This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥
श्रीमत्-वाल्मीकिय-रामायणे बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१॥
śrīmat-vālmīkiya-rāmāyaṇe bālakāṇḍe pañcasaptatitamaḥ sargaḥ ..1..
राम दाशरथे वीर वीर्यं ते श्रूयतेऽद्भुतम्। धनुषो भेदनं चैव निखिलेन मया श्रुतम्॥ १॥
राम दाशरथे वीर वीर्यम् ते श्रूयते अद्भुतम्। धनुषः भेदनम् च एव निखिलेन मया श्रुतम्॥ १॥
rāma dāśarathe vīra vīryam te śrūyate adbhutam. dhanuṣaḥ bhedanam ca eva nikhilena mayā śrutam.. 1..
तदद्भुतमचिन्त्यं च भेदनं धनुषस्तथा। तच्छ्रुत्वाहमनुप्राप्तो धनुर्गृह्यापरं शुभम्॥ २॥
तत् अद्भुतम् अचिन्त्यम् च भेदनम् धनुषः तथा। तत् श्रुत्वा अहम् अनुप्राप्तः धनुः गृह्य अपरम् शुभम्॥ २॥
tat adbhutam acintyam ca bhedanam dhanuṣaḥ tathā. tat śrutvā aham anuprāptaḥ dhanuḥ gṛhya aparam śubham.. 2..
तदिदं घोरसंकाशं जामदग्न्यं महद्धनुः। पूरयस्व शरेणैव स्वबलं दर्शयस्व च॥ ३॥
तत् इदम् घोर-संकाशम् जामदग्न्यम् महत् धनुः। पूरयस्व शरेण एव स्व-बलम् दर्शयस्व च॥ ३॥
tat idam ghora-saṃkāśam jāmadagnyam mahat dhanuḥ. pūrayasva śareṇa eva sva-balam darśayasva ca.. 3..
तदहं ते बलं दृष्ट्वा धनुषोऽप्यस्य पूरणे। द्वन्द्वयुद्धं प्रदास्यामि वीर्यश्लाघ्यमहं तव॥ ४॥
तत् अहम् ते बलम् दृष्ट्वा धनुषः अपि अस्य पूरणे। द्वन्द्व-युद्धम् प्रदास्यामि वीर्य-श्लाघ्यम् अहम् तव॥ ४॥
tat aham te balam dṛṣṭvā dhanuṣaḥ api asya pūraṇe. dvandva-yuddham pradāsyāmi vīrya-ślāghyam aham tava.. 4..
तस्य तद् वचनं श्रुत्वा राजा दशरथस्तदा। विषण्णवदनो दीनः प्राञ्जलिर्वाक्यमब्रवीत्॥ ५॥
तस्य तत् वचनम् श्रुत्वा राजा दशरथः तदा। विषण्ण-वदनः दीनः प्राञ्जलिः वाक्यम् अब्रवीत्॥ ५॥
tasya tat vacanam śrutvā rājā daśarathaḥ tadā. viṣaṇṇa-vadanaḥ dīnaḥ prāñjaliḥ vākyam abravīt.. 5..
क्षत्ररोषात् प्रशान्तस्त्वं ब्राह्मणश्च महातपाः। बालानां मम पुत्राणामभयं दातुमर्हसि॥ ६॥
क्षत्र-रोषात् प्रशान्तः त्वम् ब्राह्मणः च महा-तपाः। बालानाम् मम पुत्राणाम् अभयम् दातुम् अर्हसि॥ ६॥
kṣatra-roṣāt praśāntaḥ tvam brāhmaṇaḥ ca mahā-tapāḥ. bālānām mama putrāṇām abhayam dātum arhasi.. 6..
भार्गवाणां कुले जातः स्वाध्यायव्रतशालिनाम्। सहस्राक्षे प्रतिज्ञाय शस्त्रं प्रक्षिप्तवानसि॥ ७॥
भार्गवाणाम् कुले जातः स्वाध्याय-व्रत-शालिनाम्। सहस्राक्षे प्रतिज्ञाय शस्त्रम् प्रक्षिप्तवान् असि॥ ७॥
bhārgavāṇām kule jātaḥ svādhyāya-vrata-śālinām. sahasrākṣe pratijñāya śastram prakṣiptavān asi.. 7..
स त्वं धर्मपरो भूत्वा कश्यपाय वसुंधराम्। दत्त्वा वनमुपागम्य महेन्द्रकृतकेतनः॥ ८॥
स त्वम् धर्म-परः भूत्वा कश्यपाय वसुंधराम्। दत्त्वा वनम् उपागम्य महा-इन्द्र-कृत-केतनः॥ ८॥
sa tvam dharma-paraḥ bhūtvā kaśyapāya vasuṃdharām. dattvā vanam upāgamya mahā-indra-kṛta-ketanaḥ.. 8..
मम सर्वविनाशाय सम्प्राप्तस्त्वं महामुने। न चैकस्मिन् हते रामे सर्वे जीवामहे वयम्॥ ९॥
मम सर्व-विनाशाय सम्प्राप्तः त्वम् महा-मुने। न च एकस्मिन् हते रामे सर्वे जीवामहे वयम्॥ ९॥
mama sarva-vināśāya samprāptaḥ tvam mahā-mune. na ca ekasmin hate rāme sarve jīvāmahe vayam.. 9..
ब्रुवत्येवं दशरथे जामदग्न्यः प्रतापवान्। अनादृत्य तु तद्वाक्यं राममेवाभ्यभाषत॥ १०॥
ब्रुवति एवम् दशरथे जामदग्न्यः प्रतापवान्। अन् आदृत्य तु तत् वाक्यम् रामम् एव अभ्यभाषत॥ १०॥
bruvati evam daśarathe jāmadagnyaḥ pratāpavān. an ādṛtya tu tat vākyam rāmam eva abhyabhāṣata.. 10..
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोकाभिपूजिते। दृढे बलवती मुख्ये सुकृते विश्वकर्मणा॥ ११॥
इमे द्वे धनुषी श्रेष्ठे दिव्ये लोक-अभिपूजिते। दृढे बलवती मुख्ये सु कृते विश्वकर्मणा॥ ११॥
ime dve dhanuṣī śreṣṭhe divye loka-abhipūjite. dṛḍhe balavatī mukhye su kṛte viśvakarmaṇā.. 11..
अनुसृष्टं सुरैरेकं त्र्यम्बकाय युयुत्सवे। त्रिपुरघ्नं नरश्रेष्ठ भग्नं काकुत्स्थ यत्त्वया॥ १२॥
अनुसृष्टम् सुरैः एकम् त्र्यम्बकाय युयुत्सवे। त्रिपुर-घ्नम् नर-श्रेष्ठ भग्नम् काकुत्स्थ यत् त्वया॥ १२॥
anusṛṣṭam suraiḥ ekam tryambakāya yuyutsave. tripura-ghnam nara-śreṣṭha bhagnam kākutstha yat tvayā.. 12..
इदं द्वितीयं दुर्धर्षं विष्णोर्दत्तं सुरोत्तमैः। तदिदं वैष्णवं राम धनुः परपुरंजयम्॥ १३॥
इदम् द्वितीयम् दुर्धर्षम् विष्णोः दत्तम् सुर-उत्तमैः। तत् इदम् वैष्णवम् राम धनुः परपुरंजयम्॥ १३॥
idam dvitīyam durdharṣam viṣṇoḥ dattam sura-uttamaiḥ. tat idam vaiṣṇavam rāma dhanuḥ parapuraṃjayam.. 13..
समानसारं काकुत्स्थ रौद्रेण धनुषा त्विदम्। तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्॥ १४॥
समान-सारम् काकुत्स्थ रौद्रेण धनुषा तु इदम्। तदा तु देवताः सर्वाः पृच्छन्ति स्म पितामहम्॥ १४॥
samāna-sāram kākutstha raudreṇa dhanuṣā tu idam. tadā tu devatāḥ sarvāḥ pṛcchanti sma pitāmaham.. 14..
शितिकण्ठस्य विष्णोश्च बलाबलनिरीक्षया। अभिप्रायं तु विज्ञाय देवतानां पितामहः॥ १५॥
शितिकण्ठस्य विष्णोः च बल-अबल-निरीक्षया। अभिप्रायम् तु विज्ञाय देवतानाम् पितामहः॥ १५॥
śitikaṇṭhasya viṣṇoḥ ca bala-abala-nirīkṣayā. abhiprāyam tu vijñāya devatānām pitāmahaḥ.. 15..
विरोधं जनयामास तयोः सत्यवतां वरः। विरोधे तु महद् युद्धमभवद् रोमहर्षणम्॥ १६॥
विरोधम् जनयामास तयोः सत्यवताम् वरः। विरोधे तु महत् युद्धम् अभवत् रोम-हर्षणम्॥ १६॥
virodham janayāmāsa tayoḥ satyavatām varaḥ. virodhe tu mahat yuddham abhavat roma-harṣaṇam.. 16..
शितिकण्ठस्य विष्णोश्च परस्परजयैषिणोः। तदा तु जृम्भितं शैवं धनुर्भीमपराक्रमम्॥ १७॥
शितिकण्ठस्य विष्णोः च परस्पर-जय-एषिणोः। तदा तु जृम्भितम् शैवम् धनुः भीम-पराक्रमम्॥ १७॥
śitikaṇṭhasya viṣṇoḥ ca paraspara-jaya-eṣiṇoḥ. tadā tu jṛmbhitam śaivam dhanuḥ bhīma-parākramam.. 17..
हुंकारेण महादेवः स्तम्भितोऽथ त्रिलोचनः। देवैस्तदा समागम्य सर्षिसङ्घः सचारणैः॥ १८॥
हुंकारेण महादेवः स्तम्भितः अथ त्रिलोचनः। देवैः तदा समागम्य स ऋषि-सङ्घः स चारणैः॥ १८॥
huṃkāreṇa mahādevaḥ stambhitaḥ atha trilocanaḥ. devaiḥ tadā samāgamya sa ṛṣi-saṅghaḥ sa cāraṇaiḥ.. 18..
याचितौ प्रशमं तत्र जग्मतुस्तौ सुरोत्तमौ। जृम्भितं तद् धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः॥ १९॥
याचितौ प्रशमम् तत्र जग्मतुः तौ सुर-उत्तमौ। जृम्भितम् तत् धनुः दृष्ट्वा शैवम् विष्णु-पराक्रमैः॥ १९॥
yācitau praśamam tatra jagmatuḥ tau sura-uttamau. jṛmbhitam tat dhanuḥ dṛṣṭvā śaivam viṣṇu-parākramaiḥ.. 19..
अधिकं मेनिरे विष्णुं देवाः सर्षिगणास्तथा। धनू रुद्रस्तु संक्रुद्धो विदेहेषु महायशाः॥ २०॥
अधिकम् मेनिरे विष्णुम् देवाः स ऋषि-गणाः तथा। धनू रुद्रः तु संक्रुद्धः विदेहेषु महा-यशाः॥ २०॥
adhikam menire viṣṇum devāḥ sa ṛṣi-gaṇāḥ tathā. dhanū rudraḥ tu saṃkruddhaḥ videheṣu mahā-yaśāḥ.. 20..
देवरातस्य राजर्षेर्ददौ हस्ते ससायकम्। इदं च वैष्णवं राम धनुः परपुरंजयम्॥ २१॥
देवरातस्य राजर्षेः ददौ हस्ते स सायकम्। इदम् च वैष्णवम् राम धनुः परपुरंजयम्॥ २१॥
devarātasya rājarṣeḥ dadau haste sa sāyakam. idam ca vaiṣṇavam rāma dhanuḥ parapuraṃjayam.. 21..
ऋचीके भार्गवे प्रादाद् विष्णुः स न्यासमुत्तमम्। ऋचीकस्तु महातेजाः पुत्रस्याप्रतिकर्मणः॥ २२॥
ऋचीके भार्गवे प्रादात् विष्णुः स न्यासम् उत्तमम्। ऋचीकः तु महा-तेजाः पुत्रस्य अप्रतिकर्मणः॥ २२॥
ṛcīke bhārgave prādāt viṣṇuḥ sa nyāsam uttamam. ṛcīkaḥ tu mahā-tejāḥ putrasya apratikarmaṇaḥ.. 22..
पितुर्मम ददौ दिव्यं जमदग्नेर्महात्मनः। न्यस्तशस्त्रे पितरि मे तपोबलसमन्विते॥ २३॥
पितुः मम ददौ दिव्यम् जमदग्नेः महात्मनः। न्यस्त-शस्त्रे पितरि मे तपः-बल-समन्विते॥ २३॥
pituḥ mama dadau divyam jamadagneḥ mahātmanaḥ. nyasta-śastre pitari me tapaḥ-bala-samanvite.. 23..
अर्जुनो विदधे मृत्युं प्राकृतां बुद्धिमास्थितः। वधमप्रतिरूपं तु पितुः श्रुत्वा सुदारुणम्। क्षत्रमुत्सादयं रोषाज्जातं जातमनेकशः॥ २४॥
अर्जुनः विदधे मृत्युम् प्राकृताम् बुद्धिम् आस्थितः। वधम् अप्रतिरूपम् तु पितुः श्रुत्वा सु दारुणम्। क्षत्रम् उत्सादयम् रोषात् जातम् जातम् अनेकशस्॥ २४॥
arjunaḥ vidadhe mṛtyum prākṛtām buddhim āsthitaḥ. vadham apratirūpam tu pituḥ śrutvā su dāruṇam. kṣatram utsādayam roṣāt jātam jātam anekaśas.. 24..
पृथिवीं चाखिलां प्राप्य कश्यपाय महात्मने। यज्ञस्यान्तेऽददं राम दक्षिणां पुण्यकर्मणे॥ २५॥
पृथिवीम् च अखिलाम् प्राप्य कश्यपाय महात्मने। यज्ञस्य अन्ते अददम् राम दक्षिणाम् पुण्य-कर्मणे॥ २५॥
pṛthivīm ca akhilām prāpya kaśyapāya mahātmane. yajñasya ante adadam rāma dakṣiṇām puṇya-karmaṇe.. 25..
दत्त्वा महेन्द्रनिलयस्तपोबलसमन्वितः। श्रुत्वा तु धनुषो भेदं ततोऽहं द्रुतमागतः॥ २६॥
दत्त्वा महेन्द्र-निलयः तपः-बल-समन्वितः। श्रुत्वा तु धनुषः भेदम् ततस् अहम् द्रुतम् आगतः॥ २६॥
dattvā mahendra-nilayaḥ tapaḥ-bala-samanvitaḥ. śrutvā tu dhanuṣaḥ bhedam tatas aham drutam āgataḥ.. 26..
तदेवं वैष्णवं राम पितृपैतामहं महत्। क्षत्रधर्मं पुरस्कृत्य गृह्णीष्व धनुरुत्तमम्॥ २७॥
तत् एवम् वैष्णवम् राम पितृपैतामहम् महत्। क्षत्र-धर्मम् पुरस्कृत्य गृह्णीष्व धनुः उत्तमम्॥ २७॥
tat evam vaiṣṇavam rāma pitṛpaitāmaham mahat. kṣatra-dharmam puraskṛtya gṛhṇīṣva dhanuḥ uttamam.. 27..
योजयस्व धनुःश्रेष्ठे शरं परपुरंजयम्। यदि शक्तोऽसि काकुत्स्थ द्वन्द्वं दास्यामि ते ततः॥ २८॥
योजयस्व धनुः-श्रेष्ठे शरम् परपुरंजयम्। यदि शक्तः असि काकुत्स्थ द्वन्द्वम् दास्यामि ते ततस्॥ २८॥
yojayasva dhanuḥ-śreṣṭhe śaram parapuraṃjayam. yadi śaktaḥ asi kākutstha dvandvam dāsyāmi te tatas.. 28..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१-७५॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चसप्ततितमः सर्गः ॥१॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye bālakāṇḍe pañcasaptatitamaḥ sargaḥ ..1..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In