This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥४-३७॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे सप्तत्रिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe saptatriṃśaḥ sargaḥ ..4..
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना । हनूमन्तं स्थितं पार्श्वे वचनं चेदमब्रवीत्॥ १॥
एवम् उक्तः तु सुग्रीवः लक्ष्मणेन महात्मना । हनूमन्तम् स्थितम् पार्श्वे वचनम् च इदम् अब्रवीत्॥ १॥
evam uktaḥ tu sugrīvaḥ lakṣmaṇena mahātmanā . hanūmantam sthitam pārśve vacanam ca idam abravīt.. 1..
महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च । मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः॥ २॥
महेन्द्र-हिमवत्-विन्ध्य-कैलास-शिखरेषु च । मन्दरे पाण्डु-शिखरे पञ्चशैलेषु ये स्थिताः॥ २॥
mahendra-himavat-vindhya-kailāsa-śikhareṣu ca . mandare pāṇḍu-śikhare pañcaśaileṣu ye sthitāḥ.. 2..
तरुणादित्यवर्णेषु भ्राजमानेषु नित्यशः । पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि॥ ३॥
तरुण-आदित्य-वर्णेषु भ्राजमानेषु नित्यशस् । पर्वतेषु समुद्र-अन्ते पश्चिमस्याम् तु ये दिशि॥ ३॥
taruṇa-āditya-varṇeṣu bhrājamāneṣu nityaśas . parvateṣu samudra-ante paścimasyām tu ye diśi.. 3..
आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे । पद्माचलवनं भीमाः संश्रिता हरिपुंगवाः॥ ४॥
आदित्य-भवने च एव गिरौ संध्या-अभ्र-संनिभे । पद्माचल-वनम् भीमाः संश्रिताः हरि-पुंगवाः॥ ४॥
āditya-bhavane ca eva girau saṃdhyā-abhra-saṃnibhe . padmācala-vanam bhīmāḥ saṃśritāḥ hari-puṃgavāḥ.. 4..
अञ्जनाम्बुदसंकाशाः कुञ्जरेन्द्रमहौजसः । अञ्जने पर्वते चैव ये वसन्ति प्लवंगमाः॥ ५॥
अञ्जन-अम्बुद-संकाशाः कुञ्जर-इन्द्र-महा-ओजसः । अञ्जने पर्वते च एव ये वसन्ति प्लवंगमाः॥ ५॥
añjana-ambuda-saṃkāśāḥ kuñjara-indra-mahā-ojasaḥ . añjane parvate ca eva ye vasanti plavaṃgamāḥ.. 5..
महाशैलगुहावासा वानराः कनकप्रभाः । मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः॥ ६॥
महा-शैल-गुहा-वासाः वानराः कनक-प्रभाः । मेरु-पार्श्व-गताः च एव ये च धूम्रगिरिम् श्रिताः॥ ६॥
mahā-śaila-guhā-vāsāḥ vānarāḥ kanaka-prabhāḥ . meru-pārśva-gatāḥ ca eva ye ca dhūmragirim śritāḥ.. 6..
तरुणादित्यवर्णाश्च पर्वते ये महारुणे । पिबन्तो मधु मैरेयं भीमवेगाः प्लवंगमाः॥ ७॥
तरुण-आदित्य-वर्णाः च पर्वते ये महारुणे । पिबन्तः मधु मैरेयम् भीम-वेगाः प्लवंगमाः॥ ७॥
taruṇa-āditya-varṇāḥ ca parvate ye mahāruṇe . pibantaḥ madhu maireyam bhīma-vegāḥ plavaṃgamāḥ.. 7..
वनेषु च सुरम्येषु सुगन्धिषु महत्सु च । तापसाश्रमरम्येषु वनान्तेषु समन्ततः॥ ८॥
वनेषु च सु रम्येषु सुगन्धिषु महत्सु च । तापस-आश्रम-रम्येषु वन-अन्तेषु समन्ततः॥ ८॥
vaneṣu ca su ramyeṣu sugandhiṣu mahatsu ca . tāpasa-āśrama-ramyeṣu vana-anteṣu samantataḥ.. 8..
तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान् । सामदानादिभिः कल्पैर्वानरैर्वेगवत्तरैः॥ ९॥
तान् तान् त्वम् आनय क्षिप्रम् पृथिव्याम् सर्व-वानरान् । साम-दान-आदिभिः कल्पैः वानरैः वेगवत्तरैः॥ ९॥
tān tān tvam ānaya kṣipram pṛthivyām sarva-vānarān . sāma-dāna-ādibhiḥ kalpaiḥ vānaraiḥ vegavattaraiḥ.. 9..
प्रेषिताः प्रथमं ये च मयाऽऽज्ञाता महाजवाः । त्वरणार्थं तु भूयस्त्वं सम्प्रेषय हरीश्वरान्॥ १०॥
प्रेषिताः प्रथमम् ये च मया आज्ञाताः महा-जवाः । त्वरण-अर्थम् तु भूयस् त्वम् सम्प्रेषय हरि-ईश्वरान्॥ १०॥
preṣitāḥ prathamam ye ca mayā ājñātāḥ mahā-javāḥ . tvaraṇa-artham tu bhūyas tvam sampreṣaya hari-īśvarān.. 10..
ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः । इहानयस्व तान् शीघ्रं सर्वानेव कपीश्वरान्॥ ११॥
ये प्रसक्ताः च कामेषु दीर्घसूत्राः च वानराः । इह आनयस्व तान् शीघ्रम् सर्वान् एव कपि-ईश्वरान्॥ ११॥
ye prasaktāḥ ca kāmeṣu dīrghasūtrāḥ ca vānarāḥ . iha ānayasva tān śīghram sarvān eva kapi-īśvarān.. 11..
अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया । हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः॥ १२॥
अहोभिः दशभिः ये च ना आगच्छन्ति मम आज्ञया । हन्तव्याः ते दुरात्मानः राज-शासन-दूषकाः॥ १२॥
ahobhiḥ daśabhiḥ ye ca nā āgacchanti mama ājñayā . hantavyāḥ te durātmānaḥ rāja-śāsana-dūṣakāḥ.. 12..
शतान्यथ सहस्राणि कोट्यश्च मम शासनात् । प्रयान्तु कपिसिंहानां निदेशे मम ये स्थिताः॥ १३॥
शतानि अथ सहस्राणि कोट्यः च मम शासनात् । प्रयान्तु कपि-सिंहानाम् निदेशे मम ये स्थिताः॥ १३॥
śatāni atha sahasrāṇi koṭyaḥ ca mama śāsanāt . prayāntu kapi-siṃhānām nideśe mama ye sthitāḥ.. 13..
मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम् । घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः॥ १४॥
मेघपर्वत-संकाशाः छादयन्तः इव अम्बरम् । घोर-रूपाः कपि-श्रेष्ठाः यान्तु मद्-शासनात् इतस्॥ १४॥
meghaparvata-saṃkāśāḥ chādayantaḥ iva ambaram . ghora-rūpāḥ kapi-śreṣṭhāḥ yāntu mad-śāsanāt itas.. 14..
ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः । आनयन्तु हरीन् सर्वांस्त्वरिताः शासनान्मम॥ १५॥
ते गति-ज्ञाः गतिम् गत्वा पृथिव्याम् सर्व-वानराः । आनयन्तु हरीन् सर्वान् त्वरिताः शासनात् मम॥ १५॥
te gati-jñāḥ gatim gatvā pṛthivyām sarva-vānarāḥ . ānayantu harīn sarvān tvaritāḥ śāsanāt mama.. 15..
तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः । दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्॥ १६॥
तस्य वानर-राजस्य श्रुत्वा वायुसुतः वचः । दिक्षु सर्वासु विक्रान्तान् प्रेषयामास वानरान्॥ १६॥
tasya vānara-rājasya śrutvā vāyusutaḥ vacaḥ . dikṣu sarvāsu vikrāntān preṣayāmāsa vānarān.. 16..
ते पदं विष्णुविक्रान्तं पतत्त्रिज्योतिरध्वगाः । प्रयाताः प्रहिता राज्ञा हरयस्तु क्षणेन वै॥ १७॥
ते पदम् विष्णु-विक्रान्तम् पतत्त्रि-ज्योतिः-अध्व-गाः । प्रयाताः प्रहिताः राज्ञा हरयः तु क्षणेन वै॥ १७॥
te padam viṣṇu-vikrāntam patattri-jyotiḥ-adhva-gāḥ . prayātāḥ prahitāḥ rājñā harayaḥ tu kṣaṇena vai.. 17..
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च । वानरा वानरान् सर्वान् रामहेतोरचोदयन्॥ १८॥
ते समुद्रेषु गिरिषु वनेषु च सरस्सु च । वानराः वानरान् सर्वान् राम-हेतोः अचोदयन्॥ १८॥
te samudreṣu giriṣu vaneṣu ca sarassu ca . vānarāḥ vānarān sarvān rāma-hetoḥ acodayan.. 18..
मृत्युकालोपमस्याज्ञां राजराजस्य वानराः । सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयशङ्किताः॥ १९॥
मृत्यु-काल-उपमस्य आज्ञाम् राजराजस्य वानराः । सुग्रीवस्य आययुः श्रुत्वा सुग्रीव-भय-शङ्किताः॥ १९॥
mṛtyu-kāla-upamasya ājñām rājarājasya vānarāḥ . sugrīvasya āyayuḥ śrutvā sugrīva-bhaya-śaṅkitāḥ.. 19..
ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाबलाः । तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः॥ २०॥
ततस् ते अञ्जन-संकाशाः गिरेः तस्मात् महा-बलाः । तिस्रः कोट्यः प्लवंगानाम् निर्ययुः यत्र राघवः॥ २०॥
tatas te añjana-saṃkāśāḥ gireḥ tasmāt mahā-balāḥ . tisraḥ koṭyaḥ plavaṃgānām niryayuḥ yatra rāghavaḥ.. 20..
अस्तं गच्छति यत्रार्कस्तस्मिन् गिरिवरे रताः । संतप्तहेमवर्णाभास्तस्मात् कोट्यो दश च्युताः॥ २१॥
अस्तम् गच्छति यत्र अर्कः तस्मिन् गिरि-वरे रताः । संतप्त-हेम-वर्ण-आभाः तस्मात् कोट्यः दश च्युताः॥ २१॥
astam gacchati yatra arkaḥ tasmin giri-vare ratāḥ . saṃtapta-hema-varṇa-ābhāḥ tasmāt koṭyaḥ daśa cyutāḥ.. 21..
कैलासशिखरेभ्यश्च सिंहकेसरवर्चसाम् । ततः कोटिसहस्राणि वानराणां समागमन्॥ २२॥
कैलास-शिखरेभ्यः च सिंह-केसर-वर्चसाम् । ततस् कोटि-सहस्राणि वानराणाम् समागमन्॥ २२॥
kailāsa-śikharebhyaḥ ca siṃha-kesara-varcasām . tatas koṭi-sahasrāṇi vānarāṇām samāgaman.. 22..
फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः । तेषां कोटिसहस्राणां सहस्रं समवर्तत॥ २३॥
फल-मूलेन जीवन्तः हिमवन्तम् उपाश्रिताः । तेषाम् कोटि-सहस्राणाम् सहस्रम् समवर्तत॥ २३॥
phala-mūlena jīvantaḥ himavantam upāśritāḥ . teṣām koṭi-sahasrāṇām sahasram samavartata.. 23..
अङ्गारकसमानानां भीमानां भीमकर्मणाम् । विन्ध्याद् वानरकोटीनां सहस्राण्यपतन् द्रुतम्॥ २४॥
अङ्गारक-समानानाम् भीमानाम् भीम-कर्मणाम् । विन्ध्यात् वानर-कोटीनाम् सहस्राणि अपतन् द्रुतम्॥ २४॥
aṅgāraka-samānānām bhīmānām bhīma-karmaṇām . vindhyāt vānara-koṭīnām sahasrāṇi apatan drutam.. 24..
क्षीरोदवेलानिलयास्तमालवनवासिनः । नारिकेलाशनाश्चैव तेषां संख्या न विद्यते॥ २५॥
क्षीरोद-वेला-निलय-अस्तमाल-वन-वासिनः । नारिकेल-अशनाः च एव तेषाम् संख्या न विद्यते॥ २५॥
kṣīroda-velā-nilaya-astamāla-vana-vāsinaḥ . nārikela-aśanāḥ ca eva teṣām saṃkhyā na vidyate.. 25..
वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाबलाः । आगच्छद् वानरी सेना पिबन्तीव दिवाकरम्॥ २६॥
वनेभ्यः गह्वरेभ्यः च सरिद्भ्यः च महा-बलाः । आगच्छत् वानरी सेना पिबन्ती इव दिवाकरम्॥ २६॥
vanebhyaḥ gahvarebhyaḥ ca saridbhyaḥ ca mahā-balāḥ . āgacchat vānarī senā pibantī iva divākaram.. 26..
ये तु त्वरयितुं याता वानराः सर्ववानरान् । ते वीरा हिमवच्छैले ददृशुस्तं महाद्रुमम्॥ २७॥
ये तु त्वरयितुम् याताः वानराः सर्व-वानरान् । ते वीराः हिमवत्-शैले ददृशुः तम् महा-द्रुमम्॥ २७॥
ye tu tvarayitum yātāḥ vānarāḥ sarva-vānarān . te vīrāḥ himavat-śaile dadṛśuḥ tam mahā-drumam.. 27..
तस्मिन् गिरिवरे पुण्ये यज्ञो माहेश्वरः पुरा । सर्वदेवमनस्तोषो बभूव सुमनोरमः॥ २८॥
तस्मिन् गिरि-वरे पुण्ये यज्ञः माहेश्वरः पुरा । सर्व-देव-मनः-तोषः बभूव सु मनोरमः॥ २८॥
tasmin giri-vare puṇye yajñaḥ māheśvaraḥ purā . sarva-deva-manaḥ-toṣaḥ babhūva su manoramaḥ.. 28..
अन्ननिस्यन्दजातानि मूलानि च फलानि च । अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः॥ २९॥
अन्न-निस्यन्द-जातानि मूलानि च फलानि च । अमृत-स्वादु-कल्पानि ददृशुः तत्र वानराः॥ २९॥
anna-nisyanda-jātāni mūlāni ca phalāni ca . amṛta-svādu-kalpāni dadṛśuḥ tatra vānarāḥ.. 29..
तदन्नसम्भवं दिव्यं फलमूलं मनोहरम् । यः कश्चित् सकृदश्नाति मासं भवति तर्पितः॥ ३०॥
तत् अन्न-सम्भवम् दिव्यम् फल-मूलम् मनोहरम् । यः कश्चिद् सकृत् अश्नाति मासम् भवति तर्पितः॥ ३०॥
tat anna-sambhavam divyam phala-mūlam manoharam . yaḥ kaścid sakṛt aśnāti māsam bhavati tarpitaḥ.. 30..
तानि मूलानि दिव्यानि फलानि च फलाशनाः । औषधानि च दिव्यानि जगृहुर्हरिपुंगवाः॥ ३१॥
तानि मूलानि दिव्यानि फलानि च फल-अशनाः । औषधानि च दिव्यानि जगृहुः हरि-पुंगवाः॥ ३१॥
tāni mūlāni divyāni phalāni ca phala-aśanāḥ . auṣadhāni ca divyāni jagṛhuḥ hari-puṃgavāḥ.. 31..
तस्माच्च यज्ञायतनात् पुष्पाणि सुरभीणि च । आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्॥ ३२॥
तस्मात् च यज्ञ-आयतनात् पुष्पाणि सुरभीणि च । आनिन्युः वानराः गत्वा सुग्रीव-प्रिय-कारणात्॥ ३२॥
tasmāt ca yajña-āyatanāt puṣpāṇi surabhīṇi ca . āninyuḥ vānarāḥ gatvā sugrīva-priya-kāraṇāt.. 32..
ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान् । संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः॥ ३३॥
ते तु सर्वे हरि-वराः पृथिव्याम् सर्व-वानरान् । संचोदयित्वा त्वरितम् यूथानाम् जग्मुः अग्रतस्॥ ३३॥
te tu sarve hari-varāḥ pṛthivyām sarva-vānarān . saṃcodayitvā tvaritam yūthānām jagmuḥ agratas.. 33..
ते तु तेन मुहूर्तेन कपयः शीघ्रचारिणः । किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः॥ ३४॥
ते तु तेन मुहूर्तेन कपयः शीघ्र-चारिणः । किष्किन्धाम् त्वरया प्राप्ताः सुग्रीवः यत्र वानरः॥ ३४॥
te tu tena muhūrtena kapayaḥ śīghra-cāriṇaḥ . kiṣkindhām tvarayā prāptāḥ sugrīvaḥ yatra vānaraḥ.. 34..
ते गृहीत्वौषधीः सर्वाः फलमूलं च वानराः । तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्॥ ३५॥
ते गृहीत्वा ओषधीः सर्वाः फल-मूलम् च वानराः । तम् प्रतिग्राहयामासुः वचनम् च इदम् अब्रुवन्॥ ३५॥
te gṛhītvā oṣadhīḥ sarvāḥ phala-mūlam ca vānarāḥ . tam pratigrāhayāmāsuḥ vacanam ca idam abruvan.. 35..
सर्वे परिसृताः शैलाः सरितश्च वनानि च । पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते॥ ३६॥
सर्वे परिसृताः शैलाः सरितः च वनानि च । पृथिव्याम् वानराः सर्वे शासनात् उपयान्ति ते॥ ३६॥
sarve parisṛtāḥ śailāḥ saritaḥ ca vanāni ca . pṛthivyām vānarāḥ sarve śāsanāt upayānti te.. 36..
एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः । प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम्॥ ३७॥
एवम् श्रुत्वा ततस् हृष्टः सुग्रीवः प्लवग-अधिपः । प्रतिजग्राह च प्रीतः तेषाम् सर्वम् उपायनम्॥ ३७॥
evam śrutvā tatas hṛṣṭaḥ sugrīvaḥ plavaga-adhipaḥ . pratijagrāha ca prītaḥ teṣām sarvam upāyanam.. 37..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे सप्तत्रिंशः सर्गः ॥४-३७॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे सप्तत्रिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe saptatriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In