This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..1..
विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन्। अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः॥ १॥
विश्वामित्रः महा-तेजाः प्रस्थितान् वीक्ष्य तान् ऋषीन्। अब्रवीत् नर-शार्दूल सर्वान् तान् वन-वासिनः॥ १॥
viśvāmitraḥ mahā-tejāḥ prasthitān vīkṣya tān ṛṣīn. abravīt nara-śārdūla sarvān tān vana-vāsinaḥ.. 1..
महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्। दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः॥ २॥
महा-विघ्नः प्रवृत्तः अयम् दक्षिणाम् आस्थितः दिशम्। दिशम् अन्याम् प्रपत्स्यामः तत्र तप्स्यामहे तपः॥ २॥
mahā-vighnaḥ pravṛttaḥ ayam dakṣiṇām āsthitaḥ diśam. diśam anyām prapatsyāmaḥ tatra tapsyāmahe tapaḥ.. 2..
पश्चिमायां विशालायां पुष्करेषु महात्मनः। सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम्॥ ३॥
पश्चिमायाम् विशालायाम् पुष्करेषु महात्मनः। सुखम् तपः चरिष्यामः सुखम् तत् हि तपोवनम्॥ ३॥
paścimāyām viśālāyām puṣkareṣu mahātmanaḥ. sukham tapaḥ cariṣyāmaḥ sukham tat hi tapovanam.. 3..
एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः। तप उग्रं दुराधर्षं तेपे मूलफलाशनः॥ ४॥
एवम् उक्त्वा महा-तेजाः पुष्करेषु महा-मुनिः। तपः उग्रम् दुराधर्षम् तेपे मूल-फल-अशनः॥ ४॥
evam uktvā mahā-tejāḥ puṣkareṣu mahā-muniḥ. tapaḥ ugram durādharṣam tepe mūla-phala-aśanaḥ.. 4..
एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान्। अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे॥ ५॥
एतस्मिन् एव काले तु अयोध्या-अधिपतिः महान्। अम्बरीषः इति ख्यातः यष्टुम् समुपचक्रमे॥ ५॥
etasmin eva kāle tu ayodhyā-adhipatiḥ mahān. ambarīṣaḥ iti khyātaḥ yaṣṭum samupacakrame.. 5..
तस्य वै यजमानस्य पशुमिन्द्रो जहार ह। प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत्॥ ६॥
तस्य वै यजमानस्य पशुम् इन्द्रः जहार ह। प्रणष्टे तु पशौ विप्रः राजानम् इदम् अब्रवीत्॥ ६॥
tasya vai yajamānasya paśum indraḥ jahāra ha. praṇaṣṭe tu paśau vipraḥ rājānam idam abravīt.. 6..
पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात्। अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर॥ ७॥
पशुः अभ्याहृतः राजन् प्रणष्टः तव दुर्नयात्। अरक्षितारम् राजानम् घ्नन्ति दोषाः नरेश्वर॥ ७॥
paśuḥ abhyāhṛtaḥ rājan praṇaṣṭaḥ tava durnayāt. arakṣitāram rājānam ghnanti doṣāḥ nareśvara.. 7..
प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ। आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते॥ ८॥
प्रायश्चित्तम् महत् हि एतत् नरम् वा पुरुष-ऋषभ। आनयस्व पशुम् शीघ्रम् यावत् कर्म प्रवर्तते॥ ८॥
prāyaścittam mahat hi etat naram vā puruṣa-ṛṣabha. ānayasva paśum śīghram yāvat karma pravartate.. 8..
उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः। अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः॥ ९॥
उपाध्याय-वचः श्रुत्वा स राजा पुरुष-ऋषभः। अन्वियेष महा-बुद्धिः पशुम् गोभिः सहस्रशस्॥ ९॥
upādhyāya-vacaḥ śrutvā sa rājā puruṣa-ṛṣabhaḥ. anviyeṣa mahā-buddhiḥ paśum gobhiḥ sahasraśas.. 9..
देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च। आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः॥ १०॥
देशान् जनपदान् तान् तान् नगराणि वनानि च। आश्रमाणि च पुण्यानि मार्गमाणः महीपतिः॥ १०॥
deśān janapadān tān tān nagarāṇi vanāni ca. āśramāṇi ca puṇyāni mārgamāṇaḥ mahīpatiḥ.. 10..
स पुत्रसहितं तात सभार्यं रघुनन्दन। भृगुतुंगे समासीनमृचीकं संददर्श ह॥ ११॥
स पुत्र-सहितम् तात स भार्यम् रघुनन्दन। भृगुतुंगे समासीनम् ऋचीकम् संददर्श ह॥ ११॥
sa putra-sahitam tāta sa bhāryam raghunandana. bhṛgutuṃge samāsīnam ṛcīkam saṃdadarśa ha.. 11..
तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च। महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः॥ १२॥
तम् उवाच महा-तेजाः प्रणम्य अभिप्रसाद्य च। महा-ऋषिम् तपसा दीप्तम् राजर्षिः अमित-प्रभः॥ १२॥
tam uvāca mahā-tejāḥ praṇamya abhiprasādya ca. mahā-ṛṣim tapasā dīptam rājarṣiḥ amita-prabhaḥ.. 12..
पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः। गवां शतसहस्रेण विक्रीणीषे सुतं यदि॥ १३॥
पृष्ट्वा सर्वत्र कुशलम् ऋचीकम् तम् इदम् वचः। गवाम् शत-सहस्रेण विक्रीणीषे सुतम् यदि॥ १३॥
pṛṣṭvā sarvatra kuśalam ṛcīkam tam idam vacaḥ. gavām śata-sahasreṇa vikrīṇīṣe sutam yadi.. 13..
पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव। सर्वे परिगता देशा यज्ञियं न लभे पशुम्॥ १४॥
पशोः अर्थे महाभाग कृतकृत्यः अस्मि भार्गव। सर्वे परिगताः देशाः यज्ञियम् न लभे पशुम्॥ १४॥
paśoḥ arthe mahābhāga kṛtakṛtyaḥ asmi bhārgava. sarve parigatāḥ deśāḥ yajñiyam na labhe paśum.. 14..
दातुमर्हसि मूल्येन सुतमेकमितो मम। एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः॥ १५॥
दातुम् अर्हसि मूल्येन सुतम् एकम् इतस् मम। एवम् उक्तः महा-तेजाः ऋचीकः तु अब्रवीत् वचः॥ १५॥
dātum arhasi mūlyena sutam ekam itas mama. evam uktaḥ mahā-tejāḥ ṛcīkaḥ tu abravīt vacaḥ.. 15..
नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन। ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्॥ १६॥
न अहम् ज्येष्ठम् नर-श्रेष्ठ विक्रीणीयाम् कथंचन। ऋचीकस्य वचः श्रुत्वा तेषाम् माता महात्मनाम्॥ १६॥
na aham jyeṣṭham nara-śreṣṭha vikrīṇīyām kathaṃcana. ṛcīkasya vacaḥ śrutvā teṣām mātā mahātmanām.. 16..
उवाच नरशार्दूलमम्बरीषमिदं वचः। अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः॥ १७॥
उवाच नर-शार्दूलम् अम्बरीषम् इदम् वचः। अविक्रेयम् सुतम् ज्येष्ठम् भगवान् आह भार्गवः॥ १७॥
uvāca nara-śārdūlam ambarīṣam idam vacaḥ. avikreyam sutam jyeṣṭham bhagavān āha bhārgavaḥ.. 17..
ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो। तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव॥ १८॥
मम अपि दयितम् विद्धि कनिष्ठम् शुनकम् प्रभो। तस्मात् कनीयसम् पुत्रम् न दास्ये तव पार्थिव॥ १८॥
mama api dayitam viddhi kaniṣṭham śunakam prabho. tasmāt kanīyasam putram na dāsye tava pārthiva.. 18..
प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम्॥ १९॥
प्रायेण हि नर-श्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणाम् च कनीयांसः तस्मात् रक्ष्ये कनीयसम्॥ १९॥
prāyeṇa hi nara-śreṣṭha jyeṣṭhāḥ pitṛṣu vallabhāḥ. mātṝṇām ca kanīyāṃsaḥ tasmāt rakṣye kanīyasam.. 19..
उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च। शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्॥ २०॥
उक्त-वाक्ये मुनौ तस्मिन् मुनि-पत्न्याम् तथा एव च। शुनःशेपः स्वयम् राम मध्यमः वाक्यम् अब्रवीत्॥ २०॥
ukta-vākye munau tasmin muni-patnyām tathā eva ca. śunaḥśepaḥ svayam rāma madhyamaḥ vākyam abravīt.. 20..
पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्। विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम्॥ २१॥
पिता ज्येष्ठम् अविक्रेयम् माता च आह कनीयसम्। विक्रेयम् मध्यमम् मन्ये राज-पुत्र नयस्व माम्॥ २१॥
pitā jyeṣṭham avikreyam mātā ca āha kanīyasam. vikreyam madhyamam manye rāja-putra nayasva mām.. 21..
अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः। हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः॥ २२॥
अथ राजा महा-बाहो वाक्य-अन्ते ब्रह्म-वादिनः। हिरण्यस्य सुवर्णस्य कोटिभिः रत्न-राशिभिः॥ २२॥
atha rājā mahā-bāho vākya-ante brahma-vādinaḥ. hiraṇyasya suvarṇasya koṭibhiḥ ratna-rāśibhiḥ.. 22..
गवां शतसहस्रेण शुनःशेपं नरेश्वरः। गृहीत्वा परमप्रीतो जगाम रघुनन्दन॥ २३॥
गवाम् शत-सहस्रेण शुनःशेपम् नरेश्वरः। गृहीत्वा परम-प्रीतः जगाम रघुनन्दन॥ २३॥
gavām śata-sahasreṇa śunaḥśepam nareśvaraḥ. gṛhītvā parama-prītaḥ jagāma raghunandana.. 23..
अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः। शुनःशेपं महातेजा जगामाशु महायशाः॥ २४॥
अम्बरीषः तु राजर्षिः रथम् आरोप्य स त्वरः। शुनःशेपम् महा-तेजाः जगाम आशु महा-यशाः॥ २४॥
ambarīṣaḥ tu rājarṣiḥ ratham āropya sa tvaraḥ. śunaḥśepam mahā-tejāḥ jagāma āśu mahā-yaśāḥ.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकषष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe ekaṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In