This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे षट्पञ्चाशः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe ṣaṭpañcāśaḥ sargaḥ ..1..
एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः। आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत्॥ १॥
एवम् उक्तः वसिष्ठेन विश्वामित्रः महा-बलः। आग्नेयम् अस्त्रम् उद्दिश्य तिष्ठ तिष्ठ इति च अब्रवीत्॥ १॥
evam uktaḥ vasiṣṭhena viśvāmitraḥ mahā-balaḥ. āgneyam astram uddiśya tiṣṭha tiṣṭha iti ca abravīt.. 1..
ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम्। वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्॥ २॥
ब्रह्मदण्डम् समुद्यम्य कालदण्डम् इव अपरम्। वसिष्ठः भगवान् क्रोधात् इदम् वचनम् अब्रवीत्॥ २॥
brahmadaṇḍam samudyamya kāladaṇḍam iva aparam. vasiṣṭhaḥ bhagavān krodhāt idam vacanam abravīt.. 2..
क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय। नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज॥ ३॥
क्षत्रबन्धो स्थितः अस्मि एष यत् बलम् तत् विदर्शय। नाशयामि अद्य ते दर्पम् शस्त्रस्य तव गाधिज॥ ३॥
kṣatrabandho sthitaḥ asmi eṣa yat balam tat vidarśaya. nāśayāmi adya te darpam śastrasya tava gādhija.. 3..
क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्। पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन॥ ४॥
क्व च ते क्षत्रिय-बलम् क्व च ब्रह्म-बलम् महत्। पश्य ब्रह्म-बलम् दिव्यम् मम क्षत्रिय-पांसन॥ ४॥
kva ca te kṣatriya-balam kva ca brahma-balam mahat. paśya brahma-balam divyam mama kṣatriya-pāṃsana.. 4..
तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्। ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा॥ ५॥
तस्य अस्त्रम् गाधिपुत्रस्य घोरम् आग्नेयम् उत्तमम्। ब्रह्मदण्डेन तत् शान्तम् अग्नेः वेगः इव अम्भसा॥ ५॥
tasya astram gādhiputrasya ghoram āgneyam uttamam. brahmadaṇḍena tat śāntam agneḥ vegaḥ iva ambhasā.. 5..
वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा। ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः॥ ६॥
वारुणम् च एव रौद्रम् च ऐन्द्रम् पाशुपतम् तथा। ऐषीकम् च अपि चिक्षेप कुपितः गाधिनन्दनः॥ ६॥
vāruṇam ca eva raudram ca aindram pāśupatam tathā. aiṣīkam ca api cikṣepa kupitaḥ gādhinandanaḥ.. 6..
मानवं मोहनं चैव गान्धर्वं स्वापनं तथा। जृम्भणं मादनं चैव संतापनविलापने॥ ७॥
मानवम् मोहनम् च एव गान्धर्वम् स्वापनम् तथा। जृम्भणम् मादनम् च एव संतापन-विलापने॥ ७॥
mānavam mohanam ca eva gāndharvam svāpanam tathā. jṛmbhaṇam mādanam ca eva saṃtāpana-vilāpane.. 7..
शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्। ब्रह्मपाशं कालपाशं वारुणं पाशमेव च॥ ८॥
शोषणम् दारणम् च एव वज्रम् अस्त्रम् सु दुर्जयम्। ब्रह्मपाशम् कालपाशम् वारुणम् पाशम् एव च॥ ८॥
śoṣaṇam dāraṇam ca eva vajram astram su durjayam. brahmapāśam kālapāśam vāruṇam pāśam eva ca.. 8..
पिनाकमस्त्रं दयितं शुष्कार्द्रे अशनी तथा। दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च॥ ९॥
पिनाकम् अस्त्रम् दयितम् शुष्क-आर्द्रे अशनी तथा। दण्डास्त्रम् अथ पैशाचम् क्रौञ्चम् अस्त्रम् तथा एव च॥ ९॥
pinākam astram dayitam śuṣka-ārdre aśanī tathā. daṇḍāstram atha paiśācam krauñcam astram tathā eva ca.. 9..
धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च। वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा॥ १०॥
धर्मचक्रम् कालचक्रम् विष्णुचक्रम् तथा एव च। वायव्यम् मथनम् च एव अस्त्रम् हयशिरः तथा॥ १०॥
dharmacakram kālacakram viṣṇucakram tathā eva ca. vāyavyam mathanam ca eva astram hayaśiraḥ tathā.. 10..
शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा। वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्॥ ११॥
शक्ति-द्वयम् च चिक्षेप कङ्कालम् मुसलम् तथा। वैद्याधरम् महा-अस्त्रम् च काल-अस्त्रम् अथ दारुणम्॥ ११॥
śakti-dvayam ca cikṣepa kaṅkālam musalam tathā. vaidyādharam mahā-astram ca kāla-astram atha dāruṇam.. 11..
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्। एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन॥ १२॥
त्रिशूलम् अस्त्रम् घोरम् च कापालम् अथ कङ्कणम्। एतानि अस्त्राणि चिक्षेप सर्वाणि रघुनन्दन॥ १२॥
triśūlam astram ghoram ca kāpālam atha kaṅkaṇam. etāni astrāṇi cikṣepa sarvāṇi raghunandana.. 12..
वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्। तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः॥ १३॥
वसिष्ठे जपताम् श्रेष्ठे तत् अद्भुतम् इव अभवत्। तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः॥ १३॥
vasiṣṭhe japatām śreṣṭhe tat adbhutam iva abhavat. tāni sarvāṇi daṇḍena grasate brahmaṇaḥ sutaḥ.. 13..
तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः। तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः॥ १४॥
तेषु शान्तेषु ब्रह्मास्त्रम् क्षिप्तवान् गाधिनन्दनः। तत् अस्त्रम् उद्यतम् दृष्ट्वा देवाः स अग्नि-पुरोगमाः॥ १४॥
teṣu śānteṣu brahmāstram kṣiptavān gādhinandanaḥ. tat astram udyatam dṛṣṭvā devāḥ sa agni-purogamāḥ.. 14..
देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः। त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते॥ १५॥
देवर्षयः च सम्भ्रान्ताः गन्धर्वाः स महा-उरगाः। त्रैलोक्यम् आसीत् संत्रस्तम् ब्रह्मास्त्रे समुदीरिते॥ १५॥
devarṣayaḥ ca sambhrāntāḥ gandharvāḥ sa mahā-uragāḥ. trailokyam āsīt saṃtrastam brahmāstre samudīrite.. 15..
तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा। वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव॥ १६॥
तत् अपि अस्त्रम् महा-घोरम् ब्राह्मम् ब्राह्मेण तेजसा। वसिष्ठः ग्रसते सर्वम् ब्रह्मदण्डेन राघव॥ १६॥
tat api astram mahā-ghoram brāhmam brāhmeṇa tejasā. vasiṣṭhaḥ grasate sarvam brahmadaṇḍena rāghava.. 16..
ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः। त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम्॥ १७॥
ब्रह्मास्त्रम् ग्रसमानस्य वसिष्ठस्य महात्मनः। त्रैलोक्य-मोहनम् रौद्रम् रूपम् आसीत् सु दारुणम्॥ १७॥
brahmāstram grasamānasya vasiṣṭhasya mahātmanaḥ. trailokya-mohanam raudram rūpam āsīt su dāruṇam.. 17..
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः। मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः॥ १८॥
रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः। मरीच्यः इव निष्पेतुः अग्नेः धूम-आकुल-अर्चिषः॥ १८॥
romakūpeṣu sarveṣu vasiṣṭhasya mahātmanaḥ. marīcyaḥ iva niṣpetuḥ agneḥ dhūma-ākula-arciṣaḥ.. 18..
प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः। विधूम इव कालाग्नेर्यमदण्ड इवापरः॥ १९॥
प्राज्वलत् ब्रह्मदण्डः च वसिष्ठस्य कर-उद्यतः। विधूमः इव कालाग्नेः यम-दण्डः इव अपरः॥ १९॥
prājvalat brahmadaṇḍaḥ ca vasiṣṭhasya kara-udyataḥ. vidhūmaḥ iva kālāgneḥ yama-daṇḍaḥ iva aparaḥ.. 19..
ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्। अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा॥ २०॥
ततस् अस्तुवत् मुनि-गणाः वसिष्ठम् जपताम् वरम्। अमोघम् ते बलम् ब्रह्मन् तेजः धारय तेजसा॥ २०॥
tatas astuvat muni-gaṇāḥ vasiṣṭham japatām varam. amogham te balam brahman tejaḥ dhāraya tejasā.. 20..
निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः। अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः॥ २१॥
निगृहीतः त्वया ब्रह्मन् विश्वामित्रः महा-बलः। अमोघम् ते बलम् श्रेष्ठ लोकाः सन्तु गत-व्यथाः॥ २१॥
nigṛhītaḥ tvayā brahman viśvāmitraḥ mahā-balaḥ. amogham te balam śreṣṭha lokāḥ santu gata-vyathāḥ.. 21..
एवमुक्तो महातेजाः शमं चक्रे महाबलः। विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत्॥ २२॥
एवम् उक्तः महा-तेजाः शमम् चक्रे महा-बलः। विश्वामित्रः विनिकृतः विनिःश्वस्य इदम् अब्रवीत्॥ २२॥
evam uktaḥ mahā-tejāḥ śamam cakre mahā-balaḥ. viśvāmitraḥ vinikṛtaḥ viniḥśvasya idam abravīt.. 22..
धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्। एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे॥ २३॥
धिक् बलम् क्षत्रिय-बलम् ब्रह्म-तेजः-बलम् बलम्। एकेन ब्रह्मदण्डेन सर्व-अस्त्राणि हतानि मे॥ २३॥
dhik balam kṣatriya-balam brahma-tejaḥ-balam balam. ekena brahmadaṇḍena sarva-astrāṇi hatāni me.. 23..
तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः। तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारणम्॥ २४॥
तत् एतत् प्रसमीक्ष्य अहम् प्रसन्न-इन्द्रिय-मानसः। तपः महत् समास्थास्ये यत् वै ब्रह्मत्व-कारणम्॥ २४॥
tat etat prasamīkṣya aham prasanna-indriya-mānasaḥ. tapaḥ mahat samāsthāsye yat vai brahmatva-kāraṇam.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ṣaṭpañcāśaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In