This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥४-३२॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे द्वात्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe dvātriṃśaḥ sargaḥ ..4..
अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह । लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्॥ १॥
अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह । लक्ष्मणम् कुपितम् श्रुत्वा मुमोच आसनम् आत्मवान्॥ १॥
aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha . lakṣmaṇam kupitam śrutvā mumoca āsanam ātmavān.. 1..
स च तानब्रवीद् वाक्यं निश्चित्य गुरुलाघवम् । मन्त्रज्ञान् मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः॥ २॥
स च तान् अब्रवीत् वाक्यम् निश्चित्य गुरुलाघवम् । मन्त्र-ज्ञान् मन्त्र-कुशलः मन्त्रेषु परिनिष्ठितः॥ २॥
sa ca tān abravīt vākyam niścitya gurulāghavam . mantra-jñān mantra-kuśalaḥ mantreṣu pariniṣṭhitaḥ.. 2..
न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम् । लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये॥ ३॥
न मे दुर्व्याहृतम् किंचिद् न अपि मे दुरनुष्ठितम् । लक्ष्मणः राघव-भ्राता क्रुद्धः किम् इति चिन्तये॥ ३॥
na me durvyāhṛtam kiṃcid na api me duranuṣṭhitam . lakṣmaṇaḥ rāghava-bhrātā kruddhaḥ kim iti cintaye.. 3..
असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः । मम दोषानसम्भूतान् श्रावितो राघवानुजः॥ ४॥
असुहृद्भिः मम अमित्रैः नित्यम् अन्तर-दर्शिभिः । मम दोषान् असम्भूतान् श्रावितः राघव-अनुजः॥ ४॥
asuhṛdbhiḥ mama amitraiḥ nityam antara-darśibhiḥ . mama doṣān asambhūtān śrāvitaḥ rāghava-anujaḥ.. 4..
अत्र तावद् यथाबुद्धिः सर्वैरेव यथाविधि । भावस्य निश्चयस्तावद् विज्ञेयो निपुणं शनैः॥ ५॥
अत्र तावत् यथाबुद्धिः सर्वैः एव यथाविधि । भावस्य निश्चयः तावत् विज्ञेयः निपुणम् शनैस्॥ ५॥
atra tāvat yathābuddhiḥ sarvaiḥ eva yathāvidhi . bhāvasya niścayaḥ tāvat vijñeyaḥ nipuṇam śanais.. 5..
न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात् । मित्रं स्वस्थानकुपितं जनयत्येव सम्भ्रमम्॥ ६॥
न खलु अस्ति मम त्रासः लक्ष्मणात् ना अपि राघवात् । मित्रम् स्व-स्थान-कुपितम् जनयति एव सम्भ्रमम्॥ ६॥
na khalu asti mama trāsaḥ lakṣmaṇāt nā api rāghavāt . mitram sva-sthāna-kupitam janayati eva sambhramam.. 6..
सर्वथा सुकरं मित्रं दुष्करं प्रतिपालनम् । अनित्यत्वात् तु चित्तानां प्रीतिरल्पेऽपि भिद्यते॥ ७॥
सर्वथा सुकरम् मित्रम् दुष्करम् प्रतिपालनम् । अनित्य-त्वात् तु चित्तानाम् प्रीतिः अल्पे अपि भिद्यते॥ ७॥
sarvathā sukaram mitram duṣkaram pratipālanam . anitya-tvāt tu cittānām prītiḥ alpe api bhidyate.. 7..
अतो निमित्तं त्रस्तोऽहं रामेण तु महात्मना । यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया॥ ८॥
अतस् निमित्तम् त्रस्तः अहम् रामेण तु महात्मना । यत् मम उपकृतम् शक्यम् प्रतिकर्तुम् न तत् मया॥ ८॥
atas nimittam trastaḥ aham rāmeṇa tu mahātmanā . yat mama upakṛtam śakyam pratikartum na tat mayā.. 8..
सुग्रीवेणैवमुक्ते तु हनूमान् हरिपुंगवः । उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्॥ ९॥
सुग्रीवेण एवम् उक्ते तु हनूमान् हरि-पुंगवः । उवाच स्वेन तर्केण मध्ये वानर-मन्त्रिणाम्॥ ९॥
sugrīveṇa evam ukte tu hanūmān hari-puṃgavaḥ . uvāca svena tarkeṇa madhye vānara-mantriṇām.. 9..
सर्वथा नैतदाश्चर्यं यत् त्वं हरिगणेश्वर । न विस्मरसि सुस्निग्धमुपकारं कृतं शुभम्॥ १०॥
सर्वथा ना एतत् आश्चर्यम् यत् त्वम् हरि-गण-ईश्वर । न विस्मरसि सु स्निग्धम् उपकारम् कृतम् शुभम्॥ १०॥
sarvathā nā etat āścaryam yat tvam hari-gaṇa-īśvara . na vismarasi su snigdham upakāram kṛtam śubham.. 10..
राघवेण तु वीरेण भयमुत्सृज्य दूरतः । त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः॥ ११॥
राघवेण तु वीरेण भयम् उत्सृज्य दूरतस् । त्वद्-प्रिय-अर्थम् हतः वाली शक्र-तुल्य-पराक्रमः॥ ११॥
rāghaveṇa tu vīreṇa bhayam utsṛjya dūratas . tvad-priya-artham hataḥ vālī śakra-tulya-parākramaḥ.. 11..
सर्वथा प्रणयात् क्रुद्धो राघवो नात्र संशयः । भ्रातरं सम्प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम्॥ १२॥
सर्वथा प्रणयात् क्रुद्धः राघवः न अत्र संशयः । भ्रातरम् सम्प्रहितवान् लक्ष्मणम् लक्ष्मि-वर्धनम्॥ १२॥
sarvathā praṇayāt kruddhaḥ rāghavaḥ na atra saṃśayaḥ . bhrātaram samprahitavān lakṣmaṇam lakṣmi-vardhanam.. 12..
त्वं प्रमत्तो न जानीषे कालं कालविदां वर । फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छुभा॥ १३॥
त्वम् प्रमत्तः न जानीषे कालम् काल-विदाम् वर । फुल्ल-सप्तच्छद-श्यामा प्रवृत्ता तु शरद् शुभा॥ १३॥
tvam pramattaḥ na jānīṣe kālam kāla-vidām vara . phulla-saptacchada-śyāmā pravṛttā tu śarad śubhā.. 13..
निर्मलग्रहनक्षत्रा द्यौः प्रणष्टबलाहका । प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च॥ १४॥
निर्मल-ग्रह-नक्षत्रा द्यौः प्रणष्ट-बलाहका । प्रसन्नाः च दिशः सर्वाः सरितः च सरांसि च॥ १४॥
nirmala-graha-nakṣatrā dyauḥ praṇaṣṭa-balāhakā . prasannāḥ ca diśaḥ sarvāḥ saritaḥ ca sarāṃsi ca.. 14..
प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव । त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः॥ १५॥
प्राप्तम् उद्योग-कालम् तु न अवैषि हरि-पुंगव । त्वम् प्रमत्तः इति व्यक्तम् लक्ष्मणः अयम् इह आगतः॥ १५॥
prāptam udyoga-kālam tu na avaiṣi hari-puṃgava . tvam pramattaḥ iti vyaktam lakṣmaṇaḥ ayam iha āgataḥ.. 15..
आर्तस्य हृतदारस्य परुषं पुरुषान्तरात् । वचनं मर्षणीयं ते राघवस्य महात्मनः॥ १६॥
आर्तस्य हृत-दारस्य परुषम् पुरुषान्तरात् । वचनम् मर्षणीयम् ते राघवस्य महात्मनः॥ १६॥
ārtasya hṛta-dārasya paruṣam puruṣāntarāt . vacanam marṣaṇīyam te rāghavasya mahātmanaḥ.. 16..
कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्॥ १७॥
कृत-अपराधस्य हि ते न अन्यत् पश्यामि अहम् क्षमम् । अन्तरेण अञ्जलिम् बद्ध्वा लक्ष्मणस्य प्रसादनात्॥ १७॥
kṛta-aparādhasya hi te na anyat paśyāmi aham kṣamam . antareṇa añjalim baddhvā lakṣmaṇasya prasādanāt.. 17..
नियुक्तैर्मन्त्रिभिर्वाच्यो ह्यवश्यं पार्थिवो हितम् । इत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः॥ १८॥
नियुक्तैः मन्त्रिभिः वाच्यः हि अवश्यम् पार्थिवः हितम् । इतस् एव भयम् त्यक्त्वा ब्रवीमि अवधृतम् वचः॥ १८॥
niyuktaiḥ mantribhiḥ vācyaḥ hi avaśyam pārthivaḥ hitam . itas eva bhayam tyaktvā bravīmi avadhṛtam vacaḥ.. 18..
अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः । सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्॥ १९॥
अभिक्रुद्धः समर्थः हि चापम् उद्यम्य राघवः । स देव-असुर-गन्धर्वम् वशे स्थापयितुम् जगत्॥ १९॥
abhikruddhaḥ samarthaḥ hi cāpam udyamya rāghavaḥ . sa deva-asura-gandharvam vaśe sthāpayitum jagat.. 19..
न स क्षमः कोपयितुं यः प्रसाद्यः पुनर्भवेत् । पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः॥ २०॥
न स क्षमः कोपयितुम् यः प्रसाद्यः पुनर् भवेत् । पूर्व-उपकारम् स्मरता कृतज्ञेन विशेषतः॥ २०॥
na sa kṣamaḥ kopayitum yaḥ prasādyaḥ punar bhavet . pūrva-upakāram smaratā kṛtajñena viśeṣataḥ.. 20..
तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः । राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे॥ २१॥
तस्य मूर्ध्ना प्रणम्य त्वम् स पुत्रः स सुहृद्-जनः । राजन् तिष्ठ स्व-समये भर्तुः भार्या इव तद्-वशे॥ २१॥
tasya mūrdhnā praṇamya tvam sa putraḥ sa suhṛd-janaḥ . rājan tiṣṭha sva-samaye bhartuḥ bhāryā iva tad-vaśe.. 21..
न रामरामानुजशासनं त्वया कपीन्द्र युक्तं मनसाप्यपोहितुम् । मनो हि ते ज्ञास्यति मानुषं बलं सराघवस्यास्य सुरेन्द्रवर्चसः॥ २२॥
न राम-राम-अनुज-शासनम् त्वया कपि-इन्द्र युक्तम् मनसा अपि अपोहितुम् । मनः हि ते ज्ञास्यति मानुषम् बलम् स राघवस्य अस्य सुर-इन्द्र-वर्चसः॥ २२॥
na rāma-rāma-anuja-śāsanam tvayā kapi-indra yuktam manasā api apohitum . manaḥ hi te jñāsyati mānuṣam balam sa rāghavasya asya sura-indra-varcasaḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे द्वात्रिंशः सर्गः ॥४-३२॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे द्वात्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe dvātriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In