This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥४-४६॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे षट्चत्वारिंशः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..4..
गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत् । कथं भवान् विजानीते सर्वं वै मण्डलं भुवः॥ १॥
गतेषु वानर-इन्द्रेषु रामः सुग्रीवम् अब्रवीत् । कथम् भवान् विजानीते सर्वम् वै मण्डलम् भुवः॥ १॥
gateṣu vānara-indreṣu rāmaḥ sugrīvam abravīt . katham bhavān vijānīte sarvam vai maṇḍalam bhuvaḥ.. 1..
सुग्रीवश्च ततो राममुवाच प्रणतात्मवान् । श्रूयतां सर्वमाख्यास्ये विस्तरेण वचो मम॥ २॥
सुग्रीवः च ततस् रामम् उवाच प्रणत-आत्मवान् । श्रूयताम् सर्वम् आख्यास्ये विस्तरेण वचः मम॥ २॥
sugrīvaḥ ca tatas rāmam uvāca praṇata-ātmavān . śrūyatām sarvam ākhyāsye vistareṇa vacaḥ mama.. 2..
यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम् । प्रतिकालयते वाली मलयं प्रति पर्वतम्॥ ३॥
यदा तु दुन्दुभिम् नाम दानवम् महिष-आकृतिम् । प्रतिकालयते वाली मलयम् प्रति पर्वतम्॥ ३॥
yadā tu dundubhim nāma dānavam mahiṣa-ākṛtim . pratikālayate vālī malayam prati parvatam.. 3..
तदा विवेश महिषो मलयस्य गुहां प्रति । विवेश वाली तत्रापि मलयं तज्जिघांसया॥ ४॥
तदा विवेश महिषः मलयस्य गुहाम् प्रति । विवेश वाली तत्र अपि मलयम् तद्-जिघांसया॥ ४॥
tadā viveśa mahiṣaḥ malayasya guhām prati . viveśa vālī tatra api malayam tad-jighāṃsayā.. 4..
ततोऽहं तत्र निक्षिप्तो गुहाद्वारि विनीतवत् । न च निष्क्रामते वाली तदा संवत्सरे गते॥ ५॥
ततस् अहम् तत्र निक्षिप्तः गुहा-द्वारि विनीत-वत् । न च निष्क्रामते वाली तदा संवत्सरे गते॥ ५॥
tatas aham tatra nikṣiptaḥ guhā-dvāri vinīta-vat . na ca niṣkrāmate vālī tadā saṃvatsare gate.. 5..
ततः क्षतजवेगेन आपुपूरे तदा बिलम् । तदहं विस्मितो दृष्ट्वा भ्रातुः शोकविषार्दितः॥ ६॥
ततस् क्षतज-वेगेन आपुपूरे तदा बिलम् । तत् अहम् विस्मितः दृष्ट्वा भ्रातुः शोक-विष-अर्दितः॥ ६॥
tatas kṣataja-vegena āpupūre tadā bilam . tat aham vismitaḥ dṛṣṭvā bhrātuḥ śoka-viṣa-arditaḥ.. 6..
अथाहं गतबुद्धिस्तु सुव्यक्तं निहतो गुरुः । शिला पर्वतसंकाशा बिलद्वारि मया कृता॥ ७॥
अथ अहम् गत-बुद्धिः तु सु व्यक्तम् निहतः गुरुः । शिला पर्वत-संकाशा बिल-द्वारि मया कृता॥ ७॥
atha aham gata-buddhiḥ tu su vyaktam nihataḥ guruḥ . śilā parvata-saṃkāśā bila-dvāri mayā kṛtā.. 7..
अशक्नुवन्निष्क्रमितुं महिषो विनशिष्यति । ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते॥ ८॥
अ शक्नुवन् निष्क्रमितुम् महिषः विनशिष्यति । ततस् अहम् आगाम् किष्किन्धाम् निराशः तस्य जीविते॥ ८॥
a śaknuvan niṣkramitum mahiṣaḥ vinaśiṣyati . tatas aham āgām kiṣkindhām nirāśaḥ tasya jīvite.. 8..
राज्यं च सुमहत् प्राप्य तारां च रुमया सह । मित्रैश्च सहितस्तत्र वसामि विगतज्वरः॥ ९॥
राज्यम् च सु महत् प्राप्य ताराम् च रुमया सह । मित्रैः च सहितः तत्र वसामि विगत-ज्वरः॥ ९॥
rājyam ca su mahat prāpya tārām ca rumayā saha . mitraiḥ ca sahitaḥ tatra vasāmi vigata-jvaraḥ.. 9..
आजगाम ततो वाली हत्वा तं वानरर्षभः । ततोऽहमददां राज्यं गौरवाद् भययन्त्रितः॥ १०॥
आजगाम ततस् वाली हत्वा तम् वानर-ऋषभः । ततस् अहम् अददाम् राज्यम् गौरवात् भय-यन्त्रितः॥ १०॥
ājagāma tatas vālī hatvā tam vānara-ṛṣabhaḥ . tatas aham adadām rājyam gauravāt bhaya-yantritaḥ.. 10..
स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः । परिकालयते वाली धावन्तं सचिवैः सह॥ ११॥
स माम् जिघांसुः दुष्ट-आत्मा वाली प्रव्यथित-इन्द्रियः । परिकालयते वाली धावन्तम् सचिवैः सह॥ ११॥
sa mām jighāṃsuḥ duṣṭa-ātmā vālī pravyathita-indriyaḥ . parikālayate vālī dhāvantam sacivaiḥ saha.. 11..
ततोऽहं वालिना तेन सोऽनुबद्धः प्रधावितः । नदीश्च विविधाः पश्यन् वनानि नगराणि च॥ १२॥
ततस् अहम् वालिना तेन सः अनुबद्धः प्रधावितः । नदीः च विविधाः पश्यन् वनानि नगराणि च॥ १२॥
tatas aham vālinā tena saḥ anubaddhaḥ pradhāvitaḥ . nadīḥ ca vividhāḥ paśyan vanāni nagarāṇi ca.. 12..
आदर्शतलसंकाशा ततो वै पृथिवी मया । अलातचक्रप्रतिमा दृष्टा गोष्पदवत् कृता॥ १३॥
आदर्श-तल-संकाशा ततस् वै पृथिवी मया । अलात-चक्र-प्रतिमा दृष्टा गोष्पद-वत् कृता॥ १३॥
ādarśa-tala-saṃkāśā tatas vai pṛthivī mayā . alāta-cakra-pratimā dṛṣṭā goṣpada-vat kṛtā.. 13..
पूर्वां दिशं ततो गत्वा पश्यामि विविधान् द्रुमान् । पर्वतान् सदरीन् रम्यान् सरांसि विविधानि च॥ १४॥
पूर्वाम् दिशम् ततस् गत्वा पश्यामि विविधान् द्रुमान् । पर्वतान् स दरीन् रम्यान् सरांसि विविधानि च॥ १४॥
pūrvām diśam tatas gatvā paśyāmi vividhān drumān . parvatān sa darīn ramyān sarāṃsi vividhāni ca.. 14..
उदयं तत्र पश्यामि पर्वतं धातुमण्डितम् । क्षीरोदं सागरं चैव नित्यमप्सरसालयम्॥ १५॥
उदयम् तत्र पश्यामि पर्वतम् धातु-मण्डितम् । क्षीरोदम् सागरम् च एव नित्यम् अप्सरसा आलयम्॥ १५॥
udayam tatra paśyāmi parvatam dhātu-maṇḍitam . kṣīrodam sāgaram ca eva nityam apsarasā ālayam.. 15..
परिकाल्यमानस्तु तदा वालिनाभिद्रुतो ह्यहम् । पुनरावृत्य सहसा प्रस्थितोऽहं तदा विभो॥ १६॥
परिकाल्यमानः तु तदा वालिना अभिद्रुतः हि अहम् । पुनर् आवृत्य सहसा प्रस्थितः अहम् तदा विभो॥ १६॥
parikālyamānaḥ tu tadā vālinā abhidrutaḥ hi aham . punar āvṛtya sahasā prasthitaḥ aham tadā vibho.. 16..
दिशस्तस्यास्ततो भूयः प्रस्थितो दक्षिणां दिशम् । विन्ध्यपादपसंकीर्णां चन्दनद्रुमशोभिताम्॥ १७॥
दिशः तस्याः ततस् भूयस् प्रस्थितः दक्षिणाम् दिशम् । विन्ध्य-पादप-संकीर्णाम् चन्दन-द्रुम-शोभिताम्॥ १७॥
diśaḥ tasyāḥ tatas bhūyas prasthitaḥ dakṣiṇām diśam . vindhya-pādapa-saṃkīrṇām candana-druma-śobhitām.. 17..
द्रुमशैलान्तरे पश्यन् भूयो दक्षिणतोऽपराम् । अपरां च दिशं प्राप्तो वालिना समभिद्रुतः॥ १८॥
द्रुम-शैल-अन्तरे पश्यन् भूयस् दक्षिणतस् अपराम् । अपराम् च दिशम् प्राप्तः वालिना समभिद्रुतः॥ १८॥
druma-śaila-antare paśyan bhūyas dakṣiṇatas aparām . aparām ca diśam prāptaḥ vālinā samabhidrutaḥ.. 18..
स पश्यन् विविधान् देशानस्तं च गिरिसत्तमम् । प्राप्य चास्तं गिरिश्रेष्ठमुत्तरं सम्प्रधावितः॥ १९॥
स पश्यन् विविधान् देशान् अस्तम् च गिरि-सत्तमम् । प्राप्य च अस्तम् गिरि-श्रेष्ठम् उत्तरम् सम्प्रधावितः॥ १९॥
sa paśyan vividhān deśān astam ca giri-sattamam . prāpya ca astam giri-śreṣṭham uttaram sampradhāvitaḥ.. 19..
हिमवन्तं च मेरुं च समुद्रं च तथोत्तरम् । यदा न विन्दे शरणं वालिना समभिद्रुतः॥ २०॥
हिमवन्तम् च मेरुम् च समुद्रम् च तथा उत्तरम् । यदा न विन्दे शरणम् वालिना समभिद्रुतः॥ २०॥
himavantam ca merum ca samudram ca tathā uttaram . yadā na vinde śaraṇam vālinā samabhidrutaḥ.. 20..
ततो मां बुद्धिसम्पन्नो हनुमान् वाक्यमब्रवीत् । इदानीं मे स्मृतं राजन् यथा वाली हरीश्वरः॥ २१॥
ततस् माम् बुद्धि-सम्पन्नः हनुमान् वाक्यम् अब्रवीत् । इदानीम् मे स्मृतम् राजन् यथा वाली हरि-ईश्वरः॥ २१॥
tatas mām buddhi-sampannaḥ hanumān vākyam abravīt . idānīm me smṛtam rājan yathā vālī hari-īśvaraḥ.. 21..
मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले । प्रविशेद् यदि वै वाली मूर्धास्य शतधा भवेत्॥ २२॥
मतङ्गेन तदा शप्तः हि अस्मिन् आश्रम-मण्डले । प्रविशेत् यदि वै वाली मूर्धा अस्य शतधा भवेत्॥ २२॥
mataṅgena tadā śaptaḥ hi asmin āśrama-maṇḍale . praviśet yadi vai vālī mūrdhā asya śatadhā bhavet.. 22..
तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति । ततः पर्वतमासाद्य ऋष्यमूकं नृपात्मज॥ २३॥
तत्र वासः सुखः अस्माकम् निरुद्विग्नः भविष्यति । ततस् पर्वतम् आसाद्य ऋष्यमूकम् नृप-आत्मज॥ २३॥
tatra vāsaḥ sukhaḥ asmākam nirudvignaḥ bhaviṣyati . tatas parvatam āsādya ṛṣyamūkam nṛpa-ātmaja.. 23..
न विवेश तदा वाली मतङ्गस्य भयात् तदा । एवं मया तदा राजन् प्रत्यक्षमुपलक्षितम् । पृथिवीमण्डलं सर्वं गुहामस्म्यागतस्ततः॥ २४॥
न विवेश तदा वाली मतङ्गस्य भयात् तदा । एवम् मया तदा राजन् प्रत्यक्षम् उपलक्षितम् । पृथिवी-मण्डलम् सर्वम् गुहाम् अस्मि आगतः ततस्॥ २४॥
na viveśa tadā vālī mataṅgasya bhayāt tadā . evam mayā tadā rājan pratyakṣam upalakṣitam . pṛthivī-maṇḍalam sarvam guhām asmi āgataḥ tatas.. 24..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षट्चत्वारिंशः सर्गः ॥४-४६॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे षट्चत्वारिंशः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ṣaṭcatvāriṃśaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In