This overlay will guide you through the buttons:

| |
|
श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे चतुःषष्ठितमः सर्गः ॥४-६४॥
श्रीमत्-वाल्मीकिय-रामायणे किष्किन्धा-काण्डे चतुःषष्ठितमः सर्गः ॥४॥
śrīmat-vālmīkiya-rāmāyaṇe kiṣkindhā-kāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..4..
आख्याता गृध्रराजेन समुत्प्लुत्य प्लवङ्गमाः । संगताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः॥ १॥
आख्याताः गृध्र-राजेन समुत्प्लुत्य प्लवङ्गमाः । संगताः प्रीति-संयुक्ताः विनेदुः सिंह-विक्रमाः॥ १॥
ākhyātāḥ gṛdhra-rājena samutplutya plavaṅgamāḥ . saṃgatāḥ prīti-saṃyuktāḥ vineduḥ siṃha-vikramāḥ.. 1..
सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् । हृष्टाः सागरमाजग्मुः सीतादर्शनकांक्षिणः॥ २॥
सम्पातेः वचनम् श्रुत्वा हरयः रावण-क्षयम् । हृष्टाः सागरम् आजग्मुः सीता-दर्शन-कांक्षिणः॥ २॥
sampāteḥ vacanam śrutvā harayaḥ rāvaṇa-kṣayam . hṛṣṭāḥ sāgaram ājagmuḥ sītā-darśana-kāṃkṣiṇaḥ.. 2..
अभिगम्य तु तं देशं ददृशुर्भीमविक्रमाः । कृत्स्नं लोकस्य महतः प्रतिबिम्बमवस्थितम्॥ ३॥
अभिगम्य तु तम् देशम् ददृशुः भीम-विक्रमाः । कृत्स्नम् लोकस्य महतः प्रतिबिम्बम् अवस्थितम्॥ ३॥
abhigamya tu tam deśam dadṛśuḥ bhīma-vikramāḥ . kṛtsnam lokasya mahataḥ pratibimbam avasthitam.. 3..
दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् । संनिवेशं ततश्चक्रुर्हरिवीरा महाबलाः॥ ४॥
दक्षिणस्य समुद्रस्य समासाद्य उत्तराम् दिशम् । संनिवेशम् ततस् चक्रुः हरि-वीराः महा-बलाः॥ ४॥
dakṣiṇasya samudrasya samāsādya uttarām diśam . saṃniveśam tatas cakruḥ hari-vīrāḥ mahā-balāḥ.. 4..
प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः । क्वचित् पर्वतमात्रैश्च जलराशिभिरावृतम्॥ ५॥
प्रसुप्तम् इव च अन्यत्र क्रीडन्तम् इव च अन्यतस् । क्वचिद् पर्वत-मात्रैः च जल-राशिभिः आवृतम्॥ ५॥
prasuptam iva ca anyatra krīḍantam iva ca anyatas . kvacid parvata-mātraiḥ ca jala-rāśibhiḥ āvṛtam.. 5..
संकुलं दानवेन्द्रैश्च पातालतलवासिभिः । रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः॥ ६॥
संकुलम् दानव-इन्द्रैः च पाताल-तल-वासिभिः । रोम-हर्ष-करम् दृष्ट्वा विषेदुः कपि-कुञ्जराः॥ ६॥
saṃkulam dānava-indraiḥ ca pātāla-tala-vāsibhiḥ . roma-harṣa-karam dṛṣṭvā viṣeduḥ kapi-kuñjarāḥ.. 6..
आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः । विषेदुः सहिताः सर्वे कथं कार्यमिति ब्रुवन्॥ ७॥
आकाशम् इव दुष्पारम् सागरम् प्रेक्ष्य वानराः । विषेदुः सहिताः सर्वे कथम् कार्यम् इति ब्रुवन्॥ ७॥
ākāśam iva duṣpāram sāgaram prekṣya vānarāḥ . viṣeduḥ sahitāḥ sarve katham kāryam iti bruvan.. 7..
विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् । आश्वासयामास हरीन् भयार्तान् हरिसत्तमः॥ ८॥
विषण्णाम् वाहिनीम् दृष्ट्वा सागरस्य निरीक्षणात् । आश्वासयामास हरीन् भय-आर्तान् हरि-सत्तमः॥ ८॥
viṣaṇṇām vāhinīm dṛṣṭvā sāgarasya nirīkṣaṇāt . āśvāsayāmāsa harīn bhaya-ārtān hari-sattamaḥ.. 8..
न विषादे मनः कार्यं विषादो दोषवत्तरः । विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः॥ ९॥
न विषादे मनः कार्यम् विषादः दोषवत्तरः । विषादः हन्ति पुरुषम् बालम् क्रुद्धः इव उरगः॥ ९॥
na viṣāde manaḥ kāryam viṣādaḥ doṣavattaraḥ . viṣādaḥ hanti puruṣam bālam kruddhaḥ iva uragaḥ.. 9..
यो विषादं प्रसहते विक्रमे समुपस्थिते । तेजसा तस्य हीनस्य पुरुषार्थो न सिद्ध्यति॥ १०॥
यः विषादम् प्रसहते विक्रमे समुपस्थिते । तेजसा तस्य हीनस्य पुरुष-अर्थः न सिद्ध्यति॥ १०॥
yaḥ viṣādam prasahate vikrame samupasthite . tejasā tasya hīnasya puruṣa-arthaḥ na siddhyati.. 10..
तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह । हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत्॥ ११॥
तस्याम् रात्र्याम् व्यतीतायाम् अङ्गदः वानरैः सह । हरि-वृद्धैः समागम्य पुनर् मन्त्रम् अमन्त्रयत्॥ ११॥
tasyām rātryām vyatītāyām aṅgadaḥ vānaraiḥ saha . hari-vṛddhaiḥ samāgamya punar mantram amantrayat.. 11..
सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ । वासवं परिवार्येव मरुतां वाहिनी स्थिता॥ १२॥
सा वानराणाम् ध्वजिनी परिवार्य अङ्गदम् बभौ । वासवम् परिवार्य इव मरुताम् वाहिनी स्थिता॥ १२॥
sā vānarāṇām dhvajinī parivārya aṅgadam babhau . vāsavam parivārya iva marutām vāhinī sthitā.. 12..
कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् । अन्यत्र वालितनयादन्यत्र च हनूमतः॥ १३॥
कः अन्यः ताम् वानरीम् सेनाम् शक्तः स्तम्भयितुम् भवेत् । अन्यत्र वालि-तनयात् अन्यत्र च हनूमतः॥ १३॥
kaḥ anyaḥ tām vānarīm senām śaktaḥ stambhayitum bhavet . anyatra vāli-tanayāt anyatra ca hanūmataḥ.. 13..
ततस्तान् हरिवृद्धांश्च तच्च सैन्यमरिंदमः । अनुमान्याङ्गदः श्रीमान् वाक्यमर्थवदब्रवीत्॥ १४॥
ततस् तान् हरि-वृद्धान् च तत् च सैन्यम् अरिंदमः । अनुमान्य अङ्गदः श्रीमान् वाक्यम् अर्थवत् अब्रवीत्॥ १४॥
tatas tān hari-vṛddhān ca tat ca sainyam ariṃdamaḥ . anumānya aṅgadaḥ śrīmān vākyam arthavat abravīt.. 14..
क इदानीं महातेजा लङ्घयिष्यति सागरम् । कः करिष्यति सुग्रीवं सत्यसंधमरिंदमम्॥ १५॥
कः इदानीम् महा-तेजाः लङ्घयिष्यति सागरम् । कः करिष्यति सुग्रीवम् सत्य-संधम् अरिंदमम्॥ १५॥
kaḥ idānīm mahā-tejāḥ laṅghayiṣyati sāgaram . kaḥ kariṣyati sugrīvam satya-saṃdham ariṃdamam.. 15..
को वीरो योजनशतं लङ्घयेत प्लवङ्गमः । इमांश्च यूथपान् सर्वान् मोचयेत् को महाभयात्॥ १६॥
कः वीरः योजन-शतम् लङ्घयेत प्लवङ्गमः । इमान् च यूथपान् सर्वान् मोचयेत् कः महा-भयात्॥ १६॥
kaḥ vīraḥ yojana-śatam laṅghayeta plavaṅgamaḥ . imān ca yūthapān sarvān mocayet kaḥ mahā-bhayāt.. 16..
कस्य प्रसादाद् दारांश्च पुत्रांश्चैव गृहाणि च । इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम्॥ १७॥
कस्य प्रसादात् दारान् च पुत्रान् च एव गृहाणि च । इतस् निवृत्ताः पश्येम सिद्धार्थाः सुखिनः वयम्॥ १७॥
kasya prasādāt dārān ca putrān ca eva gṛhāṇi ca . itas nivṛttāḥ paśyema siddhārthāḥ sukhinaḥ vayam.. 17..
कस्य प्रसादाद् रामं च लक्ष्मणं च महाबलम् । अभिगच्छेम संहृष्टाः सुग्रीवं च वनौकसम्॥ १८॥
कस्य प्रसादात् रामम् च लक्ष्मणम् च महा-बलम् । अभिगच्छेम संहृष्टाः सुग्रीवम् च वनौकसम्॥ १८॥
kasya prasādāt rāmam ca lakṣmaṇam ca mahā-balam . abhigacchema saṃhṛṣṭāḥ sugrīvam ca vanaukasam.. 18..
यदि कश्चित् समर्थो वः सागरप्लवने हरिः । स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम्॥ १९॥
यदि कश्चिद् समर्थः वः सागर-प्लवने हरिः । स ददातु इह नः शीघ्रम् पुण्याम् अभय-दक्षिणाम्॥ १९॥
yadi kaścid samarthaḥ vaḥ sāgara-plavane hariḥ . sa dadātu iha naḥ śīghram puṇyām abhaya-dakṣiṇām.. 19..
अङ्गदस्य वचः श्रुत्वा न कश्चित् किंचिदब्रवीत् । स्तिमितेवाभवत् सर्वा सा तत्र हरिवाहिनी॥ २०॥
अङ्गदस्य वचः श्रुत्वा न कश्चिद् किंचिद् अब्रवीत् । स्तिमिता इव अभवत् सर्वा सा तत्र हरि-वाहिनी॥ २०॥
aṅgadasya vacaḥ śrutvā na kaścid kiṃcid abravīt . stimitā iva abhavat sarvā sā tatra hari-vāhinī.. 20..
पुनरेवाङ्गदः प्राह तान् हरीन् हरिसत्तमः । सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः । व्यपदेशकुले जाताः पूजिताश्चाप्यभीक्ष्णशः॥ २१॥
पुनर् एव अङ्गदः प्राह तान् हरीन् हरि-सत्तमः । सर्वे बलवताम् श्रेष्ठाः भवन्तः दृढ-विक्रमाः । व्यपदेश-कुले जाताः पूजिताः च अपि अभीक्ष्णशस्॥ २१॥
punar eva aṅgadaḥ prāha tān harīn hari-sattamaḥ . sarve balavatām śreṣṭhāḥ bhavantaḥ dṛḍha-vikramāḥ . vyapadeśa-kule jātāḥ pūjitāḥ ca api abhīkṣṇaśas.. 21..
नहि वो गमने भङ्गः कदाचित् कस्यचिद् भवेत् । ब्रुवध्वं यस्य या शक्तिः प्लवने प्लवगर्षभाः॥ २२॥
नहि वः गमने भङ्गः कदाचिद् कस्यचिद् भवेत् । ब्रुवध्वम् यस्य या शक्तिः प्लवने प्लवग-ऋषभाः॥ २२॥
nahi vaḥ gamane bhaṅgaḥ kadācid kasyacid bhavet . bruvadhvam yasya yā śaktiḥ plavane plavaga-ṛṣabhāḥ.. 22..
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे चतुःषष्ठितमः सर्गः ॥४-६४॥
इति आर्षे श्रीमत्-रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धा-काण्डे चतुःषष्ठितमः सर्गः ॥४॥
iti ārṣe śrīmat-rāmāyaṇe vālmīkīye ādikāvye kiṣkindhā-kāṇḍe catuḥṣaṣṭhitamaḥ sargaḥ ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In