This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षड्विंशः सर्गः ॥४-२६॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे षड्विंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ṣaḍviṃśaḥ sargaḥ ..4..
ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवाससम् । शाखामृगमहामात्राः परिवार्योपतस्थिरे॥ १॥
ततस् शोक-अभिसंतप्तम् सुग्रीवम् क्लिन्न-वाससम् । शाखामृग-महामात्राः परिवार्य उपतस्थिरे॥ १॥
tatas śoka-abhisaṃtaptam sugrīvam klinna-vāsasam . śākhāmṛga-mahāmātrāḥ parivārya upatasthire.. 1..
अभिगम्य महाबाहुं राममक्लिष्टकारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः॥ २॥
अभिगम्य महा-बाहुम् रामम् अक्लिष्ट-कारिणम् । स्थिताः प्राञ्जलयः सर्वे पितामहम् इव ऋषयः॥ २॥
abhigamya mahā-bāhum rāmam akliṣṭa-kāriṇam . sthitāḥ prāñjalayaḥ sarve pitāmaham iva ṛṣayaḥ.. 2..
ततः काञ्चनशैलाभस्तरुणार्कनिभाननः । अब्रवीत् प्राञ्जलिर्वाक्यं हनूमान् मारुतात्मजः॥ ३॥
ततस् काञ्चन-शैल-आभः तरुण-अर्क-निभ-आननः । अब्रवीत् प्राञ्जलिः वाक्यम् हनूमान् मारुतात्मजः॥ ३॥
tatas kāñcana-śaila-ābhaḥ taruṇa-arka-nibha-ānanaḥ . abravīt prāñjaliḥ vākyam hanūmān mārutātmajaḥ.. 3..
भवत्प्रसादात् काकुत्स्थ पितृपैतामहं महत् । वानराणां सुदंष्ट्राणां सम्पन्नबलशालिनाम्॥ ४॥
भवत्-प्रसादात् काकुत्स्थ पितृपैतामहम् महत् । वानराणाम् सु दंष्ट्राणाम् सम्पन्न-बल-शालिनाम्॥ ४॥
bhavat-prasādāt kākutstha pitṛpaitāmaham mahat . vānarāṇām su daṃṣṭrāṇām sampanna-bala-śālinām.. 4..
महात्मनां सुदुष्प्रापं प्राप्तं राज्यमिदं प्रभो । भवता समनुज्ञातः प्रविश्य नगरं शुभम्॥ ५॥
महात्मनाम् सुदुष्प्रापम् प्राप्तम् राज्यम् इदम् प्रभो । भवता समनुज्ञातः प्रविश्य नगरम् शुभम्॥ ५॥
mahātmanām suduṣprāpam prāptam rājyam idam prabho . bhavatā samanujñātaḥ praviśya nagaram śubham.. 5..
संविधास्यति कार्याणि सर्वाणि ससुहृद्गणः । स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि॥ ६॥
संविधास्यति कार्याणि सर्वाणि स सुहृद्-गणः । स्नातः अयम् विविधैः गन्धैः औषधैः च यथाविधि॥ ६॥
saṃvidhāsyati kāryāṇi sarvāṇi sa suhṛd-gaṇaḥ . snātaḥ ayam vividhaiḥ gandhaiḥ auṣadhaiḥ ca yathāvidhi.. 6..
अर्चयिष्यति माल्यैश्च रत्नैश्च त्वां विशेषतः । इमां गिरिगुहां रम्यामभिगन्तुं त्वमर्हसि॥ ७॥
अर्चयिष्यति माल्यैः च रत्नैः च त्वाम् विशेषतः । इमाम् गिरि-गुहाम् रम्याम् अभिगन्तुम् त्वम् अर्हसि॥ ७॥
arcayiṣyati mālyaiḥ ca ratnaiḥ ca tvām viśeṣataḥ . imām giri-guhām ramyām abhigantum tvam arhasi.. 7..
कुरुष्व स्वामिसम्बन्धं वानरान् सम्प्रहर्षय । एवमुक्तो हनुमता राघवः परवीरहा॥ ८॥
कुरुष्व स्वामि-सम्बन्धम् वानरान् सम्प्रहर्षय । एवम् उक्तः हनुमता राघवः पर-वीर-हा॥ ८॥
kuruṣva svāmi-sambandham vānarān sampraharṣaya . evam uktaḥ hanumatā rāghavaḥ para-vīra-hā.. 8..
प्रत्युवाच हनूमन्तं बुद्धिमान् वाक्यकोविदः । चतुर्दश समाः सौम्य ग्रामं वा यदि वा पुरम्॥ ९॥
प्रत्युवाच हनूमन्तम् बुद्धिमान् वाक्य-कोविदः । चतुर्दश समाः सौम्य ग्रामम् वा यदि वा पुरम्॥ ९॥
pratyuvāca hanūmantam buddhimān vākya-kovidaḥ . caturdaśa samāḥ saumya grāmam vā yadi vā puram.. 9..
न प्रवेक्ष्यामि हनुमन् पितुर्निर्देशपालकः । सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः॥ १०॥
न प्रवेक्ष्यामि हनुमन् पितुः निर्देश-पालकः । सु समृद्धाम् गुहाम् दिव्याम् सुग्रीवः वानर-ऋषभः॥ १०॥
na pravekṣyāmi hanuman pituḥ nirdeśa-pālakaḥ . su samṛddhām guhām divyām sugrīvaḥ vānara-ṛṣabhaḥ.. 10..
प्रविष्टो विधिवद् वीरः क्षिप्रं राज्येऽभिषिच्यताम् । एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्॥ ११॥
प्रविष्टः विधिवत् वीरः क्षिप्रम् राज्ये अभिषिच्यताम् । एवम् उक्त्वा हनूमन्तम् रामः सुग्रीवम् अब्रवीत्॥ ११॥
praviṣṭaḥ vidhivat vīraḥ kṣipram rājye abhiṣicyatām . evam uktvā hanūmantam rāmaḥ sugrīvam abravīt.. 11..
वृत्तज्ञो वृत्तसम्पन्नमुदारबलविक्रमम् । इममप्यङ्गदं वीरं यौवराज्येऽभिषेचय॥ १२॥
वृत्त-ज्ञः वृत्त-सम्पन्नम् उदार-बल-विक्रमम् । इमम् अपि अङ्गदम् वीरम् यौवराज्ये अभिषेचय॥ १२॥
vṛtta-jñaḥ vṛtta-sampannam udāra-bala-vikramam . imam api aṅgadam vīram yauvarājye abhiṣecaya.. 12..
ज्येष्ठस्य हि सुतो ज्येष्ठः सदृशो विक्रमेण च । अङ्गदोऽयमदीनात्मा यौवराज्यस्य भाजनम्॥ १३॥
ज्येष्ठस्य हि सुतः ज्येष्ठः सदृशः विक्रमेण च । अङ्गदः अयम् अदीन-आत्मा यौवराज्यस्य भाजनम्॥ १३॥
jyeṣṭhasya hi sutaḥ jyeṣṭhaḥ sadṛśaḥ vikrameṇa ca . aṅgadaḥ ayam adīna-ātmā yauvarājyasya bhājanam.. 13..
पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः । प्रवृत्ताः सौम्य चत्वारो मासा वार्षिक संज्ञिताः॥ १४॥
पूर्वः अयम् वार्षिकः मासः श्रावणः सलिल-आगमः । प्रवृत्ताः सौम्य चत्वारः मासाः वार्षिक-संज्ञिताः॥ १४॥
pūrvaḥ ayam vārṣikaḥ māsaḥ śrāvaṇaḥ salila-āgamaḥ . pravṛttāḥ saumya catvāraḥ māsāḥ vārṣika-saṃjñitāḥ.. 14..
नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम् । अस्मिन् वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः॥ १५॥
न अयम् उद्योग-समयः प्रविश त्वम् पुरीम् शुभाम् । अस्मिन् वत्स्यामि अहम् सौम्य पर्वते सहलक्ष्मणः॥ १५॥
na ayam udyoga-samayaḥ praviśa tvam purīm śubhām . asmin vatsyāmi aham saumya parvate sahalakṣmaṇaḥ.. 15..
इयं गिरिगुहा रम्या विशाला युक्तमारुता । प्रभूतसलिला सौम्य प्रभूतकमलोत्पला॥ १६॥
इयम् गिरि-गुहा रम्या विशाला युक्त-मारुता । प्रभूत-सलिला सौम्य प्रभूत-कमल-उत्पला॥ १६॥
iyam giri-guhā ramyā viśālā yukta-mārutā . prabhūta-salilā saumya prabhūta-kamala-utpalā.. 16..
कार्तिके समनुप्राप्ते त्वं रावणवधे यत । एष नः समयः सौम्य प्रविश त्वं स्वमालयम्॥ १७॥
कार्तिके समनुप्राप्ते त्वम् रावण-वधे यत । एष नः समयः सौम्य प्रविश त्वम् स्वम् आलयम्॥ १७॥
kārtike samanuprāpte tvam rāvaṇa-vadhe yata . eṣa naḥ samayaḥ saumya praviśa tvam svam ālayam.. 17..
अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय । इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः॥ १८॥
अभिषिञ्चस्व राज्ये च सुहृदः सम्प्रहर्षय । इति राम-अभ्यनुज्ञातः सुग्रीवः वानर-ऋषभः॥ १८॥
abhiṣiñcasva rājye ca suhṛdaḥ sampraharṣaya . iti rāma-abhyanujñātaḥ sugrīvaḥ vānara-ṛṣabhaḥ.. 18..
प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम् । तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्॥ १९॥
प्रविवेश पुरीम् रम्याम् किष्किन्धाम् वालि-पालिताम् । तम् वानर-सहस्राणि प्रविष्टम् वानर-ईश्वरम्॥ १९॥
praviveśa purīm ramyām kiṣkindhām vāli-pālitām . tam vānara-sahasrāṇi praviṣṭam vānara-īśvaram.. 19..
अभिवार्य प्रविष्टानि सर्वतः प्लवगेश्वरम् । ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्॥ २०॥
अभिवार्य प्रविष्टानि सर्वतस् प्लवग-ईश्वरम् । ततस् प्रकृतयः सर्वाः दृष्ट्वा हरि-गण-ईश्वरम्॥ २०॥
abhivārya praviṣṭāni sarvatas plavaga-īśvaram . tatas prakṛtayaḥ sarvāḥ dṛṣṭvā hari-gaṇa-īśvaram.. 20..
प्रणम्य मूर्ध्ना पतिता वसुधायं समाहिताः । सुग्रीवः प्रकृतीः सर्वाः सम्भाष्योत्थाप्य वीर्यवान्॥ २१॥
प्रणम्य मूर्ध्ना पतिता वसुधा अयम् समाहिताः । सुग्रीवः प्रकृतीः सर्वाः सम्भाष्य उत्थाप्य वीर्यवान्॥ २१॥
praṇamya mūrdhnā patitā vasudhā ayam samāhitāḥ . sugrīvaḥ prakṛtīḥ sarvāḥ sambhāṣya utthāpya vīryavān.. 21..
भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः । प्रविष्टं भीमविक्रान्तं सुग्रीवं वानरर्षभम्॥ २२॥
भ्रातुः अन्तःपुरम् सौम्यम् प्रविवेश महा-बलः । प्रविष्टम् भीम-विक्रान्तम् सुग्रीवम् वानर-ऋषभम्॥ २२॥
bhrātuḥ antaḥpuram saumyam praviveśa mahā-balaḥ . praviṣṭam bhīma-vikrāntam sugrīvam vānara-ṛṣabham.. 22..
अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः । तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्॥ २३॥
अभ्यषिञ्चन्त सुहृदः सहस्राक्षम् इव अमराः । तस्य पाण्डुरम् आजह्रुः छत्रम् हेम-परिष्कृतम्॥ २३॥
abhyaṣiñcanta suhṛdaḥ sahasrākṣam iva amarāḥ . tasya pāṇḍuram ājahruḥ chatram hema-pariṣkṛtam.. 23..
शुक्ले च वालव्यजने हेमदण्डे यशस्करे । तथा रत्नानि सर्वाणि सर्वबीजौषधानि च॥ २४॥
शुक्ले च वाल-व्यजने हेम-दण्डे यशस्करे । तथा रत्नानि सर्वाणि सर्व-बीज-औषधानि च॥ २४॥
śukle ca vāla-vyajane hema-daṇḍe yaśaskare . tathā ratnāni sarvāṇi sarva-bīja-auṣadhāni ca.. 24..
सक्षीराणां च वृक्षाणां प्ररोहान् कुसुमानि च । शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्॥ २५॥
स क्षीराणाम् च वृक्षाणाम् प्ररोहान् कुसुमानि च । शुक्लानि च एव वस्त्राणि श्वेतम् च एव अनुलेपनम्॥ २५॥
sa kṣīrāṇām ca vṛkṣāṇām prarohān kusumāni ca . śuklāni ca eva vastrāṇi śvetam ca eva anulepanam.. 25..
सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च । चन्दनानि च दिव्यानि गन्धांश्च विविधान् बहून्॥ २६॥
सुगन्धीनि च माल्यानि स्थल-जानि अम्बु-जानि च । चन्दनानि च दिव्यानि गन्धान् च विविधान् बहून्॥ २६॥
sugandhīni ca mālyāni sthala-jāni ambu-jāni ca . candanāni ca divyāni gandhān ca vividhān bahūn.. 26..
अक्षतं जातरूपं च प्रियङ्गुं मधुसर्पिषी । दधि चर्म च वैयाघ्रं परार्घ्यौ चाप्युपानहौ॥ २७॥
अक्षतम् जातरूपम् च प्रियङ्गुम् मधु-सर्पिषी । दधि चर्म च वैयाघ्रम् पर-अर्घ्यौ च अपि उपानहौ॥ २७॥
akṣatam jātarūpam ca priyaṅgum madhu-sarpiṣī . dadhi carma ca vaiyāghram para-arghyau ca api upānahau.. 27..
समालम्भनमादाय गोरोचनमनःशिलाम् । आजग्मुस्तत्र मुदिता वराः कन्याश्च षोडश॥ २८॥
समालम्भनम् आदाय गोरोचन-मनःशिलाम् । आजग्मुः तत्र मुदिताः वराः कन्याः च षोडश॥ २८॥
samālambhanam ādāya gorocana-manaḥśilām . ājagmuḥ tatra muditāḥ varāḥ kanyāḥ ca ṣoḍaśa.. 28..
ततस्ते वानरश्रेष्ठमभिषेक्तुं यथाविधि । रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्॥ २९॥
ततस् ते वानर-श्रेष्ठम् अभिषेक्तुम् यथाविधि । रत्नैः वस्त्रैः च भक्ष्यैः च तोषयित्वा द्विजर्षभान्॥ २९॥
tatas te vānara-śreṣṭham abhiṣektum yathāvidhi . ratnaiḥ vastraiḥ ca bhakṣyaiḥ ca toṣayitvā dvijarṣabhān.. 29..
ततः कुशपरिस्तीर्णं समिद्धं जातवेदसम् । मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः॥ ३०॥
ततस् कुश-परिस्तीर्णम् समिद्धम् जातवेदसम् । मन्त्र-पूतेन हविषा हुत्वा मन्त्र-विदः जनाः॥ ३०॥
tatas kuśa-paristīrṇam samiddham jātavedasam . mantra-pūtena haviṣā hutvā mantra-vidaḥ janāḥ.. 30..
ततो हेमप्रतिष्ठाने वरास्तरणसंवृते । प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते॥ ३१॥
ततस् हेम-प्रतिष्ठाने वर-आस्तरण-संवृते । प्रासाद-शिखरे रम्ये चित्र-माल्य-उपशोभिते॥ ३१॥
tatas hema-pratiṣṭhāne vara-āstaraṇa-saṃvṛte . prāsāda-śikhare ramye citra-mālya-upaśobhite.. 31..
प्राङ्मुखं विधिवन्मन्त्रैः स्थापयित्वा वरासने । नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः॥ ३२॥
प्राच्-मुखम् विधिवत् मन्त्रैः स्थापयित्वा वरासने । नदीनदेभ्यः संहृत्य तीर्थेभ्यः च समन्ततः॥ ३२॥
prāc-mukham vidhivat mantraiḥ sthāpayitvā varāsane . nadīnadebhyaḥ saṃhṛtya tīrthebhyaḥ ca samantataḥ.. 32..
आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः । अपः कनककुम्भेषु निधाय विमलं जलम्॥ ३३॥
आहृत्य च समुद्रेभ्यः सर्वेभ्यः वानर-ऋषभाः । अपः कनक-कुम्भेषु निधाय विमलम् जलम्॥ ३३॥
āhṛtya ca samudrebhyaḥ sarvebhyaḥ vānara-ṛṣabhāḥ . apaḥ kanaka-kumbheṣu nidhāya vimalam jalam.. 33..
शुभैर्ऋषभशृङ्गैश्च कलशैश्चैव काञ्चनैः । शास्त्रदृष्टेन विधिना महर्षिविहितेन च॥ ३४॥
शुभैः ऋषभ-शृङ्गैः च कलशैः च एव काञ्चनैः । शास्त्र-दृष्टेन विधिना महा-ऋषि-विहितेन च॥ ३४॥
śubhaiḥ ṛṣabha-śṛṅgaiḥ ca kalaśaiḥ ca eva kāñcanaiḥ . śāstra-dṛṣṭena vidhinā mahā-ṛṣi-vihitena ca.. 34..
गजो गवाक्षो गवयः शरभो गन्धमादनः । मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवांस्तथा॥ ३५॥
गजः गवाक्षः गवयः शरभः गन्धमादनः । मैन्दः च द्विविदः च एव हनूमान् जाम्बवान् तथा॥ ३५॥
gajaḥ gavākṣaḥ gavayaḥ śarabhaḥ gandhamādanaḥ . maindaḥ ca dvividaḥ ca eva hanūmān jāmbavān tathā.. 35..
अभ्यषिञ्चत सुग्रीवं प्रसन्नेन सुगन्धिना । सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ३६॥
अभ्यषिञ्चत सुग्रीवम् प्रसन्नेन सुगन्धिना । सलिलेन सहस्र-अक्षम् वसवः वासवम् यथा॥ ३६॥
abhyaṣiñcata sugrīvam prasannena sugandhinā . salilena sahasra-akṣam vasavaḥ vāsavam yathā.. 36..
अभिषिक्ते तु सुग्रीवे सर्वे वानरपुङ्गवाः । प्रचुक्रुशुर्महात्मानो हृष्टाः शतसहस्रशः॥ ३७॥
अभिषिक्ते तु सुग्रीवे सर्वे वानर-पुङ्गवाः । प्रचुक्रुशुः महात्मानः हृष्टाः शत-सहस्रशस्॥ ३७॥
abhiṣikte tu sugrīve sarve vānara-puṅgavāḥ . pracukruśuḥ mahātmānaḥ hṛṣṭāḥ śata-sahasraśas.. 37..
रामस्य तु वचः कुर्वन् सुग्रीवो वानरेश्वरः । अङ्गदं सम्परिष्वज्य यौवराज्येऽभ्यषेचयत्॥ ३८॥
रामस्य तु वचः कुर्वन् सुग्रीवः वानर-ईश्वरः । अङ्गदम् सम्परिष्वज्य यौवराज्ये अभ्यषेचयत्॥ ३८॥
rāmasya tu vacaḥ kurvan sugrīvaḥ vānara-īśvaraḥ . aṅgadam sampariṣvajya yauvarājye abhyaṣecayat.. 38..
अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः । साधु साध्विति सुग्रीवं महात्मानो ह्यपूजयन्॥ ३९॥
अङ्गदे च अभिषिक्ते तु स अनुक्रोशाः प्लवंगमाः । साधु साधु इति सुग्रीवम् महात्मानः हि अपूजयन्॥ ३९॥
aṅgade ca abhiṣikte tu sa anukrośāḥ plavaṃgamāḥ . sādhu sādhu iti sugrīvam mahātmānaḥ hi apūjayan.. 39..
रामं चैव महात्मानं लक्ष्मणं च पुनः पुनः । प्रीताश्च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि॥ ४०॥
रामम् च एव महात्मानम् लक्ष्मणम् च पुनर् पुनर् । प्रीताः च तुष्टुवुः सर्वे तादृशे तत्र वर्तिनि॥ ४०॥
rāmam ca eva mahātmānam lakṣmaṇam ca punar punar . prītāḥ ca tuṣṭuvuḥ sarve tādṛśe tatra vartini.. 40..
हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता । बभूव नगरी रम्या किष्किन्धा गिरिगह्वरे॥ ४१॥
हृष्ट-पुष्ट-जन-आकीर्णा पताका-ध्वज-शोभिता । बभूव नगरी रम्या किष्किन्धा गिरि-गह्वरे॥ ४१॥
hṛṣṭa-puṣṭa-jana-ākīrṇā patākā-dhvaja-śobhitā . babhūva nagarī ramyā kiṣkindhā giri-gahvare.. 41..
निवेद्य रामाय तदा महात्मने महाभिषेकं कपिवाहिनीपतिः । रुमां च भार्यामुपलभ्य वीर्यवा- नवाप राज्यं त्रिदशाधिपो यथा॥ ४२॥
निवेद्य रामाय तदा महात्मने महा-अभिषेकम् कपि-वाहिनीपतिः । रुमाम् च भार्याम् उपलभ्य वीर्यवान् न अवाप राज्यम् त्रिदशाधिपः यथा॥ ४२॥
nivedya rāmāya tadā mahātmane mahā-abhiṣekam kapi-vāhinīpatiḥ . rumām ca bhāryām upalabhya vīryavān na avāpa rājyam tridaśādhipaḥ yathā.. 42..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षड्विंशः सर्गः ॥४-२६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे षड्विंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ṣaḍviṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In