This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विपञ्चाशः सर्गः ॥१-५२॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे द्विपञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe dvipañcāśaḥ sargaḥ ..1..
तं दृष्ट्वा परमप्रीतो विश्वामित्रो महाबलः। प्रणतो विनयाद् वीरो वसिष्ठं जपतां वरम्॥ १॥
तम् दृष्ट्वा परम-प्रीतः विश्वामित्रः महा-बलः। प्रणतः विनयात् वीरः वसिष्ठम् जपताम् वरम्॥ १॥
tam dṛṣṭvā parama-prītaḥ viśvāmitraḥ mahā-balaḥ. praṇataḥ vinayāt vīraḥ vasiṣṭham japatām varam.. 1..
स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना। आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह॥ २॥
स्वागतम् तव च इति उक्तः वसिष्ठेन महात्मना। आसनम् च अस्य भगवान् वसिष्ठः व्यादिदेश ह॥ २॥
svāgatam tava ca iti uktaḥ vasiṣṭhena mahātmanā. āsanam ca asya bhagavān vasiṣṭhaḥ vyādideśa ha.. 2..
उपविष्टाय च तदा विश्वामित्राय धीमते। यथान्यायं मुनिवरः फलमूलमुपाहरत्॥ ३॥
उपविष्टाय च तदा विश्वामित्राय धीमते। यथान्यायम् मुनि-वरः फल-मूलम् उपाहरत्॥ ३॥
upaviṣṭāya ca tadā viśvāmitrāya dhīmate. yathānyāyam muni-varaḥ phala-mūlam upāharat.. 3..
प्रतिगृह्य तु तां पूजां वसिष्ठाद् राजसत्तमः। तपोऽग्निहोत्रशिष्येषु कुशलं पर्यपृच्छत॥ ४॥
प्रतिगृह्य तु ताम् पूजाम् वसिष्ठात् राज-सत्तमः। तपः-अग्निहोत्र-शिष्येषु कुशलम् पर्यपृच्छत॥ ४॥
pratigṛhya tu tām pūjām vasiṣṭhāt rāja-sattamaḥ. tapaḥ-agnihotra-śiṣyeṣu kuśalam paryapṛcchata.. 4..
विश्वामित्रो महातेजा वनस्पतिगणे तदा। सर्वत्र कुशलं प्राह वसिष्ठो राजसत्तमम्॥ ५॥
विश्वामित्रः महा-तेजाः वनस्पति-गणे तदा। सर्वत्र कुशलम् प्राह वसिष्ठः राज-सत्तमम्॥ ५॥
viśvāmitraḥ mahā-tejāḥ vanaspati-gaṇe tadā. sarvatra kuśalam prāha vasiṣṭhaḥ rāja-sattamam.. 5..
सुखोपविष्टं राजानं विश्वामित्रं महातपाः। पप्रच्छ जपतां श्रेष्ठो वसिष्ठो ब्रह्मणः सुतः॥ ६॥
सुख-उपविष्टम् राजानम् विश्वामित्रम् महा-तपाः। पप्रच्छ जपताम् श्रेष्ठः वसिष्ठः ब्रह्मणः सुतः॥ ६॥
sukha-upaviṣṭam rājānam viśvāmitram mahā-tapāḥ. papraccha japatām śreṣṭhaḥ vasiṣṭhaḥ brahmaṇaḥ sutaḥ.. 6..
कच्चित्ते कुशलं राजन् कच्चिद् धर्मेण रञ्जयन्। प्रजाः पालयसे राजन् राजवृत्तेन धार्मिक॥ ७॥
कच्चित् ते कुशलम् राजन् कच्चित् धर्मेण रञ्जयन्। प्रजाः पालयसे राजन् राज-वृत्तेन धार्मिक॥ ७॥
kaccit te kuśalam rājan kaccit dharmeṇa rañjayan. prajāḥ pālayase rājan rāja-vṛttena dhārmika.. 7..
कच्चित्ते सम्भृता भृत्याः कच्चित् तिष्ठन्ति शासने। कच्चित्ते विजिताः सर्वे रिपवो रिपुसूदन॥ ८॥
कच्चित् ते सम्भृताः भृत्याः कच्चित् तिष्ठन्ति शासने। कच्चित् ते विजिताः सर्वे रिपवः रिपु-सूदन॥ ८॥
kaccit te sambhṛtāḥ bhṛtyāḥ kaccit tiṣṭhanti śāsane. kaccit te vijitāḥ sarve ripavaḥ ripu-sūdana.. 8..
कच्चिद् बलेषु कोशेषु मित्रेषु च परंतप। कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ॥ ९॥
कच्चित् बलेषु कोशेषु मित्रेषु च परंतप। कुशलम् ते नर-व्याघ्र पुत्र-पौत्रे तथा अनघ॥ ९॥
kaccit baleṣu kośeṣu mitreṣu ca paraṃtapa. kuśalam te nara-vyāghra putra-pautre tathā anagha.. 9..
सर्वत्र कुशलं राजा वसिष्ठं प्रत्युदाहरत्। विश्वामित्रो महातेजा वसिष्ठं विनयान्वितम्॥ १०॥
सर्वत्र कुशलम् राजा वसिष्ठम् प्रत्युदाहरत्। विश्वामित्रः महा-तेजाः वसिष्ठम् विनय अन्वितम्॥ १०॥
sarvatra kuśalam rājā vasiṣṭham pratyudāharat. viśvāmitraḥ mahā-tejāḥ vasiṣṭham vinaya anvitam.. 10..
कृत्वा तौ सुचिरं कालं धर्मिष्ठौ ताः कथास्तदा। मुदा परमया युक्तौ प्रीयेतां तौ परस्परम्॥ ११॥
कृत्वा तौ सु चिरम् कालम् धर्मिष्ठौ ताः कथाः तदा। मुदा परमया युक्तौ प्रीयेताम् तौ परस्परम्॥ ११॥
kṛtvā tau su ciram kālam dharmiṣṭhau tāḥ kathāḥ tadā. mudā paramayā yuktau prīyetām tau parasparam.. 11..
ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन। विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव॥ १२॥
ततस् वसिष्ठः भगवान् कथा-अन्ते रघुनन्दन। विश्वामित्रम् इदम् वाक्यम् उवाच प्रहसन् इव॥ १२॥
tatas vasiṣṭhaḥ bhagavān kathā-ante raghunandana. viśvāmitram idam vākyam uvāca prahasan iva.. 12..
आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल। तव चैवाप्रमेयस्य यथार्हं सम्प्रतीच्छ मे॥ १३॥
आतिथ्यम् कर्तुम् इच्छामि बलस्य अस्य महा-बल। तव च एव अप्रमेयस्य यथार्हम् सम्प्रतीच्छ मे॥ १३॥
ātithyam kartum icchāmi balasya asya mahā-bala. tava ca eva aprameyasya yathārham sampratīccha me.. 13..
सत्क्रियां हि भवानेतां प्रतीच्छतु मया कृताम्। राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः॥ १४॥
सत्क्रियाम् हि भवान् एताम् प्रतीच्छतु मया कृताम्। राजन् त्वम् अतिथि-श्रेष्ठः पूजनीयः प्रयत्नतः॥ १४॥
satkriyām hi bhavān etām pratīcchatu mayā kṛtām. rājan tvam atithi-śreṣṭhaḥ pūjanīyaḥ prayatnataḥ.. 14..
एवमुक्तो वसिष्ठेन विश्वामित्रो महामतिः। कृतमित्यब्रवीद् राजा पूजावाक्येन मे त्वया॥ १५॥
एवम् उक्तः वसिष्ठेन विश्वामित्रः महामतिः। कृतम् इति अब्रवीत् राजा पूजा-वाक्येन मे त्वया॥ १५॥
evam uktaḥ vasiṣṭhena viśvāmitraḥ mahāmatiḥ. kṛtam iti abravīt rājā pūjā-vākyena me tvayā.. 15..
फलमूलेन भगवन् विद्यते यत् तवाश्रमे। पाद्येनाचमनीयेन भगवद्दर्शनेन च॥ १६॥
फल-मूलेन भगवन् विद्यते यत् तव आश्रमे। पाद्येन आचमनीयेन भगवत्-दर्शनेन च॥ १६॥
phala-mūlena bhagavan vidyate yat tava āśrame. pādyena ācamanīyena bhagavat-darśanena ca.. 16..
सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः। नमस्तेऽस्तु गमिष्यामि मैत्रेणेक्षस्व चक्षुषा॥ १७॥
सर्वथा च महा-प्राज्ञ पूजा-अर्हेण सु पूजितः। नमः ते अस्तु गमिष्यामि मैत्रेण ईक्षस्व चक्षुषा॥ १७॥
sarvathā ca mahā-prājña pūjā-arheṇa su pūjitaḥ. namaḥ te astu gamiṣyāmi maitreṇa īkṣasva cakṣuṣā.. 17..
एवं ब्रुवन्तं राजानं वसिष्ठं पुनरेव हि। न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः॥ १८॥
एवम् ब्रुवन्तम् राजानम् वसिष्ठम् पुनर् एव हि। न्यमन्त्रयत धर्म-आत्मा पुनर् पुनर् उदार-धीः॥ १८॥
evam bruvantam rājānam vasiṣṭham punar eva hi. nyamantrayata dharma-ātmā punar punar udāra-dhīḥ.. 18..
बाढमित्येव गाधेयो वसिष्ठं प्रत्युवाच ह। यथाप्रियं भगवतस्तथास्तु मुनिपुंगव॥ १९॥
बाढम् इति एव गाधेयः वसिष्ठम् प्रत्युवाच ह। यथा अप्रियम् भगवतः तथा अस्तु मुनि-पुंगव॥ १९॥
bāḍham iti eva gādheyaḥ vasiṣṭham pratyuvāca ha. yathā apriyam bhagavataḥ tathā astu muni-puṃgava.. 19..
एवमुक्तस्तथा तेन वसिष्ठो जपतां वरः। आजुहाव ततः प्रीतः कल्माषीं धूतकल्मषाम्॥ २०॥
एवम् उक्तः तथा तेन वसिष्ठः जपताम् वरः। आजुहाव ततस् प्रीतः कल्माषीम् धूत-कल्मषाम्॥ २०॥
evam uktaḥ tathā tena vasiṣṭhaḥ japatām varaḥ. ājuhāva tatas prītaḥ kalmāṣīm dhūta-kalmaṣām.. 20..
एह्येहि शबले क्षिप्रं शृणु चापि वचो मम। सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम्। भोजनेन महार्हेण सत्कारं संविधत्स्व मे॥ २१॥
एहि एहि शबले क्षिप्रम् शृणु च अपि वचः मम। सबलस्य अस्य राजर्षेः कर्तुम् व्यवसितः अस्मि अहम्। भोजनेन महार्हेण सत्कारम् संविधत्स्व मे॥ २१॥
ehi ehi śabale kṣipram śṛṇu ca api vacaḥ mama. sabalasya asya rājarṣeḥ kartum vyavasitaḥ asmi aham. bhojanena mahārheṇa satkāram saṃvidhatsva me.. 21..
यस्य यस्य यथाकामं षड्रसेष्वभिपूजितम्। तत् सर्वं कामधुग् दिव्ये अभिवर्ष कृते मम॥ २२॥
यस्य यस्य यथाकामम् षष्-रसेषु अभिपूजितम्। तत् सर्वम् कामदुह् दिव्ये अभिवर्ष कृते मम॥ २२॥
yasya yasya yathākāmam ṣaṣ-raseṣu abhipūjitam. tat sarvam kāmaduh divye abhivarṣa kṛte mama.. 22..
रसेनान्नेन पानेन लेह्यचोष्येण संयुतम्। अन्नानां निचयं सर्वं सृजस्व शबले त्वर॥ २३॥
रसेन अन्नेन पानेन लेह्य-चोष्येण संयुतम्। अन्नानाम् निचयम् सर्वम् सृजस्व शबले त्वर॥ २३॥
rasena annena pānena lehya-coṣyeṇa saṃyutam. annānām nicayam sarvam sṛjasva śabale tvara.. 23..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥१-५२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विपञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe dvipañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In