This overlay will guide you through the buttons:

| |
|
स तस्य मध्ये भवनस्य वानरो लतागृहांश्चित्रगृहान्निशागृहान् । जगाम सीतां प्रति दर्शनोत्सुको न चैव तां पश्यति चारुदर्शनाम् ॥ १॥
स तस्य मध्ये भवनस्य वानरः लतागृहान् चित्रगृहान् निशागृहान् । जगाम सीताम् प्रति दर्शन-उत्सुकः न च एव ताम् पश्यति चारु-दर्शनाम् ॥ १॥
sa tasya madhye bhavanasya vānaraḥ latāgṛhān citragṛhān niśāgṛhān . jagāma sītām prati darśana-utsukaḥ na ca eva tām paśyati cāru-darśanām .. 1..
स चिन्तयामास ततो महाकपिः प्रियामपश्यन्रघुनन्दनस्य ताम् । ध्रुवं नु सीता म्रियते यथा न मे विचिन्वतो दर्शनमेति मैथिली ॥ २॥
स चिन्तयामास ततस् महा-कपिः प्रियाम् अपश्यान् रघुनन्दनस्य ताम् । ध्रुवम् नु सीता म्रियते यथा न मे विचिन्वतः दर्शनम् एति मैथिली ॥ २॥
sa cintayāmāsa tatas mahā-kapiḥ priyām apaśyān raghunandanasya tām . dhruvam nu sītā mriyate yathā na me vicinvataḥ darśanam eti maithilī .. 2..
सा राक्षसानां प्रवरेण बाला स्वशीलसंरक्षण तत्परा सती । अनेन नूनं प्रतिदुष्टकर्मणा हता भवेदार्यपथे परे स्थिता ॥ ३॥
सा राक्षसानाम् प्रवरेण बाला स्व-शील-संरक्षण-तत्परा सती । अनेन नूनम् प्रतिदुष्ट-कर्मणा हता भवेत् आर्य-पथे परे स्थिता ॥ ३॥
sā rākṣasānām pravareṇa bālā sva-śīla-saṃrakṣaṇa-tatparā satī . anena nūnam pratiduṣṭa-karmaṇā hatā bhavet ārya-pathe pare sthitā .. 3..
विरूपरूपा विकृता विवर्चसो महानना दीर्घविरूपदर्शनाः । समीक्ष्य सा राक्षसराजयोषितो भयाद्विनष्टा जनकेश्वरात्मजा ॥ ४॥
विरूप-रूपाः विकृताः विवर्चसः महा-आननाः दीर्घ-विरूप-दर्शनाः । समीक्ष्य सा राक्षस-राज-योषितः भयात् विनष्टा जनक-ईश्वर-आत्मजा ॥ ४॥
virūpa-rūpāḥ vikṛtāḥ vivarcasaḥ mahā-ānanāḥ dīrgha-virūpa-darśanāḥ . samīkṣya sā rākṣasa-rāja-yoṣitaḥ bhayāt vinaṣṭā janaka-īśvara-ātmajā .. 4..
सीतामदृष्ट्वा ह्यनवाप्य पौरुषं विहृत्य कालं सह वानरैश् चिरम् । न मेऽस्ति सुग्रीवसमीपगा गतिः सुतीक्ष्णदण्डो बलवांश्च वानरः ॥ ५॥
सीताम् अ दृष्ट्वा हि अन् अवाप्य पौरुषम् विहृत्य कालम् सह वानरैः चिरम् । न मे अस्ति सुग्रीव-समीप-गा गतिः सु तीक्ष्ण-दण्डः बलवान् च वानरः ॥ ५॥
sītām a dṛṣṭvā hi an avāpya pauruṣam vihṛtya kālam saha vānaraiḥ ciram . na me asti sugrīva-samīpa-gā gatiḥ su tīkṣṇa-daṇḍaḥ balavān ca vānaraḥ .. 5..
दृष्टमन्तःपुरं सर्वं दृष्ट्वा रावणयोषितः । न सीता दृश्यते साध्वी वृथा जातो मम श्रमः ॥ ६॥
दृष्टम् अन्तःपुरम् सर्वम् दृष्ट्वा रावण-योषितः । न सीता दृश्यते साध्वी वृथा जातः मम श्रमः ॥ ६॥
dṛṣṭam antaḥpuram sarvam dṛṣṭvā rāvaṇa-yoṣitaḥ . na sītā dṛśyate sādhvī vṛthā jātaḥ mama śramaḥ .. 6..
किं नु मां वानराः सर्वे गतं वक्ष्यन्ति सङ्गताः । गत्वा तत्र त्वया वीर किं कृतं तद्वदस्व नः ॥ ७॥
किम् नु माम् वानराः सर्वे गतम् वक्ष्यन्ति सङ्ग-ताः । गत्वा तत्र त्वया वीर किम् कृतम् तत् वदस्व नः ॥ ७॥
kim nu mām vānarāḥ sarve gatam vakṣyanti saṅga-tāḥ . gatvā tatra tvayā vīra kim kṛtam tat vadasva naḥ .. 7..
अदृष्ट्वा किं प्रवक्ष्यामि तामहं जनकात्मजाम् । ध्रुवं प्रायमुपेष्यन्ति कालस्य व्यतिवर्तने ॥ ८॥
अ दृष्ट्वा किम् प्रवक्ष्यामि ताम् अहम् जनकात्मजाम् । ध्रुवम् प्रायम् उपेष्यन्ति कालस्य व्यतिवर्तने ॥ ८॥
a dṛṣṭvā kim pravakṣyāmi tām aham janakātmajām . dhruvam prāyam upeṣyanti kālasya vyativartane .. 8..
किं वा वक्ष्यति वृद्धश्च जाम्बवानङ्गदश्च सः । गतं पारं समुद्रस्य वानराश्च समागताः ॥ ९॥
किम् वा वक्ष्यति वृद्धः च जाम्बवान् अङ्गदः च सः । गतम् पारम् समुद्रस्य वानराः च समागताः ॥ ९॥
kim vā vakṣyati vṛddhaḥ ca jāmbavān aṅgadaḥ ca saḥ . gatam pāram samudrasya vānarāḥ ca samāgatāḥ .. 9..
अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम् । भूयस्तावद्विचेष्यामि न यत्र विचयः कृतः ॥ १०॥
अनिर्वेदः श्रियः मूलम् अनिर्वेदः परम् सुखम् । भूयस् तावत् विचेष्यामि न यत्र विचयः कृतः ॥ १०॥
anirvedaḥ śriyaḥ mūlam anirvedaḥ param sukham . bhūyas tāvat viceṣyāmi na yatra vicayaḥ kṛtaḥ .. 10..
अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः । करोति सफलं जन्तोः कर्म यच्च करोति सः ॥ ११॥
अनिर्वेदः हि सततम् सर्व-अर्थेषु प्रवर्तकः । करोति सफलम् जन्तोः कर्म यत् च करोति सः ॥ ११॥
anirvedaḥ hi satatam sarva-artheṣu pravartakaḥ . karoti saphalam jantoḥ karma yat ca karoti saḥ .. 11..
तस्मादनिर्वेद कृतं यत्नं चेष्टेऽहमुत्तमम् । अदृष्टांश्च विचेष्यामि देशान्रावणपालितान् ॥ १२॥
तस्मात् अनिर्वेद कृतम् यत्नम् चेष्टे अहम् उत्तमम् । अदृष्टान् च विचेष्यामि देशान् रावण-पालितान् ॥ १२॥
tasmāt anirveda kṛtam yatnam ceṣṭe aham uttamam . adṛṣṭān ca viceṣyāmi deśān rāvaṇa-pālitān .. 12..
आपानशालाविचितास्तथा पुष्पगृहाणि च । चित्रशालाश्च विचिता भूयः क्रीडागृहाणि च ॥ १३॥
आपानशाला-विचिताः तथा पुष्प-गृहाणि च । चित्र-शालाः च विचिताः भूयस् क्रीडा-गृहाणि च ॥ १३॥
āpānaśālā-vicitāḥ tathā puṣpa-gṛhāṇi ca . citra-śālāḥ ca vicitāḥ bhūyas krīḍā-gṛhāṇi ca .. 13..
निष्कुटान्तररथ्याश्च विमानानि च सर्वशः । इति सञ्चिन्त्य भूयोऽपि विचेतुमुपचक्रमे ॥ १४॥
निष्कुट-अन्तर-रथ्याः च विमानानि च सर्वशस् । इति सञ्चिन्त्य भूयस् अपि विचेतुम् उपचक्रमे ॥ १४॥
niṣkuṭa-antara-rathyāḥ ca vimānāni ca sarvaśas . iti sañcintya bhūyas api vicetum upacakrame .. 14..
भूमीगृहांश्चैत्यगृहान्गृहातिगृहकानपि । उत्पतन्निपतंश्चापि तिष्ठन्गच्छन्पुनः क्व चित् ॥ १५॥
भूमीगृहान् चैत्य-गृहान् गृह-अतिगृहकान् अपि । उत्पतन् निपतन् च अपि तिष्ठन् गच्छन् पुनर् क्व चित् ॥ १५॥
bhūmīgṛhān caitya-gṛhān gṛha-atigṛhakān api . utpatan nipatan ca api tiṣṭhan gacchan punar kva cit .. 15..
अपावृण्वंश्च द्वाराणि कपाटान्यवघट्टयन् । प्रविशन्निष्पतंश्चापि प्रपतन्नुत्पतन्नपि । सर्वमप्यवकाशं स विचचार महाकपिः ॥ १६॥
अपावृण्वन् च द्वाराणि कपाटानि अवघट्टयन् । प्रविशन् निष्पतन् च अपि प्रपतन् उत्पतन् अपि । सर्वम् अपि अवकाशम् स विचचार महा-कपिः ॥ १६॥
apāvṛṇvan ca dvārāṇi kapāṭāni avaghaṭṭayan . praviśan niṣpatan ca api prapatan utpatan api . sarvam api avakāśam sa vicacāra mahā-kapiḥ .. 16..
चतुरङ्गुलमात्रोऽपि नावकाशः स विद्यते । रावणान्तःपुरे तस्मिन्यं कपिर्न जगाम सः ॥ १७॥
चतुर्-अङ्गुल-मात्रः अपि न अवकाशः स विद्यते । रावण-अन्तःपुरे तस्मिन् यम् कपिः न जगाम सः ॥ १७॥
catur-aṅgula-mātraḥ api na avakāśaḥ sa vidyate . rāvaṇa-antaḥpure tasmin yam kapiḥ na jagāma saḥ .. 17..
प्राकरान्तररथ्याश्च वेदिकश्चैत्यसंश्रयाः । श्वभ्राश्च पुष्करिण्यश्च सर्वं तेनावलोकितम् ॥ १८॥
प्राकर-अन्तर-रथ्याः च वेदिक-श्चैत्य-संश्रयाः । श्वभ्राः च पुष्करिण्यः च सर्वम् तेन अवलोकितम् ॥ १८॥
prākara-antara-rathyāḥ ca vedika-ścaitya-saṃśrayāḥ . śvabhrāḥ ca puṣkariṇyaḥ ca sarvam tena avalokitam .. 18..
राक्षस्यो विविधाकारा विरूपा विकृतास्तथा । दृष्टा हनूमता तत्र न तु सा जनकात्मजा ॥ १९॥
राक्षस्यः विविध-आकाराः विरूपाः विकृताः तथा । दृष्टाः हनूमता तत्र न तु सा जनकात्मजा ॥ १९॥
rākṣasyaḥ vividha-ākārāḥ virūpāḥ vikṛtāḥ tathā . dṛṣṭāḥ hanūmatā tatra na tu sā janakātmajā .. 19..
रूपेणाप्रतिमा लोके वरा विद्याधर स्त्रियः । दृटा हनूमता तत्र न तु राघवनन्दिनी ॥ २०॥
रूपेण अप्रतिमाः लोके वराः स्त्रियः । दृटाः हनूमता तत्र न तु राघव-नन्दिनी ॥ २०॥
rūpeṇa apratimāḥ loke varāḥ striyaḥ . dṛṭāḥ hanūmatā tatra na tu rāghava-nandinī .. 20..
नागकन्या वरारोहाः पूर्णचन्द्रनिभाननाः । दृष्टा हनूमता तत्र न तु सीता सुमध्यमा ॥ २१॥
नाग-कन्याः वर-आरोहाः पूर्ण-चन्द्र-निभ-आननाः । दृष्टाः हनूमता तत्र न तु सीता सुमध्यमा ॥ २१॥
nāga-kanyāḥ vara-ārohāḥ pūrṇa-candra-nibha-ānanāḥ . dṛṣṭāḥ hanūmatā tatra na tu sītā sumadhyamā .. 21..
प्रमथ्य राक्षसेन्द्रेण नागकन्या बलाद्धृताः । दृष्टा हनूमता तत्र न सा जनकनन्दिनी ॥ २२॥
प्रमथ्य राक्षस-इन्द्रेण नाग-कन्याः बलात् हृताः । दृष्टाः हनूमता तत्र न सा जनकनन्दिनी ॥ २२॥
pramathya rākṣasa-indreṇa nāga-kanyāḥ balāt hṛtāḥ . dṛṣṭāḥ hanūmatā tatra na sā janakanandinī .. 22..
सोऽपश्यंस्तां महाबाहुः पश्यंश्चान्या वरस्त्रियः । विषसाद महाबाहुर्हनूमान्मारुतात्मजः ॥ २३॥
सः अपश्यान् ताम् महा-बाहुः पश्यन् च अन्याः वर-स्त्रियः । विषसाद महा-बाहुः हनूमान् मारुतात्मजः ॥ २३॥
saḥ apaśyān tām mahā-bāhuḥ paśyan ca anyāḥ vara-striyaḥ . viṣasāda mahā-bāhuḥ hanūmān mārutātmajaḥ .. 23..
उद्योगं वानरेन्द्राणं प्लवनं सागरस्य च । व्यर्थं वीक्ष्यानिलसुतश्चिन्तां पुनरुपागमत् ॥ २४॥
उद्योगम् वानर-इन्द्राणम् प्लवनम् सागरस्य च । व्यर्थम् वीक्ष्य अनिलसुतः चिन्ताम् पुनर् उपागमत् ॥ २४॥
udyogam vānara-indrāṇam plavanam sāgarasya ca . vyartham vīkṣya anilasutaḥ cintām punar upāgamat .. 24..
अवतीर्य विमानाच्च हनूमान्मारुतात्मजः । चिन्तामुपजगामाथ शोकोपहतचेतनः ॥ २५॥
अवतीर्य विमानात् च हनूमान् मारुतात्मजः । चिन्ताम् उपजगाम अथ शोक-उपहत-चेतनः ॥ २५॥
avatīrya vimānāt ca hanūmān mārutātmajaḥ . cintām upajagāma atha śoka-upahata-cetanaḥ .. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In