This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे षष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe ṣaṣṭhitamaḥ sargaḥ ..4..
ततः कृतोदकं स्नातं तं गृध्रं हरियूथपाः । उपविष्टा गिरौ रम्ये परिवार्य समन्ततः॥ १॥
ततस् कृत-उदकम् स्नातम् तम् गृध्रम् हरि-यूथपाः । उपविष्टाः गिरौ रम्ये परिवार्य समन्ततः॥ १॥
tatas kṛta-udakam snātam tam gṛdhram hari-yūthapāḥ . upaviṣṭāḥ girau ramye parivārya samantataḥ.. 1..
तमङ्गदमुपासीनं तैः सर्वैर्हरिभिर्वृतम् । जनितप्रत्ययो हर्षात् सम्पातिः पुनरब्रवीत्॥ २॥
तम् अङ्गदम् उपासीनम् तैः सर्वैः हरिभिः वृतम् । जनित-प्रत्ययः हर्षात् सम्पातिः पुनर् अब्रवीत्॥ २॥
tam aṅgadam upāsīnam taiḥ sarvaiḥ haribhiḥ vṛtam . janita-pratyayaḥ harṣāt sampātiḥ punar abravīt.. 2..
कृत्वा निःशब्दमेकाग्राः शृण्वन्तु हरयो मम । तथ्यं संकीर्तयिष्यामि यथा जानामि मैथिलीम्॥ ३॥
कृत्वा निःशब्दम् एकाग्राः शृण्वन्तु हरयः मम । तथ्यम् संकीर्तयिष्यामि यथा जानामि मैथिलीम्॥ ३॥
kṛtvā niḥśabdam ekāgrāḥ śṛṇvantu harayaḥ mama . tathyam saṃkīrtayiṣyāmi yathā jānāmi maithilīm.. 3..
अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरानघ । सूर्यतापपरीताङ्गो निर्दग्धः सूर्यरश्मिभिः॥ ४॥
अस्य विन्ध्यस्य शिखरे पतितः अस्मि पुरा अनघ । सूर्य-ताप-परीत-अङ्गः निर्दग्धः सूर्य-रश्मिभिः॥ ४॥
asya vindhyasya śikhare patitaḥ asmi purā anagha . sūrya-tāpa-parīta-aṅgaḥ nirdagdhaḥ sūrya-raśmibhiḥ.. 4..
लब्धसंज्ञस्तु षड्रात्राद् विवशो विह्वलन्निव । वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन॥ ५॥
लब्ध-संज्ञः तु षष्-रात्रात् विवशः विह्वलन् इव । वीक्षमाणः दिशः सर्वाः न अभिजानामि किंचन॥ ५॥
labdha-saṃjñaḥ tu ṣaṣ-rātrāt vivaśaḥ vihvalan iva . vīkṣamāṇaḥ diśaḥ sarvāḥ na abhijānāmi kiṃcana.. 5..
ततस्तु सागरान् शैलान् नदीः सर्वाः सरांसि च । वनानि च प्रदेशांश्च निरीक्ष्य मतिरागता॥ ६॥
ततस् तु सागरान् शैलान् नदीः सर्वाः सरांसि च । वनानि च प्रदेशान् च निरीक्ष्य मतिः आगता॥ ६॥
tatas tu sāgarān śailān nadīḥ sarvāḥ sarāṃsi ca . vanāni ca pradeśān ca nirīkṣya matiḥ āgatā.. 6..
हृष्टपक्षिगणाकीर्णः कन्दरोदरकूटवान् । दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चितः॥ ७॥
हृष्ट-पक्षि-गण-आकीर्णः कन्दर-उदर-कूटवान् । दक्षिणस्य उदधेः तीरे विन्ध्यः अयम् इति निश्चितः॥ ७॥
hṛṣṭa-pakṣi-gaṇa-ākīrṇaḥ kandara-udara-kūṭavān . dakṣiṇasya udadheḥ tīre vindhyaḥ ayam iti niścitaḥ.. 7..
आसीच्चात्राश्रमं पुण्यं सुरैरपि सुपूजितम् । ऋषिर्निशाकरो नाम यस्मिन्नुग्रतपाऽभवत्॥ ८॥
आसीत् च अत्र आश्रमम् पुण्यम् सुरैः अपि सु पूजितम् । ऋषिः निशाकरः नाम यस्मिन् उग्र-तपाः अभवत्॥ ८॥
āsīt ca atra āśramam puṇyam suraiḥ api su pūjitam . ṛṣiḥ niśākaraḥ nāma yasmin ugra-tapāḥ abhavat.. 8..
अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा गिरौ । वसतो मम धर्मज्ञे स्वर्गते तु निशाकरे॥ ९॥
अष्टौ वर्ष-सहस्राणि तेन अस्मिन् ऋषिणा गिरौ । वसतः मम धर्म-ज्ञे स्वर्गते तु निशाकरे॥ ९॥
aṣṭau varṣa-sahasrāṇi tena asmin ṛṣiṇā girau . vasataḥ mama dharma-jñe svargate tu niśākare.. 9..
अवतीर्य च विन्ध्याग्रात् कृच्छ्रेण विषमाच्छनैः । तीक्ष्णदर्भां वसुमतीं दुःखेन पुनरागतः॥ १०॥
अवतीर्य च विन्ध्य-अग्रात् कृच्छ्रेण विषमात् शनैस् । तीक्ष्ण-दर्भाम् वसुमतीम् दुःखेन पुनर् आगतः॥ १०॥
avatīrya ca vindhya-agrāt kṛcchreṇa viṣamāt śanais . tīkṣṇa-darbhām vasumatīm duḥkhena punar āgataḥ.. 10..
तमृषिं द्रष्टुकामोऽस्मि दुःखेनाभ्यागतो भृशम् । जटायुषा मया चैव बहुशोऽधिगतो हि सः॥ ११॥
तम् ऋषिम् द्रष्टु-कामः अस्मि दुःखेन अभ्यागतः भृशम् । जटायुषा मया च एव बहुशस् अधिगतः हि सः॥ ११॥
tam ṛṣim draṣṭu-kāmaḥ asmi duḥkhena abhyāgataḥ bhṛśam . jaṭāyuṣā mayā ca eva bahuśas adhigataḥ hi saḥ.. 11..
तस्याश्रमपदाभ्याशे ववुर्वाताः सुगन्धिनः । वृक्षो नापुष्पितः कश्चिदफलो वा न दृश्यते॥ १२॥
तस्य आश्रम-पद-अभ्याशे ववुः वाताः सुगन्धिनः । वृक्षः न अपुष्पितः कश्चिद् अफलः वा न दृश्यते॥ १२॥
tasya āśrama-pada-abhyāśe vavuḥ vātāḥ sugandhinaḥ . vṛkṣaḥ na apuṣpitaḥ kaścid aphalaḥ vā na dṛśyate.. 12..
उपेत्य चाश्रमं पुण्यं वृक्षमूलमुपाश्रितः । द्रष्टुकामः प्रतीक्षे च भगवन्तं निशाकरम्॥ १३॥
उपेत्य च आश्रमम् पुण्यम् वृक्ष-मूलम् उपाश्रितः । द्रष्टु-कामः प्रतीक्षे च भगवन्तम् निशाकरम्॥ १३॥
upetya ca āśramam puṇyam vṛkṣa-mūlam upāśritaḥ . draṣṭu-kāmaḥ pratīkṣe ca bhagavantam niśākaram.. 13..
अथ पश्यामि दूरस्थमृषिं ज्वलिततेजसम् । कृताभिषेकं दुर्धर्षमुपावृत्तमुदङ्मुखम्॥ १४॥
अथ पश्यामि दूर-स्थम् ऋषिम् ज्वलित-तेजसम् । कृत-अभिषेकम् दुर्धर्षम् उपावृत्तम् उदक्-मुखम्॥ १४॥
atha paśyāmi dūra-stham ṛṣim jvalita-tejasam . kṛta-abhiṣekam durdharṣam upāvṛttam udak-mukham.. 14..
तमृक्षाः सृमरा व्याघ्राः सिंहा नानासरीसृपाः । परिवार्योपगच्छन्ति दातारं प्राणिनो यथा॥ १५॥
तम् ऋक्षाः सृमराः व्याघ्राः सिंहाः नाना सरीसृपाः । परिवार्य उपगच्छन्ति दातारम् प्राणिनः यथा॥ १५॥
tam ṛkṣāḥ sṛmarāḥ vyāghrāḥ siṃhāḥ nānā sarīsṛpāḥ . parivārya upagacchanti dātāram prāṇinaḥ yathā.. 15..
ततः प्राप्तमृषिं ज्ञात्वा तानि सत्त्वानि वै ययुः । प्रविष्टे राजनि यथा सर्वं सामात्यकं बलम्॥ १६॥
ततस् प्राप्तम् ऋषिम् ज्ञात्वा तानि सत्त्वानि वै ययुः । प्रविष्टे राजनि यथा सर्वम् स अमात्यकम् बलम्॥ १६॥
tatas prāptam ṛṣim jñātvā tāni sattvāni vai yayuḥ . praviṣṭe rājani yathā sarvam sa amātyakam balam.. 16..
ऋषिस्तु दृष्ट्वा मां तुष्टः प्रविष्टश्चाश्रमं पुनः । मुहूर्तमात्रान्निर्गम्य ततः कार्यमपृच्छत॥ १७॥
ऋषिः तु दृष्ट्वा माम् तुष्टः प्रविष्टः च आश्रमम् पुनर् । मुहूर्त-मात्रात् निर्गम्य ततस् कार्यम् अपृच्छत॥ १७॥
ṛṣiḥ tu dṛṣṭvā mām tuṣṭaḥ praviṣṭaḥ ca āśramam punar . muhūrta-mātrāt nirgamya tatas kāryam apṛcchata.. 17..
सौम्य वैकल्यतां दृष्ट्वा रोम्णां ते नावगम्यते । अग्निदग्धाविमौ पक्षौ प्राणाश्चापि शरीरके॥ १८॥
सौम्य वैकल्यताम् दृष्ट्वा ते ना अवगम्यते । अग्नि-दग्धौ इमौ पक्षौ प्राणाः च अपि शरीरके॥ १८॥
saumya vaikalyatām dṛṣṭvā te nā avagamyate . agni-dagdhau imau pakṣau prāṇāḥ ca api śarīrake.. 18..
गृध्रौ द्वौ दृष्टपूर्वौ मे मातरिश्वसमौ जवे । गृध्राणां चैव राजानौ भ्रातरौ कामरूपिणौ॥ १९॥
गृध्रौ द्वौ दृष्ट-पूर्वौ मे मातरिश्व-समौ जवे । गृध्राणाम् च एव राजानौ भ्रातरौ कामरूपिणौ॥ १९॥
gṛdhrau dvau dṛṣṭa-pūrvau me mātariśva-samau jave . gṛdhrāṇām ca eva rājānau bhrātarau kāmarūpiṇau.. 19..
ज्येष्ठोऽवितस्त्वं सम्पाते जटायुरनुजस्तव । मानुषं रूपमास्थाय गृह्णीतां चरणौ मम॥ २०॥
ज्येष्ठः अवितः त्वम् सम्पाते जटायुः अनुजः तव । मानुषम् रूपम् आस्थाय गृह्णीताम् चरणौ मम॥ २०॥
jyeṣṭhaḥ avitaḥ tvam sampāte jaṭāyuḥ anujaḥ tava . mānuṣam rūpam āsthāya gṛhṇītām caraṇau mama.. 20..
किं ते व्याधिसमुत्थानं पक्षयोः पतनं कथम् । दण्डो वायं धृतः केन सर्वमाख्याहि पृच्छतः॥ २१॥
किम् ते व्याधि-समुत्थानम् पक्षयोः पतनम् कथम् । दण्डः वा अयम् धृतः केन सर्वम् आख्याहि पृच्छतः॥ २१॥
kim te vyādhi-samutthānam pakṣayoḥ patanam katham . daṇḍaḥ vā ayam dhṛtaḥ kena sarvam ākhyāhi pṛcchataḥ.. 21..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे षष्ठितमः सर्गः ॥४-६०॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे षष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe ṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In