This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥
श्रीमत्-वाल्मीकिय-रामायणे बाल-काण्डे त्रिषष्ठितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bāla-kāṇḍe triṣaṣṭhitamaḥ sargaḥ ..1..
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्। अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः॥ १॥
पूर्णे वर्ष-सहस्रे तु व्रत-स्नातम् महा-मुनिम्। अभ्यगच्छन् सुराः सर्वे तपः फल-चिकीर्षवः॥ १॥
pūrṇe varṣa-sahasre tu vrata-snātam mahā-munim. abhyagacchan surāḥ sarve tapaḥ phala-cikīrṣavaḥ.. 1..
अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः। ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः॥ २॥
अब्रवीत् सु महा-तेजाः ब्रह्मा सु रुचिरम् वचः। ऋषिः त्वम् असि भद्रम् ते स्व-अर्जितैः कर्मभिः शुभैः॥ २॥
abravīt su mahā-tejāḥ brahmā su ruciram vacaḥ. ṛṣiḥ tvam asi bhadram te sva-arjitaiḥ karmabhiḥ śubhaiḥ.. 2..
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्। विश्वामित्रो महातेजा भूयस्तेपे महत् तपः॥ ३॥
तम् एवम् उक्त्वा देवेशः त्रिदिवम् पुनर् अभ्यगात्। विश्वामित्रः महा-तेजाः भूयस् तेपे महत् तपः॥ ३॥
tam evam uktvā deveśaḥ tridivam punar abhyagāt. viśvāmitraḥ mahā-tejāḥ bhūyas tepe mahat tapaḥ.. 3..
ततः कालेन महता मेनका परमाप्सराः। पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे॥ ४॥
ततस् कालेन महता मेनका परमा अप्सराः। पुष्करेषु नर-श्रेष्ठ स्नातुम् समुपचक्रमे॥ ४॥
tatas kālena mahatā menakā paramā apsarāḥ. puṣkareṣu nara-śreṣṭha snātum samupacakrame.. 4..
तां ददर्श महातेजा मेनकां कुशिकात्मजः। रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा॥ ५॥
ताम् ददर्श महा-तेजाः मेनकाम् कुशिक-आत्मजः। रूपेण अप्रतिमाम् तत्र विद्युतम् जलदे यथा॥ ५॥
tām dadarśa mahā-tejāḥ menakām kuśika-ātmajaḥ. rūpeṇa apratimām tatra vidyutam jalade yathā.. 5..
कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्। अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे॥ ६॥
कन्दर्प-दर्प-वशगः मुनिः ताम् इदम् अब्रवीत्। अप्सरः स्वागतम् ते अस्तु वस च इह मम आश्रमे॥ ६॥
kandarpa-darpa-vaśagaḥ muniḥ tām idam abravīt. apsaraḥ svāgatam te astu vasa ca iha mama āśrame.. 6..
अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्। इत्युक्ता सा वरारोहा तत्र वासमथाकरोत्॥ ७॥
अनुगृह्णीष्व भद्रम् ते मदनेन विमोहितम्। इति उक्ता सा वरारोहा तत्र वासम् अथ अकरोत्॥ ७॥
anugṛhṇīṣva bhadram te madanena vimohitam. iti uktā sā varārohā tatra vāsam atha akarot.. 7..
तपसो हि महाविघ्नो विश्वामित्रमुपागमत्। तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव॥ ८॥
तपसः हि महा-विघ्नः विश्वामित्रम् उपागमत्। तस्याम् वसन्त्याम् वर्षाणि पञ्च पञ्च च राघव॥ ८॥
tapasaḥ hi mahā-vighnaḥ viśvāmitram upāgamat. tasyām vasantyām varṣāṇi pañca pañca ca rāghava.. 8..
विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः। अथ काले गते तस्मिन् विश्वामित्रो महामुनिः॥ ९॥
विश्वामित्र-आश्रमे सौम्ये सुखेन व्यतिचक्रमुः। अथ काले गते तस्मिन् विश्वामित्रः महा-मुनिः॥ ९॥
viśvāmitra-āśrame saumye sukhena vyaticakramuḥ. atha kāle gate tasmin viśvāmitraḥ mahā-muniḥ.. 9..
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः। बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन॥ १०॥
स व्रीडः इव संवृत्तः चिन्ता-शोक-परायणः। बुद्धिः मुनेः समुत्पन्ना स अमर्षा रघुनन्दन॥ १०॥
sa vrīḍaḥ iva saṃvṛttaḥ cintā-śoka-parāyaṇaḥ. buddhiḥ muneḥ samutpannā sa amarṣā raghunandana.. 10..
सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्। अहोरात्रापदेशेन गताः संवत्सरा दश॥ ११॥
सर्वम् सुराणाम् कर्म एतत् तपः-अपहरणम् महत्। अहोरात्र-अपदेशेन गताः संवत्सराः दश॥ ११॥
sarvam surāṇām karma etat tapaḥ-apaharaṇam mahat. ahorātra-apadeśena gatāḥ saṃvatsarāḥ daśa.. 11..
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः। स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः॥ १२॥
काम-मोह-अभिभूतस्य विघ्नः अयम् प्रत्युपस्थितः। स निःश्वसन् मुनि-वरः पश्चात्तापेन दुःखितः॥ १२॥
kāma-moha-abhibhūtasya vighnaḥ ayam pratyupasthitaḥ. sa niḥśvasan muni-varaḥ paścāttāpena duḥkhitaḥ.. 12..
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्। मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः॥ १३॥
भीताम् अप्सरसम् दृष्ट्वा वेपन्तीम् प्राञ्जलिम् स्थिताम्। मेनकाम् मधुरैः वाक्यैः विसृज्य कुशिक-आत्मजः॥ १३॥
bhītām apsarasam dṛṣṭvā vepantīm prāñjalim sthitām. menakām madhuraiḥ vākyaiḥ visṛjya kuśika-ātmajaḥ.. 13..
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह। स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः॥ १४॥
उत्तरम् पर्वतम् राम विश्वामित्रः जगाम ह। स कृत्वा नैष्ठिकीम् बुद्धिम् जेतु-कामः महा-यशाः॥ १४॥
uttaram parvatam rāma viśvāmitraḥ jagāma ha. sa kṛtvā naiṣṭhikīm buddhim jetu-kāmaḥ mahā-yaśāḥ.. 14..
कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्। तस्य वर्षसहस्राणि घोरं तप उपासतः॥ १५॥
कौशिकी-तीरम् आसाद्य तपः तेपे दुरासदम्। तस्य वर्ष-सहस्राणि घोरम् तपः उपासतः॥ १५॥
kauśikī-tīram āsādya tapaḥ tepe durāsadam. tasya varṣa-sahasrāṇi ghoram tapaḥ upāsataḥ.. 15..
उत्तरे पर्वते राम देवतानामभूद् भयम्। आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः॥ १६॥
उत्तरे पर्वते राम देवतानाम् अभूत् भयम्। आमन्त्रयन् समागम्य सर्वे स ऋषि-गणाः सुराः॥ १६॥
uttare parvate rāma devatānām abhūt bhayam. āmantrayan samāgamya sarve sa ṛṣi-gaṇāḥ surāḥ.. 16..
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः। देवतानां वचः श्रुत्वा सर्वलोकपितामहः॥ १७॥
महा-ऋषि-शब्दम् लभताम् साधु अयम् कुशिक-आत्मजः। देवतानाम् वचः श्रुत्वा सर्व-लोक-पितामहः॥ १७॥
mahā-ṛṣi-śabdam labhatām sādhu ayam kuśika-ātmajaḥ. devatānām vacaḥ śrutvā sarva-loka-pitāmahaḥ.. 17..
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्। महर्षे स्वागतं वत्स तपसोग्रेण तोषितः॥ १८॥
अब्रवीत् मधुरम् वाक्यम् विश्वामित्रम् तपोधनम्। महा-ऋषे स्वागतम् वत्स तपसा उग्रेण तोषितः॥ १८॥
abravīt madhuram vākyam viśvāmitram tapodhanam. mahā-ṛṣe svāgatam vatsa tapasā ugreṇa toṣitaḥ.. 18..
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक। ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः॥ १९॥
महत्-त्वम् ऋषि-मुख्य-त्वम् ददामि तव कौशिक। ब्रह्मणः तु वचः श्रुत्वा विश्वामित्रः तपोधनः॥ १९॥
mahat-tvam ṛṣi-mukhya-tvam dadāmi tava kauśika. brahmaṇaḥ tu vacaḥ śrutvā viśvāmitraḥ tapodhanaḥ.. 19..
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्। ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः॥ २०॥
प्राञ्जलिः प्रणतः भूत्वा प्रत्युवाच पितामहम्। ब्रह्मर्षि-शब्दम् अतुलम् स्व-अर्जितैः कर्मभिः शुभैः॥ २०॥
prāñjaliḥ praṇataḥ bhūtvā pratyuvāca pitāmaham. brahmarṣi-śabdam atulam sva-arjitaiḥ karmabhiḥ śubhaiḥ.. 20..
यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः। तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः॥ २१॥
यदि मे भगवन् आह ततस् अहम् विजित-इन्द्रियः। तम् उवाच ततस् ब्रह्मा न तावत् त्वम् जित-इन्द्रियः॥ २१॥
yadi me bhagavan āha tatas aham vijita-indriyaḥ. tam uvāca tatas brahmā na tāvat tvam jita-indriyaḥ.. 21..
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः। विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः॥ २२॥
यतस्व मुनि-शार्दूलः इति उक्त्वा त्रिदिवम् गतः। विप्रस्थितेषु देवेषु विश्वामित्रः महा-मुनिः॥ २२॥
yatasva muni-śārdūlaḥ iti uktvā tridivam gataḥ. viprasthiteṣu deveṣu viśvāmitraḥ mahā-muniḥ.. 22..
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्। घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः॥ २३॥
ऊर्ध्वबाहुः निरालम्बः वायुभक्षः तपः चरन्। घर्मे पञ्चतपाः भूत्वा वर्षासु आकाश-संश्रयः॥ २३॥
ūrdhvabāhuḥ nirālambaḥ vāyubhakṣaḥ tapaḥ caran. gharme pañcatapāḥ bhūtvā varṣāsu ākāśa-saṃśrayaḥ.. 23..
शिशिरे सलिलेशायी रात्र्यहानि तपोधनः। एवं वर्षसहस्रं हि तपो घोरमुपागमत्॥ २४॥
शिशिरे सलिलेशायी रात्रि-अहानि तपोधनः। एवम् वर्ष-सहस्रम् हि तपः घोरम् उपागमत्॥ २४॥
śiśire salileśāyī rātri-ahāni tapodhanaḥ. evam varṣa-sahasram hi tapaḥ ghoram upāgamat.. 24..
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ। संतापः सुमहानासीत् सुराणां वासवस्य च॥ २५॥
तस्मिन् संतप्यमाने तु विश्वामित्रे महा-मुनौ। संतापः सु महान् आसीत् सुराणाम् वासवस्य च॥ २५॥
tasmin saṃtapyamāne tu viśvāmitre mahā-munau. saṃtāpaḥ su mahān āsīt surāṇām vāsavasya ca.. 25..
रम्भामप्सरसं शक्रः सर्वैः सह मरुद्गणैः। उवाचात्महितं वाक्यमहितं कौशिकस्य च॥ २६॥
रम्भाम् अप्सरसम् शक्रः सर्वैः सह मरुत्-गणैः। उवाच आत्म-हितम् वाक्यम् अहितम् कौशिकस्य च॥ २६॥
rambhām apsarasam śakraḥ sarvaiḥ saha marut-gaṇaiḥ. uvāca ātma-hitam vākyam ahitam kauśikasya ca.. 26..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१-६३॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिषष्ठितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe triṣaṣṭhitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In