-lokasya sarvasya api priyaṃvadaḥ . tatas kālena mahatā matiḥ samabhijāyata ..1..
सगरस्य नरश्रेष्ठ यजेयमिति निश्चिता । स कृत्वा निश्चयं राजा सोपाध्यायगणस्तदा । यज्ञकर्मणि वेदज्ञो यष्टुं समुपचक्रमे ॥१-३८-२४॥
सगरस्य नर-श्रेष्ठ यजेयम् इति निश्चिता । स कृत्वा निश्चयम् राजा स उपाध्याय-गणः तदा । यज्ञ-कर्मणि वेद-ज्ञः यष्टुम् समुपचक्रमे ॥१॥
sagarasya nara-śreṣṭha yajeyam iti niścitā . sa kṛtvā niścayam rājā sa upādhyāya-gaṇaḥ tadā . yajña-karmaṇi veda-jñaḥ yaṣṭum samupacakrame ..1..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१-३८॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टात्रिंशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe aṣṭātriṃśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In