This overlay will guide you through the buttons:

| |
|
अथ तासां वदन्तीनां परुषं दारुणं बहु । राक्षसीनामसौम्यानां रुरोद जनकात्मजा ॥ १॥
अथ तासाम् वदन्तीनाम् परुषम् दारुणम् बहु । राक्षसीनाम् असौम्यानाम् रुरोद जनकात्मजा ॥ १॥
atha tāsām vadantīnām paruṣam dāruṇam bahu . rākṣasīnām asaumyānām ruroda janakātmajā .. 1..
एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी । उवाच परमत्रस्ता बाष्पगद्गदया गिरा ॥ २॥
एवम् उक्ता तु वैदेही राक्षसीभिः मनस्विनी । उवाच परम-त्रस्ता बाष्प-गद्गदया गिरा ॥ २॥
evam uktā tu vaidehī rākṣasībhiḥ manasvinī . uvāca parama-trastā bāṣpa-gadgadayā girā .. 2..
न मानुषी राक्षसस्य भार्या भवितुमर्हति । कामं खादत मां सर्वा न करिष्यामि वो वचः ॥ ३॥
न मानुषी राक्षसस्य भार्या भवितुम् अर्हति । कामम् खादत माम् सर्वाः न करिष्यामि वः वचः ॥ ३॥
na mānuṣī rākṣasasya bhāryā bhavitum arhati . kāmam khādata mām sarvāḥ na kariṣyāmi vaḥ vacaḥ .. 3..
सा राक्षसी मध्यगता सीता सुरसुतोपमा । न शर्म लेभे दुःखार्ता रावणेन च तर्जिता ॥ ४॥
सा राक्षसी मध्य-गता सीता सुर-सुता-उपमा । न शर्म लेभे दुःख-आर्ता रावणेन च तर्जिता ॥ ४॥
sā rākṣasī madhya-gatā sītā sura-sutā-upamā . na śarma lebhe duḥkha-ārtā rāvaṇena ca tarjitā .. 4..
वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः । वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता ॥ ५॥
वेपते स्म अधिकम् सीता विशन्ती इव अङ्गम् आत्मनः । वने यूथ-परिभ्रष्टा मृगी कोकैः इव अर्दिता ॥ ५॥
vepate sma adhikam sītā viśantī iva aṅgam ātmanaḥ . vane yūtha-paribhraṣṭā mṛgī kokaiḥ iva arditā .. 5..
सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारं भग्नमानसा ॥ ६॥
सा तु अशोकस्य विपुलाम् शाखाम् आलम्ब्य पुष्पिताम् । चिन्तयामास शोकेन भर्तारम् भग्न-मानसा ॥ ६॥
sā tu aśokasya vipulām śākhām ālambya puṣpitām . cintayāmāsa śokena bhartāram bhagna-mānasā .. 6..
सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः । चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति ॥ ७॥
सा स्नापयन्ती विपुलौ स्तनौ नेत्र-जल-स्रवैः । चिन्तयन्ती न शोकस्य तदा अन्तम् अधिगच्छति ॥ ७॥
sā snāpayantī vipulau stanau netra-jala-sravaiḥ . cintayantī na śokasya tadā antam adhigacchati .. 7..
सा वेपमाना पतिता प्रवाते कदली यथा । राक्षसीनां भयत्रस्ता विवर्णवदनाभवत् ॥ ८॥
सा वेपमाना पतिता प्रवाते कदली यथा । राक्षसीनाम् भय-त्रस्ता विवर्ण-वदना भवत् ॥ ८॥
sā vepamānā patitā pravāte kadalī yathā . rākṣasīnām bhaya-trastā vivarṇa-vadanā bhavat .. 8..
तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा । ददृशे कम्पिनी वेणी व्यालीव परिसर्पती ॥ ९॥
सा दीर्घ-विपुला वेपन्त्याः सीतया तदा । ददृशे कम्पिनी वेणी व्याली इव परिसर्पती ॥ ९॥
sā dīrgha-vipulā vepantyāḥ sītayā tadā . dadṛśe kampinī veṇī vyālī iva parisarpatī .. 9..
सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना । आर्ता व्यसृजदश्रूणि मैथिली विललाप ह ॥ १०॥
सा निःश्वसन्ती दुःख-आर्ता शोक-उपहत-चेतना । आर्ता व्यसृजत् अश्रूणि मैथिली विललाप ह ॥ १०॥
sā niḥśvasantī duḥkha-ārtā śoka-upahata-cetanā . ārtā vyasṛjat aśrūṇi maithilī vilalāpa ha .. 10..
हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च । हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि ॥ ११॥
हा राम इति च दुःख-आर्ता पुनर् हा लक्ष्मण इति च । हा श्वश्रु मम कौसल्ये हा सुमित्रा इति भाविनि ॥ ११॥
hā rāma iti ca duḥkha-ārtā punar hā lakṣmaṇa iti ca . hā śvaśru mama kausalye hā sumitrā iti bhāvini .. 11..
लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः । अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा ॥ १२॥
लोक-प्रवादः सत्यः अयम् पण्डितैः समुदाहृतः । अकाले दुर्लभः मृत्युः स्त्रियाः वा पुरुषस्य वा ॥ १२॥
loka-pravādaḥ satyaḥ ayam paṇḍitaiḥ samudāhṛtaḥ . akāle durlabhaḥ mṛtyuḥ striyāḥ vā puruṣasya vā .. 12..
यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता । जीवामि हीना रामेण मुहूर्तमपि दुःखिता ॥ १३॥
यत्र अहम् आभिः क्रूराभिः राक्षसीभिः इह अर्दिता । जीवामि हीना रामेण मुहूर्तम् अपि दुःखिता ॥ १३॥
yatra aham ābhiḥ krūrābhiḥ rākṣasībhiḥ iha arditā . jīvāmi hīnā rāmeṇa muhūrtam api duḥkhitā .. 13..
एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत् । समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता ॥ १४॥
एषा अल्प-पुण्या कृपणा विनशिष्यामि अनाथ-वत् । समुद्र-मध्ये नौ पूर्णा वायु-वेगैः इव आहता ॥ १४॥
eṣā alpa-puṇyā kṛpaṇā vinaśiṣyāmi anātha-vat . samudra-madhye nau pūrṇā vāyu-vegaiḥ iva āhatā .. 14..
भर्तारं तमपश्यन्ती राक्षसीवशमागता । सीदामि खलु शोकेन कूलं तोयहतं यथा ॥ १५॥
भर्तारम् तम् अपश्यन्ती राक्षसी-वशम् आगता । सीदामि खलु शोकेन कूलम् तोय-हतम् यथा ॥ १५॥
bhartāram tam apaśyantī rākṣasī-vaśam āgatā . sīdāmi khalu śokena kūlam toya-hatam yathā .. 15..
तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम् । धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम् ॥ १६॥
तम् पद्म-दल-पत्र-अक्षम् सिंह-विक्रान्त-गामिनम् । धन्याः पश्यन्ति मे नाथम् कृतज्ञम् प्रिय-वादिनम् ॥ १६॥
tam padma-dala-patra-akṣam siṃha-vikrānta-gāminam . dhanyāḥ paśyanti me nātham kṛtajñam priya-vādinam .. 16..
सर्वथा तेन हीनाया रामेण विदितात्मना । तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम् ॥ १७॥
सर्वथा तेन हीनायाः रामेण विदित-आत्मना । तीष्क्णम् विषम् इव आस्वाद्य दुर्लभम् मम जीवितम् ॥ १७॥
sarvathā tena hīnāyāḥ rāmeṇa vidita-ātmanā . tīṣkṇam viṣam iva āsvādya durlabham mama jīvitam .. 17..
कीदृशं तु मया पापं पुरा देहान्तरे कृतम् । येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम् ॥ १८॥
कीदृशम् तु मया पापम् पुरा देह-अन्तरे कृतम् । येन इदम् प्राप्यते दुःखम् मया घोरम् सु दारुणम् ॥ १८॥
kīdṛśam tu mayā pāpam purā deha-antare kṛtam . yena idam prāpyate duḥkham mayā ghoram su dāruṇam .. 18..
जीवितं त्यक्तुमिच्छामि शोकेन महता वृता । राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया ॥ १९॥
जीवितम् त्यक्तुम् इच्छामि शोकेन महता वृता । राक्षसीभिः च रक्षन्त्याः रामः न आसाद्यते मया ॥ १९॥
jīvitam tyaktum icchāmi śokena mahatā vṛtā . rākṣasībhiḥ ca rakṣantyāḥ rāmaḥ na āsādyate mayā .. 19..
धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम् । न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम् ॥ २०॥
धिक् अस्तु खलु मानुष्यम् धिक् अस्तु पर-वश्य-ताम् । न शक्यम् यत् परित्यक्तुम् आत्म-छन्देन जीवितम् ॥ २०॥
dhik astu khalu mānuṣyam dhik astu para-vaśya-tām . na śakyam yat parityaktum ātma-chandena jīvitam .. 20..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In